परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 95, कुल 373 में से
संदर्भ में पढ़ें१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६५
इत्यत्रोक्तदिशा विशिष्टसमासनिमित्तक-ल्यपः 'स्नात्वा कालक' इत्येतत्समासनिबन्धन-
ल्यबभावनियामकनिपातनेन वारणासम्भवात् । न चोक्तरूपस्यैवासम्भवः, 'मयूर-
व्यंसकादयश्चे'ति चकारेणैषां समासान्तरेऽप्रवेशात्, अत एव 'परमो मयूरव्यंसक'
इति वाक्यमेवेति वाच्यम् ; चकारबोधितस्यार्थस्य अनित्यत्वेन उक्तसमासे बाधका-
भावात् । अत एव 'प्रत्ययमात्रग्रहणे', 'चक्षुर्मात्रग्राह्य' इत्यादिप्रयोगोपपत्तिरिति
चेन्न । 'समासेऽनञ्पूर्वे' इत्यस्य 'क्त्वान्त-समासावयव-निर्दिश्यमानस्ये'त्यर्थेन पूर्वं-
क्त्वाशब्दस्य शाब्दबोधीयविषयताश्रयत्वाभावेन निर्दिश्यमानत्वाभावात्तदप्राप्तेः
सुवचत्वात् । 'समास' इति सूत्रजन्यबोधे पूर्वंक्त्वाशब्दस्य कथमप्यभानेन तत्र शाब्दीय-
विषयतायाः कल्पयितुमशक्यत्वात् 'अनञ्समास' इति पर्युदासबलेन अव्ययपूर्वपदके एव
तत्प्रवृत्तेर्निपातनेन कल्पनाच्च । न च 'अपिबदि'त्यत्र आगमविशिष्टस्यैव वाऽर्थवत्त्वेन
तेन सङ्कुचितायाः पात्वावच्छिन्नविषयताया आगमरहिते पाशब्दे अभावेन तस्य
पिबादेशानापत्तिः, अपाशब्दस्य तदापत्तिश्चेति वाच्यम् ; 'स्वावयवमात्रघटितत्व-
सम्बन्धेन स्वविशिष्टे तत्तच्छब्दानां लक्षणे'त्यर्थस्य यदागमन्यायेन बोधनादट्-
पाशब्दत्वावच्छिन्नविषयताया अपाशब्दे सत्त्वेऽपि निरुक्तसम्बन्धावच्छिन्न-पात्वाव-
च्छिन्नविषयतायाः केवलपाशब्दे सत्त्वेन तस्य निर्दिश्यमानत्वे बाधकाभावात्,
अपाशब्दस्य तादृशविषयताश्रय-पाशब्दघटितत्वेन निर्दिश्यमानत्वाभावेन दोषा-
भावाच्च । न चैवं सम्बन्धघटकावयवपदप्रयोज्यविषयतायाः पाऽवयवपकारादौ सत्त्वेन
तदाश्रयघटितत्वात् पाशब्दस्य निर्दिश्यमानत्वानापत्तिरिति वाच्यम् ; विषयता-
पदेनात्र सांसर्गिकविषयताभिन्नाया ग्रहणादुक्तपकारादिनिष्ठविषयताया अतथात्वात्
पाशब्दे उक्तनिर्दिश्यमानत्वस्य सुवचत्वात् ।
केचित्तु-'निर्दिश्यमान'परिभाषायां शाब्दीयविषयताऽर्थवत्त्वेनासङ्कुचिता गृह्यते ;
अत एव लावस्थायामडिति पक्षेण न फलभेदः । तथा चात्र न दोष इत्याहुः ।
उक्तदिशेति । 'प्रवाहणस्यापत्यं प्रावाहणेयः' 'शुभ्रादिभ्यश्च' इति ढक्, 'प्रवाहणस्य ढे'
इति पूर्वपदस्य वा वृद्धिः, तदन्तादपत्यमित्यर्थे अत इञ् 'प्रावाहणिः' । अयम्भावः-यथा
तत्र 'प्रवाहणस्य ढे' इत्यस्य 'येन नाप्राप्त०' इति न्यायेन ढप्रत्ययनिमित्तकवृद्धेरेव बाधकत्वं तथा-
ऽत्रापि 'स्नात्वा कालक'-पर्याप्तसमासप्रयुक्तल्यप एव निपातनेन बाधकत्वं कल्पनीयमिति ।
समास इति । विभिन्नविभक्तिकत्वेन तदन्तविध्यभावेऽपि पक्षान्तरेण परिहारोपाय-
माह-अनञ्पूर्वं इति ।
अर्थवत्त्वेनासङ्कुचिता गृह्यत इति । अर्थवत्त्वेनानवच्छिन्नेति तदर्थः । अयम्भावः-
यदागमपरिभाषा हि शक्तिग्राहिका लक्षणाग्राहिका चेत्यस्ति मतद्वयम् । आद्ये अर्थवत्त्वानव-
च्छिन्नायाः पात्वावच्छिन्नशाब्दबोधीयविषयताया अप्रसिद्धत्वेऽपि, अन्त्ये स्वावयवमात्रघटितत्व-
सम्बन्धावच्छिन्नाया पात्वावच्छिन्नविषयताया शाब्दबोधीयाया अर्थवत्त्वानवच्छिन्नतया प्रसिद्ध-
त्वात्, तेन सम्बन्धेन पाशब्दविशिष्टे एवार्थवतोऽन्वयात् । एवञ्च 'अपा' इति समुदाये अर्थ-
वत्त्वानवच्छिन्नशाब्दबोधीयविषयताया अभावेन निर्दिश्यमानत्वाभावस्योपपत्तौ 'शाब्दबोधीय-
विषयताश्रयाघटितत्वमि'ति लक्षणे न निवेशनीयमिति ।
९