सामग्री पर जाएँ
सर्वकोश
पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

Panchasayaka of Kavishekhara Jyotirishvara with Commentary

कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा

DevanagariSanskritpublished109 पृष्ठ

पृष्ठ 81, कुल 109 में से

संदर्भ में पढ़ें
पृष्ठ 81

५२ पञ्चसायके
समारधं गव्यघृतेन पिष्टम् ।
सप्ताहमात्रेण शिरः प्रलेपात्
भवन्ति दीर्घाः प्रचुराश्चकेशाः ॥४॥
अथ निम्बस्य तैलं निरूपयति—
“कर्पार्द्धमात्रं प्रसवं फलेन
निम्बस्य तैलं नियमेन पीतम् ।
क्रमेण कुन्देन्दु-तुषारगौरं
शिरोरुहं मेचकतामुपैति ॥५॥
इति केशसंस्कारसमुद्देशः ।
(३५) अथ इन्द्रलुप्तसमुद्देशः—
अथ गुञ्जाफलप्रयोगमाह—
गुञ्जाफलैः क्षौद्रयुतं विलिप्य
केशप्रदेशं सकलेन्द्रलुप्तम् ।
अनेन योगेन मदैव केशाः
रोहन्ति कृष्णाः कुटिला विशालाः ॥६॥
इति इन्द्रलुप्तसमुद्देशः ।
इति पञ्चसायके तृतीय सायकः
(१) “केशप्रदेशे सकलेन्द्रलुप्तं” इति पाठान्तरम् ॥
(२) वपुस्तत्वे सगुणरसं+चात्र चतुर्थः सायक समाप्यते ।