सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 575, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 575

पक्षयोरन्यतरः स्यान्न हवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव, पक्षो
ऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते किन्त्वन्यतरत्वादि-
तीत्थं च हेतुकरणे नैष दोष इति ।
सत्प्रतिपक्षस्योदाहरणान्तरम् ।
अपरमुदाहरणं सन्त्सर्वज्ञ इतरद्विपरीतविनिर्मुक्तत्वाद् घटवद् असन्त्स-
र्वज्ञ इतरद्विपरीतविनिर्मुक्तत्वात्खरविषाणवदित्यत्राप्याक्षेपप्रतिसमाधानप्रकारः
पूर्ववदनुसरणीयो धर्म्यसिद्धता च यत्नतः परिचिन्तनीया ।
सत्प्रतिपक्षोदाहरणान्तरदूषणम् ।
एवं जातीयकं तूदाहरणं नानुमोदन्ते मतिमन्तः यत्र हि हेतुना स्वय-
मर्थं सम्यगसम्यग्वा ऽनुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुञ्जीत स
प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतुर्भवति हेत्वाभासीभवति वा तथा आ-
रोहपरिणाहवति पुरो ऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य
पुरुष इति भवति प्रतीतिरिरतरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भ-
वति मतिः , एवं यदा ऽसावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हे-
तुत्वेन ब्रूयादितरो ऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन्प्रत्यवतिष्ठते तदा
स्वप्रतीत्यनुसारणपुरःसरसाधनाभिधानाद् भ्रान्तिसंभवाच्च युक्तं तथाविधोदाहर-
णकीर्त्तनम् , एवं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत् अनित्यः शब्दो नि-
त्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् , यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्रावल-
म्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्‍यासेन, एतेन सद्वितीयप्रयोगा अपि
प्रत्युक्ताः , यथा क चित्साधनप्रयोगे कृते सति तत्रैव परः प्रत्यवतिष्ठते यथा
प्रस्तुतसाध्यधर्माधिकरणात्वशून्यधर्मिघटान्यतरसद्वितीयो घटः अनुत्पन्न-
त्वात्कुड्यवदिति , यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यो यः प्रकृतो
धर्मो घटश्च तयोरन्यतरेण न सद्वितीयो ऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्न-
त्वं तस्य कुड्यादौ व्याप्तिरिति , सत्यं वदत यद्यस्ति लोके कचिदीदृशः प्रती-
तिक्रमः घटश्च धर्मो धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सा-
मान्यवचनो ऽपि धर्मिणि व्याख्येयो न हि घट एव घटेन सद्वितीयो भवितुम-
र्हतीत्यलमलीककल्पनाकौशलप्रख्यापनेन ।
सम्यग्वा यदि वा ऽन्यथा विदधते ये हेतवः संविदं
दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये ।
ये तु स्वप्रतिपत्तिमेव न तथा कर्तुं क्षमाः कल्पना-
सामर्थ्यस्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥
ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुञ्जते।
२१