परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५५
न चोक्तज्ञापकाद्वर्णग्रहणेऽस्या अप्रवृत्तिरिति वाच्यम्, 'आने मुक्'
इति सूत्र-भाष्येऽकारस्याङ्गावयवस्य मुगित्यर्थे 'पचमान' इत्यत्र 'तास्य-
नुदात्तेत्' इति स्वरो न स्यादित्याशङ्क्य, अदुपदेशभक्तस्तद्ग्रहणेन ग्राहिष्यत
इत्युक्तेरसङ्गत्यापत्तेः ।
किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे 'कुर्वन्नास्त'
इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य, 'यदागमा' इति न्यायेनाऽऽद्य-
न्तस्यापि पदान्तग्रहणेन ग्रहणात् 'पदान्तस्य' इति निषेध इत्यनया परिभाषया
आगमानामागमिधर्मवैशिष्ट्यमपि बोध्यत इत्याशयक-'ङमुट्'सूत्रस्थभाष्या-
सङ्गतेः ।
ननु ज्ञापकसाजात्याद्वर्णग्रहणे एवैषाऽनित्येति प्राचीनमतं कटा
अरारावेवेति नियमो न स्यात्, तच्च 'वर्णग्रहणं' एतदप्रवृत्तौ न"
Yes: "गुणवृद्धी अरारावेवेति नियमो न स्यात्, तच्च 'वर्णग्रहणं' एतदप्रवृत्तौ न"
Let's check L5:
"त्वद्रीत्याऽप्यस्याद्यनकारे" vs "त्वद्रीत्याऽप्यासऽद्यनकारे":
Wait, look at L5:
"त्वद्रीत्याऽप्यासऽद्यनकारे"
Wait, look at: 'प्य' then 'ा' then 'स' then 'ऽ' then 'द्य'.
Wait, why is there an avagraha 'ऽ'?
Could it be "त्वद्रीत्याऽप्यसाऽद्यनकारे"?
Wait, in Sanskrit: "त्वद्रीत्या अपि असाद्यनकारे"?
No, "असाद्य"? What is "असाद्य"? No!
What about "त्वद्रीत्याऽप्यस्य आद्यनकारे" -> "त्वद्रीत्याऽप्यस्याऽऽद्यनकारे" or "त्वद्रीत्याऽप्यस्याऽद्यनकारे"?
Look at the letter: is it 'स'?
Could it be 'स्' + 'य' = 'स्य'?
Ah! In some fonts, 'स्य' has 'स' and 'य' attached. But here 'य' looks like... wait, look at 'प्य' then 'ा'?
Wait, look at
११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५७
सङ्गच्छते। अत एव 'रदाभ्याम्'ति सूत्रे भाष्यम्—'गुणो भवति, वृद्धिर्भवति,
रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्तत' इति। अत एव 'नेटि', 'णेरनिटि'
इत्यादि चरितार्थम्।
'अनागमकानां सागमका आदेशा' इत्यस्य त्वयमर्थः—आर्धधातुकस्ये-
भाष्यविरोधः। मूर्धस्थानिकवर्णघटितत्वेन सादृश्याभावेऽपि रेफावयवकत्व-
धर्मेण सादृश्यमादाय 'ऋकारस्य गुणवृद्धी अरारावेवे'त्यस्योपपत्तेर्न लक्ष्यदोष-
लेशोऽपीति तत्त्वम्। 'रदाभ्यामि'त्यत्र भाष्ये 'रेफशिरा गुणवृद्धिसंज्ञक' इत्यत्र
नाभैदान्वयः, किन्तु गुणवृद्धिसंज्ञकोऽभिनिर्वर्तते; स च 'रेफशिरा, उरण्रपर' इति
शास्त्राद्भवतीत्यर्थः। लोकसिद्धाया अस्याः परिभाषायाः ज्ञापकसिद्धत्वम
५८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
डागम इत्यर्थे ज्ञाते, नित्येषु शब्देष्वागमविधानानुपपत्त्या अर्थापत्तिमूलक-
वाक्यान्तरकल्पनेन इड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्त्तव्येति । एवञ्चा-
ऽऽदेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः ।
वयवो यस्ये'ति बहुव्रीहिणा आर्धधातुकपदस्य स्थानषष्ठ्यन्ततामाश्रित्य, 'वलादेरार्ध-
धातुकस्य स्थाने इकारादिरादेश' इति 'आद्यन्तौ टकितौ'ति सूत्रस्थभाष्यमेकदेश्यु-
क्तिरेव ; किन्तु नित्येषु शब्देष्वागमविधानान्यथानुपपत्त्या अर्थापत्तिमूलकवाक्यान्तर-
कल्पनयैव इड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्त्तव्येत्यर्थो न तु पूर्वोक्तरीत्या स्थानषष्ठीं
प्रकल्प्येकाराद्यवयवादेशो विधेय इत्यर्थः । इत्संज्ञक-टकयोराद्यन्तसंज्ञायामाट उदा-
त्तत्वानुपपत्तिरूपं दूषणं तु तत्रैव भाष्ये स्पष्टमुक्तमिह विस्तरभयान्नोक्तमिति दिक् ।
केचित्तु-तद्विषयकबुद्धेरेव अनित्यत्वमिति प्रदर्शनाय अर्थापत्तिकल्पितवाक्य-
स्वरूपमाह-अनागमकानामिति । 'अयमर्थ' इत्यस्येदं प्रयोजनमित्यर्थः ; अस्यान्वयश्च 'न
शब्दनित्यताहानि'रित्यत्र बोध्य इति वदन्ति ।
आदेशेष्विवात्रापि बुद्धीति । तथा च कल्पितवाक्येन स्थान्यादेशभावेऽपि बुद्धे-
रेवानित्यत्वं न शब्दानामिति भावः ।
एकदेश्युक्तिरेवेति । 'आद्यन्तौ टकितौ' इत्यत्र पक्षद्वयं प्रतिपादितं भगवता-एकः परि-
भाषारूपोऽपरः संज्ञारूपश्च । एवं 'मिदचोऽन्त्यात् परः' इत्यत्रापि, तुल्यन्यायात् । तत्र संज्ञापक्षे
'लुङ्लङ्लृक्ष्वडुदात्तः' इत्यत्र 'अः, टः आद्यवयवो यस्ये'ति बहुव्रीहौ 'अङ्गस्य स्थाने अडाद्यव-
यवतानिरूपकोऽन्तरतमादेशो भवती'त्यर्थेन 'अभवत्' इत्यत्र 'भव' इत्यस्य स्थाने 'अभव' इत्या-
देशविशिष्टे एव उदात्तता स्यात् इत्यापाद्य, 'अः टः उदात्तो यस्ये'ति त्रिपदबहुव्रीहिं कृत्वा
उदात्ताभिन्नाकारादेरेव विधानेन परिहृतम् । अग्रे च त्रिपदसमासाविषये 'आडजादीनाम्' इत्यत्र
समुदायस्योदात्ततापत्तिमाशङ्क्य, तत्र 'अटासिद्धमि'ति तत्प्रत्याख्यानेन उत्तरितम् । एवं
मिदागमविषये त्रिपदसमासाविषये 'अम् सम्बुद्धौ' इत्यत्रापि शङ्का-समाधाने कर्तव्ये, तदकरणेन
तस्य एकदेश्युक्तित्वं स्पष्टमिति भावः ।
न च 'अनड्वन्' इत्यत्र विशिष्टे उदात्तत्ववारणाय 'चतुरनडुहोरामुदात्तः' इत्यत्र 'अम्
सम्बुद्धौ' इत्यत्र 'चतुरनडुहोर्वोदात्त' इति 'वः सम्बुद्धावि'ति च न्यासाम्यां चतुरनडुह सम्बुद्धचु-
कारस्य वा आदेशविधानेन सम्बुद्धौ च वा आदेशविधानेन नानुपपत्तिरिति वाच्यम् ; अनडुह् शब्दात्
णिचि क्विपि टिलोपे अनडूहशब्दस्य सौ, एकदेशविकृतन्यायेनेष्ट आम् न स्यात्, चतुरनडुह सम्बन्ध्यु-
काराभावात् । किञ्च-'आद्यन्तावि'त्यस्य संज्ञासूत्रत्वं प्रकल्प्य, इडादिविधौ संज्ञाप्रदेशे
पदद्वयं प्रकल्प्य, बहुव्रीहिणा साधनेनातिगौरवम् । 'आद्यन्तावि'त्यस्य परिभाषात्वे 'आर्धधातुकस्य'
इत्यनेन विहितेटः आगमत्वे क्लृप्ते “तिप्तस्झि०' इत्यनेनेन विहितेटः पूर्वोत्तरसाहचर्येणादेशत्वं
सिद्ध्यति, न त्वागमत्वम् । संज्ञासूत्रत्वे तु आर्धधातुकस्येत्यत्राप्यादेशस्यैव सत्त्वेन तिबादिविधायके
संज्ञात्वापत्तावनिष्टापत्तिः स्यात् । मूलोक्ताऽपिबदि'ति भाष्यासङ्गतिश्चेति परिभाषापक्ष एव
वरीयानिति दिक् ।
११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५९
स्थानिवत्सूत्रे च नेदृशादेशग्रहणं साक्षादष्टाध्यायीबोधितस्थान्यादेशभावे
चारितार्थ्यात् । किञ्चैवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्त्या 'निर्दिश्यमान-
स्ये'ति परिभाषाया अप्राप्त्याऽडागमसहितस्य पिबाद्यादेशापत्त्या 'लावस्था-
यामडि'ति भाष्योक्तसिद्धान्तासङ्गतिः । स्थानिवद्भावविषये निर्दिश्यमान-
स्येतिपरिभाषायाः प्रवृत्तौ 'तिसृणामि'त्यत्र परत्वात्तिस्रादेशे स्थानिवद्भावेन
त्र्यादेशमाशङ्क्य, 'सकृद्गति'न्यायेन समाधानपरभाष्यासङ्गतिः ।
'एरुरि'त्यादौ स्थानषष्ठीनिर्देशात्तदन्तपरतया पठितवाक्यस्यैव समु-
दायादेशपरत्वेन आदेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः ।
आनुमानिकस्थान्यादेशभावकल्पनेऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति
'अचः परस्मिन्' इत्यादेर्नासङ्गतिः ।
ननु 'एरुरि'त्यादाविव कल्पितस्थान्यादेशभावेऽपि स्थानिवत्सूत्रप्रवृत्ते-
दुर्वारतया 'नेटी'त्यादेर्ज्ञापकत्वासम्भव इत्यत आह-स्थानिवत्सूत्रे चेति । साक्षा-
दष्टाध्यायीति । पाणिन्युच्चरितपदप्रयोज्यस्थान्यादेशभाव इत्यर्थः । 'एरुरि'त्यादौ तु
लक्षणया एरिरित्यादिपदानामेव तदन्तपरत्वमिति वक्ष्यते । ननु 'घटायोन्मीलितं
चक्षुर्नहि पटं न पश्यती'ति न्यायेन तत्र चारितार्थ्येऽपि कल्पितस्याग्रहणे किं मान-
मत आह-किञ्चेति । एतद्भाष्यबलादेव तस्य न स्थानिवत्सूत्रे ग्रहणमिति भावः ।
नन्वेवमानुमानिकादेशकल्पने पटयती'त्यत्र अजादेशाभावेन 'अचः परस्मिन्नि'-
त्यस्याप्राप्त्यापत्तिरत आह-न त्याग इति । सूत्रारम्भसामर्थ्येन अजादेशविधायक-
सूत्राणामर्थद्वयेऽपि पाणिनितात्पर्य्यधारणादिति भावः ।
मूले पिबाद्यादेशापत्त्येति । वस्तुतः एतावत्पर्यन्तानुधावनं व्यर्थमेव, 'उदस्थादि'-
त्यादावेव पूर्वसवर्णपत्तेर्जागरूकत्वात् ।
मूले सिद्धान्तासङ्गतिरिति । तत्र हि 'आसन्' इत्यत्र 'श्नसोरल्लोपः' इत्यल्लोपो-
त्तरमनजादित्वादाण् न प्राप्नोति, एवं 'आयन्' इत्यत्रापि अन्तरङ्गत्वादिरणो यणि अनजादित्वात्
स न प्राप्नोति, अतः सूत्रकृता सूत्रमारब्धम्-'असिद्धवदत्राभात्' इति । भाष्यकृता तु 'लुङ्-
लङ्लृङ्' इति द्विलकारको निर्देश इति लावस्थायामेवाटमङ्गीकृत्य 'असिद्धवदि'ति सूत्रं प्रत्या-
ख्यातमिति सिद्धान्तानुपपत्तिरिति भावः ।
वस्तुतस्तु-प्रत्याख्यानपक्ष एकदेशिन एव, 'सुमनिष्ठः' इत्यादौ टेरिति लोपोत्तरं
'नस्तद्धित' इति लोपप्रसङ्गात् । एवञ्च परत्वात् पिबादेशोत्तरमटि 'अपिबत्' इत्यत्र न दोषः ।
न स्थानिवत्सूत्रे ग्रहणमिति । यथा च तस्य स्थानिवत्सूत्रे ग्रहणेऽपि न दोषस्तथा-
'निर्दिश्यमान'परिभाषानिरूपणावसरे स्फुटीभविष्यति ॥ ११ ॥
of L25 again: "इत्यर्थे 'अतिस्य' इत्यत्रोपसर्जंतकारस्यापि"
Wait, is it 'अतिस्य' or 'अतिस'?
In quotes: 'अतिस्य' - it clearly has 'अ', 'ति', 'स्य'!
Wait, why 'अतिस्य'?
In 'अतिस्य': अति + त्यद् -> अतिसः (nom.), अतिसम् (acc.), अतिसेन (instr.), अतिसाय/अतिस्मै (dat.), अतिसात्/अतिस्मात् (abl.), अतिसस्य/अतिस्य? In non-tyadadi, it's just normal, but wait: is 'अतिस्य' a form?
Or is it 'अतिस' with avagraha? No, it's 'अतिस्य'.
Wait, what about "उपसर्जंतकारस्यापि" vs "उपसर्जनतकारस्यापि"?
Let's look at the letter between 'स' and 'त':
It is 'र्' on top. Under the repha is 'ज' or 'ग'?
Wait, compare it to 'ज' in:
- L17: 'युज्यत' -> 'ज्य'
- L18: 'संविज्ञान' -> 'ज्ञा'
- L19: 'सजातीयेति' -> 'जा' (look at 'जा': horizontal bar to the right, then curved down and up).
Now compare with 'ग' in:
यहाँ प्रस्तुत पृष्ठ का पंक्ति-वार (line-by-line) देवनागरी लिप्यन्तरण दिया गया है:
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६१
वा स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थ-
स्तेनेदं सिद्धम् ।
न चास्य 'छ्वावि'त्यादौ दीर्घाणामादेशानापत्तिः, तेषां निर्दिश्यमान-
त्वाभावादिति वाच्यम् ; जातिपक्षे दोषाभावात् । किञ्च 'न भूसुधियोरि'ति
घटितपरम्परया स्थानपदार्थेन युज्यन्त इति सूत्रार्थात् 'त्यदानीनाम' इत्यस्यापि स्थान-
पदार्थे स्वावयवमात्रघटितपरम्परयाऽन्वयेन उपसर्गतकारस्य सत्त्वे तद्बाधान्न दोषः ।
निर्दिश्यमानपदार्थे प्राथमिकत्वनिवेशं सूचयति—न तु प्रतीयमानमिति । न तु कथञ्चि-
दुपस्थितिविषय इत्यर्थः । तेनेदं सिद्धमिति । सूत्रस्येदृशार्थकथनेनार्थतो निर्दिश्यमान-
स्यादेशा भवन्तीति
' or '्र'?
Wait, look at 'भ्रुवाम्' in L2:
भ्र, ु, व, ा, म् -> भ्रुवाम्.
Look at L15:
Is it भ्रु or भृ or भु or भू?
Wait! In Pāṇini 6.4.88: "भुवोऽवुकौ..."
Wait, if it's from भ्रू (eyebrow)?
No! The text says:
"विभुशब्दात् आचारक्विबन्ताद् विचि गुणे नपुंसकह्रस्वत्वे च 'आविभु यस्येति आविभ्रु' इत्यत्र धात्ववयवोवर्णान्तत्वान्निषेधप्रवृत्त्या यणोऽप्राप्तेः ।"
Wait! Why would it say "आविभ्रु"? Could it be "आविभ्रूर्यस्येति आविभ्रु"?
YES!
Look at the text:
"आविभ्रूः यस्य सः आविभ्रु"!
Wait, look at L15 carefully:
Does it say 'आविभ्रू' or 'आविभु'?
Let's look at the first word inside the quotes in L15:
' आ वि भ्रू (there is a stroke on the भ!) - wait!
Let's look at the भ in the first word:
It has a diagonal line for 'र' at the bottom-left! And an oo-kar (ू
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६३
मित्यपास्तम् ; ‘हयवरट्’सूत्रस्थेन ‘अयोगवाहानामुपदेशोऽलोऽन्त्यविधिः
प्रयोजनम् । वृक्षस्तत्र, नैतदस्ति प्रयोजनम् ; ‘निर्दिश्यमानस्येत्येव सिद्धमि’ति
भाष्येण विरोधात् ।
अनया परिभाषया ‘येन विधिर्’ति सूत्रबोधिततदन्तस्य स्थानित्वा-
भावबोधनं, यदागमा इति लब्धस्य च, तेन ‘सुपद्, उदस्थादि’त्यादिसिद्धिः ।
एषामपि ‘षष्ठीप्रकृतो’त्यादिनिरुक्तनिर्दिश्यमानत्वादित्यर्थः ।
वस्तुतस्तु—रीङादेरिव इयङुवङोङित्त्वमपि स्पष्टार्थमेव, ख्वोरित्यस्यापि निर्दिश्य-
मानत्वात् । ‘निर्दिश्यमानावयवेतरस्यादेशा न भवन्ती’त्यर्थस्यैव परिभाषया बोधनात्
‘धातोश्च ख्वोरि’ति निर्दिश्यमानावयवेतरत्वेनादेशनिषेधप्रवृत्तेः सुलभतया न तद्-
व्यावृतये ङित्त्वम् । अत एव मूले निर्दिश्यमानावयवरूपमेवेत्येवकार उपन्यस्तः ; निर्दिश्य-
मानावयवरूपमेव स्थानेन युज्यते, न तु निर्दिश्यमानावयवेतरदिति तदर्थः ।
भाष्येण विरोधादिति । केचित्तु—विसर्गस्याल्त्वेऽपि वर्णत्वाभावान्न भाष्य-
विरोध इति वदन्ति ।
ननु पूर्वोक्तनिर्दिश्यमानत्वलक्षणे तत्तच्छास्त्राभिन्नत्वनिवेशे गौरवमत आह—
अनयेति । ‘यदागम’परिभाषासहकारेण उपस्थितिविषयत्वाभावे सति ‘येन विधिर्’ति
शास्त्रसहकारेणोपस्थितिविषयत्वं निर्दिश्यमानत्वमिति भावः ।
निरुक्तनिर्दिश्यमानत्वादित्यर्थ इति । यद्यपि ख्वोरपि निर्दिश्यमानत्वम् ; तथापि
वृक्षप्रचलनन्यायेन धातुपदीयनिर्दिश्यमानस्यैवादेशः स्यादिति ङित्त्वं सावकाशम् ।
ननु धातुपदवद् वृक्षप्रचलनन्यायेन अङ्गपदीयनिर्दिश्यमानस्यैवादेशवारणाय ङित्त्वं सार्थक-
मिति कुतो नोक्तम् ? किञ्च रीङावधायकेऽङ्गस्यापि निर्दिष्टत्वादन्त्यादेशाय ङित्त्वस्य चरितार्थतया
‘रीङ्रिङोर्ङित्त्वं स्पष्टार्थमि’ति मूलोक्तिरसङ्गतावेति चेत्—सत्यम् ; व्यावत्र्यभावेन परिभाषा-
प्रवृत्त्यभावात् । निर्दिश्यमानस्यैवादेशो भवति, न तु तेन प्रतीयमानस्य द्वितीयोपस्थितिविषयस्येति
तदर्थः । यथा धातुपदांशे प्रवृत्तौ धात्वन्तस्य व्यावृत्तिस्तथाऽङ्गांशे प्रवृत्तौ अङ्गान्तस्येत्यादे-
र्व्यावृत्त्यासम्भवेन तदप्राप्तेः । एतन्मूलकमेव निर्दिश्यमानत्वलक्षणे षष्ठीप्रकृतिपदेन अङ्गरूपपदरूप-
प्रकृतिभिन्नैव प्रकृतिर्गृह्यत इत्यभियुक्ता वदन्तीति दिक् ।
मतान्तरमाह—वस्तुतस्त्विति । एतन्मते ‘निर्दिश्यमानस्येति’परिभाषा यत्र सञ्चारणीया
तत्सूत्रघटकनिर्दिश्यमानावयवस्यैवादेशो भवति, तत्सूत्रघटकनिर्दिश्यमानावयवेतरस्य तत्सूत्र-
घटकस्य निर्दिश्यमानस्य आदेशा न भवन्ति, सूत्रघटकयावन्निर्दिश्यमानावयवस्यादेशा भवन्तीति
यावत् । तथा च धातोर्पि निषेधेनेदं ङित्त्वं स्पष्टार्थमेवेति भावः ।
इति तदर्थं इति । निर्दिश्यमानावयवेतरस्य साक्षादेव स्थानेन सम्बन्धो निषिध्यते,
परम्परया तु भवत्येवेति न ‘तदोः’ति सूत्रे त्यदादीनामिति निर्दिश्यमानावयवेतरस्य परम्परया-
ऽन्वये बाधकाभाव इति बोध्यम् ।
बोधितस्य निर्दिश्यमानत्वमिति वदन्ति।
Line 8 of body (L9):
परे तु—लिङ्गविशिष्टपरिभाषाऽपि तदन्ते प्रकृतिवृत्तिधर्मारोपस्यैव बोधनेन
Line 9 of body (L10):
‘यदागम’परिभाषातोऽविशेषात्तस्या अपि लक्षणाग्राहकत्वे तद्बोधितस्य स्त्रीप्रत्ययान्तस्य
Line 10 of body (L11):
निर्दिश्यमानत्वानापत्तौ ‘देवीमञ्चतीति देवद्र्यङि’त्यादौ ‘विष्वग्देवयोश्चे’त्यद्र्यादेशो
Line 11 of body (L12):
न स्यादिति षष्ठीप्रकृतिविशिष्टत्वं निर्दिश्यमानत्वम् ; वैशिष्ट्यञ्च—स्वजन्योपस्थितिविष-
Line 12 of body (L13):
यत्व-स्वजन्योपस्थितिविषयपूर्ववर्णाघटितत्वैतदुभयसम्बन्धेन। ‘निर्जर’ इत्यस्य जरेति
Line 13 of body (L14):
षष्ठीप्रकृतिजन्योपस्थितिविषयत्वेऽपि तादृशोपस्थितिविषयपूर्वरेफघटितत्वेन निर्दिश्य-
Line 14 of body (L15):
मानत्वाभावान्न जरसादेशापत्तिः। ‘उदस्थादि
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६५
इत्यत्रोक्तदिशा विशिष्टसमासनिमित्तक-ल्यपः 'स्नात्वा कालक' इत्येतत्समासनिबन्धन-
ल्यबभावनियामकनिपातनेन वारणासम्भवात् । न चोक्तरूपस्यैवासम्भवः, 'मयूर-
व्यंसकादयश्चे'ति चकारेणैषां समासान्तरेऽप्रवेशात्, अत एव 'परमो मयूरव्यंसक'
इति वाक्यमेवेति वाच्यम् ; चकारबोधितस्यार्थस्य अनित्यत्वेन उक्तसमासे बाधका-
भावात् । अत एव 'प्रत्ययमात्रग्रहणे', 'चक्षुर्मात्रग्राह्य' इत्यादिप्रयोगोपपत्तिरिति
चेन्न । 'समासेऽनञ्पूर्वे' इत्यस्य 'क्त्वान्त-समासावयव-निर्दिश्यमानस्ये'त्यर्थेन पूर्वं-
क्त्वाशब्दस्य शाब्दबोधीयविषयताश्रयत्वाभावेन निर्दिश्यमानत्वाभावात्तदप्राप्तेः
सुवचत्वात् । 'समास' इति सूत्रजन्यबोधे पूर्वंक्त्वाशब्दस्य कथमप्यभानेन तत्र शाब्दीय-
विषयतायाः कल्पयितुमशक्यत्वात् 'अनञ्समास' इति पर्युदासबलेन अव्ययपूर्वपदके एव
तत्प्रवृत्तेर्निपातनेन कल्पनाच्च । न च 'अपिबदि'त्यत्र आगमविशिष्टस्यैव वाऽर्थवत्त्वेन
तेन सङ्कुचितायाः पात्वावच्छिन्नविषयताया आगमरहिते पाशब्दे अभावेन तस्य
पिबादेशानापत्तिः, अपाशब्दस्य तदापत्तिश्चेति वाच्यम् ; 'स्वावयवमात्रघटितत्व-
सम्बन्धेन स्वविशिष्टे तत्तच्छब्दानां लक्षणे'त्यर्थस्य यदागमन्यायेन बोधनादट्-
पाशब्दत्वावच्छिन्नविषयताया अपाशब्दे सत्त्वेऽपि निरुक्तसम्बन्धावच्छिन्न-पात्वाव-
च्छिन्नविषयतायाः केवलपाशब्दे सत्त्वेन तस्य निर्दिश्यमानत्वे बाधकाभावात्,
अपाशब्दस्य तादृशविषयताश्रय-पाशब्दघटितत्वेन निर्दिश्यमानत्वाभावेन दोषा-
भावाच्च । न चैवं सम्बन्धघटकावयवपदप्रयोज्यविषयतायाः पाऽवयवपकारादौ सत्त्वेन
तदाश्रयघटितत्वात् पाशब्दस्य निर्दिश्यमानत्वानापत्तिरिति वाच्यम् ; विषयता-
पदेनात्र सांसर्गिकविषयताभिन्नाया ग्रहणादुक्तपकारादिनिष्ठविषयताया अतथात्वात्
पाशब्दे उक्तनिर्दिश्यमानत्वस्य सुवचत्वात् ।
केचित्तु-'निर्दिश्यमान'परिभाषायां शाब्दीयविषयताऽर्थवत्त्वेनासङ्कुचिता गृह्यते ;
अत एव लावस्थायामडिति पक्षेण न फलभेदः । तथा चात्र न दोष इत्याहुः ।
उक्तदिशेति । 'प्रवाहणस्यापत्यं प्रावाहणेयः' 'शुभ्रादिभ्यश्च' इति ढक्, 'प्रवाहणस्य ढे'
इति पूर्वपदस्य वा वृद्धिः, तदन्तादपत्यमित्यर्थे अत इञ् 'प्रावाहणिः' । अयम्भावः-यथा
तत्र 'प्रवाहणस्य ढे' इत्यस्य 'येन नाप्राप्त०' इति न्यायेन ढप्रत्ययनिमित्तकवृद्धेरेव बाधकत्वं तथा-
ऽत्रापि 'स्नात्वा कालक'-पर्याप्तसमासप्रयुक्तल्यप एव निपातनेन बाधकत्वं कल्पनीयमिति ।
समास इति । विभिन्नविभक्तिकत्वेन तदन्तविध्यभावेऽपि पक्षान्तरेण परिहारोपाय-
माह-अनञ्पूर्वं इति ।
अर्थवत्त्वेनासङ्कुचिता गृह्यत इति । अर्थवत्त्वेनानवच्छिन्नेति तदर्थः । अयम्भावः-
यदागमपरिभाषा हि शक्तिग्राहिका लक्षणाग्राहिका चेत्यस्ति मतद्वयम् । आद्ये अर्थवत्त्वानव-
च्छिन्नायाः पात्वावच्छिन्नशाब्दबोधीयविषयताया अप्रसिद्धत्वेऽपि, अन्त्ये स्वावयवमात्रघटितत्व-
सम्बन्धावच्छिन्नाया पात्वावच्छिन्नविषयताया शाब्दबोधीयाया अर्थवत्त्वानवच्छिन्नतया प्रसिद्ध-
त्वात्, तेन सम्बन्धेन पाशब्दविशिष्टे एवार्थवतोऽन्वयात् । एवञ्च 'अपा' इति समुदाये अर्थ-
वत्त्वानवच्छिन्नशाब्दबोधीयविषयताया अभावेन निर्दिश्यमानत्वाभावस्योपपत्तौ 'शाब्दबोधीय-
विषयताश्रयाघटितत्वमि'ति लक्षणे न निवेशनीयमिति ।
९
६६ परिभाषेन्दुशेखरः [ १ प्रकरणे-
एवं 'जराया जर'िति विग्रहे 'जराजरसे' इत्यत्र पूर्वत्र शाब्दीयविषयताया अभावेन
न जरसादेशः । पूर्वस्य निर्दिश्यमानत्वाभावे च 'पादः पद'िति सूत्रस्थभाष्यमेव मानम् ।
तत्र हि 'सुपादि'ति समुदायस्यादेशवारणाय 'पाद उपधाया ह्रस्वत्वं वक्तव्यम'िति
वार्तिककृतोक्ते, 'न वक्तव्यं निर्दिश्यमानस्यादेशा भवन्तीत्येव सिद्धम'ित्युक्तम् ।
'सुपात्पद' इत्यत्र 'पाच्छब्दान्तं यदङ्गं तदवयवोपधाया ह्रस्व' इत्यर्थकवचनेन
वार्तिकमते 'सुपात्पद' इति रूपम्, भाष्यमते तु पूर्वस्य निर्दिश्यमानत्वेन 'सुपत्पद'
इति रूपमिति फलभेदात् प्रत्याख्यानासम्भवेन तत्कल्पनात् ।
नन्वेवमपि जराशब्दस्य 'नित्यवीप्सयोर'िति द्वित्वे 'अतिजराजरसे'त्यत्राष्ट-
मिकद्वित्वस्य अनस्तमितावयवभेदस्य सर्वसम्मतत्वेनोत्तरस्यापि शाब्दीयविषयता-
श्रयत्वात् समुदायस्य तद्धटितत्वेनोक्तनिर्दिश्यमानत्वानापत्तिरिति चेन्न । इष्टापत्तेः;
'अतिजराजरसे'ति रूपस्यैव तत्रैष्टत्वात् । अत एव 'पादः पद'िति सूत्रस्थोक्तभाष्यं
सङ्गच्छते । तन्मते 'अतिपात्पद' इत्यत्र पदद्वित्वे भाष्य-वार्तिकयोः फलभेदेन तत्प्रत्या-
ख्यानमसङ्गतं स्यात् । किञ्च-'इ म अ' इत्येव सिद्धे ककारोच्चारणमकच्सहितस्या-
प्ययमादेश इत्यर्थज्ञापनाथम् । 'अश्वचनं साकच्चार्थम'ित्यादिभाष्यमप्यत एव
सङ्गच्छते; अन्यथा स्थाने द्विर्वचनस्थले समुदायस्यादेशार्थं तदावश्यकत्वेन ज्ञापक-
परभाष्यासङ्गत्यापत्तिः । अत एव मूलकृता स्थाने द्वित्वेऽपि समुदायस्य निर्दिश्य-
मानत्वाभावेन तत्र विशेषाभावात् 'त्रेस्त्रयङ् न कृतः, जराया असुङ् न कृत' इत्याद्युक्तम् ।
इत्याद्युक्तम् । 'देवीमब्रवीदिति देवद्रयङि'त्यत्र निरुक्तशाब्दबोधीयविषयताया देवीशब्दे
एव सत्त्वेन तादृशविषयताश्रयाघटितत्वेन च निर्दिश्यमानत्वादद्रयादेशसिद्धिः ।
ननु यदागम-न्यायस्य निरुक्तार्थे लक्षणाग्राहकत्वस्वीकारे साक्षादानुपूर्व्यंव-
च्छिन्नमुख्यविशेष्यताप्रयोजकत्वरूप-वक्ष्यमाणविशिष्टरूपोपादानत्वस्य जराशब्दादौ
न जरसादेश इति । प्रत्ययस्याङ्गांशे उत्थिताकाङ्क्षतया अङ्गे एवान्वयेन तत्प्राप्तेरिति
भावः । सप्तम्यन्त-पञ्चम्यन्तपदयोर्निर्दिश्यमाने एवान्वये तु पूर्वस्य प्राप्तिरेव नास्तीति बोध्यम् ।
अत्रेदं बोध्यम्-पदद्वित्वस्थले समुदायस्यैव निर्दिश्यमानत्वमित्येकं मतम् ; उत्तरपद-
स्यैव निर्दिश्यमानत्वमित्यपरम्, इदमेवादृतं शेखरकृता । अत एव 'प्रतिपत्तिलाघवाय जराया
असुङ् न कृतः, त्रेस्त्रयङ् न कृत' इति शेखरग्रन्थे 'प्रतिपत्तिलाघवाये'ति कथनं सङ्गच्छते;
अन्यथा पदद्वित्वस्थले समुदायस्य निर्दिश्यमानत्वे जरसादेशपक्षे समुदायस्यादेशः, असुङ्पक्षे
चान्त्यस्य स्यादिति प्रयोगे विशेषसत्त्वेन प्रतिपत्तिलाघवायेत्येतन्मात्रोक्तिः कथं सङ्गच्छेत ? डित्त्व-
सामर्थ्यमूलक'ङिच्चे'ति प्रवृत्तौ ज्ञानगौरवं स्यादिति तदर्थः । तत्राऽऽद्यमतानुसारेण आशङ्कते—
नन्वेवमिति । शेखरकृन्मतानुसारेण समाधत्ते—इष्टापत्तेरिति । अनेन टीकाकृतामपीदमेव
सम्मतमिति प्रतिभाति । अत एव चाग्रिमाण्यपि लक्षणानि तदनुसारेणैव प्रदर्शितानि । तन्मतोपष्ट-
म्भकानि प्रमाणान्याह—अत एवेत्यादिः ।
यदागमपरिभाषाया लक्षणाग्राहकत्वाङ्गीकारे पा-पदप्रयोज्या स्वावयवमात्रघटितत्व-
सम्बन्धावच्छिन्ना पात्वेन साक्षादवच्छिन्ना प्रकारता जाता, न तु तेनावच्छिन्ना मुख्यविशेष्यतेति
विशिष्टरूपोपादानाभावेन 'अर्थवद्ग्रहणे'परिभाषा न प्रवर्ततेत्याशयेन आशङ्कते—नन्विति ।
मानत्वम्, तद्घटितत्वेन च जराशब्द-पाशब्दयोस्तत्त्वम् । 'सजूस्सजूर्भ्यामि'त्यत्र पूर्व-सजुष्शब्दे तदवयव-षस्य स्वप्रयोज्योपस्थितिविषयपूर्वत्वेऽपि द्वितीयसम्बन्धाभावेन तद्विशिष्टोदासीनवर्णघटितत्वात्तत्त्वसिद्धिः ।"
LOOK AT THAT!
"द्वितीयसम्बन्धाभावेन"!
And in L21: "'जरसावि'त्यत्र जकारे द्वितीयसम्बन्धसत्त्वेऽप्याद्यसम्बन्धाभावान्नातिव्याप्तिः ।"
In जरसौ: on जकार, there IS the द्वितीयसम्बन्ध, but NOT the आद्यसम्बन्ध!
Why does जकार have द्वितीयसम्बन्ध?
Because जकार is an अवयव of जरा!
Wait, what relation does जकार have to जरा?
जकार is a constituent of जरा!
And what about रेफ in निर्जरसौ?
Is रेफ an अवयव of जरा? NO!
Wait! "षष्ठीप्रकृतिविशिष्टो वर्णो निर्शब्दावयव-रेफः"??
Wait, does it say निर्शब्दावयव-रेफः?
Let's re-read L17:
"'निर्जरसावि'त्यत्र निरुक्तोभयसम्बन्धेन षष्ठीप्रकृतिविशिष्ट
६८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
यद्वा—स्वप्रयोज्योपस्थितिविषयस्य तादृशोपस्थितिविषयाघटितस्य ग्रहणेना-
दोषात्, अरसो जरेति समुदायस्य तादृशजराशब्दघटितत्वेन तस्य ग्रहीतुमशक्यत्वात् ।
न च त्रिशब्दादाचारक्विबन्तात्कर्तरि क्विपि तुकि 'त्रितामि'त्यादौ निरुक्तनिर्दिश्य-
मानत्वापत्तिरिति वाच्यम् ; 'नामी'ति सूत्रस्थभाष्यप्रामाण्येन तादृशरूपाणा-
मनभिधानेनादोषात् । निर्दिश्यमानत्वलक्षणे स्वोपस्थाप्योद्देश्यकागमाघटितत्वरूपषष्ठी-
प्रकृतिवैशिष्ट्यनियामकतृतीयसम्बन्धनिवेशात्, त्रिच्छब्दस्य तादृशतुग्घटितत्वेन
'अजराणी'त्यत्र नुम्घटितत्वेनादोषाच्च । एवं च 'अपिबदि'त्यत्र दोषवारणाय यदागम-
न्यायस्य लक्षणाग्राहकत्वं स्वीकृत्य, सांसर्गिकविषयताभेदनिवेशादिक्लेशो न कर-
णीय इति महालाघवम् । 'स्नात्वा कालकीकृत्ये'त्यादौ तु पूर्वोक्तरीत्यैव वारणं
बोध्यम् । न चैवम् 'अपिबदि'त्यत्र दोषवारणे यदागमपरिभाषा व्यर्था, कल्पित-
स्थान्यादेशभावस्य स्थानिवत्सूत्रे ग्रहणेनापि 'प्रणिदापयती'त्यादिसिद्धेरिति वाच्यम् ;
इष्टापत्तेरित्याहुः ।
अनभिधानेनेति । तत्र हि भाष्ये "अमीति न्यासे 'ह्रस्वनद्याप्वे'ति सूत्रस्थं ह्रस्वग्रहणं
भूतपूर्व ह्रस्वान्तग्रहणे ज्ञापकम्, तेन 'रामाणामि'त्यत्र नित्यत्वात् पूर्वं दीर्घेऽपि नुट् सिद्धयति,
'तिसृणामि'त्यत्र नुट् तु 'षट्चतुर्भ्यश्च' इति सूत्रे नेरित्यनुवृत्त्या सिद्धः" इत्युक्तम् । 'त्रितामि'-
त्यस्याभिधाने तु सम्प्रति नुट् स्यात्, ह्रस्वग्रहणे तु न स्यादिति फलभेदापत्त्या तदनभिधानमाव-
श्यकमिति भावः ।
वस्तुतस्तु—'षट्चतुर्भ्यश्च' इति सूत्रे चतुरशब्दसाहचर्येणातकारान्तस्यैव त्रिशब्दस्य
ग्रहणेन न तत्र फलभेदः । किञ्च—सखिशब्दात् आचक्षाणणिजन्तात्क्विपि तुकि 'सखिद्' इत्यत्र
'सख्युरसम्बुद्धौ' इति अनङादेशापत्तिरित्याशयेनाह—निर्दिश्यमानत्वलक्षण इत्यादिः ।
स्वोपस्थाप्योद्देश्यकागमाघटितेति । नन्वेवमपि 'परिषिञ्चति' इत्यत्र नुमागमघटितत्वेन
निर्दिश्यमानत्वाभावात् सिचः सस्य षत्वं न स्यादिति चेन्न । तत्स्थाने स्वविशिष्टागमाघटितत्व-
निवेशात् । वैशिष्ट्यं च—स्वोपस्थाप्योद्देश्यकत्व-स्वविशिष्टभिन्नत्वैतदुभयसम्बन्धेन ; अत्र स्ववै०
—स्वोपस्थाप्यघटकावधिकपूर्वत्व-स्वोपस्थाप्यघटककावधिकोत्तरत्वैतदुभयसम्बन्धेन ।
नन्वेवमपि 'स्नात्वा कालकीकृत्य' इत्यत्र पूर्वक्त्वाशब्दस्यापि निर्दिश्यमानत्वापत्तिः,
स्वजन्योपस्थितीयविषयताश्रयाव्यवहितपूर्वत्वस्य स्वप्रयोज्यशाब्दबोधीयविषयताश्रयान्तेतरत्वस्य
च उदासीनवर्णे एव सत्त्वेन पूर्वक्त्वाघटकवर्णेऽसत्त्वात्तद्घटितत्वरूपस्य द्वितीयसम्बन्धस्य आद्य-
सम्बन्धस्य च सत्त्वादत आह—स्नात्वा कालकीकृत्येत्यादाविति । पूर्वोक्तरीत्येति ।
“पर्युदासन्यायेन अव्ययपूर्वपदपूर्वकस्यैव क्त्वाशब्दस्य 'समासेऽनपूर्व' इत्यनेन ल्यपो विधानात्"
इत्येवं पूर्वोक्तरीत्येत्यर्थः । इष्टापत्तेरिति । लक्षणे आगमाघटितत्वनिवेशेनाङ्विशिष्टे निर्दिश्य-
मानत्वाभावेन 'लावस्थायामडि'ति भाष्याविरोधादिति भावः। न चादन्तोपदिश्यमानत्वस्यानल्त्व-
व्याप्यधर्मघटितत्वेन स्थानिवद्भावाप्रवृत्त्या 'पचमानः' इत्यत्र स्वरानापत्तिरिति वाच्यम् ; तत्र
पूर्वोक्तरीत्या उपदेशेऽदन्तादित्यर्थकरणेनादोषात् । यद्वा—पञ्चमीसमासेन स्थानिवद्भावमाश्रित्य
स्वरः सम्पादनीयः । अथवा—अदन्तोपदिश्यमानात् परतव्योपलक्षणविधया भानमङ्गीकृत्य
समाधेयम्, तेन 'दीव्यमान' इत्यत्रापि न दोष इति भावः ।
वस्तुतस्तु—स्वशक्यत्व-स्वविशिष्टवर्णघटितत्वोभयसम्बन्धेन षष्ठीप्रकृतिविशिष्टत्वं
निर्दिश्यमानत्वम् । वैशिष्ट्यञ्च—स्वोपस्थाप्याघटितो यः स्वबोध्यस्तद्घटकत्वं स्व प-
स्थाप्यावधिकपूर्वत्वं चेति सम्बन्धद्वयेन । अत्र पूर्वत्वं व्यवहितादिसाधारणम्, तेन
'स्नात्वा कालकीकृत्ये'त्यत्र पूर्वक्त्वावयववर्णस्य उक्तसम्बन्धद्वयेन षष्ठीप्रकृतिविशिष्टत्वेन
नन्वत्र कल्पे 'समासेऽनञ् पूर्वे' इति सूत्रस्थभाष्यविरोधः । तत्र हि 'स्नात्वा कालकः'
इत्यत्र ल्यपमाशङ्क्य 'स्नात्वा कालकादीनां प्रतिषेधो वक्तव्यः, न वक्तव्यः क्त्वान्तनिर्देशात् सिद्धम्,
समासनिपातनाद्वे'त्युक्तम् । क्त्वान्तनिर्देशपक्षे 'स्नात्वा कालकः' इत्यत्र दोषाभावेऽपि 'स्नात्वा
कालकीकृत्य' इत्यत्र पूर्वक्त्वो ल्यप्निवारणं न सम्भवति, प्रकृतनिर्दिश्यमानत्वलक्षणस्य तत्र सत्त्वात् ;
फल
तस्य स्वविशिष्टवर्णघटितत्वाभावेन निर्दिश्यमानत्वं न, यदागमपरिभाषाया
लक्षणाग्राहकत्वेन 'त्रितामि'त्यत्र षष्ठीप्रकृतिशक्यत्वाभावान्न तत्त्वम्। एवमन्यत्र
समन्वयः स्वयमूहनीयः। न चैवं 'लिङ्गविशिष्ट'-परिभाषा-'तन्मध्यपतित'-न्याययोरपि
एव पाणिनिना जराया असुङ्, त्रेरियङ् च न कृतः।
यत्तु—'पादः पदिति सूत्रस्थ-‘‘पादोपधाया ह्रस्वत्वं वक्तव्यमि’’ति वार्तिकविरोधः।
तन्न; निर्दिश्यमानपरिभाषामबुद्ध्वा प्रवृत्तस्य वार्तिकस्य एकदेश्युक्तित्वात्। अत एवाग्रे भाष्यकृता
'निर्दिश्यमानस्यैव सिद्धम्' इति समाहितम्। एतदनुसृत्य निर्दिश्यमानत्वमेवं परिष्कुर्वन्ति—
षष्ठीप्रकृतिविशिष्टत्वम्; वै०-स्वजन्योपस्थितीयविषयताश्रयत्व-स्वप्रयोज्यशाब्दबोधीयविषयता-
विशिष्टवर्णघटितत्व - स्वजन्योपस्थितीय विषयताश्रयोद्देश्यकाऽऽगमाघटितत्वैतत्रितयसम्बन्धेन।
विषयतावैशिष्ट्यं वर्णे—स्वानाश्रयत्व-स्वाश्रयसमभिव्याहृतत्वोभयसम्बन्धेन। लक्षणसमन्वयः
स्वयमूहनीय इति।
अत्रेदं चिन्तनीयम्—अत्र विषयताऽनाश्रयत्वं पर्याप्प्त्याऽपर्याप्त्या वा? आद्ये—सजूष्शब्द-
त्वावच्छिन्नविषयताया पर्याप्त्याऽनाश्रयः पूर्वसजुषः षकारः, तत्र स्वाश्रयोत्तरसजूस्समभिव्याहृ-
तत्वमपीति तद्घटितत्वेन पूर्वस्य निर्दिश्यमानत्वानापत्तिः। द्वितीये—तत्रैव 'परमः सजूःसजूरि'त्यत्र
'सजूः सजूरि'ति समुदायस्यापि निर्दिश्यमानत्वं स्यात्, तद्घटकवर्णस्यापर्याप्त्या शाब्दबोधीय-
विषयताश्रयत्वात्, अनाश्रयः उदासीनः परमशब्दघटको वर्णस्तस्य शाब्दबोधीयविषयताश्रय-
समभिव्याहृतत्वमपि, तद्घटितत्वात् समुदायस्य सजूश्शब्दान्तत्वावच्छिन्नोपस्थितीयविषयताश्रय-
त्वाच्च। न चेष्टापत्तिः; 'वृक्षप्रचलन'न्यायेन तस्यैव स्थानपदार्थेन साकं सम्बन्धापत्तेः। तस्माद्य-
त्किञ्चिदेतदिति बोध्यम्।
अन्ये तु—विषयतानाश्रयत्वमित्यत्र आश्रयताऽपर्याप्त्यैव ग्राह्या। 'सजूःसजूरि'ति
समुदायस्य निर्दिश्यमानत्ववारणाय 'स्वविशिष्टाघटितत्वमि'ति चतुर्थोऽपि सम्बन्धो देयः। अत्र
वै०—स्वजन्यशाब्दबोधीयविषयताश्रयावधिकपूर्वत्व - स्वजन्यशाब्दबोधीयविषयताश्रयाघटितत्वै-
तदुभयसम्बन्धेन। लक्षणसमन्वयः स्वयमूहनीयः।
अथ मूलानुसारिनिर्दिश्यमानत्वलक्षणं त्वित्थं वाच्यम्। तथा हि—षष्ठीप्रकृतिप्रयोज्यप्राथ-
मिकोपस्थितिविषयताविशिष्टत्वम्; वै०-स्वाश्रयत्व-स्वावच्छेदकरूपावच्छिन्नशाब्दबोधीयविषयता-
श्रयत्वोभयसम्बन्धेन। प्राथमिकत्वञ्च—'यदागमा, येन विधिरि'ति शास्त्रासहकृतत्वम्; निर्जरै'
त्यत्र तादृशविषयतावैशिष्ट्यस्य जराशब्दे सत्त्वाल्लक्षणसमन्वयः। 'जरा जरे'त्यादौ पूर्वस्य शाब्द-
बोधीयविषयताश्रयत्वाभावान्नातिव्याप्तिः। यद्यपि 'अपा' इत्यस्य शाब्दबोधीयविषयताश्रयत्व-
मस्ति; तथापि तदुपस्थितेर्यदागमशास्त्रसहकृतत्वाभावेन प्राथमिकत्वाभावान्नातिव्याप्तिः, तद्घटक-
पाशब्दे पात्वावच्छिन्नोपस्थितिविषयतायाः प्राथमिकत्वेन तदाश्रयत्वान्निर्दिश्यमानत्वं तस्य। 'क किम्'
इत्यत्रापि किमुत्वावच्छिन्नोपस्थितिविषयताश्रयत्वस्य उक्तोभयशास्त्रासहकृतत्वेन प्राथमिकत्वात्
तादृशशाब्दबोधीयविषयताश्रयत्वाच्च तस्यापि निर्दिश्यमानत्वम्। 'स्नात्वा कालकीकृत्य' इत्यत्र
पूर्वस्य शाब्दबोधीयविषयताश्रयत्वाभावान्नातिव्याप्तिः। समुदायस्य चोपस्थितीयविषयताश्रयत्वेऽपि
तदुपस्थितेः 'येन विधिरि'ति शास्त्रासहकृतत्वाभावेन प्राथमिकत्वाभावान्नातिव्याप्तिः। 'सजूः सजूरि'
त्यत्रापि सजूष्ट्वावच्छिन्नोपस्थितिविषयतायास्तादृशशाब्दबोधीयविषयतायाश्चाश्रयत्वान्नाव्याप्तिः।
एवं 'व्याघ्रपात्पदः' इत्यत्र च पद्वित्वस्थले बोध्यम्। परन्त्विदं 'यदागमा' इत्यस्य लक्षणाग्राहकत्व-
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७१
अनया च स्वस्वनििमित्तसन्निधापितानाम् ‘अलोऽन्त्यस्ये’त्यादीनां
तत्तद्धर्म्मारोपप्रयोजकत्वेन यदागमपरिभाषावल्लक्षणाग्राहकत्वात् तद्बोधितस्यापि
निर्दिश्यमानत्वानापत्तिरिति वाच्यम् ; स्थानिवत्सूत्रस्येव तयोर्धर्मारोपप्रयोजकत्वेऽपि
लक्षणाग्राहकत्वाभावेन तद्बोधस्य षष्ठीप्रकृतिक्शक्यत्वेन निर्दिश्यमानत्वे बाधका-
भावात् । अत्रैव 'अनाप्यक' इत्यादिमानमित्यन्यत्र विस्तरः ।
नन्वनया निर्दिश्यमानस्यादेशविधानात् ‘पादस्य लोप’ इत्यत्र अन्त्यस्यादेशा-
नापत्तिरनया बाधादत आह—अनयेति । ‘अलोऽन्त्यस्ये’त्यादौ षष्ठीपदानुवृत्त्या
पक्षे ; अन्यथा ‘पा’ इत्यत्र शाब्दबोधीयविषयताश्रयत्वाभावेन अनिर्दिश्यमानत्वापत्तिरिति बोध्यम् ।
अथ यदा ‘यदागम’परि
७२ परिभाषेन्दुशेखरः [ १ प्रकरणे -
समावेश एव, न बाध्यबाधकभावो विरोधाभावात् । नाप्येतयोरङ्गाङ्गि-
भावः ; उभयोरपि परार्थत्वेन तदयोगात् । 'अनेकाल् शिति'ति सूत्रे
सर्वश्चैतत्परिभाषाबोधित एव गृह्यते ।
यत्तु 'आदेः परस्य', 'अलोऽन्त्यस्ये'त्येतावेव तद्बाधकाविति ।
तन्न ; 'उदस्थादि'ति सूत्रविषयेऽस्याः 'पादः पदिति सूत्रे भाष्ये सञ्चा-
रितत्वात् । नाप्येतयोरियं बाधिका, एतयोर्निर्विषयत्वप्रसङ्गादिति 'तिर्विश-
तेरि'ति सूत्रे कैयटः ।
अकज्विषये नायं न्यायः ; स्थानिवद्भावेनेव तन्मध्यपतितन्यायेन
तद्बुद्धयैव कार्यजननात् ।
'निर्दिश्यमानान्त्यंस्याल् आदेश' इत्याद्यर्थबोधनाद् अस्याश्च 'निर्दिश्यमानावयवस्यादेशा
भवन्ती'त्यर्थादुभयोर्विरोधाभावः स्पष्ट एवेति भावः । नन्वनयोरङ्गाङ्गिभावेन यत्र
अलोन्त्यसूत्रप्रवृत्तिस्तत्रैव एतत्परिभाषाप्रवृत्त्यापत्तिरत आह-नाप्येतयोरिति । परार्थ-
त्वेनेति । 'गुणानाञ्च परार्थत्वादसम्बन्धः समत्त्वादि'ति न्यायादिति भावः । अविरोधमेव
विशदयति-अनेकालिति ।
तन्नेति । अनयोर्थे एव निर्दिश्यमानत्वस्य प्रवेशेनाविरोधादिति भावः । उद-
स्थादिति सूत्रविषय इति । 'उदस्थादि'ति लक्ष्ये 'उदस्थास्तम्भो'रिति सूत्रविषय इत्यर्थः ।
नायं न्याय इति । व्यावर्तकं इति शेषः । तथा च शास्त्रान्तरपदेन तन्मध्यपतित-
न्यायातिरिक्तं शास्त्रं गृह्यते । यद्वा-तन्मध्यपतितन्यायेनाकज्विशिष्टे एव शाब्द-
विषयतायाः पर्याप्तित्वबोधनेन तत्र निर्दिश्यमानत्वसत्त्वादिति भावः । अत एव 'अना-
प्यक' इति सूत्रे'अक' इति चरितार्थम् ।
त्रिपथगाकारास्तु-साकच्कानपहारकादेशविषय एवायं न्यायो न प्रवर्तते,
साकच्कापहारकादेशविषये तु प्रवर्तत एवेत्यर्थः । अत एव "भिन्धकी'त्यत्राकचि कृते
धित्वं न प्राप्नोति निर्दिश्यमानत्वाभावादि"ति भाष्यं सङ्गच्छते ; सामान्यत एवाकज्-
विषये एतदप्रवृत्तावनया वारणासम्भवाद्भाष्यमसङ्गतिः स्पष्टैव । अत एव 'सर्वकदे'-
त्यत्र सर्वस्य सोऽन्यतरस्यां दीत्यनेन साकच्कापहारकसादेशो नेत्याहुः । तदपरे न
सहन्ते ; तन्निष्ठोद्देश्यता निरूपितविधेयताश्रयतन्मध्यपतितस्यैव तद्ग्रहणेन ग्रहणं
न तु तन्मध्यपतितत्वमात्रेण ; अन्यथा 'जनं रातीति जनरे'त्यत्र नशब्दस्य 'जरा'
इत्येतदक्षरद्वयमध्यपातित्वेन जराशब्दग्रहणेन ग्रहणापत्तौ जरसादेशापत्तेः । अत एव
'अन्तात्यन्ते'ति सूत्रेऽत्यन्तग्रहणं चरितार्थम् ; अन्यथाऽन्तग्रहणेन तन्मध्यपतितन्यायेन
तदपरे न सहन्त इति । 'असति बाधके प्रमाणानां सामान्ये पक्षपातः' इति न्यायेन
साकच्कापहारके तदनपहारके च सामान्यत एव निर्दिश्यमानत्वमस्तीति वादिन इत्यर्थः ।
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७३
। इयं चावयवषष्ठीविषयेऽपि। अत एव 'तदोः सः सावि'ति सत्वम्
'अतिस्य' इत्यत्र उपसर्गसकारस्य न। निर्दिश्यमानयुष्मदाद्यवयवमपर्यन्तस्यैव
यूयादयो न तु 'अतियूयमि'त्यादौ सोपसर्गावयवमपर्यन्तस्येति बोध्यम्।
अत्यन्तग्रहणे सिद्धे तद्वैयर्थ्यापत्तिः। इत्थञ्च 'तिङङति'ति सूत्रेण तिङन्तस्याकज्-
विधानात्तद्ग्रहणेन अकग्विशिष्टस्य ग्रहणेऽपि हिग्रहणेन हकिग्रहणे मानाभावा-
न्निर्दिश्यमानपरिभाषया धित्वाप्राप्तिरिति भाष्याभिप्रायसत्त्वेन त्वदुक्तार्थे भाष्यसम्मते-
र्वक्तुमशक्यत्वात्।
केचित्तु — तन्मध्यपतित'न्याये तन्निष्ठोद्देश्यताया अपर्याप्ताया उद्देश्यतावच्छे-
दकसाधारणविषयताया वा ग्रहणेनोक्तसूत्रस्य चारितार्थ्यात् 'भिन्धकी'त्यत्र हिशब्दे
तिङ्पदप्रयोज्योद्देश्यतावच्छेदकतारूप-विषयतापर्याप्त्या पर्याप्त्या तिङन्तत्वावच्छिन्नो-
द्देश्यताया वा सत्त्वेनोक्तन्यायेन हकिशब्दस्य धित्वप्राप्तेर्भाष्यासङ्गत्यापत्त्या उक्त-
कल्पनायां बाधकाभावः। अत एव 'किमः कः' इति सूत्रशेखरस्थ-आवृत्या 'साक-
च्कस्य कादेश' इत्यर्थकः कैयटग्रन्थः सङ्गच्छते। किञ्च — तन्मध्यपतितन्यायस्य लोक-
सिद्धत्वप्रतिपादकेन गर्भिणीस्थो गर्भो गर्भिणीग्रहणेन गृह्यते, गङ्गास्थो घटो गङ्गाग्रह-
णेन गृह्यत इत्यादिलीकिकव्यवहारप्रदर्शनपरेण भाष्यग्रन्थेन, पतितपदस्वारस्येन
केचित्त्विति। राघवेन्द्राचार्यमतानुयायिन इत्यर्थः। अपर्याप्ताया इति। अत एव
'भादुपधायाश्च, मतोर्वो यवादिभ्य' इति सूत्रस्थो 'वृक्षवन्तो' इति भाष्यप्रयोगः सङ्गच्छते।
अन्यथा तत्र नुमः मतुबन्तपर्याप्तोद्देश्यकतया मतुबन्तग्रहणेन ग्रहणेऽपि मतुब्ग्रहणेन नुम्विशिष्ट-
स्याग्रहणात् वत्त्वानापत्त्या तदसङ्गतिरेव स्यात् !
कैयटग्रन्थः सङ्गच्छत इति। कैयटेन 'इम अ' इति न्यासे साकच्कानपहारकत्वेन
विशिष्टस्याप्यादेशे 'कक' इति रूपं स्यात्, 'किमः कः' इति न्यासे साकच्कापहारकत्वेना-
ऽऽदेशाभावे 'ककिम्' इति रूपमिति फलभेदात् आवृत्त्या विशिष्टस्यादेशः साधितः। अकग्विषये
सामान्यतो निर्दिश्यमानत्वे तु अत्रापि न काप्यनुपपत्तिरित्यावृत्त्या तत्प्रयासो विफल एव
स्यादिति भावः।
वस्तुतस्तु — सामान्यतः कल्पयतामपि मते कैयटो न विरुद्धः, तस्य 'परमककिम्'शब्द-
विषयत्वात्, 'परमकिम्'-शब्दादकचि' ककिम्'-शब्दस्य मध्यपतितत्वाभावेन उक्तन्यायाप्रवृत्तौ
आवृत्तेरावश्यकत्वात्, तन्मतेऽपर्याप्त्योद्देश्यताया अग्रहणात्। न चैतन्मते 'धनवन्तो' इत्यत्र मध्य-
पतितत्वाभावेन वत्त्वानापत्तिः, नुमः उगिदन्तनिष्ठोद्देश्यता निरूपितविधेयताश्रयत्वात् मतुबो
निर्दिश्यमानत्वाभावादिति वाच्यम् ; 'वृक्षवन्तो' इति भाष्यप्रयोगेण वत्वविधौ निर्दिश्यमानावय-
वत्वमुपलक्षणम्। एवञ्च मतुपो मकारस्य पूर्वं निर्दिश्यमानावयवत्वेन सम्प्रति वकारः स्यादेव।
एवं स्थिते तदर्थमुद्देश्यताऽपर्याप्त्या न ग्राह्येति तत्त्वम्। दीक्षितग्रन्थस्य न्यासभेदेन फलभेदरूपा-
सङ्गतिरपि नास्मन्मते। अत एव 'साकच्कार्थम'त्यादिग्रन्था अपि सामान्यत एव तन्मध्यपतित-
न्यायबोधिते निर्दिश्यमानत्वबोधनद्वारा एतत्पक्षसाधका एव।
१०
७४ परिभाषेन्दुशेखरः [ १ प्रकरणे-
‘पादः पदि’ति सूत्रे ‘षष्ठी स्थाने’ इति सूत्रे च भाष्ये स्पष्टैषा ॥१२॥
चोक्तन्यायेन तत्सत्तोत्तरसत्ताकस्तन्मध्यपतित एव तद्ग्रहणेन गृह्यते, न तु तदु-
द्देश्यतानिरूपकोऽपि, भाष्योक्तलौकिकव्यवहारे उद्देश्यताया अप्रवेशात् । एवञ्च
अकचो ‘भिन्धकी’त्यत्र हिशब्दसत्तोत्तरं प्रवर्त्तमानत्वेन तन्मध्यपतितत्वेन चोक्तन्यायेन
हकीत्यस्य हिशब्दग्रहणेन ग्रहणे बाधकाभावादुक्तभाष्यस्य निरुक्तार्थे ज्ञापकत्वं
सम्यगेवेति वदन्ति ।
न चैवं ‘चलीक्लृप्यत’ इत्यत्र रीगागमोत्तरं तद्विशिष्टस्य निर्दिश्यमानत्वा-
भावेन ‘कृपो रो ल’ इति लत्वं न स्यादिति चेन्न । रीग्विशिष्टस्य निर्दिश्यमानत्वा-
भावेऽपि तस्य निर्दिश्यमानावयवत्वसत्त्वेनादोषात् । न च ‘