न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 97, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] स्वभावकारणतावादखण्डनम् ।
प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् ।
बोधनी ।
तदेतत् प्रसङ्गमभिधाय विपर्यये पर्यवसानमिति व्याचष्टे—प्रवाहो नादिमानेषः-इति ।
अनुपलभ्यमानपूर्वकोटेः कारणस्य पूर्वावधिविरहे तस्यानादित्वात् कादाचित्कत्वव्याघातः स्यात् ।
तस्मात्तस्यापि कश्चित् पूर्वावधिरस्ति, एवं तस्यापीति कारणप्रवाहोऽयमादिमान् भवति । पश्चि-
मे तु व्याख्यानेऽनुपलभ्यमानपूर्वावधेरपि कार्यस्य पूर्वावधिसापेक्षत्वम्, अन्यथा तत्कार्यस्या-
नादित्वप्रसङ्गादिति परिहारार्थः । नन्वस्तु कारणप्रवाहोऽनादिस्तथाप्येकजातीयं कार्यमेकजातीयात्
कारणाद् भवतीति नियमो नास्ति, विजातीयेभ्य एव तृणादिभ्य एकजातीयाग्नेरुत्पत्तिदर्शनात् ।
न चैवमाकस्मिकः कार्यजातिनियमः, विजातीयेष्वपि कारणेषु एकशक्त्यङ्गीकारादेव तदुपपत्तेरि-
त्यत आह—न विजाति-इति । विविधा जातिर्यस्य तद् विजाति । एका शक्तिर्यस्य तदेक-
प्रकाशः ।
रिति न तावतैव कारणसिद्धिरंशतः सिद्धसाधनं चेति भावः ।
प्रवाह इति । एष कार्यकारणप्रवाहः । अनादिमान् । तत्तत्सामग्रीमान्, तत्तत्सामग्र्य-
पि स्वसामग्रीपरम्पराधीनेति न तज्जन्यकार्यस्यानादित्वप्रसङ्गः । न चानवस्था । बीजाङ्कुरवद-
नादितया प्रमाणिकत्वादित्यर्थः । प्रागभावध्वंसयोस्तु पूर्वोत्तरकोटिकल्पने भावोन्मज्जनमेव बाध-
कमिति भावः । अनादित्वं च ध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । तथापि यद्व्यक्तितो यत्कार्यं
सैव व्यक्तिस्तत्र कारणं, न तु तज्जातीयमिति नैतावता कार्यजातीये कर्तृजातीयं
प्रकाशिका ।
व्यभिचारेण, सर्वत्र स्वीकारे च सापेक्षत्वस्यानवस्थया कादाचित्कत्वमसाधारणे न पक्षदृष्टान्तसाधा-
रणं न व्याप्ततया ग्रहीतुं शक्यमित्यर्थ इत्याहुः । अंशत इति । उभयावधित्वेनोपलभ्यमान-
घटादौ स्वीकारात् उभयावधित्वस्येत्यर्थः । केचित्तु अवध्यंशस्य सिद्धस्यैव साधनादित्याहुः । तद्ध-
दित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यः, तेन मूलस्थाशयस्थपूर्वपक्षयोरेकवाक्यतया न परी-
हारन्यूनतेति । नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह । अनादित्वञ्चेति । येन
मकरन्दः ।
अंशत इति । अवधेर्धर्म्याऽपि स्वीकारेण तदंशस्य सिद्धस्यैव साधनादित्यर्थः । तत्त-
दिति । तथाच नासाधारणमित्यर्थः । ननु बीजाङ्कुरादेः सादितया कथमनादित्वमित्यत आह ।
अनादित्वञ्चेति । ध्वंसव्याप्यत्वं सजातीयध्वंसव्याप्यत्वम् । तथाच, तद्घटत्वेन सादित्वेऽपि
टिप्पणी ।
पूर्वपक्षयोरेकवाक्यतया न परिहारन्यूनतेति । अंशतः सिद्धसाधनञ्चेतीति । उभयावधित्वे-
नोपलभ्यमानघटादौ स्वीकारादुभयावधित्वस्येत्यर्थः । केचित्ववध्यंशस्यासिद्धस्यैव साधनमित्यर्थत्व
इत्याहुः । भावोन्मज्जनमेव बाधकूमिति । तथा च प्रागभावपूर्वावधिकालस्य ध्वंसोत्तराविधि-
कालस्य च घटप्रागभावध्वंसयोरनधिकरणत्वेन घटाधिकरणत्वम्मवेदित्यर्थः । नन्वेकापि
सामग्री न प्रागभावप्रतियोगिनीत्यत आह—अनादित्वञ्चेति । येन रूपेणानादित्वम-
भिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । अस्ति च साक्षात् परम्परासाधारणघट-
सामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येतावति कृते तु प्रथ-
मशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादिनाप्यनादित्वपत्तिरतो
व्याप्येतिपर्यन्तानुधावनम् । यद्व्यक्ति इति । यद्व्यक्त्यनन्तरमित्यर्थः । नतायतेति ।