सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७
प्रकाशः ।
देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः
स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न-
स्याद्, घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य-
स्यार्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न
प्रकाशिका ।
यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष-
विषय इत्यर्थः। घटो यदिीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः
तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो स्यादित्यापादकार्थः। घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः ।
अत्र च घटाव्यवहितकालानधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य-
वहितकालानधिकरणत्वं पदार्थविशेषणम्, आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि-
द्धिः। नचाव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिभयेनानन्यथासिद्धेःप-
दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा-
सभादिवारकान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि
विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा
नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालत्वनियते व्यभिचाराच्च ।
विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का-
लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध-
पदेनैव तद्वारगं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेश-
वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले-
स्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न
स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय
पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् ।
अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोत्पत्तिकः। आपादके चोत्पत्तिपदमखण्डाभा-
वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व-
कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाय
उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य-
मकरन्दः ।
यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटो यदीति । घटव्यवहितकालाऽ
नधिकरणत्वं घटाव्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदा दायापादका-
सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध-
त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोपतादवस्थ्यापत्तेः तस्मा-
दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्ध्येदिति
व्याप्यत्वपर्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् ।
अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि
तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक-
रणकालवृत्तित्वमापाद्यम् । अन्येति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-

४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
प्रकाशः।
स्यात्। यद्वा, सकलकालावृत्तिरयं घटो यदि निरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्का-
लवृत्तिर्न स्यात् । तेन पक्षविशेषणमहिम्नाऽलीकत्वं सिद्ध्यति । यद्वा, एतावतकालपूर्वापरकाला-
वृत्तिर्घटो यद्येतावत्कालपूर्वकालवृत्तित्वे सति एतत्कालाव्यवहितपूर्वकालवृत्तिपदार्थाधिकरणक्षणोत्तर-
प्रकाशिका।
त्वेनाप्युपपत्तेरन्यथा व्याख्या । तथाहि सर्वत्रोत्पत्तिपदं सत्तामात्रपरं नञ्व्यत्यास आपादके तेन
पूर्वापरकालसत्तारहितोऽयं यद्येतदव्यवहितपूर्वकालोत्पत्तिसापेक्षसत्ताको न स्यादेतावत्कालसत्ताको न
स्यात् पूर्वापरोत्पन्नपदाकाशादिवद्वेति दिक् । सकलकालेति । इदं च पक्षविशेषणं नित्यत्वेन इष्टाप-
त्तिवारणाय, अतएवोक्तं पक्षविशेषणमहिम्नेति । अलीकत्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः
किञ्चित्कालेति । किञ्चित्कालावृत्तित्वसमानाधिकरणकिञ्चित्कालवृत्तित्वस्याभाव आपाद्यः, अत्र विशेष्य-
मात्रे अभावप्रतियोगिनि सति परमाण्वादौ व्यभिचार इति विशेषणमुक्तं प्रतियोगिनि, तस्य च प्राक्का-
लावृत्तित्वेसतीत्यर्थोऽतो न प्रागभावे व्यभिचारः, विशेषणमात्रभावे आपाद्ये यद्यपि न व्यभिचारः,
तथाप्यखण्डाभावतया न व्यर्थता । केचित्तु आकाशस्यावृत्तिकतया विशेषणाभावमात्रोपादाने तत्रैव
व्यभिचार इति विशेष्यपदमित्याहुः । तन्न । वृत्तिपदमात्रोपादानेनैव तन्निरासे किञ्चित्कालपदवैय-
र्थ्यात्, किञ्चित्पदद्वयञ्च विरोधभञ्जनाय । तेनेति । विशिष्टाभावः प्रकृते सकलकालवृत्तितया कालावृत्ति-
तया च, तत्राद्यस्य पक्षविशेषणमहिम्ना बाधात् द्वितीयमादाय पर्यवसानं तच्चानिष्टमिति सापेक्ष-
त्वसिद्धिरिति भावः । एतावदिति पूर्वापरकालवृत्तिपदार्थांशे इष्टापत्तिवारणाय पक्षविशेषणबलेना-
लीकत्वासिद्ध्ये च पक्षविशेषणं, अलीकत्वेनेष्टापत्तिवारणाय घट इति विशेषणं प्रामाणिक इत्यर्थः ।
एतावत्कालवृत्तौ पूर्वोत्पन्ने व्यभिचार इति सत्यन्तम् । तत्रापि एतावदिति कालविशेषणमप्रसिद्धि-
वारणाय, सत्यन्तमात्रं च घटसमानकालोत्पन्नपदार्थे व्यभिचारीति एतत्कालेत्यादि, तत्राप्येतत्पदं
प्रतियोग्युपस्थापकतया पूर्वत्वनिरूपकपरमित्यप्रसिद्धिवारणाय । अव्यवहितपदं च दृष्टान्तलाभाय
तदनुपादाने नित्य आपाद्याभावात् पूर्वकालोत्पन्ने च सत्यन्ताभावान्नूत्तरकालोत्पन्ने च पूर्वकालीन-
दिगादिजन्यत्वात्तदलाभः । तदुपादाने च व्यवहितपूर्वकालतया दिगादेरुत्तरकालोत्पन्न एव दृष्टान्तः ।
न च दिगादेरव्यवहितपूर्वकालेऽपि सत्त्वादव्यवहितपदोपादानेऽपि तद्दोपतादवस्थ्यमिति वाच्यम् ।
नञ्व्यत्यासेन व्यवहितकालावृत्तित्वस्य पदार्थविशेषणत्वलाभादिति वदन्ति । तदयुक्तम् । एवमपि
मकरन्दः।
रकालोत्पत्तिको दृष्टान्तः । सकलेति । एतच्च पक्षविशेषणं नित्यत्वेनेष्टापत्तिवारणाय । अलीक-
त्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः ।
किञ्चित्कालवृत्तिर्न स्यादित्येव कृते व्योमादौ व्यभिचार इत्यत आह । किञ्चिदिति । प्राक्का-
लावृत्तित्वे सतीत्यर्थः । तेन न प्रागभावे व्यभिचारः । यद्यपि सत्यन्तमेव समर्थमिति व्यर्थविशे-
ष्यत्वं, तथाऽप्यखण्डाभाव आपाद्य इति ध्येयम् । तेनेति । विशिष्टाभाव उभयथा सकलकाल-
वृत्तितया सकलकालावृत्तितया च । तच्चाद्यस्य पक्षविशेषणमहिम्नाऽभावे द्वितीयस्य पर्यवसानम् ।
तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः ।
एतावदिति । पूर्वापरकालमात्रवृत्तिघटांशे सिद्धसाधनवारणाय पक्षविशेषणम् । एतावतका-
लवृत्तौ पूर्वकालोत्पन्ने व्यभिचारादाह, सत्यन्तम् । एतावत्पदं कालविशेषणमात्रासिद्धिबारकम् ।
एतत्कालीनोत्पन्ने घटादौ सत्यन्तमात्रं व्यभिचारीत्यत आह । एतत्कालाव्यवहितेत्यादि ।
ननूत्तरकालोत्पत्तिक एव दृष्टान्तः, अन्यत्रापादकवैकल्यात् । तत्र चैतत्पूर्वकालवृत्तिनित्यदिगादिसा-
पेक्षत्वादापादकवैकल्यमित्यत आह । अव्यवहितेति । नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका-

प्रथमस्तबके ] आकस्मिकतावादखण्डनम् । ४६
अकस्मादेव भवतीति चेन्न—
हेतुभूतिनिषेधो न स्वानुपारूयविधिर्न च ।
बोधनी ।
कादाचित्कत्वहेतोरन्यथासिद्धिं शङ्कते - अकस्मादिति ।
तदेतद् यथासम्भवं विकल्प्य निराकरोति - हेतुभूति-इति । अकस्माद् भवतीत्यत्र
प्रकाशः ।
त्वव्याप्यकालो न स्यादेतावत्कालवृत्तिर्न स्यादिति, न स्यादेवेत्यस्यार्थः । अत एव कालान्तरावृत्ति
त्वे सत्येतत्कालवृत्तिः स्यादिति कादाचित्कत्वाभावापादनमपीति सम्प्रदायविदः ॥ ४ ॥
कार्यकारणभावग्राहकमने, कादाचित्कभावो निर्हेतुको भावत्वाद् व्योमवदिति सत्प्रतिपक्षं
शङ्कते । अकस्मादिति । अत्र किंशब्दो यदा हेतुमात्रपरस्तदा तस्य नञा सम्बन्धाद्धेत्वभावे
भवनं लभ्यते । यदा तु भवनक्रियया नञः सम्बन्धस्तदा प्रसज्यप्रतिषेधे भवननिषेधोऽर्थः,
किंशब्द-समस्यमानेनापि नञा भवतीत्यस्यान्वयात् । असमर्थेऽप्यसूर्यंम्पश्या राजदारा इति-
वत् समासः । अ-शब्दस्यैव वाऽयं समासं विना प्रयोगः । अ मानो ना प्रतिषेधवचना
इति कोपात् ।
प्रकाशिका ।
चरमकारणमादायोत्तरकालोत्पन्न आपादकाभावात् । अत्र ब्रूमः । आपादके पूर्वकालवृत्तिपदं पूर्व-
कालोत्पन्नपरम् , अतो न नित्यमादाय दृष्टान्तासिद्धिः, नचैवमपि तादृशादृष्टाजन्यतया उत्तरकाली-
नस्यादृष्टान्तता, उत्तरकालोत्पन्नादृष्टजन्यस्यैव दृष्टान्तत्वात् । एवं चाव्यवहितपदं विपर्ययेऽन्यवधां-
नघटितकारणतासिद्धये, अव्यवहितपदेनैव वा तादृशादृष्टवारणं यदव्यवहितपूर्वकालोत्पन्नादृष्टेनोत्तर-
कार्यजननं तत्कालस्यैवैतत्कालपदेनोक्तत्वात् । व्याप्यत्वं पूर्वत्वं च विपर्यये पूर्वत्वनियमरूपकारण-
तालाभाय, एवं च तदर्थमेवानन्यथासिद्धत्वमपि पदार्थविशेषणं प्रवेक्ष्यमिति दिक् । ननु यदिनिरपेक्षः
स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तिर्न स्यादित्येव कादाचित्कत्वाभावापादनं तच्च न स्यादे-
वेत्येतदर्थत्वेनैव व्याख्यातमिति, मूले न तु कदाचित् स्यादिति पुनरुक्तमत आह । अत एवेति ।
पौनरुक्त्यभयादेव कादाचित्कत्वाभावापादनमन्यथा वर्णयन्तीत्यर्थः । सम्प्रदायविद् इत्यरुचौ,
तद्बीजन्तु किञ्चित्कालावृत्तित्वे सतीत्यादेरापादनस्य पक्षविशेषणमहिम्ना अलीकत्वे पर्यवसानम् ,
मकरन्दः ।
लावृत्तीत्यर्थः । नित्यन्तु व्यवहितेऽपि वर्त्तते इत्यदोष इति वदन्ति । तन्तुच्छम् । उत्तरकालोत्प-
न्नचरमकारणमादाय दोषतादवस्थ्यापत्तेः । वयन्तु, पूर्वकालवृत्तिपदं पूर्वकालोत्पत्तिकपरमिति
न नित्यमादाय दृष्टान्तासिद्धिः । न च तादृशादृष्टादिसापेक्षत्वादोषतादवस्थ्यम् । उत्तरकालोत्पन्ना-
दृष्टसापेक्षस्य दृष्टान्तत्वे तथाप्यविरोधात् । अव्यवहितपदेनैव तद्वारणाद्वा । यदव्यवहितपूर्वकालो-
त्पत्तिकादृष्टेन नोत्तरकालीनकार्योत्पादनम् , एतत्कालपदेन तस्यैव कालस्य विवक्षितत्वात् । प्रथ-
मकल्पेऽव्यवहितपदं स्फुटार्थमिति युक्तमुत्पश्यामः । व्याप्यत्वं पूर्वत्वञ्च विपर्यये नियमादिगर्भका-
रणत्वलाभाय । एवञ्चानन्यथासिद्धत्वमपि पदार्थे विशेषणमित्याहुः ।
अत एवेति । यत एव किञ्चित्कालावृत्तित्वे सतीत्यादौ न स्यादेवेत्यस्यैव कादाचित्कत्वाभाव-
पदेन पर्य्यवसानम् अत एव मूले कदाचित् स्यादिति मूलोक्तकादाचित्कत्वाभावापादनं साम्प्र-
दायिका अन्यादृशमाहुः । अन्यथा पौनरुक्त्यापत्तेरित्यर्थः । तत्र पक्षविशेषणमहिम्नाऽलीकत्व-
सिद्धिरित्येव भेदो नोक्तदोष इत्यस्वरसोद्भावनं सम्प्रदायपदेनेतीति वदन्ति । केचित्तु सम्प्रदायविद इति
प्रकरणान्वयीत्याहुः ॥ ४ ॥
७ न्या० कु०

५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकायां
स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥
बोधनी ।
नामयोगिनोऽपि नञः प्रतिषेधार्थत्वमाश्रित्य यदा कस्मादिति निर्दिष्टहेतुसम्बन्धो विवक्ष्यते तदा
हेतुनिषेधः स्यात् । यदा तु समासान्निष्कृष्य भवनसम्बन्धस्तदा भूतिनिषेधः । यदि पुनः स्वर-
सप्राप्तो हेतुसम्बन्धः पर्युदासवृत्तिश्चाऽऽश्रीयते तदा तदितरविधिपरत्वाद्धेतुतोऽन्यस्मात् स्वस्माद्-
नुपाख्याच्च भवतीति स्यात् । अथवा, यदा हेतुविशिष्टभवनसम्बन्धो विवक्षितो न हेतोर्भव-
तीति तदा विशेषनिषेधस्य शेषविधिपरत्वादहेतुतो भवतीति स्यात् , अहेतुश्च स्वयमनुपाख्य-
श्चेति, तयोरेव विधिः प्राप्नोति । यदा त्वश्वकर्णादिवद् व्युत्पत्त्यनपेक्षं, तदा स्वभावत एव
भवतीति स्यात् । न चावश्यमत्र सर्वत्र ग्रन्थसंघटनायां यतितव्यं, तात्पर्यमात्रविकल्पनात् ।
पञ्चानामपि कल्पानां निराकरणहेतुरवधेर्नियतत्वत इति । अवधेः = कार्यपूर्वक्षणवर्तिनः
कस्यचिदन्यस्य नियतत्वात् = किञ्चिदेकमवधीकृत्य दर्शनादित्यर्थः । यद्वा, अवधिः प्रागस-
दुत्तरकालसम्बन्धस्तस्य, नियतत्वतः = नियतकालत्वात् कादाचित्कत्वादिति यावत् । यद्वा,
अनन्तरोक्तस्यावधेः सहेतुकोत्पत्तिनियतत्वादिति ।
प्रकाशः ।
तदुभयं निरस्यति । हेतुभूतीति । अथ हेतुभवनयोर्निषेधस्य शेषाभ्यनुज्ञाफलकत्वात्
पर्युदासनञा हेतुव्यतिरिक्ताद्भवनं लभ्यते, अहेतुश्च कार्यस्वरूपमवस्तु च तदा स्वानुपाख्य-
विधिः, तं निषेधति । स्वानुपाख्येति । स्वं=कार्यम् , अनुपाख्यो=निर्धर्म्मकोऽलीकः ।
अथाश्वकर्णादिवदव्युत्पन्न एवायमकस्माच्छब्दः, किंवा शब्दोऽस्वभावपरो वा तदा स्वभावादेव
कार्य्यस्य कादाचित्कत्वमित्यर्थः, तत्राह । स्वभावेति । सर्वत्र हेतुमाह । अवधेरिति । निय-
तावधिसम्बन्धित्वेनैव विवादपदस्य कादाचित्कस्य कार्यस्य सतर्केण प्रत्यक्षेण विषयीक्रियमाणत्वा-
प्रकाशिका ।
कादाचित्कत्वाभावापादने तु न तत्पर्यवसानं तादृशपक्षविशेपणाभावादिति यथाश्रुत एव न पौन-
रुक्त्याशङ्केति । केचित्तु यत एव स्यादेवेत्यापादनमेव कादाचित्कत्वाभावापादनं अत एव तदर्थतयैव
कादाचित्कत्वाभावापादनमपि व्याख्यातम् । मूलेऽपि कादाचित्कत्वाभावापादनं न स्वतन्त्रमपि तु
पूर्वोक्तं स्यादेवेत्यापादने पक्षधर्मतावल्लभ्यानिष्टोप्रदर्शनपरमिति व्याचक्षते । सम्प्रदायविद इति च
तन्मते प्रकरणान्वयि ॥४॥ हेतुभवनयोरिति । यद्यपि हेतुप्रसक्तभवनस्य विशिष्टस्यैकस्यैव निषेधाद्
द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्ये-
तावता तदुपपत्तिः । अहेतुश्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधे भवनमुत्पत्तिरूपमसम्भवी-
मकरन्दः ।
हेतुभवनयोरिति । यद्यपि हेतोर्यद्भवनं तस्यैव विशिष्टस्यैकस्य निषेधात् तल्लभ्यत इति
द्विवचनमयुक्तम् । तथापि विशिष्टमपि तदुभयात्मकमेवेति तथोक्तमिति ध्येयम् । अहेतु-
टिप्पणी ।
अङ्गाङ्गिभावस्य शब्दार्थत्वेन स्वतन्त्रापादने तद्विरोध इत्यर्थः ॥४॥ हेतुभवनयोरिति । यद्यपि
हेतुप्रसक्तभवनस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि
लभ्यते भवनं विना हेतोरनुपपत्तेरित्येतावता तदुपपत्तिः । अस्वभावेति । तस्य नञा सम्बन्ध

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५१
हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनम्, अविशेषात् । भवनप्रतिषेधे
प्रागिव पश्चादप्यभवनम्, अविशेषात् । उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभु-
त्वेन स्वस्मादिति पक्षानुपपत्तेः । पौर्वापर्य्यनियमश्च कार्यकारणभावः । न
बोधनी ।
तदेतदनिष्टप्रसङ्गप्रदर्शनमुखेन विवृणोति—हेतुप्रतिषेध इति । सर्वदा भवनम्=सत्त्वम् ।
स्यादिति शेषः । विपर्ययस्तु दृश्यत इति भावः । एतेनैतन्निरस्तं यदाहुः—
कार्यत्वं कारणत्वं च सम्बन्धः सोऽसतां कुतः ।
सच्चैत् कारणवैयर्थ्यमसच्चेन्न चरिस्थितिः ॥ १॥
तथा—कुर्वत् कार्यमकुर्वद्वा कारणं कारणं भवेत् ।
कुर्वच्चेदनवस्थानमकुर्वत्यनवस्थितिः ॥ इति ।
पश्चादप्यभवनम्=असत्त्वम् । स्यादिति शेषः । अभवनाविशेषादुत्पत्त्यभावस्य पूर्वापर-
कालयोरविशेषादिति । एतेनैतन्निरस्तं यदाहुः—
न चेदुत्पत्तिरुत्पत्तेर्नित्यत्वमनवस्थितिः ।
उत्पत्ताचित्यतः कार्यं कारणं चानिरूपितम् ॥
उत्पत्तेरिति । न ह्यसतः प्रभुत्वं, नापि स्वस्य प्रभुत्वमिति । नन्वेकस्यैव कार्यकारण-
भावे को दोषस्तत्राह—पौर्वापर्य्य-इति । चो हेत्वर्थः । यस्मात् पौर्वापर्य्यनियमतः कार्यकारण-
प्रकाशः ।
दित्यर्थः । क्रमेण तर्कमेवाह । हेत्विति । भवनस्य सत्त्वस्याविशेषात् सदातनत्वे कार्य्यस्य कादा-
चित्कत्वव्याघात इत्यर्थः । भवनेति । भवनस्योत्पत्तेः सदा प्रतिषेधे प्राक् पश्चादिव मध्येऽप्यभ-
वनप्रसङ्गात् कदाचिद्द्भवनग्राहिप्रत्यक्षबाध इत्यर्थः । उत्पत्तेरिति । स्वोत्पत्तेः पूर्वं यदि स्वं भवेत्
तदा नियतकालोत्पत्तौ हेतुः स्यात् । न चैवम् । असतोऽपि हेतुत्वे प्राक् पश्चादपि कार्य्यसत्त्वप्र-
सङ्गेन तदनुपलब्धिविरोध इत्यर्थः । कार्यकारणयोरभेदे विरोधान्तरमाह । पौर्वापर्य्यमिति । पटा-
प्रकाशिका ।
ख्यात आह । सत्त्वस्येति । पश्चादप्यभवनमित्यत्रेष्टापत्तिः, घटोत्पत्तिकालस्यैव पूर्वतानिरूपक-
त्वेनोपस्थित्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदा चाभवनस्यानुत्पत्तेः सत्त्वादित्यन्यथा व्या-
मकरन्दः ।
श्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधभवनमुत्पत्तिरूपमसम्भवत्यत आह । सत्त्वस्येति ।
अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशतद्वृ-
टिप्पणी ।
इति शेषः । भवनस्य सत्त्वस्याविशेषादिति । हेतुं विना उत्पत्तेरसम्भवाद् भवनस्य
सत्त्वमर्थः । सदा प्रतिषेधे प्राक्पश्चाद्विवेति । घटोत्पत्तिकालस्यैव पूर्वतानिरूपकत्वेनोपस्थि-
त्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदाऽभवनस्य सत्त्वादिष्टापत्तेरतः प्रागित्यादिमूलमन्यथा
व्याचष्टे प्रागिति । स्वोत्पत्तेः पूर्वमिति । नियमानन्यथासिद्धत्वे आपादकविशेषणे तेनापाद्या-
पादकव्याप्तेर्न भङ्गः । न चैवमिति । अत्र व्यभिचारशङ्कानिवर्त्तकतर्कमाह । असतोऽपी-
ति । प्रागसतोऽपीत्यर्थः । तेन नालीकविधिपर्यवसानम्, तदाकारञ्च कार्यं यद्यविद्यमानप्राग्-
हेतुकं स्यान्नियतकालोत्पत्तिकं न स्यादपि तु सदातनमेव स्यात् । अयमापादकः पराभ्युपगत
एव । अथवा हेतुत्वं यदि प्रागविद्यमानावृत्ति स्यान्नियतकालोत्पत्तिनियामकताप्रयोजकं न
स्यादिति । पटार्थिनः=पटनिर्म्माणेच्छावन्तः । तेन पटेच्छाभिः पट उपादीयमानेऽपि न

५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां

चैकं पूर्वमपरञ्च, तत्त्वस्य भेदाऽधिष्ठानत्वात् । अनुपाख्यस्य हेतुत्वे प्रागपि स-
त्त्वप्रसक्तौ पुनः सदातनत्वोपत्तेः ।
स्यादेतत् । नाऽकस्मादिति कारणनिषेधमात्रं वा, भवनप्रतिषेधो वा, स्वात्महे-

बोधनी ।
भावस्तस्मादिति । अथवैतच्च न स्वस्मादुत्पत्तिरित्याह—पौर्वापर्य्य-इति । तत्त्वस्य पूर्वा-
परभावस्येत्यर्थः ।
निराकृतात् पक्षचतुष्टयाद् विविञ्चानः पञ्चमं पक्षं स्वभाववादपक्षमाशङ्कते—स्यादेत-
दिति । यथा घटादेश्विशेषसंसर्गासंसर्गनियमः, यथा वाकाशपरमाण्वादेरशेषदेशव्यापित्वान्व्या-
पित्वनियमः, यथा वानेककारकसाध्यस्यापि कार्य्यस्य कस्मिंश्चिदेव कारके समवायो न कारकान्त-

प्रकाशः ।
र्थिनः पटमेव नोपाददते किन्तु तत्पूर्वकालवर्त्तिनस्तन्तूनीति लोकव्यवहारसिद्धकार्य्यकारणभाव-
विरोध इत्यर्थः । तत्त्वस्य = पौर्वापर्य्यस्येत्यर्थः । अनुपाख्यस्यार्थक्रियाजनकत्वाभावेऽप्यनिष्टप्रसङ्गा-
न्तरमाह । अनुपाख्यस्येति । एतत्पटानुत्पत्तिकक्षणे यद्येतत्पटोत्पादकानुपाख्योत्तरक्षणः स्याद्
एतत्पटाधिकरणं स्यादित्यर्थः । यद्यपि स्वभावः कार्य्यं तद्धर्म्मो वा, आद्यः अकस्मादिति निरासे-
नैव निरस्तः, अन्त्ये धर्मस्य कारणत्वमङ्गीकृतमेव । तथापि यथा परमाणुत्तपरिमाणयोरकारण
कत्वेऽपि स्वभावादेव नियतदेशवृत्तित्वं, यथा वा कारणत्वाविशेषेऽपि पटस्य तन्तुदेशवृत्तित्वं न तु
वेमादिदेशवृत्तित्वमिति स्वभावादेव नियमः, तथा कार्य्यस्याहेतुकत्वेऽपि तत्तत्कारणत्वाभिमतनि-
यतोत्तरकालवृत्तित्वं न तु कालान्तरवृत्तित्वमिति स्वभावादेव कादाचित्कत्वं स्यादिति शङ्कते ।

प्रकाशिका ।
चष्टे प्राक् पश्चादिव मध्येऽपीति । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयो-
त्कीर्त्तनम्, व्याप्तिस्त्वनुपाख्यत्वविशेषणं विहायैव वेतव्येत्यवधेयम्। अकारणकत्वेऽपि=अकारणकत्वावि-
शेषेऽपि । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वं चेत्यर्थः । तेन परमाणुत्तपरिमाणयोर्यथासं-

मकरन्दः ।
त्त्वमित्यर्थः । परमाणोर्द्देशत्वमपरस्य तद्वृत्तित्वमिति स्वभावादेव यथा यथा नियम इति
भावः । नियतदेशवृत्तित्नियतसम्बन्धित्वं विवक्षितमित्यन्ये । परमाणुपदं भावप्रधाननिर्देशेन पर-

टिप्पणी ।
क्षतिः । कार्यकारणभावविरोध इति । तथा च कार्यकारणभावनियमितप्रवृत्तिनिवृत्त्योरनु-
पपत्तिरिति भावः । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयोत्कीर्त्तनम्, व्या-
प्तेरनुपाख्यत्वविशेषणं विहायैव सम्भवादिति ध्येयम् । स्वभावस्यातिरिक्ततया नियामकत्वे दृष्टा-
न्तमुखेन प्रामाण्यं व्यवस्थापयति । परमाणुत्तपरिमाणयोरिति । अकारणकत्वेऽपीति ।
अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वञ्चेत्यर्थः । तेन परमा-
णुत्तपरिमाणयोर्यथासङ्ख्यमन्वयात् परमाणोर्नियतदेशवृत्तित्वाविरहेऽपि न क्षतिः । यद्यपि नित्यप-
रिमाणस्यातिरिक्तवृत्तित्वे प्रमाणाभावः, अवृत्तित्वे कारणनियमेन समवायिनि सिद्धस्य जन्यपरि-
माणस्य दृष्टान्तस्यानुमानस्य प्रामाण्यञ्च, तथापि तत्र नातिरिक्तस्वभावापेक्षा । एवं कारणतावच्छे-
दकसम्बन्धेन कारणानामेव कार्यसत्त्वे नियामकतया तन्तुत्वेनैव तादृशसम्बन्धसत्त्वादिति न वेमा-
दिदेशवृत्तित्वम् । नचोभयोः कारणत्वात् कथञ्च वेमादिना तादृशसम्बन्ध इति वाच्यम् । तन्ता-
वेव तस्य प्रत्यक्षेण, कल्पनायाः फलवलकल्प्यतया तेनैव तत्कल्पनमिति तत्रापि न स्वभावस्य
तथाविधस्य प्रयोजनमिति दृष्टान्तविकलतया स्वभावस्योच्छेद एव, तथापि तत्स्वीकारेऽपि न

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५३
तुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्निय-
तदेशवन्नियतकालस्वभाव इति ब्रूमः । न । निरवधित्वे अनियतावधिकत्वे वा का-
दाचित्कत्वव्याघातात् । न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्वं, किंतु प्रागस-
बोधनी ।
रेष्विति देशनियमो हेत्वभावेऽपि सङ्गच्छते, तथा कश्चिद् घटादिर्नियतकालसंसर्गः स्वभावत
एवाकाशादिवदिति कालनियमोऽप्यहेतुक एव सङ्गंस्यत इति । अत्राप्यथचेन्नियतत्तत्त इत्येत-
देवोत्तरयति—न निरवधित्व इति । किञ्चिदवधिमनुपादाय कादाचित्कत्वं निरूपयितुम-
शक्यं, कदाचिदित्यस्यैवाभावे कादाचित्कत्वव्याघातात् । तन्नैवं कादाचित्कत्वम् । न हि क-
स्मिंश्चिदेव देशे सत्त्वं कारणापेक्षामनिरूप्य निरूपयितुं शक्यते । किन्तु निरूपितं सत् स्वाभाविकं
सहेतुकं वेति विमृश्यते । अस्ति चात्र सर्वत्रापि नियामको हेतुः, तथाचोन्मोचिता प्रतिवन्दीति
भावः । ननु कालविशेषसंसर्गमात्रं कादाचित्कत्वं तच्च गगनादिवन्निरवधित्वेऽपि भविष्यति,
तस्मान्न तत्स्वरूपानुप्रवेशित्वमवधेरित्याशङ्क्याह—न हीति । इतः पूर्व नासीदिदानीम-
प्रकाशः ।
अपि त्विति । ये ये निरवधयो दृष्टास्तेषां नियमेन कादाचित्कत्वस्वभावविरहान्निरवधिकत्वका-
दाचित्कत्वयोर्विरोधन्निरवधित्वे कादाचित्कत्वस्वभाव एव न निर्वहेदित्यभिप्रेत्य परिहरति । निर-
वधित्व इति । अयं क्षणो यद्येतत्पटध्वंसानाश्रयः स्यान्नेतत्पटप्राग्भावाश्रयो न स्यादेतत्पटाधिक-
णं स्यादिति भाव इत्यन्ये ।
ननूत्तरकालसंसर्गित्वं कादाचित्कत्वम् , तच्च निरवधित्वेऽप्याकाशवत् स्यादित्यत आह ।
न हीति । तथा सति घटाकाशयोः कादाचित्कत्वाकादाचित्कत्वलोकव्यवहारविरोध इति भावः ।
प्रकाशिका ।
इत्यन्वयः, नियतदेशत्वं नियतसम्बन्धित्वमेवाभिप्रेतमिति कश्चित् । ये ये निरवधय इति ।
आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमिति
निरवधित्वकादाचित्कत्वयोः परस्परविरोधावधारणमिति भावः । अत एवाननुगमप्रदर्शनार्थं ये य
इत्युक्तम् । अयं क्षण इति । प्रागभावस्वीकारे स एवावधिः स्यादिति निरवधित्वाभ्युपगमे प्रागभाव-
स्याप्यस्वीकार इति पराभ्युपगतमापादकम् । अत्र च कारणत्वमापादकविशेषणमतो न घटरूपादौ
व्यभिचारः । इष्टापत्तिवारणायापाद्य एतदित्युक्तम् । दृष्टान्तलाभायापादक एतत्पदद्वयम् । अन्य
इत्यरुचौ । तद्बीजन्तु उक्ततर्केण विरोधावधारणे पूर्वतनमेव सम्यक्। अनवधारणे त्विदमप्यप्रयोज-
कमिति । न हीतीति । इदञ्च कादाचित्कत्वं मूलनिरुक्तं भावाभिप्रायकमिति न प्रागभावाव्याप्ति-
रित्यवधेयम् । नन्वेवं गौरवमित्यत आह । तथासतीति । तथाच लोकव्यवहारविरोधभयेन गौ-
मकरन्दः ।
र्माणुत्वपरमित्यपरे । ये ये निरवधय इति । अकादाचित्कत्वमाकाशादिषु न तत्तद्धर्माधीन-
मननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमन्यस्यासम्भवादिति परस्परविरोधावधारणेन
निरवधित्वे कादाचित्कत्वस्वभावविरोध इत्यर्थः । अत एवाननुगमप्रदर्शनार्थं, ये य इत्यु-
क्तमिति वदन्ति ।
अयं क्षण इति । अत्र च कालत्वमापादकविशेषणम् । तेन घटरूपादौ न व्यभिचार इति
ध्येयम् । अन्ये इत्यस्वरसोद्भावनम् । तद्बीजन्तूक्ततर्कावष्टम्भे यथोक्तमेव युक्तम् । तदनवष्टम्भे
त्वेतदप्यप्रयोजकमित्याहुः । न हीतीति । भावकादाचित्कत्वमिति न प्रागभावाऽव्याप्तिर्दोषः ।
नन्वेवं गौरवमित्यत आह । तथा सतीति । अन्यथा द्वयोरपि कादाचित्कत्वे घटस्य कादाचि-
टिप्पणी ।
र्वाह इत्याह । ये य इति । आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निर-

५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां
स्त्वे सति। सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते। अस्तु प्रागभाव एवावधि-
रिति चेन्न। अन्येषामपि तत्काले सत्त्वात्। अन्यथा तस्यैव निरूपणानुपपत्तेः।
बोधनी।
स्तोति पूर्वकालासत्त्वे सत्युत्तरकालसत्त्वं कादाचित्कत्वम्। तच्च कालानवच्छेदे न सम्भवतीति
कालावच्छेदात्मकं सावधित्वं कादाचित्कत्वस्वरूपान्तर्गतमेव। तेन निरवधित्वे कादाचित्कत्वं व्या-
हन्यत एवेति भावः। नन्वेवमपि कादाचित्कत्वेन सावधित्वे सिद्धे हेतुमत्त्वे किमायातं न हि
तयोः पर्यायत्वमित्याशङ्कयाह सावधित्व इति। सावधित्वमभ्युपगमे हेतुरेव स्वीकृतः स्या-
दिति। अन्येषां भावानार्मापि तत्कालनियतत्वादभावेन सह तुल्ययोगक्षेमत्वं भवेदित्यभिप्रायवाना-
ह। नेति। विपर्ययेऽनिष्टमाह-अन्यथा-इति। आश्रयनिरूपणीयत्वनियमाभावेऽप्यदूरवि-
प्रकर्षिणा केनचिद् भावेनैवाभावो निरूप्यत इति अभावकारणत्ववादिना तन्निरूपणार्थं भावस्ताव-
प्रकाशः।
न च सावधित्वेऽपि न हेतुमत्त्वस्वीकारः पर्यायत्वादनायोरित्याह। सावधित्वे त्विति। न-
न्वेतावताऽपि प्राचीनोऽवधिः प्रागभाव एव न तु भावोऽपीति स एव हेतुर्न भाव इति न प्राग्भा-
वातिरिक्ते कारणत्वं वर्तत इति शङ्कते। अस्त्विति। किं प्रागभावकाले भावस्यासत्त्वादेवानव-
धित्वं कार्येणानपेक्षितत्वाद्वा ? । आद्यं परिहरति। अन्येषामपीति। भावानार्मापि अनन्यथासिद्धा-
न्वयव्यतिरेकवत्तया प्रागभावतुल्यत्वादवधित्वम्, अन्यथा प्रागभावस्यापि तन्न स्यादिति भावः।
अन्यथेति। अनिरूपितस्य प्रागभावस्य प्रतिपादयितुमशक्यत्वादवश्यं घटादिप्राक्कालेऽनन्यथा-
सिद्धान्वयव्यतिरेकिणः कपालादयस्तन्निरूपकाः स्वीकार्या इत्यर्थः। ननु प्रागभावनिरूपकस्य चक्षु-
र्रादेर्न कारणत्वं यथा; तथा तन्निरूपकभावान्तरस्याऽपि, न च प्रागभावः प्रतियोगिसमवायिकार-
णमात्रनिरूप्यस्तच्च कारणमेवेति युक्तम्। शब्दाभावप्रत्यक्षतायां तस्य निरस्तत्वात्। मैवम्।
चक्षुरादेरधिकरणग्रह एवान्यथासिद्धत्वात्, चक्षुरादिव्यापाराभावेऽप्यनुमितेऽधिकरणे प्रागभावप्र-
प्रकाशिका
रवमपि प्रामाणिकमिति भावः। न प्रागभावातिरिक्त इति। तथा च क्षित्यादिकर्तृतया नेश्वर-
सिद्धिरिति भावः। नन्विति। घटप्रागभावनिरूपकचक्षुरादेरिव न तन्निरूपककपालादेर्घटकारण
त्वमित्यर्थः। वस्तुतोऽन्यथेत्यादिमूलस्य भावसत्तायां पूर्वकालीनायां परं तात्पर्यं न तु निरूपकत्वेन
भावकारणत्वसिद्धाविति नैतदाक्षेपावसर इति। नचेति। अधिकरणत्वेन प्रागभावनिरूपकत्वं प्रतियोगि-
गिकारणताव्याप्यमिति भावः। तस्येति। प्रतियोगिसमवायिकारणमात्रनिरूप्यत्वस्येत्यर्थः। वस्तु-
तोऽयमपि नियमः कारणत्वसिद्धौ ग्राह्यस्तदेव चासिद्धमिति भावः। चक्षुरादेरिति।
मकरन्दः।
त्कत्वव्यवहार आकाशास्याकादाचित्कत्वव्यवहारश्च लोकानां विरुद्धयेतेत्यर्थः। तथाच गौरवमपि
प्रामाणिकमिति भावः। नन्विति। घटप्रागभावनिरूपकस्य चक्षुरादेर्न घटकारणत्वं यथेत्यर्थः।
न च प्रागभाव इति। अधिकरणत्वेन प्रागभावनिरूपकत्वं कारणत्वव्याप्यमिति भावः।
तस्येति। प्रतियोगिसमवायिकारणमात्रनिरूप्य इत्यस्येत्यर्थः। चक्षुरादेरिति। तथाच न
तस्य प्रागभावनिरूपकत्वं यस्य तु तन्निरूपकत्वं कपालादेस्तस्य हेतुत्वमेवेति नोक्तदोष इत्यर्थः।
नन्विदमनुपलब्धिगम्याभाववादिमतम्, अस्माकन्तु चाक्षुष एवाभाव इत्यपसिद्धान्तः। न
च प्रागभावो न चाक्षुष इति न वयं ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रत्यजन-
कं चक्षुर्व्यभिचारादिति। तदिह सामग्रीनिविष्टाधिकरणस्य परंपरानिरूपणकारणता प्रागभावप्र-
तियोगिजनकता चेति युक्तो नियम इति वाच्यम्। शब्दादिना तत्प्रकारकनिरूपणसम्भवेन व्यभि-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५५
तथाच न तदेकावधित्वम्, अविशेषात् । इतरनिरपेक्षस्य प्रागभावस्यावधित्वे-
प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात् । सन्तु ये केचिदवधयो, न तु तेऽपेक्ष्यन्ते
बोधनी ।
दवभ्याभ्युपगन्तव्य इति । ततः किमित्यत आह—तथाचेति । प्राक्कालनियतत्वेनाविशेषा-
दिति । ननु सन्निध्यविशेषेऽपि प्रागभाव एव हेतुर्न भावा अवर्जनीयसन्निधित्वात् तेषामित्यत्राह—
इतर-इति । तदवधेः प्रागभावैकावधिकस्य कार्यस्य तस्मादवधेर्वेति शङ्कते—सन्तु-इति ।
कार्यपूर्वक्षणे न केचिद् भावाः सन्तीति नायं स्वभाववादः किन्तु सत्स्वपि तेषु कार्येण ते नापेक्ष्य-
प्रकाशः ।
तीतेरिति भावः । अत्रैवार्ये कादाचित्कत्वव्याघातं प्रागुक्तं विपक्षबाधकं स्मारयति । इतरेति ।
यद्ययं घटः प्रागभावाव्यान्यावधिको न स्यात् सकलकालीनः स्यादित्यर्थः । द्वितीयं शङ्कते । सन्त्वि-
प्रकाशिका ।
ननु नैयायिकैरभावस्यैन्द्रियकत्वाभ्युपगमात् तदनभ्युपगमेऽपसिद्धान्तः । अत्र मिश्राः,
प्रागभावो न चाक्षुष इति न ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रति
चक्षुःकारणं शब्दादिनापि तथा निरूपणेन व्यभिचारात्, तथा च सामग्रीनिविष्टाधिकरणस्य
परं तथानिरूपणकारणता प्रागभावप्रतियोगिजनकता चेति तादृशनिरूपणत्वावच्छिन्नकारणं
प्रतियोगिजनकमिति युक्तो नियमः, तथाचाधिकरणग्रह एवोपक्षयादित्यनुमानिकप्रागभाव-
त्वप्रकारकग्रहस्थल इति शेष इत्याहुः । तन्न । तादृशनिरूपणत्वावच्छिन्नं प्रति अधि-
करणस्यापि व्यभिचारात् । प्रत्यक्षत्वावच्छिन्नं प्रत्यव्यभिचारे तु इन्द्रियत्वेन चक्षुरादेरप्य-
व्यभिचारात्तस्यापि कारणतापत्तेः । किं च अस्तु चक्षुरादेरन्यथासिद्धत्वं तथाप्यधिकरणग्रहादेर
नन्यथासिद्धस्य कारणत्वापत्तिः । एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमिदमिति
परास्तम् । अधिकरणग्रहादिकमादायैक्तदोषानिवृत्तेरिति । अत्र वदन्ति । अधिकरणत्वेन प्रागभाव-
निरूपकस्य तत्प्रतियोगिजनकता, अधिकरणं च प्रतियोगिसमवायिवदन्यदपि वीणादि तस्यापि च
शब्दकारणत्वमेवेति न व्यभिचारः । नचैवं नष्टस्यापि प्रागभावनिरूपकत्वं प्राग् वर्त्तत एवेति शब्दा-
जनके तस्मिन् निरुक्तनियमव्यभिचार इति वाच्यम् । यद्धर्मपुरस्कारेण निरूपकत्वं तद्धर्माश्रयः किं-
चिज्जनक इति नियमशरीरत्वात् । निरूपकत्वं च निरूपणप्रयोजकत्वमात्रमित्यधिकरणज्ञाने जनके-
ऽवच्छेदकतयाधिकरणस्यापि निरूपकत्वमिति । वस्तुतः सामग्रीकाल एव प्रागभावत्वप्रकारिका प्रतीति-
रिति मतेनायं ग्रन्थ इति निरूपणकारणत्वमेवाधिकरणस्य लौकिकप्रागभावसाक्षात्कारं प्रति प्रत्यास-
त्तितया प्रतियोगिजनकतत्त्वञ्चेति यथाश्रुतमेव सम्यक्। नष्टस्यानिरूपकत्वादिति ग्रन्थश्चैवं योजनीयः,
अधिकरणग्रह एवान्यथासिद्धत्वात् तद्धारेव कारणत्वाच्चाधिकरणत्वेनेति नन्वेवमिन्द्रियजन्याधिकर-
णज्ञानस्य प्रागभावसाक्षात्कारकारणत्वे तमःसाक्षात्कारो न स्यात् तादृशाधिकरणसाक्षात्काराभा-
वादित्याशङ्कायां चक्षुरादिव्यापारत्यादिग्रन्थः । तथा च क्वचित् परमिन्द्रियजन्यमधिकरणज्ञानं
न तु सर्वत्रेत्यधिकरणत्वेनाधिकरणमात्र एव पूर्वपंक्तिकातात्पर्यमिति भावः । केचित्तु उपस्थिते प्रा-
गभावे घटकारणत्वग्रहः, उपस्थितिश्च प्रत्यक्षेण कपालोपस्थितौ सत्यामेवेति प्रथमोपस्थितकपाल-
स्यैव कारणत्वं न तु प्रागभावेनान्यथासिद्धिः, तस्य चरमोपस्थितत्वात्, चक्षुरादिकं न तदोपस्थितं
नवा कपालादिवदनन्यथासिद्धमिति न तत्कारणमित्यत्र तात्पर्यम् । ग्रन्थस्तु अधिकरणग्रह एव
जनकतया प्रतियोगिनं प्रत्यन्यथासिद्धत्वात् चक्षुरादिव्यापारविरहेऽपि प्रागभावप्रतीत्या तदाक्षिप्तं
प्रतियोगिनं प्रति चक्षुरादेर्व्यभिचाराच्चेत्येवं परतत्वेन नेय इत्याहुः ।
यथाश्रुते वैयधिकरण्यादन्यथा तर्कमाह । यद्ययमिति । सकलकालीनत्वञ्चानादित्व-

५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
इति स्वभावार्थ इति चेत् । नापेक्ष्यन्ते इति कोऽर्थः, किं न नियताः ? आहोस्वि-
न्नियता अप्यनुपकारकाः ? प्रथमे धूमो दहनवद्गर्दभमप्यवधीकुर्यात् , नियाम-
बोधनी ।
न्त इति । तदेतद् विकल्प्यानिष्टप्रसङ्गेनेष्टसिद्ध्या च दूषयति - नापेक्ष्यन्त इति । कथमनिय-
तस्यैवावधित्वमङ्गीकुर्वतस्तदेवानिष्टत्वेनाऽऽपाद्यते गर्दभमप्यवधीकुर्यादिति ? उच्यते । यदि
यस्य कस्यचिदानन्तर्यं धूमस्य स्वभावः, तदा नित्यं यस्य कस्यचिद् भावाद् धूमस्य सदातनत्वा-
पत्तेरकामेनापि नियतोऽवधिरङ्गीकार्यः, तथाच नियमो दूषणमिति । नियामकाभावादिति ।
प्रकाशः ।
ति । प्रागभावादन्येषामवधित्वेऽपि तैर्घटादिसत्ताया अनियमनान्न तानि कारणानीत्यर्थः ।
प्रथम इति । ननु यो दहनव्यभिचारी स रासभानन्तरं भवतीत्यत्रापादकाभावः । स्वयमपि
व्याप्तेरनभ्युपगमात् । न च धूमत्वं यदि दहनव्यभिचारिवृत्ति स्यात् दहनासमवहितसामग्र्युत्त-
प्रकाशिका ।
मतो न प्रागभावे व्यभिचारः, अत एव मूले प्रागपीत्येवोक्तम् । भावत्वे सतीत्यापादक-
विशेषणाद्वा । धूमत्वमिति । ननु परमाणुत्वादौ व्यभिचारः, न च जन्यवृत्तित्वे सतीत्यापाद-
कविशेषणम् , तथापि परमाणुधूमविशेषान्यतरत्वे व्यभिचारात् । न । दहनव्यभिचारि यज्जन्यं
तद्वृत्तित्वस्यापादकत्वात् । दहनासमवहितत्वं तदसहकृतत्वं तद्घटितत्वं वेत्यभिप्रे-
मकरन्दः ।
चारादधिकरणत्वस्याप्यतथात्वात् । प्रत्यक्षनिरूपणमादाय व्यभिचारश्च तुल्यः । चक्षुष्ट्वेन व्यभि-
चारेऽपीन्द्रियत्वेनान्यभिचाराद् विशिष्याधिकरणेऽपि व्यभिचारात् । अस्तु वैवं, तथाप्यनन्यथा-
सिद्धस्य प्रागभावनिरूपकस्याधिकरणग्रहादेर्यथा न घटकारणत्वं, तथाऽनादेरपि न तथात्वमिति
दोषस्तदवस्थ एव । एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमित्यपास्तम् । अधिक-
रणग्रहमादायोक्तदोषानिवृत्तेः । किञ्च यदि चक्षुरादिव्यापाराभावेऽपि तत्प्रतीतेस्तदन्यथासिद्धं, त-
दाऽधिकरणग्रहणमपि तथा स्यात् । शब्दादिना तद्विनाऽपि तत्प्रतीतेः । घटोऽप्येवं चाक्षुषो न
स्यात् तद्व्यापाराभावेऽप्यनुमानादिना तत्प्रतीतेः । प्रतीतिविशेषे वा व्यभिचारस्तुल्य एवेति चेत् ।
अत्र ब्रूमः । अधिकरणत्वेन प्रागभावनिरूपकस्य तत्प्रतियोगिजनकतवमिति नियमः ।
कपालादेश्च तथात्वात्तज्जनकत्वं न चक्षुरादेरित्यत्र तात्पर्यम् । निरूपकञ्च प्रत्यक्षनिरूपण एवेत्य-
वधेयम् । न च तत्राप्यधिकरणस्य न निरूपकत्वं, किन्तु तद्बुद्धेरिति वाच्यम् । प्रयोजकत्व-
मात्रस्यैव विवक्षितत्वात् । न च प्रतियोगिसमवायिभिन्नस्य देशकालादेरपि तन्निरूपकत्वाभ्युपगमा-
द् व्यभिचार इति वाच्यम् । तस्यापि हेतुत्वाभ्युपगमात् । ननु देशकालयोः का गतिरिति चेत् ।
न । तयोरपि स्वरूपयोग्यत्वात् । वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमिति
नियम इति केचित् । उपस्थिते प्रागभावे घटकारणत्वग्रहः, उपस्थितिश्च तस्य न कपालाद्युपस्थि-
तिमन्तरेणेति कारणताग्राहकमानेन प्रथमोपस्थितकपालादेरेव कारणत्वं गृह्यते, न तु प्रागभावस्या-
पि । उत्पन्नानुत्पत्त्या तु तस्य तथात्वग्रहो, न तु प्रत्यक्षात् । चक्षुरादिकञ्च न तदोपस्थितं न वा-
कपालादिवदनन्यथासिद्धमिति न कारणमित्यत्र तात्पर्यम् । आपादके विशेषणमित्यन्ये । न च
नित्यत्वमुपाधिः । तस्याप्यापाद्यत्वादिति भावः । न च धूमत्वमिति । न च परमाण्वादौ व्य-
भिचारः, जन्यवृत्तित्वे सतीत्यापादकविशेषणादित्याहुः । तन्न । परमाणुधूमसामान्यतरत्वादौ व्यभि-
चारात् । तस्माद्दहनव्यभिचारिभूतजन्यवृत्ति स्यादित्यापादकमतो नोक्तदोषः । दहनासमवहित-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५७
काभावात् । द्वितीये तु किमुपकारान्तरेण ? 'नियमस्यैवापेक्षार्थत्वात्, तस्यैव
च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् । नित्यस्वभावनियमव-
बोधनी ।
अनियतत्वाविशेषे दहन एवावधिर्न रासभ इति नियामकाभावादित्यर्थः । नियमस्येति ।
इदमेव हि कार्यस्य कारणापेक्षित्‍वं नाम, यत्तस्मिन् सत्येव भवतीति । यदि नियमातिरिक्त
उपकारो नाङ्गीक्रियते तर्हि स्वभाववाद एव सिद्धः स्यादित्याह— ईदृशस्येति । चश्चेदर्थे ।
दहनादिषु सत्स्वेव धूमादयो भवन्तीतीदृशः स्वभाववादश्चेत् स तर्ह्यस्माभिरिष्यत एवेति । तदेव-
मन्यथासिद्धिं निराकृत्य सम्प्रति चार्वाकाङ्गीकृतं प्रमाणमाशङ्कते—नित्य-इति । अस्यार्थः ।
यथा नित्यानामाकाशादीनामाकाशत्वादयः स्वभावविशेषा निरपेक्षा अपि तैस्तैराकाशादिभिर्नियता-
स्तथानपेक्षमेव कार्यं केनचिदेव कालेन संसृज्यते नान्येनेति नियम्यत इति न सदातनत्वप्रसक्तिः ।
अनपेक्षत्वसम्प्रतिपत्त्यर्थं नित्यग्रहणम् । अनेन दृष्टान्तावष्टम्भेन प्रयोगं सूचयति, कादाचित्कत्वस्व-
भावनियमो निर्हेतुकः स्वभावनियमत्वात् नित्यस्वभावनियमवदिति । अनेन कादाचित्कत्वहेतो-
प्रकाशः ।
रकालोत्पत्तिकवृत्ति स्यादित्यर्थः । परस्येष्टापत्तेः । मैवम् । धूमो यदि रासभसमवधानोत्पत्तिकता-
वच्छेदकरूपवान् स्याद् रासभसमवधानान्तर्रोत्पत्तिकः स्यात्, धूमत्वं वा यदि दहनव्यभिचारिवृत्ति
स्याद् दहनास‍मवहितदेशवृत्तिवृत्ति स्यादित्यापादना॑र्थत्वात् । वस्तुतो यद्यन्निर्धूमकारणं न
स्यात्, तदा कथं धूमार्थी नियमतोऽग्निमुपादत्ते न रासभमिति तद्ग्राहिप्रत्यक्षव्याघात इति
भावः । द्वितीये त्विति । न ह्युपकारव्यासक्ता कारणता येन तदभावे न स्यात्, उपकारेऽपि
कर्त्तव्ये उपकारान्तरापेक्षयानवस्थितेः, किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्त्तत इत्य-
र्थः । नियमस्यैवेति । नियतान्वयव्यतिरेकवज्जातीयस्यैवापेक्षणीयपदवाच्यतया लोकप्रसिद्ध-
त्वादित्यर्थः । नित्यस्वभावेति । यथा नित्यस्याकाशस्य यः स्वभावो धर्मः शब्दाश्रयत्वम्,
प्रकाशिका ।
त्याह । परस्येति । धूमो यदीति । ननु धूममात्रस्य पक्षत्वे आपादकासिद्धिः धूममात्रस्य रास-
मसमवधानान्तरोत्पत्तिकत्वेन परेणानभ्युपगमाद्, धूमत्वस्यावच्छेदकत्वानभ्युपगमात् । न
च रासभसमवधानान्तरोत्पत्तिकधूम एव पक्षः, तत्रेष्टापत्तेः । मैवम् । वह्निसमवधान नन्त-
रोत्पत्तिकतावच्छेदकत्वं यदि वह्निव्यभिचारिवृत्तेरपि धूमत्वस्याभ्युपेयते तदा रासभसमवधान-
न्तरोत्पत्तिकतावच्छेदकत्वमपि तस्योपेयं, परेणेति पराभ्युपगमसत्त्वात् धूममात्रपक्षत्वेऽक्षतेः ।
अत एव वास्वरसादाह । धूमत्वं चेति । अत्र च वृत्तिपदं समवेतत्वपरमतो न धूमत्वजाते-
र्व्यापकत्या इष्टापत्तिरित्यवधेयम् । अत्र च नेष्टापत्तिः, धूमस्य वह्निजन्यतानभ्युपगमेऽपि तदस-
मवहितदेशवृत्तित्वानभ्युपगमादिति भावः । ननु कश्चित् धूमो वह्निं विनापि स्यादित्याशङ्कितुरिष्टाप-
त्तिरत्र, किंच एतावता व्यापकतासिद्धावपि न तद्देशोपकारणतासिद्धिरित्यरुचेराह । वस्तुत इति ।
तथा च व्याघातान्न तादृशी शङ्का, एवं च सति पूर्वपक्षतर्कोऽपि न सम्यगित्‍यनधेयम् । न रास-
भमित्युपलक्षणम् । न व्यापकमप्याकाशादीति द्रष्टव्यम् । तेन व्यापकविशेषेऽपि कारणत्वं तद्भू-
मकरन्दः ।
त्वं तदसहकृतत्वं तद्घटितत्वं वाभिप्रेत्याह । परस्येति । धूमो यदीति । धूममात्रस्य
पक्षत्वे आपादकासिद्धिः, धूममात्रस्य तत्समवधानोत्तरोत्पत्तिकत्वाभावेन धूमत्वादेस्तदनवच्छेद-
कत्वात् । रासभोत्तरभाविधूमस्य पक्षत्वे सिद्धसाधनं, तद्धूमत्वावच्छिन्नस्य तथाभावादिति चेद्
मैवम् । धूमस्य समवधानोत्तरोत्पत्तिकत्वनियमेऽपि दहनस्य तदनियतत्वं परेणाभिप्रेतमिति त-
८ न्या० कु०

५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
देतत् , न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचि-
बोधनी ।
स्तुल्यबलत्वाभिमाने सत्प्रतिपक्षत्वमन्यथा बाधः स्वपक्षसाधनं वेति । केचित् पूर्वमपि नियत-
देशवदिति प्रयोगः सूचितः तस्मिन् देशनियमस्य कारणापेक्षित्‍वं परिहर्त्तुं दृष्टान्तन्तरेण प्रत्य-
वतिष्ठन्ते, नित्यस्वभावनियमस्य कारणापेक्षायामसंभवादित्यपौनरुक्त्यं मन्यन्ते । तन्तु पौर्वापर्या-
परामर्शविलसितमित्यनादरणीयमिति । उक्तमेवोपपादयति नहि—इति । तत्त्वमाकाशत्वं
सर्वस्य कालादेः । तदुक्तम्—
नित्यसत्त्वा भवन्त्यन्ये नित्यासत्त्वाश्च केचन ।
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥
अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः ।
केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥
प्रकाशः ।
आत्मनश्चात्मत्वमाकस्मिकमिति सर्वस्य तदन्यस्यापि धर्मः कुतो न स्यादिति न वक्तुमुचितम्,
प्रामाणिकत्वात् । तथा आकस्मिकत्वाविशेषेऽपि सदातनत्वमाकाशादीनां, कादाचित्कत्वं घटादीनां
स्वभावो, न त्वन्यस्य धर्मोऽन्यस्येत्यर्थः । यथाऽऽहुः—
नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ।
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥
वह्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः ।
केनेदं रचितं तस्मात् स्वभावात्तद्व्यवस्थितिः ॥ इति ।
न च नियतदेशवन्नियतकालस्वभाव इत्यनेनास्य पौनरुक्त्यम् । पूर्वं हिसापेक्षत्वादित्यत्र यथा
परमाणुतत्परिमाणादीनां निरपेक्षत्वेऽपि नियतदेशवृत्तित्वं तथा घटादीनां नियतकालत्वं स्यादि-
त्यप्रयोजकत्वमुक्तम् , सम्प्रति तु कादाचित्कत्वस्वभावो निर्हेतुकः स्वभावानियतत्वात् नित्य-
स्वभाववदिति सत्प्रतिपक्षत्वमुक्तमित्यर्थभेदात् । पूर्वं यन्नियतं तन्न कारणनियम्यं, यथा जातेः
क्वाचित्कत्वमित्युक्तम् , सम्प्रति तु स्वभावो न नियम्य इत्युच्यत इत्यपौनरुक्त्यमित्यन्ये ।
प्रकाशिका ।
र्छादेव सिद्धमिति भावः । स्वभावानियतत्वादित्यत्र नियतपदं स्पष्टार्थम् । अन्य इत्यरुचौ । तद्बी-
जन्तु जातेरपि नियतत्वं स्वभावादेव न तु कारणादेरिति स्वभावानियतं यत्तन्न कारणनियम्यमित्यर्थ-
मकरन्दः ।
ऽव्यभिचारित्वमेव तदुत्तरोत्पत्तिकतावच्छेदकत्वेन पराभिप्रेतमिति धूममात्रस्य पक्षत्वेऽप्यदो-
पादित्याहुः ।
स्वभावानियतत्वादिति । अत्र नियतपदं चिन्त्यम् ।
टिप्पणी ।
वधित्‍वनिबन्धनमेव मन्तव्यमिति निरवधित्‍वकादाचित्कत्‍वयोः परस्परविरोधावधारणमिति भावः ।
अथवा मास्तु चेत्तदधीनत्वं तस्य तयोरेकदेशनैयत्ये तात्पर्यं तद्ग्रन्थस्येति ध्येयम् । सापेक्ष-
त्वादित्यत्रेति । कार्य्यं सहेतुकं सापेक्षत्वात् कादाचित्कत्वादित्यत्रेत्यर्थः । निरपेक्षत्वेऽपीति ।
निर्हेतुकत्वेऽपीत्यर्थः । सम्प्रति त्विति । स्वभावस्यातिरिक्ततया प्रयोजकत्वे बीजाभावस्योक्त-
त्वात् , प्रयोजकत्वेऽपि तत्रैव कारणवादाभ्युपगमः स्यादित्यतो नियतदेशवदित्यादिग्रन्थ-
मनाकलयन्निव पुनः सर्वथाकारणवादं निरसितुमभिसन्धत्ते नित्येत्यादीति ग्रन्थाशयः ।
अन्य इति । जातेरपि नित्यत्वं स्वभावादेव न तु कारणादिति स्वभावानियतं यत्तन्न कारण-

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५६
तमिति चेन्न । सर्वस्य भवतः स्वभावत्वानुपपत्तेः । न ह्येकमनेकस्वभावं नाम ।
व्याघातात् । नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति
बोधनी ।
तत् परिहरति न—सर्वस्येति । स्वस्य भावः स्वभावः । न च स्वस्मादन्यदपि स्व-
मेव, येन तस्यापि भवनस्य स्वभावो भवेत्, तेन सर्वस्य भवदाकाशत्वस्वभावतामेव जह्यादित्येत-
देव स्पष्टयति—न ह्येकमिति । न ह्येकमेवं धर्मि चानेकेषां स्वकीयो भावस्तद्भवितुमर्हति ।
न ह्येकमनेकस्वभावो नामेति सम्प्रदायवतां पाठः । तत्र न ह्येकमाकाशादिकमनेकेषां
कालादीनां स्वभावो भवति, स्वभावत्वव्याघातात् । स्वस्यैव भवतः स्वभावत्वादित्यर्थः । तर्ह्य-
त्रापि सर्वदा भवने कदाचित्भवनस्वभावत्वव्याघातः सुवच इत्याह—नन्वेवमिति ।
प्रकाशः ।
न सर्वस्येति । एकनियतो धर्मः स्वभाव इत्युच्यते, तद् यदि सर्वस्य सम्भवेत् तदा स्वभाव-
त्वमसाधारणत्वं नोपपद्यते सत्तादेरिवेति स्वभावत्वव्याघात इत्यर्थः । नन्वेवमिति । यथाकाश-
स्याकाशत्वं न सर्वस्य तत्त्वव्याघातादिति विपरीतमाशङ्कनीयं, तदा कादाचित्कत्वस्वभावस्याहे-
तुकत्वे सदातनत्वमप्यनाशङ्कनीयम् , कादाचित्कत्वस्वभावभङ्गप्रसङ्गादित्यर्थः । कादाचित्कत्वस्व-
भावसिद्धौ तद्विपरीतकल्पनायां व्याघातः स्यात्, तत्सिद्धिश्च निरवधित्वस्वभावत्वे वा सावधित्वस्व-
भावत्वे वा प्रकारान्तराभावात्, द्वितीयेऽप्यनियतावधित्वे तद्विपर्यये वा, तत्र प्रथमद्वितीययोराह ।
निरवधित्व इति । ये ये निरवधयोऽनियतावधयश्च भावा दृष्टास्तेषां नियमतः कादाचित्कत्वस्व-
प्रकाशिका ।
पर्यवसानेऽभेद एवेति । न ह्येकमनेकस्वभावं नामेति मूलं यद्यप्यनेनैकस्य नानास्वभावकत्वा-
भावः प्रतिपाद्यते न तु प्रकृतोपयोगी एकस्य नानास्वभावत्वाभावो, नपुंसकत्वानुपपत्तेः । तथापि
एकस्य धर्मस्य नानास्वभावत्वे नानाधर्मस्यापि तुल्यन्यायतया एकधर्मत्वमापद्येत, तच्च न सम्भव-
तीतीदमुक्तम् । तत्त्वेति । स्वभावत्वव्याघातादित्यर्थः । अनियतावधयश्चेति । नियतावधिशू-
मकरन्दः ।
तत्त्वेति । स्वभावत्वव्याघातादित्यर्थः । अनियतावधयश्चेति । यद्यपि अवधित्वं
कारणत्वं नियतस्यैवेत्यनियतावधित्वमप्रसिद्धम्, प्रसिद्धत्वे वाऽऽकाशादेरवधित्वमात्रस्याभावा-
द्घटादावेव तदभ्युपगम इति तेषां कादाचित्कत्वस्वभावविरहादिति विरुद्धम् । तथापि नियताव-
धिशून्यत्वे तात्पर्यम् । विशिष्टाविशिष्टप्रतियोगिकत्वेन च भेद इत्याहुः । अनियतावधिपदेन शश-
टिप्पणी ।
नियम्यमित्यर्थपर्यवसानेऽभेद एवेतीत्यन्य इत्यनेन व्यज्यते । नन्वेवमितीति । न ह्येक-
मनेकस्वभावमित्यादिमूलेन यद्यप्येकस्य नानास्वभावत्वाभावः प्रतिपाद्यते न तु प्रकृतोप-
योगी एकस्य नानास्वभावत्वाभावः, नपुंसकत्वानुपपत्तेः । तथापि शब्दाश्रयत्वात्मत्वाद्येकधर्म्माणां
गगनात्मपृथिव्यादिनानाव्यक्तीनां स्वभावत्वे शब्दाश्रयत्वात्मत्वादिनानाधर्म्माणामपि तुल्यन्याय-
तया गगनाद्येकव्यक्तिस्वभावत्वमपि भवेत् तच्च न सम्भवतीत्येतद्ग्रन्थस्याशयः । नामव्याघाते-
नैकस्य नानास्वभावत्वाभाव आपादकवैषम्यादिति । न सर्वस्येति । आकाशत्वमित्यनुषज्यते ।
तत्त्वव्याघातादिति । स्वभावत्वेत्यर्थः । इति हेतौ । सदातनत्वमिति । कार्य्यस्येति शेषः । ये
ये निरवधयोऽनियतावधयश्च भावा दृष्टा इति । निरवधिपदार्था अनियतावधिपदार्थाश्च
दृष्टाः प्रमाणसिद्धाः नियतावधित्वशून्या आकाशादयस्तेषान्न कादाचित्कत्वं, ये त्वदभिमता अनि-
यतो योऽवधिस्तन्निरूपकास्ते न दृष्टा एवेत्यत्र तात्पर्य्यमिति नासङ्गतिः । परेणाभ्युपगतस्यै-

६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायौ
तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्या-
घातात् । नियतावधित्वे हेतुवादाभ्युपगमात् ॥ ५ ॥
स्यादेतत् । उत्तरस्य पूर्वः पूर्वस्योत्तरों मध्यमस्योभयमवधिरस्तु, दर्श-
बोधनी ।
सिद्धान्ती पूर्वोक्तमेव परिहारं स्मारयति — न तुल्य इति । कादाचित्कत्वसिद्धौ हि तद्विपरीत
कल्पनायां व्याघातः । तत्सिद्धिश्च निरवधित्वे तावन्न सम्भवति, कादाचित्कत्वनिर्वचनव्याघात-
स्योक्तत्वात् । अत एव नानियतावधित्वेऽपि कादाचित्कत्वसिद्धिः । यस्य कस्यचित् सर्वदा सम्भ-
वान्नियतावधित्वेन कादाचित्कत्वाभ्युपगमे तु सम्प्रतिपत्तिरुत्तरम् । एवं च नानुमानस्य
बाधविरोधादयो दोषा इति । एवं तावत् सापेक्षत्वादिति हेतुर्विवृतः ॥ ५ ॥
अथानादित्वादिति हेतुमवतारयितुं निराकरणीयामाशङ्कामाह—स्यादेतत्—इति ।
प्रकाशः ।
भावविरहादूनिरवधिस्वभावस्य अनियतावधिस्वभावस्य वा कादाचित्कत्वस्वभावविरोधः। न हि विरु-
द्धयोरुण्शीतयोरेकस्वभावत्वम् । तथा च कादाचित्कत्वव्याघातः=तत्स्वभावत्वव्याघात इत्यर्थः।
तृतीयमाशङ्क्य सम्प्रतिपत्तिरुत्तरमाह । नियतावधित्व इति ।
वस्तुतोऽस्मिन् सतीदं भवति, असति न भवतीति प्रत्यक्षेण नियतपूर्वभावस्य ग्रहात् प्रत्यक्ष-
मेव कारणत्वे मानम्, तस्य चानन्यथासिद्धत्वग्राहकतर्कः स्यादेवेत्यादिना दर्शित इति रहस्यम्॥५॥
ननु कादाचित्कत्वं सापेखनिरपेक्षभ्यां व्यावृत्तत्वेनासाधारणम् । तथा हि न सामग्रीनिर-
प्रकाशिका ।
न्या इत्यर्थः । अन्यथाऽप्रसिद्धेः । केवलविशिष्टप्रतियोगितया चं भेदः । न हि विरुद्धयोरिति ।
सावधिनिरवध्योरेकं कादाचित्कत्वं स्वभावो न भवतीत्यर्थः । यद्यपि विरुद्धयोरुष्णशीतयोः प्रमेयं-
त्वमेकं स्वभावो यथा, तथा सावधिनिरवध्योरपि कादाचित्कत्वमेकं स्वभावो भवत्येव । तथापि
तत्तत्कार्यार्थं तत्तत्कारणोपादानानुपपत्त्यैव सावधित्वसिद्धिरिति भावः । ननु कादाचित्कत्वेन संहे-
तुकत्वानुमानं तवाप्यप्रसिद्धं साध्याप्रसिद्धेरतः पूर्वोक्तमेव स्मारयति । वस्तुत इति ॥ ५ ॥
अनादित्वपरिहारस्यासङ्गतित्वं मन्वानस्तत्परिहारौपथिकं पूर्वपक्षं पूरयति । ननु कादाचि-
मकरन्दः ।
शृङ्गादयस्तन्मतेनोक्ता इत्यन्ये । न हीति । यद्यपि यथा विरुद्धयोरपि प्रमेयैकस्वभावत्वं, तथा
कादाचित्काकादाचित्कयोरपि निरवधिस्वभावत्वमविरुद्धं, तथापि तत्तत्कार्यार्थं तत्तत्कारणोपादानानु-
पपत्त्या सावधित्वसिद्धिरिति भावः ॥ ५ ॥
अनादित्वादित्यस्य परिहारस्यासङ्गतत्वनिरासार्थमाशयं पूरयति । नन्विति । तथाचाश-
टिप्पणी ।
वास्य प्रसिद्धिः, वस्तुतस्तथाविधपदार्थासत्त्वात् । अथवा नियतावधिशून्यत्वमेव तत्त्वं त-
च्चाकाशादावेव प्रसिद्धं, परेणावधेर्जन्यत्वनैत्यत्वस्वीकारादवध्यतिरिक्ते तत्रैव प्रसिद्धिसम्भवेन
निरवधेर्भेदोऽपीति चिन्त्यम् ॥ ५ ॥
ननु उत्तरस्येत्यादिग्रन्थस्य यथाश्रुतस्य प्रागभावानुभयावधिकल्पतया अदर्शनमात्रनि-
ष्ठत्वखण्डने दृष्टान्तवैकल्यतयैवोद्धार सम्भवादनादित्वेन परीहारस्यासङ्गतत्वं स्यादिति मन्वानः
तत्परिहारौपयिकम्पूूर्वपक्षं तद्ग्रन्थाशयरूपमाह । नन्वित्यादिना । तथाहि दर्शनाद्धि-
नापि कार्याणां सदातनत्वादिदोषभयेन पूर्वावधिकल्पनेऽप्यनवस्था स्यादित्येव नन्वित्यादेरपि
निगर्भः । सापेक्षनिरपेक्षाभ्यामिति । अत्र कादाचित्कत्वं मूलनिरुक्तम् । तथाहि न

नस्य दुरपह्नवत्वात् । त्वयाप्येतदभ्युपगन्तव्यम् । न हि भाववदभावेऽप्यु-
बोधनी ।
अयमत्र भावः-यथा निरपेक्षत्वे कादाचित्कत्वं न सम्भवति तथा सापेक्षत्वेऽप्यपेक्षणीयस्य स-
दातनत्वेन कार्यस्यापि तथात्वापत्तेः, तस्मान्निरपेक्षाद् गगनादिव सापेक्षादपि व्यावर्तमानं कादा-
चित्कत्वमसाधारणत्वान्न सापेक्षत्वसाधकमिति । अक्षरार्थस्तु- उत्तरस्यानुपलभ्यमानोत्तरावधे-
र्भावस्य पूर्व एवावधिरस्तु, पूर्वस्यानुपलभ्यमानपूर्वावधेरुत्तर एवावधिरस्तु, मध्यमस्योपल-
भ्यमानोभयावधेरुभयं पूर्व उत्तरावधिरस्तु, तथा दर्शनात् । ननु सर्वस्याप्यवधिद्वयं वक्तव्यम्
अन्यतरावधेस्तदितरावधिव्याप्तत्वादित्यत आह--त्वयापि-इति । एतदेवावधित्वं त्वयाप्य-
ङ्गीकार्यं प्रागभावप्रध्वंसयोरेकावधित्वस्य सिद्धत्वात् । प्राक्प्रध्वंसाभाववदनुपलभ्यमानैककोटि-
केषु भावेष्वपि पूर्वैकावधित्वमुत्तरैकावधित्वं वा स्यात् । अत्रानुपलभ्यमानप्राक्कोटेर्भावस्य पूर्वा-
वधिविरह एव साध्यः । अवशिष्टस्य दृष्टान्ततयोपन्यासः ।
अथवायमर्थः । उत्तरस्य=प्रध्वंसस्य पूर्व एवावधिरवच्छेदकः नोत्तरः, भावोन्मज्जनप्रस-
प्रकाशः ।
पेक्षं कार्यं, सदातनत्वापत्तेः । नापि तत्सापेक्षं, सामग्र्यपि हि न तन्निरपेक्षा, तत्सदातनत्वे
तत्कार्यसदातनत्वापत्तेः । नापि तत्सापेक्षा, अनवस्थानात् । ततः प्रागभाववद् यथा सामग्री
निरपेक्षापि कादाचित्की तथा भावोऽपि घटादिः स्यादित्याशङ्कवानाह-
स्यादेतदिति । उत्तरस्य ध्वंसस्य । पूर्वो घट एवावधिर्न तु ध्वंसः । पूर्वस्य तु प्राग-
भावस्य उत्तरः प्रतियोग्येवावधिर्न तु प्रागभावः । मध्यमस्य तु घटादेः प्राग्भावो ध्वंसश्चे-
त्युभयमवधिनिरूपकोऽस्त्वित्यर्थः । दर्शनस्येति । सर्वलोकसिद्धत्वादित्यर्थः । दर्शनेन
चेत्कारणं सिद्धयति, तदा क्षित्यादौ कर्तुरदर्शनाद्धर्मादेश्चादर्शनात्तदसिद्धौ न तदधिष्ठातृसिद्धिरिति
निगर्वः । अनङ्गीकारे दण्डमाह । न हीति । अन्यथा प्रागभावप्रध्वंसयोरप्यनुपलभ्यमानपूर्वो-
प्रकाशिका ।
क्तत्वमिति । न च तथापि मूलस्य पूर्वपक्षानुद्धारे न्यूनता सिद्धान्तस्येति वाच्यम् । उत्तरस्थे-
त्यादेर्यथाश्रुतार्थस्यैव विपक्षपदार्थतया तदुद्धारेणैव तदुद्धरणात् । सामग्रीधारास्वीकारेऽनवस्थेति
निरपेक्षसामग्रीसापेक्षत्वं सामग्र्यपेक्षत्वं वा कार्यस्य वाच्यमुभयथापि कादाचित्कत्वमसाधारणं
सर्वतो व्यावृत्तमसाधारणमप्रसिद्धमिति यावत् । अतो निरपेक्षत्वे सत्यपि सामग्र्याः कादाचि-
मकरन्दः ।
यत्स्थितमनवस्थापरिहारपरत्वेन तत्सङ्गतेरिति भावः । नन्वनवस्थाभयात् प्रागभाववन्निरपेक्षापि
सामग्री कादाचित्कीत्यनेन विपक्षगामितया साधारणानैकान्तिकप्रदर्शनात् कथमसाधारण्यम् ?
टिप्पणी ।
सामग्रीति । अनवस्थाभयेन निरपेक्षसामग्रीसापेक्षन्तन्निरपेक्षत्वात्कार्यमवश्यं वाच्यम् , तथा
च कादाचित्कत्वमुभयतोऽसाधारणमर्थादप्रसिद्धमित्येवार्थम्पूर्वपक्तिकाविवरणमाह । तथाहीत्याद्य-
नवस्था स्यादित्यन्तेन । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेनाव्यावर्त्तत्वेन साधारणमि-
त्यर्थः । अत्र तथाहीत्यादि स्यादित्यन्तेन निरपेक्षसामग्रीसापेक्षघटादौ निरपेक्षायां सामग्र्यां
तस्य वृत्तित्वमिति सम्पाद्यते । ततः प्रागभाववदित्यादि । ततः=कादाचित्कत्वस्य प्रसि-
द्धितः । तथा चात्र कादाचित्कत्वं न मूलनिरुक्तमपि तु यत्किञ्चित्कालासम्वन्धित्वे सति यत्किञ्चि-
त्कालसम्बन्धित्वरूपं तस्यैव च व्यवहारः प्रागभावघटादावपीति न तेन हेतुमत्त्वसिद्धिः । केचित्तु
तस्य तथाप्रसिद्धितः सापेक्षत्वव्याप्यत्वं न स्वीकारणीयमिति कथमव्याप्येन हेतुना हेतुमत्त्वसिद्धिः ।

६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकावतरणिकाव्याख्यायां
भयावधित्वमस्ति । तद्भावेष्वप्यनुपलभ्यमानैकैककोटिषु स्यात् । न स्यात् ।
अनादित्वात् ।
बोधनी ।
ज्ञात् । पूर्वस्य प्रागभावस्योत्तर एवोवधिर्न पूर्वः, पूर्ववत्प्रसङ्गात्। मध्यमस्य प्राक्प्रध्वंसाभाव-
योर्मध्यमध्यासीनस्य कार्यस्योभयमवधिरस्तुदर्शनवलात् । त्वया सिद्धान्तिनाप्येतत्त्रयं व्यवस्थितम-
भ्युपगन्तव्यम् । ततः किमित्यत आह-तद्भाव-इति । तथाचानुपलभ्यमानप्राक्कोटेः कारणस्याना-
दित्वसम्भवात् तदनपेक्षामलभमानानां कार्याणामपि सदातनत्वप्रसङ्ग इत्युभयत्रापि समानो वाक्य-
शेषः । यद्वा, अयमत्र भावः, यस्य कार्यस्य योऽवधिर्दृश्यते पूर्व उत्तर उभयं वा तत्तदवधिक-
मेवास्तु, दुर्लङ्घ्यत्वाद्-दर्शनस्य । न चान्यतरावधेरितरावधिव्याप्तिः, अभावेन व्यभिचारात् ।
तत्र विधात्रयेऽपि कार्यस्यावधिमत्त्वेनैव कादाचित्कत्वं सिध्यति, सदातनत्वप्रतिपक्षमात्ररूपत्वात्
तस्य । तथाचानुपलभ्यमानपूर्वावधेः कार्यस्योत्तरावधिमात्रेणैव कादाचित्कत्वे सिद्धे न तेन कार-
णपरम्परानुमानमित्यन्यथासिद्धिः । सर्वस्यापि कार्यस्य पक्षीकरणाद् भागे बाधितविषयत्वं चेति ।
हेतुमवतारयति—न स्यादनादित्वात् इति ।
प्रकाशः ।
तरावधिकल्पनप्रसङ्ग इति भावः । तद्भावेति । तथाचावधिसिद्धावपि न तत्प्राच्यत्वनियमसिद्धि
प्रकाशिका ।
क्तत्वं स्वीकरणीयं तथा च साधारणमित्याक्षेपार्थः । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेना-
व्यावृत्तत्वेन साधारणमित्यर्थः । अत एव परिमले साधारणमेवोक्तम् । वस्तुतोऽसाधारणमगमकं सा-
पेक्षत्वनिरपेक्षत्वयोरसम्भवित्वेनेत्यर्थः । मिश्रास्तु सामग्रीधारायां कस्याश्चिन्निरपेक्षत्वस्वीकारे तत्रैव
मकरन्दः ।
अत एव परिमले तदेवोक्तमिति चेत् । मैवम् । अनवस्थाभिया सामग्री निरपेक्षा आकाशादिवन्न
कादाचित्की । तथाच निरपेक्षसामग्रीरूपविपक्षाद्व्यावृत्तिरुक्ता । आकाशादिविपक्षव्यावृत्तेश्च स्फुट-
त्वादप्रदर्शनम् । निरपेक्षसामग्रीसापेक्षं कार्यमप्यकादाचित्कमिति सपक्षाद्व्यावृत्तं कादाचित्कत्वम-
साधारणं स्यात् । तथाच तद्द्वयेन निरपेक्षस्यापि कादाचित्कत्वस्वीकारेण साधारणैकान्तिकतया
नायं हेतुः सापेक्षत्वसाधक इत्याशयवानाहेत्यत्र तात्पर्यात् । न च प्रागभावरूपविपक्षव्यावृत्त-
त्वाभावान्नासाधारण्यं स्यादिति वाच्यम् । प्रागसत्त्वादिघटितकादाचित्कत्वस्य प्रागेव निरुक्तेः ।
तद्विपक्षत्वानिश्चयदशायां वा तथात्वात् । यद्यप्येवं पक्षवृत्त्यपि न कादाचित्कत्वमित्यप्रसिद्धं, न
त्वसाधारणं तथापि विशेषादर्शनदशायां तदित्येके । अगमकत्वमेव तेनोपलक्षितमित्यन्ये । के-
चित्तु असाधारणमित्यत्र अ-पदं निषेधवाचकं विविच्य व्यावृत्तपदेन योजनीयम् , तथाच सपक्ष-
विपक्षाभ्यामव्यावृत्तेः साधारणमित्यर्थः । अत एव साधारण्यमेवाग्रे व्युत्पादितम् । तथाच परिम-
लसंवादोऽपीति वदन्ति । सामग्र्याः सापेक्षत्वेऽनवस्था, निरपेक्षत्वे व्यभिचारादसाधारणं न पक्ष-
दृष्टान्तसाधारणव्याप्यमितियावदित्यर्थ इत्याहुः ।
टिप्पणी ।
न च प्रागभावेन सह दृष्टान्तासम्भवः तस्य प्रागसत्त्वाभावादिति वाच्यम् । यथा निरपेक्ष एव प्रा-
गभावः कदाचित् प्रतिपाद्यस्तथा सामग्र्यादिरपीति कादाचित्कत्वान्तेन प्रतिपादनात् तत्सम्भव इदा-
नीं निरपेक्षाया अपि सामग्र्या नेत्रे निमील्यैव प्रागसत्त्वं स्वीकरणीयमेव अन्यथानवस्थामात्रपरिहा-
रकत्वे सदातनत्वापत्तिसन्दर्भे तत इत्यादेर्विरोधः स्यादिति विभाव्यमिति प्राहुः ॥०॥ तद्भादती-
ति । तथा च नावधिसिद्धावपीति तद्वदित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यस्तेन मूलस्थाशयस्थ

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् ।
प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् ।
बोधनी ।
तदेतत् प्रसङ्गमभिधाय विपर्यये पर्यवसानमिति व्याचष्टे—प्रवाहो नादिमानेषः-इति ।
अनुपलभ्यमानपूर्वकोटेः कारणस्य पूर्वावधिविरहे तस्यानादित्वात् कादाचित्कत्वव्याघातः स्यात् ।
तस्मात्तस्यापि कश्चित् पूर्वावधिरस्ति, एवं तस्यापीति कारणप्रवाहोऽयमादिमान् भवति । पश्चि-
मे तु व्याख्यानेऽनुपलभ्यमानपूर्वावधेरपि कार्यस्य पूर्वावधिसापेक्षत्वम्, अन्यथा तत्कार्यस्या-
नादित्वप्रसङ्गादिति परिहारार्थः । नन्वस्तु कारणप्रवाहोऽनादिस्तथाप्येकजातीयं कार्यमेकजातीयात्
कारणाद् भवतीति नियमो नास्ति, विजातीयेभ्य एव तृणादिभ्य एकजातीयाग्नेरुत्पत्तिदर्शनात् ।
न चैवमाकस्मिकः कार्यजातिनियमः, विजातीयेष्वपि कारणेषु एकशक्त्यङ्गीकारादेव तदुपपत्तेरि-
त्यत आह—न विजाति-इति । विविधा जातिर्यस्य तद् विजाति । एका शक्तिर्यस्य तदेक-
प्रकाशः ।
रिति न तावतैव कारणसिद्धिरंशतः सिद्धसाधनं चेति भावः ।
प्रवाह इति । एष कार्यकारणप्रवाहः । अनादिमान् । तत्तत्सामग्रीमान्, तत्तत्सामग्र्य-
पि स्वसामग्रीपरम्पराधीनेति न तज्जन्यकार्यस्यानादित्वप्रसङ्गः । न चानवस्था । बीजाङ्कुरवद-
नादितया प्रमाणिकत्वादित्यर्थः । प्रागभावध्वंसयोस्तु पूर्वोत्तरकोटिकल्पने भावोन्मज्जनमेव बाध-
कमिति भावः । अनादित्वं च ध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । तथापि यद्व्यक्तितो यत्कार्यं
सैव व्यक्तिस्तत्र कारणं, न तु तज्जातीयमिति नैतावता कार्यजातीये कर्तृजातीयं
प्रकाशिका ।
व्यभिचारेण, सर्वत्र स्वीकारे च सापेक्षत्वस्यानवस्थया कादाचित्कत्वमसाधारणे न पक्षदृष्टान्तसाधा-
रणं न व्याप्ततया ग्रहीतुं शक्यमित्यर्थ इत्याहुः । अंशत इति । उभयावधित्वेनोपलभ्यमान-
घटादौ स्वीकारात् उभयावधित्वस्येत्यर्थः । केचित्तु अवध्यंशस्य सिद्धस्यैव साधनादित्याहुः । तद्ध-
दित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यः, तेन मूलस्थाशयस्थपूर्वपक्षयोरेकवाक्यतया न परी-
हारन्यूनतेति । नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह । अनादित्वञ्चेति । येन
मकरन्दः ।
अंशत इति । अवधेर्धर्म्याऽपि स्वीकारेण तदंशस्य सिद्धस्यैव साधनादित्यर्थः । तत्त-
दिति । तथाच नासाधारणमित्यर्थः । ननु बीजाङ्कुरादेः सादितया कथमनादित्वमित्यत आह ।
अनादित्वञ्चेति । ध्वंसव्याप्यत्वं सजातीयध्वंसव्याप्यत्वम् । तथाच, तद्घटत्वेन सादित्वेऽपि
टिप्पणी ।
पूर्वपक्षयोरेकवाक्यतया न परिहारन्यूनतेति । अंशतः सिद्धसाधनञ्चेतीति । उभयावधित्वे-
नोपलभ्यमानघटादौ स्वीकारादुभयावधित्वस्येत्यर्थः । केचित्ववध्यंशस्यासिद्धस्यैव साधनमित्यर्थत्व
इत्याहुः । भावोन्मज्जनमेव बाधकूमिति । तथा च प्रागभावपूर्वावधिकालस्य ध्वंसोत्तराविधि-
कालस्य च घटप्रागभावध्वंसयोरनधिकरणत्वेन घटाधिकरणत्वम्मवेदित्यर्थः । नन्वेकापि
सामग्री न प्रागभावप्रतियोगिनीत्यत आह—अनादित्वञ्चेति । येन रूपेणानादित्वम-
भिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । अस्ति च साक्षात् परम्परासाधारणघट-
सामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येतावति कृते तु प्रथ-
मशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादिनाप्यनादित्वपत्तिरतो
व्याप्येतिपर्यन्तानुधावनम् । यद्व्यक्ति इति । यद्व्यक्त्यनन्तरमित्यर्थः । नतायतेति ।

६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकान्याख्यायां
तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥
बोधनी ।
शक्ति विजाति चक्रशक्ति च कारणं विजात्येकशक्ति, तद्वान् कारणप्रवाहो न भवति ।
नैकजातीयस्य विजातीयं कारणमिति चार्वाकस्य निरासः, न च तदेकशक्तिमिति प्रसङ्गान्
मीमांसकस्येति । कारणवैजात्ये कार्यसाजात्यस्याऽऽकस्मिकत्वप्रसङ्गात् तृणादिभ्यो भवतोर्वान्तर-
जातिभेदोऽस्तीति तत्रैव तेषामुपयोगः । स चाग्न्यवान्तरजातिभेदस्य तृणादेश्च कार्यकारणभावोऽ
बहिरैरन्वयव्यतिरेकैर्गम्यः । तदुक्तं—तत्त्वे-इति । तत्त्वे-कार्यकारणभाव इति । यद्वा, तत्त्व
इति साध्यानाङ्गीकारप्रदर्शनम् । ततः परअनिष्टप्रसञ्जनं विजात्येकशक्तिमत्त्वेऽङ्गीक्रियमाणेऽ
न्वयव्यतिरेकयोर्यत्नवता भवितव्यम् । तावन्वेष्टव्यौ कार्यकारणभावावधारणाय, तौ तु न
लभ्येते इति भावः । सूक्ष्मजात्यभ्युपगमे सर्वत्र तदाशङ्कया दृश्यजातीयोर्व्याप्तिग्रहः स्यादिति
चेत्, तत्राप्येतदेवोत्तरं-तत्त्वे-इति । अन्वयव्यतिरेकयोस्तत्त्वे = याथात्म्ये यत्नवान् भव ।
सम्भाव्यमानेऽपि जातिभेदे दृश्यसामान्यविशेषाक्रान्तयोरन्वयव्यतिरेकाभ्यां व्याप्तिं गृहीष्वेत्यर्थः॥६॥
प्रकाशः ।
कारणम् । अव्यवहितप्राक्कालीनव्यक्तैरेव कारणत्वापत्तौ यागादीनामकारणत्वान्नालौकिकसाधन-
सिद्धिः, अतो न क्षित्यादिकर्तृत्वेनादृष्टाधिष्ठातृत्वेन चेश्वरसिद्धिः । न चैवं नियतजातीयकार्या-
नुत्पत्तिः । एकजातीयकार्यानुकूलशक्तिमत्त्वेन तदुपपत्तेरत्राह । न विजातीति । विल-
क्षणजातीयेष्वेका या शक्तिस्तद्वान्न प्रवाह इति सम्बन्धः । विजातिर्विरुद्धजातिरेकशक्तिमांश्चेति
वा । वक्ष्यमाणयुक्तेरित्यर्थः । तर्हि तृणादौ व्यभिचारेणाग्निकारणत्वं कथं ग्राह्यमिति तत्राह ।
तत्त्व इति । सामान्यविशेषाक्रान्तगोचरयोरन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे ग्राह्ये यत्नवता
पुरुषेण भाव्यमित्यर्थः ।
प्रकाशिका
रूपेणानादित्वमभिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वमित्यर्थः । अस्ति च साक्षात्पर-
म्परासाधारणघटसामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येता-
वति कृते प्रथमशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादीनामप्यना-
दित्वापत्तिरतो व्याप्येति ।
मकरन्दः ।
घटत्वेन तद्घटस्याप्यनादित्वमिति ध्येयम् । व्याप्तिश्च कालगर्भा । ननु घटादेः प्रागभाव-
टिप्पणी ।
पूर्वोक्तप्रयासेनेत्यर्थः । कर्तृजातीयमिति कर्तृपदद्धारमात्रपरमतो दण्डादेः कृत्याश्रयत्वविर-
हेऽपि न क्षतिः । नालौकिकसाधनसिद्धिरिति । अत्रेयं योजना, यतो न यागकर्त्रादेः कार-
णत्वमतो न सिद्धिरिति । यागस्यान्यवहितपूर्ववर्त्तित्वाभावात्तस्य कारणत्व एव फलपर्यन्तस्थायी
व्यापारः कल्प्यत इति स एवादृष्टरूपः सिद्ध्यतीति तदभावे नेति भावः । क्षित्यादिकर्तृत्वेनेति ।
कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन सामान्यतः कारणत्व एव कार्यत्वेन सामान्यतः कर्तृजन्यत्वानुमा-
नेऽस्मदादीनां तदसम्भवेनेश्वरः सिद्ध्यति तदेव न, कर्तुर्घटादिकार्यं प्रति विशिष्यैव कारणत्वादुक्ता-
नुमाने व्यभिचारशङ्का स्यादिति भावः । विजातिर्विरुद्धजातिमानिति विजातीयनिष्ठैकशक्तेः
सत्त्वे तन्निषेधानुपपत्तिः, असत्त्वेऽलीकप्रतियोगिकाभाव इति सिद्धयसिद्धिभ्यां व्याघात इत्यत आह
विजातारित्यादि । तथाहि एकशक्तेरेकजातिमति मीमांसकमतप्रसिद्धतया विजातिमति तस्य
खण्डनं नासङ्गतमिति । वस्तुतः पराभ्युपगतस्यैव तस्य खण्डनमिति । अन्यथा शक्तेरपि स्वमतेऽन-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ६५
प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावोऽपि घटादिः स्यात् । अनुप-
लभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेन्न । तावन्मात्रावधिस्वभा-
बोधनी ।
तत्र प्रवाहो नादिमानित्येतद् विवृण्वन्नस्योत्तरैकावधित्वेऽभिसंहितं प्रसङ्गमाह-प्रागभाव-
इति । एवमुत्तरैकावधिर्भावोऽनादिः स्यादिति । चार्वाकस्तु नेदमनिष्टप्रसञ्जनमित्याह-अनु-
पलभ्यमान-इति । सिद्धान्ती त्वनिष्टतामापादयति-न-तावन्मात्र इति । उत्तरैकावधिस्व-
भावत्वे कारणस्यानादित्वेन तस्मिन्नहनि कार्योत्पत्तिवत् पूर्वेद्युरपि तमेव भावमवधिं कृत्वा तदु-
त्तरस्य कार्यस्य सत्त्वप्रसङ्गः, तमन्तरेणापेक्षणीयाभावात्तस्य च तदानीमपि सत्त्वात् । एवं पूर्वेद्यु-
रपि सत्त्वप्रसङ्गात् कार्यस्य तदेव सदातनत्वमायातं यन्निरवधिपक्ष आपादितम् । प्रागभावे तु
प्राक्कोटिकल्पनायां भावोन्मज्जनप्रसक्तिर्बाधिका, साधिका च न काचिद्युक्तिरिति भावः । नन्व-
‘नादित्वेऽपि कारणस्य यस्मिन्नहनि कार्यं दृश्यते तस्मिन्नेवाह्नि भवनं कार्यस्य स्वभाव इत्याह-
प्रकाशः ।
प्रागभावो हीति । यद्यद्दृष्टप्राक्कोटितयैव भावरूपमपि कार्यं पूर्वावधिशून्यं स्यादिति
शेषः । अत्रेष्टापत्तिमाह । अनुपलभ्यमानेति । यत्र प्राक्कोटिः सामग्री नोपलभ्यते, तत्रा-
नादित्वमिष्टमेवेत्यर्थः । तावन्मात्रेति । अदृष्टपूर्वकोटित्वेनानादिभावमात्रावधिस्वभावत्वे यथा
तत्र दिवसे तस्य सत्त्वं तथा गतदिवसेऽपि तदित्यनादिभावोत्तरस्य तत्कार्यस्य सत्त्वप्रसङ्गः ।
एवं तत्पूर्वपूर्वदिनवृत्त्यपि तत्कार्यं स्यादित्यर्थः । तथाचाऽऽगन्तुकादेव तस्मात् कार्यस्य कादाचि-
प्रकाशिका ।
ननूत्तरैकावधित्वमापादकं परानभ्युपगतमत आपादकं पूरयति । यद्यदृष्टेति । भाव-
रूपमपीति । सामग्रीरूपमित्यर्थः । तेन तावन्मात्रावधीत्यादिमूलसङ्गतिः । अनादिभा-
वान्तरस्येत्यत्रापि भावपदं सामग्रीपरम् । एवं भावोऽपि घटादिरित्यत्र मूले भावपदं साम-
मकरन्दः ।
वत् तदुत्तरैकाऽवधित्वं परानभ्युपगतमेवेति कथमापादनमित्यत आह । यद्यदृष्टेति । तथाच
तद्भावेवेत्यादिना तदभ्युपगतमिति भावः । अदृष्टपूर्वकोटित्वेनेति । नन्वेष्टापत्तिः । अदृ-
ष्टपूर्वको टिकेऽनादित्वाम्युपगन्तारं प्रत्येवापादनात् । न च पूर्वदिने सत्त्वापादनेन प्रत्यक्षत्वापादन-
टिप्पणी ।
क्षीरादुक्तदोषतादवस्थ्यात्, विजातीत्यादि ग्रन्थस्तु प्रत्येकस्यैव निषेधप्रदर्शको नवाऽपि प्रत्येकेनैव
सम्बन्धात् , तत्र तस्य विजातिश्च एकशक्तिश्च विजात्येकशक्ती ते विद्येते अस्य इति विजात्येक-
शक्तिमानिति द्वन्द्वान्ते मतुपा सम्बन्धादिति । तर्हि तृणादावित्या दाविति । जात्यपेक्षया नियम
इत्यर्थः । तत्त्वे नियतत्वे इति । अवधेर्नियतत्वत इत्यत्र नियतशब्दोपस्थानात्तच्छब्देनात्र
तत्प्रतिपादने नासङ्गतिः ।
प्रागभावो हीतीति । प्रागभावेत्यादिदृष्टान्तविधयोक्तम् । तथा च यद्यद्दृष्टेत्यादिशून्यं
स्यात्तदा यथा प्रागभावो ह्युत्तरैकावधिरनादिस्तथा तत् स्यादनादिः स्यादित्यर्थः । आपा-
दकस्यासत्त्वात् सामान्यत उत्तरैकावधित्वस्य परेणानभ्युपगतत्वादापादकं पूरयति यदीत्या-
दि । भावरूपमपीति । सामग्रीरूपमित्यर्थः, तेन तावन्मात्रावधीत्यादि मूलसङ्गतिः ।
सर्वत्र भावपदं सामग्रीपरम्, मूले घटादिपदमपि सामग्रीपरमेवेति । अथवा अस्तु तत्र तथा
उपलभ्यमानप्राक्कोटिकघटादेरिति तावन्मात्रेत्यतः पूर्वं पूरणीयम् । घटादिपदं यथाश्रुत-
तात्पर्यकमेवेति । तथाच तत्रानादित्वस्येष्टत्वसम्भवेऽपि अत्रोभयोरनिष्टत्वान्नासङ्गतिः ।
९ न्या० कु०

६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकान्याख्यायां
वत्वे तदहर्वत् पूर्वैरद्युरपि तमवधीकृत्य तदुत्तरस्य सत्त्वप्रसङ्गात्, अपेक्षणी-
यान्तराभावात् । एवं पूर्वपूर्वमपि । भावे, तदेव सदातनत्वम् । तदहरेवानेन भ-
बोधनी ।
तदहरेव-इति ।
प्रकाशः ।
क्तत्वं निर्वहतीति भावः । तदहर्वदिति, समासान्तविधेरनित्यत्वात् समाधेयम् । तदवधिस्व-
भावत्वे यत्र दिनेऽयमध्यक्षस्तत्रैवानेनोत्पत्तव्यमित्येषोऽपि तस्य स्वभाव इति शङ्कते । तदहरे-
वेति । अत्राहःपदेन कालमात्रमभिप्रेतम् । तदनादित्वे तावन्मात्रावधेर्घटादेरप्यनादित्वप्रसङ्गादि-
त्यनाद्यनित्यप्रवाहसिद्धये तथाविध एव कालोपाधिर्वाच्यः, तथाच तस्याप्यनादिरूपादृष्टावधि-
प्रकाशिका ।
श्नीपरमेव । एवमग्रिममूलेऽपि । तावन्मात्रावधेर्घटादेरिति । यद्यप्यहोऽवधित्वं पूर्वपक्षिणा
नोक्तं किन्तु कार्यस्य तन्नियतोत्पत्तिस्वभावकत्वम् । तथापि निरवधित्वे तदेवानुपपन्नमिति तस्यैवाव-
धित्वं वाच्यं तथासति दूषणमिदमिति भावः । अदृष्टावधीति । अदृष्टप्राक्कोटिकावधीत्यर्थः ।
घटसामग्रीवद्दिनसामग्र्या अप्यदृष्टप्राक्कोटिकत्वेनानादित्वेन तदुत्तरस्य दिनस्यानादित्वप्रसङ्ग
मकरन्दः ।
मभिमतमिति वाच्यम् । तथापि तस्योत्तैरेकाऽवधित्वाभ्युपगमेन पूर्वावधिशून्यतयानादिभावमा-
त्रावधिस्वभावत्वं इत्यसङ्गतापातादिति चेन्मैवम् । दृष्टप्राकोटिकघटाभिप्रायेणैव प्रकृतापादनात् ।
नचादृष्टपूर्वकोटित्वेनेत्यसिद्धम् । अदृष्टपूर्वकोटित्वेनानादिर्यो भावः सामग्रीरूपस्तावन्मात्रावधिस्वभा-
वत्व इत्यर्थात् । तथाच नादृष्टप्राक्कोटितयैवानादित्वम् । अन्यथा कस्याश्चिद् घटसामग्र्या
अपि तथात्वेनानादितया तदुत्तरस्य घटस्यानादित्वं स्यादिति भावः । अदृष्टावधीति । अदृष्ट-
टिप्पणी ।
समाधेयमिति । अस्तु घटादिप्राकोटिकत्वेनोपलब्धा सामग्री सापेक्षाऽपेक्षणीयस्य नापेक्षान्तर-
मित्याकाङ्क्षायां मूले । एवमिति । तदेव पूर्वैरित्यादि प्रतिपाद्यसत्त्वमेवेत्यर्थः । तथाच तन्नि-
बन्धनं प्रागभावाप्रतियोगित्वरूपमनादित्वमेव तत्र सदातनत्वमिति भावः । तदवधिस्वभाव-
त्व इति । अदृष्टप्राक्कोटिकत्वेनानादिभावमात्रावधिस्वभावत्व इत्यर्थः । तस्य स्वभाव इती-
ति । तथा च दर्शनं विनाऽवधेरस्वीकारेऽपि प्रागसत्त्वघटितकादाचित्कत्वस्य निर्वाहादेवेति भा-
वः । कालमात्रमभिप्रेतं तदनादित्व इति । कालत्वरूपसामान्यधर्मेण प्रागुक्तस्वभाव-
घटककालस्यानादिकालसाधारणतया तस्य स्वभावघटककालस्यानादित्व इति भावार्थः । ताव-
न्मात्रावधेरिति । यद्यप्यहोरवधित्वं पूर्वपक्षिणा नोक्तं किन्तु तन्नियतकालोत्पत्तिकत्वमिति
तावन्मात्रावधेरित्यसङ्गतम्, तत्पदस्यानुपदोक्तपरामर्शत्वस्यैव व्युत्पन्नतया तत्पदेन कालस्यैव
बोधनात् । तथापि निरवधित्वे तदेवानुपपन्नमिति तस्यैवावधित्वं वाच्यमित्यभिप्रेतम् । अत्रादृष्टावधि
स्वभावत्व इत्यस्यावधित्वप्राक्कोटिकावधित्व इत्यर्थः । तदुत्तरमित्यत्र तत्पदञ्चालोपाधिपर-
मिति कश्चित् । वस्तुतः, तावन्मात्रस्वभावत्व इत्यस्यैकदेशस्य विभक्तिसहकारेण तदर्थस्यानुवा-
दोऽयम् । अत एव तदवधिस्वभावत्व इत्यनुपदमेवोक्तम् । अत्रादृष्टप्राक्कोटिकावधिमत्त्व इत्यर्थः ।
तत्पदंतथाविधावधिपरम् । तथा च द्वितीयस्वभावघटककालस्यानादित्वेऽदृष्टप्राक्कोटिकत्वेनानादि
भावेतराविधिशून्यस्यानादित्वं दुष्परिहरणीयमेव स्यादिति भावः ॥०॥ अनाद्यनित्यप्रवाहेति ।
नचानादित्वस्य ध्वंसव्याप्यप्रागभावप्रतियोगित्वरूपस्यैव वाच्यतया अनित्यपदं व्यर्थमिति
वाच्यम् । तादृशानादित्वतात्पर्यग्राहकमेव तदिति न वैय्यर्थ्यम् ॥०॥ सामानाधिकरण्यमुपपादय-