सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 582, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 582

[अधि - १. सू - ७. ] दीपिकासहितम्. ५३५

२-१०.) 'इदं वा अग्रे नैव किञ्चनासीत्' (तै. ब्रा. २-२-
९.) इत्यादिश्रुतिभ्यः ॥ ६ ॥
( ११ ) सू— ॐ ॥ यावद्विकारं तु विभागो लोकवत् ॥ ॐ ॥ ७ ॥
कं सर्वं जगदपेक्ष्य ततगुणत्वात् 'आत्मा' विष्णुरेव 'अग्रः' अ
ग्रथो गुणतोऽधिक आसीदिति व्याख्यातम् । तथाऽपीदं बृहद्भाष्यदि
शा टीकोक्तं व्याख्यानान्तरमित्यदोषः । 'सदेवेत्याद्यद्वितीयम्' इतन्तं
छान्दोगवाक्यम् । सोम्येति श्वेतकेतुसम्बोधनं 'इदमस्य' जगतो अ
ग्रे 'सत्' ब्रह्मैव स्वातन्त्र्येणासीत् । तद्ब्रह्म च 'एकं' स्वसजातीय
मत्स्यादिभिर्भेदशून्यम् । 'एव' स्वगतगुणक्रियावयवादिभिरभिन्नं न
तु तैर्भिन्नम् । यद्वा-अवयवादिनाऽप्यभिन्नमेव न तु घटादिवत्स्वावयवै
र्भिन्नाभिन्नमित्येवशब्दार्थः । 'अद्वितीयं' समशून्यं अधिकशून्यत्वमां
र्थिकार्थः । 'इदं वा अग्रे' इत्यध्वर्यूणां श्रुतिः । इयं च—
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च ।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लय्ये त्वभूत् ॥
इति बृहद्भाष्योदाहृतब्रह्मतर्कवचनानुसारेण 'इदं' अस्य 'अग्रे' प्र
लये 'किञ्चन' विष्णुरमादिभ्योऽन्यो नैवासीदिति व्याख्येया । इत्या
दिश्रुतिभ्य इत्यस्यानुत्पत्तिमच्छब्दो ऽन्यत्रामुख्यो ब्रह्मणि तु मुख्य इ
त्यवसीयत इति पूर्वेणान्वयः । तथा चाकाशब्रह्मणोः 'आत्मा' इत्या
दिश्रुतिभिः स्पष्टमेव सादित्वानादित्वप्रतीतेस्ता एव तयोरनुत्पत्तिम
च्छब्दमुख्यत्वामुख्यत्वयोः कारणमिति तदनुपलम्भोऽसिद्ध इति भा
वः । बहुवचनाद्बहुश्रुतिविरोधे च एकस्यानुत्पत्तिमच्छब्दस्यामुख्यार्थं
त्वं न्याय्यमिति न्यायं सूचयति—यद्यप्युदाहृतवाक्येष्वपि ब्रह्मणोऽ
नादित्वस्य तदन्यस्य च कतिपयस्यानादित्वाभावस्य च प्रतीतावपि
न स्पष्टमाकाशस्योत्पत्तिः प्रतीयते । तथाऽप्यादिशब्दगृहीतेषु तदुक्त
रपूर्वभाविषु 'स इमान् लोकानसृजत' (ऐ. १ - १०) इत्यादिषु सा
प्रतीयत इति नानुपपत्तिरिति ध्येयम् । न च गौण्यसम्भवादित्यनेनेदं
पुनरुक्तं, श्रुतिनिरूपितबाहुल्यासम्भवस्यापि असम्भवपदेनोक्तत्वाद्वि
ति वाच्यम् । शब्देभ्य इत्यस्य पूर्वोक्तासम्भवसम्बन्धिबहुत्वाश्रयविव
रणरूपत्वेनापुनरुक्तेः । अत एव 'अस्ति तु' इत्यनेनापि न पुनरुक्तिः ॥
( ११ ) अनुमानेनापि ब्रह्मण एवानादित्वं, अन्येषां सादित्वमनुत्प