सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 98, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 98

६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकान्याख्यायां
तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥
बोधनी ।
शक्ति विजाति चक्रशक्ति च कारणं विजात्येकशक्ति, तद्वान् कारणप्रवाहो न भवति ।
नैकजातीयस्य विजातीयं कारणमिति चार्वाकस्य निरासः, न च तदेकशक्तिमिति प्रसङ्गान्
मीमांसकस्येति । कारणवैजात्ये कार्यसाजात्यस्याऽऽकस्मिकत्वप्रसङ्गात् तृणादिभ्यो भवतोर्वान्तर-
जातिभेदोऽस्तीति तत्रैव तेषामुपयोगः । स चाग्न्यवान्तरजातिभेदस्य तृणादेश्च कार्यकारणभावोऽ
बहिरैरन्वयव्यतिरेकैर्गम्यः । तदुक्तं—तत्त्वे-इति । तत्त्वे-कार्यकारणभाव इति । यद्वा, तत्त्व
इति साध्यानाङ्गीकारप्रदर्शनम् । ततः परअनिष्टप्रसञ्जनं विजात्येकशक्तिमत्त्वेऽङ्गीक्रियमाणेऽ
न्वयव्यतिरेकयोर्यत्नवता भवितव्यम् । तावन्वेष्टव्यौ कार्यकारणभावावधारणाय, तौ तु न
लभ्येते इति भावः । सूक्ष्मजात्यभ्युपगमे सर्वत्र तदाशङ्कया दृश्यजातीयोर्व्याप्तिग्रहः स्यादिति
चेत्, तत्राप्येतदेवोत्तरं-तत्त्वे-इति । अन्वयव्यतिरेकयोस्तत्त्वे = याथात्म्ये यत्नवान् भव ।
सम्भाव्यमानेऽपि जातिभेदे दृश्यसामान्यविशेषाक्रान्तयोरन्वयव्यतिरेकाभ्यां व्याप्तिं गृहीष्वेत्यर्थः॥६॥
प्रकाशः ।
कारणम् । अव्यवहितप्राक्कालीनव्यक्तैरेव कारणत्वापत्तौ यागादीनामकारणत्वान्नालौकिकसाधन-
सिद्धिः, अतो न क्षित्यादिकर्तृत्वेनादृष्टाधिष्ठातृत्वेन चेश्वरसिद्धिः । न चैवं नियतजातीयकार्या-
नुत्पत्तिः । एकजातीयकार्यानुकूलशक्तिमत्त्वेन तदुपपत्तेरत्राह । न विजातीति । विल-
क्षणजातीयेष्वेका या शक्तिस्तद्वान्न प्रवाह इति सम्बन्धः । विजातिर्विरुद्धजातिरेकशक्तिमांश्चेति
वा । वक्ष्यमाणयुक्तेरित्यर्थः । तर्हि तृणादौ व्यभिचारेणाग्निकारणत्वं कथं ग्राह्यमिति तत्राह ।
तत्त्व इति । सामान्यविशेषाक्रान्तगोचरयोरन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे ग्राह्ये यत्नवता
पुरुषेण भाव्यमित्यर्थः ।
प्रकाशिका
रूपेणानादित्वमभिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वमित्यर्थः । अस्ति च साक्षात्पर-
म्परासाधारणघटसामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येता-
वति कृते प्रथमशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादीनामप्यना-
दित्वापत्तिरतो व्याप्येति ।
मकरन्दः ।
घटत्वेन तद्घटस्याप्यनादित्वमिति ध्येयम् । व्याप्तिश्च कालगर्भा । ननु घटादेः प्रागभाव-
टिप्पणी ।
पूर्वोक्तप्रयासेनेत्यर्थः । कर्तृजातीयमिति कर्तृपदद्धारमात्रपरमतो दण्डादेः कृत्याश्रयत्वविर-
हेऽपि न क्षतिः । नालौकिकसाधनसिद्धिरिति । अत्रेयं योजना, यतो न यागकर्त्रादेः कार-
णत्वमतो न सिद्धिरिति । यागस्यान्यवहितपूर्ववर्त्तित्वाभावात्तस्य कारणत्व एव फलपर्यन्तस्थायी
व्यापारः कल्प्यत इति स एवादृष्टरूपः सिद्ध्यतीति तदभावे नेति भावः । क्षित्यादिकर्तृत्वेनेति ।
कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन सामान्यतः कारणत्व एव कार्यत्वेन सामान्यतः कर्तृजन्यत्वानुमा-
नेऽस्मदादीनां तदसम्भवेनेश्वरः सिद्ध्यति तदेव न, कर्तुर्घटादिकार्यं प्रति विशिष्यैव कारणत्वादुक्ता-
नुमाने व्यभिचारशङ्का स्यादिति भावः । विजातिर्विरुद्धजातिमानिति विजातीयनिष्ठैकशक्तेः
सत्त्वे तन्निषेधानुपपत्तिः, असत्त्वेऽलीकप्रतियोगिकाभाव इति सिद्धयसिद्धिभ्यां व्याघात इत्यत आह
विजातारित्यादि । तथाहि एकशक्तेरेकजातिमति मीमांसकमतप्रसिद्धतया विजातिमति तस्य
खण्डनं नासङ्गतमिति । वस्तुतः पराभ्युपगतस्यैव तस्य खण्डनमिति । अन्यथा शक्तेरपि स्वमतेऽन-