परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 88, कुल 373 में से
संदर्भ में पढ़ें५८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
डागम इत्यर्थे ज्ञाते, नित्येषु शब्देष्वागमविधानानुपपत्त्या अर्थापत्तिमूलक-
वाक्यान्तरकल्पनेन इड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्त्तव्येति । एवञ्चा-
ऽऽदेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः ।
वयवो यस्ये'ति बहुव्रीहिणा आर्धधातुकपदस्य स्थानषष्ठ्यन्ततामाश्रित्य, 'वलादेरार्ध-
धातुकस्य स्थाने इकारादिरादेश' इति 'आद्यन्तौ टकितौ'ति सूत्रस्थभाष्यमेकदेश्यु-
क्तिरेव ; किन्तु नित्येषु शब्देष्वागमविधानान्यथानुपपत्त्या अर्थापत्तिमूलकवाक्यान्तर-
कल्पनयैव इड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्त्तव्येत्यर्थो न तु पूर्वोक्तरीत्या स्थानषष्ठीं
प्रकल्प्येकाराद्यवयवादेशो विधेय इत्यर्थः । इत्संज्ञक-टकयोराद्यन्तसंज्ञायामाट उदा-
त्तत्वानुपपत्तिरूपं दूषणं तु तत्रैव भाष्ये स्पष्टमुक्तमिह विस्तरभयान्नोक्तमिति दिक् ।
केचित्तु-तद्विषयकबुद्धेरेव अनित्यत्वमिति प्रदर्शनाय अर्थापत्तिकल्पितवाक्य-
स्वरूपमाह-अनागमकानामिति । 'अयमर्थ' इत्यस्येदं प्रयोजनमित्यर्थः ; अस्यान्वयश्च 'न
शब्दनित्यताहानि'रित्यत्र बोध्य इति वदन्ति ।
आदेशेष्विवात्रापि बुद्धीति । तथा च कल्पितवाक्येन स्थान्यादेशभावेऽपि बुद्धे-
रेवानित्यत्वं न शब्दानामिति भावः ।
एकदेश्युक्तिरेवेति । 'आद्यन्तौ टकितौ' इत्यत्र पक्षद्वयं प्रतिपादितं भगवता-एकः परि-
भाषारूपोऽपरः संज्ञारूपश्च । एवं 'मिदचोऽन्त्यात् परः' इत्यत्रापि, तुल्यन्यायात् । तत्र संज्ञापक्षे
'लुङ्लङ्लृक्ष्वडुदात्तः' इत्यत्र 'अः, टः आद्यवयवो यस्ये'ति बहुव्रीहौ 'अङ्गस्य स्थाने अडाद्यव-
यवतानिरूपकोऽन्तरतमादेशो भवती'त्यर्थेन 'अभवत्' इत्यत्र 'भव' इत्यस्य स्थाने 'अभव' इत्या-
देशविशिष्टे एव उदात्तता स्यात् इत्यापाद्य, 'अः टः उदात्तो यस्ये'ति त्रिपदबहुव्रीहिं कृत्वा
उदात्ताभिन्नाकारादेरेव विधानेन परिहृतम् । अग्रे च त्रिपदसमासाविषये 'आडजादीनाम्' इत्यत्र
समुदायस्योदात्ततापत्तिमाशङ्क्य, तत्र 'अटासिद्धमि'ति तत्प्रत्याख्यानेन उत्तरितम् । एवं
मिदागमविषये त्रिपदसमासाविषये 'अम् सम्बुद्धौ' इत्यत्रापि शङ्का-समाधाने कर्तव्ये, तदकरणेन
तस्य एकदेश्युक्तित्वं स्पष्टमिति भावः ।
न च 'अनड्वन्' इत्यत्र विशिष्टे उदात्तत्ववारणाय 'चतुरनडुहोरामुदात्तः' इत्यत्र 'अम्
सम्बुद्धौ' इत्यत्र 'चतुरनडुहोर्वोदात्त' इति 'वः सम्बुद्धावि'ति च न्यासाम्यां चतुरनडुह सम्बुद्धचु-
कारस्य वा आदेशविधानेन सम्बुद्धौ च वा आदेशविधानेन नानुपपत्तिरिति वाच्यम् ; अनडुह् शब्दात्
णिचि क्विपि टिलोपे अनडूहशब्दस्य सौ, एकदेशविकृतन्यायेनेष्ट आम् न स्यात्, चतुरनडुह सम्बन्ध्यु-
काराभावात् । किञ्च-'आद्यन्तावि'त्यस्य संज्ञासूत्रत्वं प्रकल्प्य, इडादिविधौ संज्ञाप्रदेशे
पदद्वयं प्रकल्प्य, बहुव्रीहिणा साधनेनातिगौरवम् । 'आद्यन्तावि'त्यस्य परिभाषात्वे 'आर्धधातुकस्य'
इत्यनेन विहितेटः आगमत्वे क्लृप्ते “तिप्तस्झि०' इत्यनेनेन विहितेटः पूर्वोत्तरसाहचर्येणादेशत्वं
सिद्ध्यति, न त्वागमत्वम् । संज्ञासूत्रत्वे तु आर्धधातुकस्येत्यत्राप्यादेशस्यैव सत्त्वेन तिबादिविधायके
संज्ञात्वापत्तावनिष्टापत्तिः स्यात् । मूलोक्ताऽपिबदि'ति भाष्यासङ्गतिश्चेति परिभाषापक्ष एव
वरीयानिति दिक् ।