पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 565, कुल 1267 में से
संदर्भ में पढ़ें५१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
वैशरीरनित्यत्वं स्यात् ॥ ३६ ॥
-:*:—
११. अधिकरणम् ॥
( १ ) पाशुपतपक्षमपाकरोति—
सू—ॐ ॥ पत्युरसामञ्जस्यात् ॥ ॐ ॥ ३७ ॥
'यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमे
धाम्' ( ऋ. १०-१२५-५. ) 'अहं रुद्राय धनुरातनो
मि ब्रह्मद्विषे शरवे हन्त वा उ' (ऋ. १०-१२५-६.) 'अ
स्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
षप्रसङ्गादिति नात्मनः कायपरिमाणत्वपक्षो युक्त इति ॥ १० ॥
॥ इति नैकस्मिन्नधिकरणम् ॥
-: ॐ :-
११. अधिकरणम् ॥
( १ ) अधिकरणार्थं दर्शयति—पाशुपतेति ॥ पशुपतेरमी पाशुप
ता इति विग्रहः । तथा च पाशुपतशाक्तेयसौरस्कान्दगाणापत्यभेदेन
बहुविधेषु वैदिकाभासेषु मध्ये ये शैवपाशुपतकालामुखमहाव्रतभेदेन
चत्वारः पशुपतिपारम्यवादिनः, तेषां पक्षमस्मिन्नधिकरणे निराकरो
ति सूत्रकृदित्यर्थः । सार्वज्ञ्यादिगुणशाली पशुपतिरेव प्रकृतिमुपादा
नीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । तथा श्रुतिस्मृतयो
ऽस्मिन्नर्थे भवन्ति । तथा च का वार्ता हरेर्जगत्कारणत्वस्य । अतो न
लक्षणसूत्रं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—पत्यु
रिति । इत्यादिश्रुतेरिति पञ्चमी । समुदायैकवचनमेतत् । आदिशब्दे
न 'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः' ( )
इत्यादिकं गृह्यते। 'पारतन्त्र्येण' परतन्त्रत्वाख्यदोषावगमेन पारतन्त्र्यं
जननमरणदेरप्युपलक्षकम्। अनेनहेत्वसिद्धिःपरिहृता । पारतन्त्र्येणेत्य
सामञ्जस्यपदस्यार्थान्तरं भावे ष्यञमभिप्रेत्याह-असमञ्जसत्वादिति ।
दोषत्वादित्यर्थः । पशुपतेरिति विपरिणामेनात्रापि सम्बध्यते । पशुप
तिः पशूनां पाशबन्धविमोक्षद इति ईश्वर इति च पत्युरिति पदस्यार्थ
द्वयम्। ईश्वरत्वं चाज्ञजनप्रसिद्ध्याऽन्यस्यापीत्यतः-पशुपतिरित्याह,यो
गेनान्योऽपि पशुपतिर्भवतीत्यतः-ईश्वर इति चाह । उभयसमभिव्या
हाराच्छिवस्यैव प्राप्तिः । न जगत्कर्तेत्यनेन प्रकरणाल्लब्धस्य जगत्कर्तृ