न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 95, कुल 608 में से
संदर्भ में पढ़ेंनस्य दुरपह्नवत्वात् । त्वयाप्येतदभ्युपगन्तव्यम् । न हि भाववदभावेऽप्यु-
बोधनी ।
अयमत्र भावः-यथा निरपेक्षत्वे कादाचित्कत्वं न सम्भवति तथा सापेक्षत्वेऽप्यपेक्षणीयस्य स-
दातनत्वेन कार्यस्यापि तथात्वापत्तेः, तस्मान्निरपेक्षाद् गगनादिव सापेक्षादपि व्यावर्तमानं कादा-
चित्कत्वमसाधारणत्वान्न सापेक्षत्वसाधकमिति । अक्षरार्थस्तु- उत्तरस्यानुपलभ्यमानोत्तरावधे-
र्भावस्य पूर्व एवावधिरस्तु, पूर्वस्यानुपलभ्यमानपूर्वावधेरुत्तर एवावधिरस्तु, मध्यमस्योपल-
भ्यमानोभयावधेरुभयं पूर्व उत्तरावधिरस्तु, तथा दर्शनात् । ननु सर्वस्याप्यवधिद्वयं वक्तव्यम्
अन्यतरावधेस्तदितरावधिव्याप्तत्वादित्यत आह--त्वयापि-इति । एतदेवावधित्वं त्वयाप्य-
ङ्गीकार्यं प्रागभावप्रध्वंसयोरेकावधित्वस्य सिद्धत्वात् । प्राक्प्रध्वंसाभाववदनुपलभ्यमानैककोटि-
केषु भावेष्वपि पूर्वैकावधित्वमुत्तरैकावधित्वं वा स्यात् । अत्रानुपलभ्यमानप्राक्कोटेर्भावस्य पूर्वा-
वधिविरह एव साध्यः । अवशिष्टस्य दृष्टान्ततयोपन्यासः ।
अथवायमर्थः । उत्तरस्य=प्रध्वंसस्य पूर्व एवावधिरवच्छेदकः नोत्तरः, भावोन्मज्जनप्रस-
प्रकाशः ।
पेक्षं कार्यं, सदातनत्वापत्तेः । नापि तत्सापेक्षं, सामग्र्यपि हि न तन्निरपेक्षा, तत्सदातनत्वे
तत्कार्यसदातनत्वापत्तेः । नापि तत्सापेक्षा, अनवस्थानात् । ततः प्रागभाववद् यथा सामग्री
निरपेक्षापि कादाचित्की तथा भावोऽपि घटादिः स्यादित्याशङ्कवानाह-
स्यादेतदिति । उत्तरस्य ध्वंसस्य । पूर्वो घट एवावधिर्न तु ध्वंसः । पूर्वस्य तु प्राग-
भावस्य उत्तरः प्रतियोग्येवावधिर्न तु प्रागभावः । मध्यमस्य तु घटादेः प्राग्भावो ध्वंसश्चे-
त्युभयमवधिनिरूपकोऽस्त्वित्यर्थः । दर्शनस्येति । सर्वलोकसिद्धत्वादित्यर्थः । दर्शनेन
चेत्कारणं सिद्धयति, तदा क्षित्यादौ कर्तुरदर्शनाद्धर्मादेश्चादर्शनात्तदसिद्धौ न तदधिष्ठातृसिद्धिरिति
निगर्वः । अनङ्गीकारे दण्डमाह । न हीति । अन्यथा प्रागभावप्रध्वंसयोरप्यनुपलभ्यमानपूर्वो-
प्रकाशिका ।
क्तत्वमिति । न च तथापि मूलस्य पूर्वपक्षानुद्धारे न्यूनता सिद्धान्तस्येति वाच्यम् । उत्तरस्थे-
त्यादेर्यथाश्रुतार्थस्यैव विपक्षपदार्थतया तदुद्धारेणैव तदुद्धरणात् । सामग्रीधारास्वीकारेऽनवस्थेति
निरपेक्षसामग्रीसापेक्षत्वं सामग्र्यपेक्षत्वं वा कार्यस्य वाच्यमुभयथापि कादाचित्कत्वमसाधारणं
सर्वतो व्यावृत्तमसाधारणमप्रसिद्धमिति यावत् । अतो निरपेक्षत्वे सत्यपि सामग्र्याः कादाचि-
मकरन्दः ।
यत्स्थितमनवस्थापरिहारपरत्वेन तत्सङ्गतेरिति भावः । नन्वनवस्थाभयात् प्रागभाववन्निरपेक्षापि
सामग्री कादाचित्कीत्यनेन विपक्षगामितया साधारणानैकान्तिकप्रदर्शनात् कथमसाधारण्यम् ?
टिप्पणी ।
सामग्रीति । अनवस्थाभयेन निरपेक्षसामग्रीसापेक्षन्तन्निरपेक्षत्वात्कार्यमवश्यं वाच्यम् , तथा
च कादाचित्कत्वमुभयतोऽसाधारणमर्थादप्रसिद्धमित्येवार्थम्पूर्वपक्तिकाविवरणमाह । तथाहीत्याद्य-
नवस्था स्यादित्यन्तेन । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेनाव्यावर्त्तत्वेन साधारणमि-
त्यर्थः । अत्र तथाहीत्यादि स्यादित्यन्तेन निरपेक्षसामग्रीसापेक्षघटादौ निरपेक्षायां सामग्र्यां
तस्य वृत्तित्वमिति सम्पाद्यते । ततः प्रागभाववदित्यादि । ततः=कादाचित्कत्वस्य प्रसि-
द्धितः । तथा चात्र कादाचित्कत्वं न मूलनिरुक्तमपि तु यत्किञ्चित्कालासम्वन्धित्वे सति यत्किञ्चि-
त्कालसम्बन्धित्वरूपं तस्यैव च व्यवहारः प्रागभावघटादावपीति न तेन हेतुमत्त्वसिद्धिः । केचित्तु
तस्य तथाप्रसिद्धितः सापेक्षत्वव्याप्यत्वं न स्वीकारणीयमिति कथमव्याप्येन हेतुना हेतुमत्त्वसिद्धिः ।