सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 575, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 575

५२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( २ ) सू—ॐ ॥ न वियदश्रुतेः ॥ ॐ ॥ १ ॥
न वियदनुत्पत्तिमत्, तथाऽश्रुतेः ॥ १ ॥
( ३ ) सू—ॐ ॥ अस्ति तु ॥ ॐ ॥ २ ॥
अस्त्येव चोत्पत्तिश्रुतिः, 'आत्मन आकाशस्सम्भूतः'
( तै. २-१० ) इत्यादि ॥ २ ॥
( ४ ) सू—ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ ३ ॥
( २ ) न वियदित्यंशविवरणेनैव विषयपूर्वपक्षादिः सूचितो भव-
तीत्याशयेन तमप्रदर्श्य सिद्धान्तयतसूत्रमेवोपन्यस्यति—नेति ॥ अत्र
'उत्पत्त्यसम्भवात्' इति सूत्रप्रकृतानुत्पत्तिबोधकानुत्पत्तिमदितिपदम-
नुवर्त्य न वियदिति प्रतिज्ञाभागं व्याचष्टे—नेति । अत्र वियत्पदेन भू-
ताव्याकृताकाशौ तदभिमानिदैवतं चोच्यते । सुधाटीकोक्तरीत्या प्रकृ-
तिजीवकालमहदहङ्कारादेः उपलक्षकमेतत् । तत्त्वप्रदीपे तु वियदिति
विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यत इत्युक्तम् । तन्नोच्यत इत्य-
स्य प्रतिपाद्यत इत्यर्थाश्रयणान्न विरोधः । कुतो नेत्यतस्तथाशब्दाध्या-
हारेण अश्रुतेरिति हेत्वंशं व्याचष्टे—तथेति । ' तथा ' तत्रानुत्पत्तौ श्रु-
त्यभावादित्यर्थः ॥
( ३ ) ननु न वियत् उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यम्, उत्प-
त्तौ प्रमाणाभावेनैव तत्सिद्धेः । न हि घटे प्रमाणाभावे पुनः प्रमाणापे-
क्षा स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अस्तीति ॥ एवे-
ति तुशब्दार्थ उक्तः । चेति तुशब्दस्य न केवलं तथाऽश्रुतेः, किन्तु य-
त उत्पत्तौ श्रुतिरस्त्येव चेति समुच्चयरूपार्थान्तरं यत इत्यर्थत्वं चाह।
यथोक्तं तत्त्वप्रदीपे—न केवलमनुत्पत्तिर्न श्रूयते, किन्तु ' अस्ति तु '
अस्त्येव चोत्पत्तिवादिनी श्रुतिरिति । इत्यादिश्रुतिरित्यान्वयः । आदि-
शब्देन ' एतस्माज्जायते .... खं वायुः ' ( मु. २-१-३. ) ' नाभ्या आसी-
दन्तरिक्षम् ' ( तै. आ. ३-१३. ) ' सन्देहो बहुलः ' ( छा. ५-१८-२. )
इत्यादिकं गृह्यते ॥
( ४ ) ननु न वियतोऽनया श्रुत्योत्पत्तिः साधयितुं शक्या । ' अना-
दिर्वा ' इत्यादिस्वाभिधायकश्रुतिविरोधादित्याशङ्कां परिहरत्सूत्रमुप-
न्यस्य व्याचष्टे—गौणीति ॥ इत्यादीति । एवमादिरूपे वाक्ये अनादि-
त्वश्रुतिः तद्बोधकशब्दो 'गौणी' भूते छत्रिवल्लाक्षणिकी । आकाशश-
ब्दार्थैकदेशानादित्वपरा । एकदेशानित्यत्वगुणयोग इति तत्त्वप्रदीपो