सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

५३० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ९ कारिकाव्याख्यायां
कृताकृतविभागेन कर्त्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना ॥ ९ ॥
यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् । हेतुसत्त्वप्रति-
सन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्कुरादौ तदव्यवहारात् करोत्यर्थो
यत्न एव तावदवसीयते । अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटा-
दयः कृताः, न कृतास्त्वङ्कुरादय इति कुतो व्यवहारनियमः । तेन च सर्वमाख्या-
तपदं विधीयते इति सर्वत्र स एवार्थ इति निर्णयः । तथा च समुदिते प्रवृत्तं पदं
तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् ।
प्रकाशः ।
यत्नार्थकत्वमित्याह कृताकृतेति । कृतिश्च करोत्यर्थः । एवमाख्यातस्य यत्नपदपर्यायताऽऽपत्तिं
निरस्यति पूर्वेति । परस्मिन्नुत्तरकालवर्त्तिनि धात्वर्थे सति सैव कृतिरेव पूर्वा साधनीभूता
भावनेत्युच्यते । तेन फलसाधनीभूतः प्रयत्नो भावना, सैव चाख्यातवाच्या ।
यद्वा फलानुकूलधात्वर्थपूर्वापरव्यापारप्रचयजनिका पूर्वापरस्मिन् पूर्वापरीभूतत्वे सति
कृतिराख्याताथो भावना । भाव्यते फलमनयेति व्युत्पत्तेरित्यर्थः ।
नन्वेवं पूर्वापरीभूतत्वं यत्नत्वमनुकूलत्वञ्चेति त्रितयमाख्यातवाच्यमिति तदभावे कथमाख्यात-
पदमचेतनेषु प्रयुज्यते इत्यत आह तथा चेति । यत्नस्य पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातं,
धात्वर्थस्य फलानुकूलतामात्रे रथो गच्छतीत्यादौ प्रयुज्यते इति लाक्षणिकमित्यर्थः । समुदितप्रवृत्तस्य
पदस्यैकदेशे प्रयोगे निदर्शनमाह विशुद्धिमात्रमिति । श्रोत्रियश्छन्दोऽधीते इत्यनुशासनाच्छन्दो-
ऽध्येतृब्राह्मणव्यक्तिः, जन्मना ब्राह्मणो ज्ञेय इति स्मृतेर्जन्मसंस्कारविद्यासमुदायवद्ब्राह्मणव्यक्तिर्वा
श्रोत्रियपदशक्या अतो विशुद्धब्राह्मणमात्रे यथा लक्षणया प्रयोगः, विशिष्टशक्तपदस्य विशेषणे
शक्यसम्बन्धिनि तात्पर्यादित्यर्थः । ननु शक्यैकदेशे प्रयोगो न लाक्षणिकः, उपस्थित्यर्थं हि लक्षणा,
विशिष्टशक्तपदाद्विशिष्टोपस्थितौ विशेषणमप्युपस्थितमेवेत्ययोग्यतया विशेष्यांशमपहाय विशेषणा-
न्वयस्य मुख्यवृत्त्यैवोपपत्तेः । मैवम् । तस्य धर्म्यन्तरान्वितत्वेनोपस्थितस्येतरधर्म्येनाकाङ्क्षिततया
स्वतन्त्रतदुपस्थित्यर्थं लक्षणाया न्याय्यत्वात् ।
अत एव 'पुरोडाशकपालेन तुषानुपवपती'त्यत्र पुरोडाशप्रयोजनकत्वेनोपस्थितस्य कपालस्य
प्रयोजनान्तरानाकाङ्क्षितत्वात् स्वतन्त्रकपालोपस्थितयेऽधिष्ठानलक्षणा । पङ्कजं कुमुदमित्यत्र
प्रकाशिका ।
योजनामात्रभेदायाह यद्वा फलानुकूलेति । अर्थप्रदर्शनपूर्वकं योजयति पूर्वापरस्मिन्निति ।
नन्वेवमिति । यद्यपि कृताकृतेत्यादिना यत्नत्वस्य यत्नपदपर्यायतापत्त्यानुकूलत्वस्य वाच्यतापरं
प्रतीयते न तु पूर्वापरीभूतत्वस्यापि वाच्यत्वे काचन युक्तिरुक्ता, तथापि तत्प्रकारकप्रतीत्यनुरोधेन
पूर्वापरीभूतत्वमपि वाच्यमिति त्रितयमपि वाच्यमित्युक्तम् ।
मकरन्दः ।
नन्वेवमिति । यद्यपि द्वयवाच्यतयैव यत्नपदपर्यायतानिरासस्तथापि पूर्वापरीभूतत्वप्रकारक-
प्रतीतिमभ्युपेत्य तदप्याख्यातपदवाच्यमित्युक्तमिति ध्येयम् ।
टिप्पणी ।
करोत्यर्थो यत्न एवेति । यत्तु शाब्दिकाः कृञो यत्नार्थत्वे यतधातोरिवाकर्मकत्वापत्तिरिति,
तन्न, द्वितीयार्थप्रकारकान्वयबोधं प्रति यतधातुजन्ययत्नविषयकोपस्थितित्वेनैव प्रतिबन्धकत्वं कल्प्यते
न तु कृञ्धातुजन्योपस्थितित्वेनेति नास्त्यनुपपत्ति ।

अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते
अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु । न च वृत्त्यन्तरेणापि
प्रयोगसम्भवे शक्तिकल्पना युक्ता । अन्याय्यश्चानेकार्थत्वमिति स्थितेः। अत एवो-
भयोऽपि-यावदुक्तं भवति पाकानुकूलवर्त्तमानप्रयत्नवांस्तावदुक्तं भवति पच-
तीति । एवं तथाभूतार्तिवृत्तप्रयत्नोऽपाक्षीदिति । एवं तथाभूतभाविप्रयत्नः पक्ष्य-
तीति । न तु पचतीति पाकानुकूलयत्किञ्चिदिति । अन्यथाऽतिश्रावेऽपि परिश्रम-
शयाने पचतीति प्रत्ययप्रसङ्गात् ।
अपि च कर्तृव्यापार एव कृञर्थश्चेत्तन्न कर्त्ता, अन्यथा तद्व्यवस्थाऽनुपपत्तेः।
न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतोऽप्यकर्तृत्व-
प्रसङ्गात् । नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वं, योग्यताया
एवानिरूपणात् । फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात्। नापि विव-
क्षातो नियमः अविवक्षादशायामनियमप्रसङ्गात् । स्वव्यापारे नेदमनिष्टमिति चेत्।
एवं तर्हि 'स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिवि-
लोपप्रसङ्गः। न स्वव्यापारापेक्षया करणादिव्यवहारः, किन्तु प्रधानक्रियापेक्षया ।
अस्ति हि काञ्चित् क्रियामुद्दिश्य प्रवर्त्तमानानां कारकाणामवान्तरव्यापारयोगो,


प्रकाशः ।
पङ्कगतत्वेन उपस्थितस्य पङ्कजनिकर्तृत्वस्य धर्म्यन्तरनिराकाङ्क्षितत्वात् कुमुदपरत्वे पङ्कजपदस्य
लक्षणेति विवक्षितं द्वितीयाध्याये ।
अपिच अचेतनेषु सर्वत्राख्यातस्य गौणत्वं मा भूदिति मानिनस्तव यत्नस्याख्यातवाच्यत्वान-
भ्युपगमः, तच्च तवाप्यापतितमित्याह अन्यथाऽपीति । मध्यमोत्तमपुरुषलिङैः सम्बोध्यवक्तृ-
विषयत्वाच्चित्रस्यादौ तत्प्रयोगः । प्रथमपुरुषेऽपि जानातीत्यादिप्रयोगश्चाऽचेतने त्वन्मते यथा
गौणस्तथाऽस्मन्मते रथो गच्छतीत्यादावपि प्रयोग इत्यर्थः । न चाक्षादिपदवदनेकार्थत्वम् ।
अक्षादिपदवैधर्म्येण एकत्रैव वाचकता, अन्यत्र वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याह न चेति ।
अत्रैवानुभवं प्रमाणयति अत एवेति ।
अतिश्रावेऽपीति । श्रमाच्छयानस्य श्रमशान्तेः पाकानुकूलत्वादित्यर्थः । कर्तृरूपव्यवस्थयेति
व्याचष्टे अपि चेति । यस्य व्यापारं धातुराख्यातं वा प्राधान्येनाभिधत्ते, स्वतन्त्रश्चेतनोऽचेतनश्च
स कर्तेत्यत्राभिधानं यदि विशेषणं, तत्राह न हीति । कर्तृत्वमज्ञात्वा तत्र कर्तृपदप्रयोगाभावादवगते
कर्तृत्वे शब्देन तदभिधानम् , तेन कर्तृत्वावगम इत्यन्योन्याश्रयश्चेति भावः । अथाभिधानमुपलक्षण-
मुपलक्ष्या च तयोग्यता, तत्राह नापीति । योग्यतावच्छेदकरूपाज्ञाने अह्या ज्ञानादित्यर्थः ।
न च प्रधानक्रियानुकूलव्यापारत्वमेव तदवच्छेदकमित्याशङ्केत्याह फलेति । फलानुकूलव्यापार-
वत्तया यत्कारकं विवक्ष्यते, स कर्तेति नोक्तदोष इति मतं निरस्यति नापीति । ननु स्वव्यापारे
सर्वेषां कर्तृत्वमिष्टमेवान्यत्र करणत्वादित्याह स्वव्यापार इति । तर्हीति । प्रधानक्रियापेक्षयैव

प्रकाशिका ।
अक्षादिपदवैधर्म्येणेति । तत्रैवात्र तुल्यवत्प्रयोगाभावेनेत्यर्थः । धातुराख्यातं चेति ।
धातोर्व्यापारफलवाचकत्वविकल्पेनायं विकल्पः ।

मकरन्दः ।
अक्षादिपदवैधर्म्येणेति । विनिगमकाभावात्तत्रोभयत्र शक्त्या नानार्थत्वमत्र चैकत्रैव निरु-
पाधिप्रयोग इत्यत्र लक्षणा, अन्यथा गङ्गादिपदस्यापि तीरादौ लक्षणा न स्यादित्यर्थः ।

५३२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकान्याख्यायां
न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत् । तर्हि तदपेक्षयैव कर्तृकर्मादि-
व्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् । स्वातन्त्र्यादीति चेत् । ननु
तदेव किमन्यत् प्रयत्नादिसंमचायादिति विविच्यभिधीयतामिति । तस्मात् सर्वत्र
समानव्यापार एवाख्यातार्थः ॥ ६ ॥
तथापि फलानुकूलतैव प्रत्ययस्य प्रवृत्तिनिमित्तं, प्रयत्नस्त्वाक्षेपो लप्स्यते
इति चेत्, न-
भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः ।
तया विवरणश्रौव्यादाक्षेपानुपपत्तितः ॥ १० ॥
केन हि तदाक्षिप्येत । न तावदनुकूलत्वमात्रेण, तस्य प्रयत्नत्वेनाव्यापनात् ।
न हि यत्नत्वैकार्थसमवायेनेवानुकूलत्वम् । अत एव न संख्यया, तस्याः संख्येय-
मात्रपर्यवसायित्वात् । कर्त्रेति चेत् । न । द्रव्यमात्रस्याकर्तृत्वात् । व्यापारवतश्चा-
भिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् । नापि धात्वर्थेन तदाक्षेपः ।
विद्यते इत्यादौ तदसम्भवात् । न ह्यत्र धात्वर्थो भावनाऽपेक्षी, सत्ताया नित्यत्वात् ।
तत्र न भविष्यतीति चेत् । न । पूर्वापरीभूतभावनाऽनुभवस्याविशेषात् । भावनो-
परागेण ह्यतथाभूतोऽप्यर्थस्तथा भासते इति । न च पदान्तरलब्धयां भावनायांऽ-
प्रकाशः।
तत्कर्तृत्वं करणादिव्यावृत्तं तस्यैव किं लक्षणमित्यर्थः। स्वातन्त्र्यादीति । ‘स्वतन्त्रः कर्तेति’ पाणि-
निलक्षणादित्यर्थः । तस्यान्यस्य व्यवस्थाबीजस्याभावाज्ज्ञानचिकीर्षाकृतिसमवायित्वमेव तद्वाच्य-
मित्यह नन्विति ॥ ९ ॥ आक्षेपेति । पाकादीनां यत्नं विनाऽनुपपत्तेरित्यर्थः । पादत्रयस्य प्रागेव
विवृतत्वार्दन्तिमं पादं व्याचष्टे केन हीति । तत्प्रयत्नत्वमित्यर्थः । न हीति । प्रयत्नस्याप्यनुकूल-
त्वात् , तथात्वे वा रथो गच्छतीत्यादि तत्रापि गौणं स्यादित्यर्थः । तस्या इति । सङ्ख्यया सङ्ख्येय-
मात्राक्षेपेऽपि न प्रयत्नाक्षेपः, प्रयत्ने सङ्ख्याया अभावादित्यर्थः ।
कर्त्रेति । आख्यातवाच्येनेत्यर्थः । परमते तस्याऽऽख्यातवाच्यत्वात् । कर्ता न द्रव्य-
मात्रं, द्रव्यमात्रस्यायत्नवत्त्वात् तेन यत्नस्यानाक्षेपादित्याह द्रव्यमात्रस्येति । नापि व्यापारव-
न्मात्रं, यत्नरहितंस्याप्यचेतनस्य व्यापारवत्त्वात् , यत्नरुपन्यापारवदभिधाने तु प्रयत्नोऽपि वाच्य
एव स्यादित्याह व्यापारवतश्चेति । तत्रेति । आक्षेप इति शेषः । पूर्वेति । पचतीत्यादाविव
धात्वर्थानुकूलयत्नानुभवादित्यर्थः । ननु सत्ताया नित्यत्वे पूर्वापरीभावो विरुद्ध इत्यत आह भाव-
प्रकाशिका ।
अनुपस्थितेन कर्त्रा कथमाक्षेप इत्यत आह आख्यातवाच्येनेत्यर्थ इति ।
पचतीत्यादाविवैति । तथा च तत्रापि तदाक्षेप आवश्यक इति भावः । ननु यत्न- .
मकरन्दः।
ननु कर्ताऽप्यनुपस्थितः कथमाक्षेपहेतुः स्यादत आह आख्यातवाच्येनेति ।
पचतीत्यादाविवैति । तथा च तत्रापि तदाक्षेप आवश्यक इति भावः ।
टिप्पणी
व्याप्येन व्यापकमाक्षिप्यते अनुकूलत्वन्तु क्रियान्तरसाधारणं न यत्नत्वव्याप्यमित्याह तस्येति ।
यत्नत्वैकार्थसमवायीति । यत्नत्वाश्रयमात्रवृत्तीत्यर्थः । तत्र नेत्यादि । अन्यत्र तु स्यादिति
शेषः । नित्याया अपि सत्तायाः तिङन्तधात्वर्थतया साध्यत्वेन प्रतीयमानतया पचतीत्यादाविव
भावनान्वयाविशेषेऽपि भावनाक्षेपकत्वाभावादित्यर्थः ।

पञ्चमस्तवके ] ईश्वरसाधनम्। ५३३
नुकूलतायाः प्रत्ययार्थस्यान्वयः। तदसम्भवात्। न खलु प्रकृत्यैव साऽभिधीयते।
धातूनां क्रियाफलमात्राभिधायित्वात्। अन्यथा पाक इत्यादावपि भावनाऽनुभव-
प्रसङ्गात्। नापि चैत्र इत्यादिना पदान्तरेण। प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थ-
त्वात् ॥
ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमाक्षेपो
वा, कथमन्यथौदनमित्युक्ते, किं भुङ्क्ते पचति वेति विशेषाकाङ्गेति चेन्न। पच-
तीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात्। सा चाक्षेपाभिधानयोरन्यतर-
मन्तरेण न स्यात्। तस्यां दशायां न चेदाक्षेपो नूनमभिधानमेवेति ॥
प्रकाशः।
नेति। तदसम्भवादिति। ओदनं पचति चैत्र इत्यत्र पदान्तरेण भावनाऽनुपस्थानादित्यर्थः।
अस्माकन्तु अनुकूलयत्नोपस्थितावपि अयोग्यतया स नान्वीयते इति भावः। न हि धातुनेव
भावनोपरक्तार्थोऽभिधीयते इत्यत आह न खल्विति। प्रकृत्या धातुनेत्यर्थः।
फलस्य धात्वर्थतया पच्यर्थो विक्कित्तिर्लाघवाद्, न तु तत्फलको व्यापारोऽधःसन्तापन्नादिः।
न चैवं व्यापारविगमे फलसत्त्वकाले पचतीति प्रयोगापत्तिः। धात्वर्थानुकूलव्यापारवत्त्वस्याख्याता-
र्थतया व्यापारकाल एव पचतीति प्रयोगात्। अथैवं धात्वर्थतया फलं क्रियेति तण्डुलादेः कर्मता न
स्याद्, विक्कित्त्यादिजन्यफलभागित्वाभावादिति चेन्न। परसमवेतव्यापारफलशालिनः कर्मत्वात्।
स च व्यापारो धात्वर्थ आख्याताथॊ वा, उभयथाऽपि समवेतव्यापारफलशालिनस्तण्डुलादेः
कर्मत्वात्। विक्कित्त्यनुत्पादे व्यापाराविगमदशायां पाको वर्त्तते इत्यत्र पाकपदे व्यापारलक्षणेति
मतमाश्रित्योक्तं दूषणमिदम्।
अन्यथेति। यदि धातूनामेव भावनाऽभिधायकत्वमित्यर्थः। प्रकृतीति। प्रकृतिश्चैत्रपदं,
प्रत्ययः प्रथमा, तयोरुभयोरपि शुद्धप्रातिपदिकार्थतया न कारकार्थत्वं, व्यापारवतः कारकत्वेन
कारकार्थस्य भावनार्थत्वं सम्भाव्येतापीत्यर्थः। कथमिति। ओदनमित्युक्ते भावनाविशेषजिज्ञासा
तत्सामान्यज्ञानं विना न स्यादित्यर्थः। कर्मपदादाक्षेपात्तोऽभिधानतो वाऽऽवश्यकी तदुपस्थितिरिति
भावः। पचतीत्युक्त इति। कर्मपदानुच्चारणेऽपि तदभिधानाक्षेपयोरभावे पचतीत्यत्र भावनाधीर्न
स्यादिति भावनाऽभिधायकमाख्यातपदं कल्प्यमित्यर्थः।
ननु बीजेनाङ्कुरः कृतो बीजमङ्कुरं करोतीति यत्नं विनाऽपि कृञः प्रयोगाद् न यत्नो वाच्यः।
नापि कर्तृपदं यौगिकं, तथा सति कृञो यत्नार्थत्वे तृजश्च कर्तृर्थत्वे धातुप्रत्ययार्थयोः कृतिकर्त्रोः
परस्परमनन्वयापत्तेः, कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वात्। एवं कृञः क्रियार्थत्वे तृजश्च
तदाश्रयवाचकत्वे तयोः परस्परमन्वय एवेत्युभयदर्शने कर्मपदवत् कर्तृपदं रूढमेव।
तथाच कृताकृतविभागेन कर्तृरूपव्यवस्थया च कृञो यत्नोऽर्थ इति न तेन विवरणादा-
ख्यातस्य यत्नार्थत्वं, किन्त्वनुकूलत्वेन व्यापार एव तद्वाच्यः। तेन चेतनाचेतनयोर्धात्वर्थानुकूल-
व्यापारवत्त्वादाख्यातप्रयोगो मुख्यः। न चैवं पथि श्रमशयानेऽपि पचतीति प्रयोगापत्तिः, यत्नवाच-
कत्वेऽपि तण्डुलक्रियानुकूलयत्नवति पचतीति प्रयोगापत्तेः। यदि तु तस्य प्रयत्नविशेषो वाच्यः,
प्रकाशिका।
स्याद्यातवाच्यत्वे विद्यते व्योम इत्यादौ सर्वत्र भावनान्वयः स्यादित्यत आह अस्माकन्त्विति।
न च तत्रापि भावनानुभवो भवत्येवेति पूर्वोक्तेन विरोध इति वाच्यम्। वर्त्तमानत्वादिविशिष्ट-
भावनानुभवेऽपि सत्त्वादौ धात्वर्थे भावनानन्वयात् इत्याशयात्। ननु कारकत्वेऽपि न यत्नवाचकत्वं
व्यापारमात्रगर्भत्वात्कारकत्वस्येत्यत आह व्यापारतः कारकत्वेनेत्यादि।

५३४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
प्रकाशः ।
तदा ममापि व्यापारविशेषो वाच्य इत्यस्तु, यत्नधीस्त्ववाक्षेपात् धात्वर्थविशेषस्य पाकादेस्तेन
विनाऽनुपपत्तेः । न चाख्यातस्य यत्नो वाच्यः, पचतीत्यस्य पाकानुकूलयत्नवानिति विवरणादिति
वाच्यम् । तथा सति कर्तुरपि तद्वाच्यताऽऽपत्तेः । न हि पाकयत्न इत्येव विवरणम् । अथ तात्पर्य-
विवरणस्याऽऽक्षेपादिनाऽपि निर्वाहः, तुल्यं यत्नेऽपि । अत एव रथो गच्छति विद्यते व्योमेत्यत्र
न भावनाऽनुभवः । भावनाया धात्वर्थान्वयायोग्यतया त्वयाऽपि तत्र गौणत्वाङ्गीकारादिति ।
अत्र वदन्ति-चैत्रः पचतीत्यत्र पाकानुकूलयत्नानुभवात् सं एवाख्यातवाच्यः, लाघवात् । न
त्वनुकूलव्यापारः, यत्नत्वजात्यपेक्षया व्यापारत्वस्योपाधित्वेन गुरुत्वात् । न चाचेतनेऽप्याख्यात-
स्य मुख्यत्वार्थमनुगतो व्यापार एव शक्य इति वाच्यम् । शक्तिग्राहकेण लघुनि शक्तिग्रहात् ।
मुख्यत्वार्थं शक्तिकल्पने वृत्त्यन्तरोच्छेदापत्तेः । न च पाकस्य यत्नसाध्यत्वानुमित्या यत्नस्यापि
लाभादन्यलभ्यत्वेन स नाख्यातवाच्यः । चैत्रः पचतीत्यत्र चैत्रः पाकानुकूलवर्त्तमानयत्नवान्
प्रतीयते । न च पाकस्य वर्त्तमानयत्नेन प्राप्तिरस्ति, अतीतादौ व्यभिचारात् । नापि धात्वर्थेनानु-
मिते यत्ने आख्यातेन वर्त्तमानत्वान्वयवोधः सम्भवी, यत्नस्यापदार्थत्वात् , स्वार्थव्यापारवर्त्तमान-
त्ववोधनेनाख्यातस्य पर्यवसितत्वाच्च । न चाचेतने आख्यातस्य व्यापारावाचकत्वावधारणादेवं
कल्पनेति युक्तम् । गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोपपत्तेः । यत्नविगमदशायां
तज्जन्यव्यापारकाले पचतीत्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षण्या, रथो गच्छतीत्यत्र
यथा, अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः, अन्यथा तवापि यत्नकाले
पचतीति न स्यादिति ।
ननु धात्वर्थानुकूलयत्नस्याख्यातशक्यत्वे एककृतिकाल पचतीतिवत् कृतेर्ध्वंसे अग्रिमकृतेर-
नुत्पाददशायां मध्येऽप्यपाक्षीत् पक्ष्यतीति स्यात् । यत्नप्रचयस्य च शक्यत्वे पचतीति न स्यादेव,
एकदा तस्याभावात् । अथ भूतभविष्यतोर्यत्नाभावनिरूप्यत्वात् यत्नकाले तदभावान्नरोक्तदोष इति
चेन्न । ध्वंसानुत्पादयोर्यत्नविशेषप्रतियोगिकतया यत्नकालेऽपि तत्सत्त्वात् , तयोः सकलकृतिप्रति-
योगिकत्वाभावात् ।
मैवम् । यत्राख्यातवाच्ये प्रचये एकैकस्य वर्त्तमानव्यवहारनिमित्तत्वं, तत्र तावतां ध्वंसैः प्राग-
भावैश्च भूतभविष्यद्व्यवहारः, न तु वर्त्तमानव्यवहारनिमित्तकिञ्चिदभावात् , चेतनाचेतनभोजन-
गमनादौ तथैव प्रयोगात् , प्रयोगे सति निमित्तानुसरणात् । धातोराख्यातस्य चानुकूलव्यापारवाच-
कत्त्वादिभिरनन्यगतिकतया तथैव स्वीकाराच्चेति ।
चैत्र ओदनं पचति चैत्रेण पच्यते ओदन इत्यत्र कर्त्तरि कर्मणि आख्यातार्थसङ्ख्याऽन्वयात्
कर्तृकर्मणी लकारवाच्ये, तेन वाच्यगामिनी सङ्ख्येति नियमो भवति, अन्यथाऽऽक्षिप्तसङ्ख्यान्वये
प्रकाशिका ।
धात्वर्थविशेषस्येति । विद्यते व्योमेत्यत्र; भावनानुभवो न भवत्येवेत्यग्रे वाच्यमेवेति भावः ।
अन्यथा तत्रापि यत्नकाल इत्यादि, इदञ्च यत्नातिरिक्तस्यैव व्यापारस्य शक्यत्वमिति मतेन दूषणम्,
अन्यथा यत्नस्यापि व्यापारतया शक्यत्वेनासङ्गतेः, पच्यते इत्यत्र तु कर्मवाचकत्व इष्टापत्तिरत आह-
मकरन्दः ।
अन्यथा तथापि यत्नकाले पचतीत्यादि न स्यादिति । यद्यपि व्यापारत्वेन यत्न-
स्यापि शक्यत्वात्तत्काले पचतीति स्यादेव, तथापि तेनापि रूपेण यदि यत्नो न शक्यस्तदेवं दूषणं
वोध्यम् । अपरं शब्दप्रकाशे प्रपञ्चितम् ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५३५
स्यादेतत्, अभिधीयतां तर्हि कर्त्ताऽपि । तदनभिधाने हि सङ्ख्येयमात्रमा-
क्षिप्य सङ्ख्या कथं कर्त्तारमन्वियात्, न तु कर्मादिकमपि । शाकसूपौ पचति
शाकसूपौदनम् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्त्तारमविरुद्धमनुग-
च्छतीति चेत् । चैत्र ओदनं पचतीत्यत्र का गतिः ।
एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथा, यववराहादिवदिति चेत् । न, पच्यते
इत्यादावपि तथाभावप्रसङ्गात् । चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्य-
विरुद्धं कर्म्म समनुक्रामतीति चेत् । चैत्रमैत्राभ्यां शाकसूपौ पच्येते इत्यत्र का
गतिः ।
अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेत् । न, पचतीत्यादावपि तथाभावप्रस-
ङ्गात् । तत्र पूर्व्वक एव निर्णयः, पच्यते इत्यत्र त्वपर इति चेत् । न, विशेषाभा-
वात् । आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेत् । न, पच्यते पचते पद्यते
इत्यादि विप्लवप्रसङ्गादिति ।
प्रकाशः ।
नियमो न स्यादिति वैयाकरणमतमाह—अभिधीयतामिति । का गतिरिति । ओदनमित्ये-
कत्वेनोपस्थितेनैकत्वसङ्ख्याऽन्वयविरोध इति पचतीत्येकत्वमोदनान्वितं किन्न स्यादित्यर्थः ।
यववराहादीति । यवमयश्चरुर्भवतीत्यत्र दीर्घशूकस्य यवपदार्थतया निर्णीतस्य यवैर्यजेते-
त्यादौ न यत्र वाक्यशेषस्तत्रापि तस्यैव यवपदवाच्यता यथेत्यर्थः । तथाभावेति । आख्याताभि-
हितभावनायाः कर्त्रन्वयप्रसङ्गादित्यर्थः । तथा चौदनः पच्यते देवदत्त इति प्रयुज्येतेति भावः ।
अन्यत्रेति । चैत्राभ्यां चैत्रैः सूपः पच्यते इत्यत्र कर्मणि सङ्ख्याऽन्वयस्य निर्णीतत्वादत्रापि
तथेत्यर्थः । पचतीत्यादाविति । देवदत्त ओदनं पचतीत्यादावपि कर्मगतैकत्वान्वयप्रसङ्ग इत्यर्थः ।
तत्रेति । पचतीत्यत्र सङ्ख्याऽन्वयः कर्त्रा, पच्यते इत्यत्र कर्मणेत्यर्थः । विशेपेति । क्वचित् कर्त्तरि
क्वचित् कर्मणि सङ्ख्याऽन्वयस्य दृष्टत्वादन्यतरत्र नियामकाभावादित्यर्थः । पच्यत इति । पच्यत
इति दृष्टान्तार्थम् । अतो यथात्मनेपदात् पच्यते इत्यत्र कर्मणा सङ्ख्यान्वयः, तया पचते इत्य-
त्रापि स्यादित्यर्थः ।
नन्वाख्यातवाच्यत्वे कर्तुस्तद्वाच्यया सङ्ख्ययाऽन्वयबोधो न स्यात्, एकपदोपस्थापितपदार्थ-
योर्मियोऽन्वयबोधस्याव्युत्पन्नत्वात् , अन्यत्र भिन्नपदोपस्थापितानामेवान्वयबोधादित्यत आह—
प्रकाशिका ।
पच्यत इति । दृष्टान्तार्थमिति । तत्र प्रथम पृष्टेनैवेति । इदञ्च द्वयोस्तुल्यबलवत्तया-
मित्यवधेयम् ।
टिप्पणी ।
वैयाकरणः शंकते स्यादेतदिति । इत आरभ्य एवं प्राप्ते इत्यतः प्राक्तनेन सन्दर्भेण, तन्मते
चैत्रः पचतीत्यादावाख्यातेन कर्ता संख्या चाभिधीयते, तथाचैकत्ववच्चैत्राभिन्नकर्तृको वर्तमानकालिकः
पाक इत्यन्वयबोधः । यदि तत्राख्याताभिहितायाः संख्यायाः संख्येयाविनाभूततयाऽऽक्षिप्तेन कर्त्रा
सहान्वयो भवतीति ब्रूयात्, तदा कर्मणोऽपि संख्येयतया तत्रैव कुतो नान्त्रय इति शंकाऽनिवार्या
स्यात् । कर्तुराख्यातवाच्यत्वे तु समानपदोपात्तत्वेन तत्रैव संख्याऽन्वय उपपद्यत इत्यर्थः । न तु
कर्मादिकमिति । अन्वियादिति पूर्वेणान्वयः । का गतिरिति । कथं नोदने आख्यातार्थ-
संख्यान्वयः ॥

५३६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
दृश्यते च समानप्रत्ययाभिहितेनान्वयः सङ्ख्यायाः । तद् यथा–भूयते
सुप्यते इत्यादौ । न हि तत्र कर्त्रा कर्मणा वा अन्येनैव वा केनचिदन्वयः,
किन्तु भावेनैव । अनन्वये तदभिधायिनोऽनर्थकत्वप्रसङ्गात् । आक्षिप्तेन चान्वये
तत्रापि कर्त्रैवान्वयापत्तेः । को हि सुप्यते स्वपितीत्यनयोः कर्त्राक्षेपं प्रति विशेषः ।
स्यादेतत्, भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्यय-
वाच्ये, ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते । यस्तु प्रत्ययो न तत्रोत्पन्नः,
तदभिहिता सङ्ख्या, 'मुख्यं वा पूर्वचोदनाल्लोकवद्' (मी० १२, २, २३,) इति
न्यायेन कर्त्तारमेवाश्रयते इति नियमः । न । विपर्ययप्रसङ्गात् । 'शेषात् कर्त्तरि
परस्मैपदं' 'कर्त्तरि शबित्यनुशासनबलाद्भावकर्त्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता
सङ्ख्याऽपि ताभ्यामन्वीयते । यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहिता संख्या तेनैव
न्यायेन कर्म्म समाश्रयेदिति नियमोपपत्तेः । तस्मान्मतिकर्द्दममपहाय यथाऽनु-
शासनमेव गृह्यते इति प्राप्तम् । एवं प्राप्तेऽभिधीयते—
प्रकाशः ।
दृश्यते चेति । यथा भाववाचकाख्याताभिधेयसङ्ख्या तेनैवान्वीयते नत्वाक्षिप्तेन कर्त्रा, साका-
ङ्क्षयोग्यसन्नपदार्थमात्रस्यैवान्वयप्रतियोगित्वात् , भिन्नपदोपस्थापितस्य गौरवेणाप्रयोजकत्वात् ,
तथाऽऽख्यातवाच्ययोः कर्तृसङ्ख्ययोरप्यन्वय इत्यर्थः । न हीति । अन्वये वा कर्तुरनेकत्वे द्विवहुवच-
नयोः प्रयोगः स्यादिति भावः ।
यदि च भावसङ्ख्ययोरन्योन्यमनन्वयः तदा निश्चितान्वयपदत्त्वेनाख्यातमनर्थकं स्यादित्याह
अनन्वय इति । यथाक्षिप्तेन कर्त्रान्वयः सङ्ख्यायाः स्यात् , तदा स्वपितीत्यत्रेव सुप्यत 'इत्यत्रापि
तेनैव तदन्वयः स्यादित्याह आक्षिप्तेन वेति । को हीति । आक्षेपहेतोर्भावनाऽभिधानस्योभयत्रा-
विशेषादित्यर्थः ।
मुख्यं वेति । 'आग्नावैष्णवमेकादशकपालं चरुं निर्वपेत्, संग्रामे सरस्वतीमप्याज्यस्य यजेते'-
त्यत्राग्नावैष्णवधर्मा अग्रतो भवन्त्याहो सारस्वतधर्माः ? इत्यनियमे आग्नावैष्णवधर्मा एव प्रथमं
भवन्ति । अत्र हेतुः-पूर्वचोदनात्-प्रथममुपस्थितत्वात् अस्योदाहरणं-लोकवदिति । यथा
लोके यत्र विवादपदे साक्षिद्वयसत्त्वान्मुख्यः साक्षी पृष्टस्तमनुजानाति, द्वितीयश्च पृष्टस्तमपलपति ।
तत्र प्रथमपृष्टेनैव व्यवहारः तस्य मुख्यत्वात् , तथा कारकाणां प्रथमं कर्त्तैव देशित इति बाधकं
विना तेनैव सङ्ख्याऽन्वीयते इत्यर्थः ।
भावकर्त्ताराविति द्वन्द्वः तेनैव, मुख्यं वेत्यादिनैवेत्यर्थः । कर्मैवेति । तथा च पद्यते
ओदनं देवदत्त इति न स्यात् , किन्तु पद्यते ओदन देवदत्तेन इत्येव स्यादित्यर्थः । यथाऽनु-
शासनं, व्याकरणानतिक्रमेणोत्यर्थः । तथा च कर्त्तरि विहितस्याख्यातस्य सङ्ख्या कर्त्रा कर्मणि च
विहितस्य सा कर्मणाऽन्वेतीति नियम उपपद्यते इति भावः ।
प्रकाशिका ।
मुख्यं वेत्यादिनैवेत्यर्थ इति । ननु कारकेषु कर्तुः प्रथमं दर्शनादस्तु तथा कर्म्मणस्तु
न प्रथमोपस्थितिरिति न तत्रास्य न्यायस्यावतार इति चेत् । न कर्तृविशेषविध्यवरुद्धतया तद-
तिरिक्तविशेषानाकाङ्क्षत्वात् विशेषविध्यनवरुद्धेषु च कर्म्मण एव प्रथमोपस्थितत्वादित्याशयात् ।
मकरन्दः ।
मुख्यं वेत्यादिनैवेत्यर्थ इति । ननु तत्र कारके कर्तुः प्रथमं देशनादस्तु तथा, प्रकृते तु न
तस्य न्यायस्यावतारः कर्मणः प्रथममदेशनादिति चेन्न । यथा कारकेषु प्रथमं देशनात् कर्तुर्गुख्यत्वं
तयोद्देश्यतया कर्मणो मुख्यत्वमित्याशयादित्याहुः ।

पञ्चमस्तवके ] ईश्वरसाधनम्। ५३७
आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना ।
सङ्ख्येयमात्रलाभेऽपि साकाङ्क्षेण व्यवस्थितिः ॥ ११ ॥
सङ्ख्याऽपि तावदियं भावनाऽनुगामिनी; यं यं भावनान्वेऽति, तं तं सङ्ख्याऽ-
पीति स्थितेः एकप्रत्ययवाच्यत्वनियमात् । भावना च शुद्धं प्रातिपदिकार्थमात्रमा-
प्रकाशः ।
समानप्रत्ययोपात्तत्वे प्रत्यासत्त्यान्तरङ्गत्वात् सङ्ख्येयमात्रसाकाङ्क्षाऽपि सङ्ख्या भावनाऽन्वयिनै-
वान्वेति । अग्निना चैत्र ओदनं पचतीत्यत्र चैत्रपदार्थस्य निर्व्यापारत्वेनोपस्थितस्य भावनाऽऽ-
त्मकव्यापारसाकाङ्क्षत्वाद् भावनायाश्चाश्रयाकाङ्क्षत्वात् तेनैव भावनाऽन्वेति, न कर्मकरणादिना ।
द्वितीयादिना तस्य व्यापारवत्तयोपस्थितेर्व्यापारान्तरनिराकाङ्क्षत्वात्, भावनायाः साकाङ्क्षत्वेऽ-
प्यन्यतराकाङ्क्षाया आन्वयानङ्गत्वात् । ओदनः पच्यते चैत्रेणेत्यत्र तु कर्तुर्व्यापारवत्त्वेनोपस्थिते न
तत्र भावनाऽन्वयः किन्तु प्रथमानिर्दिष्टेण कर्मणा, तस्य व्यापारवत्त्वेनानुपस्थितेस्तत्साकाङ्क्षत्वात् ।
चैत्रेण सुप्यते इत्यत्र तु कर्तुर्निराकाङ्क्षत्वात् कर्मणश्चाभावाद् धात्वर्थेनैव सङ्ख्याया अन्वय इति
आक्षेपादेव कर्तृकर्मणोर्लाभे सङ्ख्याऽन्वयो, नियमस्य चान्यथोपपत्तौ न ते लकारवाच्ये इत्याह
सङ्ख्याऽपि तावदिति ।
शुद्धं-निर्व्यापारत्वेनोपस्थितम् । इदञ्च कर्तृकर्मणोराक्षेपलभ्यत्वं यद्भावनाविशेष्यत्वे सति
प्रथमान्तपदोपस्थाप्यत्वं, न तु सङ्ख्यालिङ्गानुमितिविषयत्वम्, अनुमित्या सङ्ख्येयमात्रगतत्वेन
सङ्ख्याप्रतीतेः । शब्दोपस्थापितसङ्ख्यायास्तदुपस्थापितेनैवान्वयनियमाच्चेति तत्त्वम् । किं तद्व्यापार-
विशिष्टे तद्व्यापाराश्रयणम् , उत व्यापारान्तरविशिष्टे ? तत्र नाद्य इत्याह आत्माश्रयत्वादिति ।
अन्त्ये, त्वनवस्थितेरिति भावः ।
प्रकाशिका ।
केचित्तु यथा कर्तुः प्रथमोपस्थितत्वं प्राधान्यं तथा च कर्म्मण उद्देश्‍यत्वं प्राधान्यमित्याशय इति
वदन्ति । ततुच्छम्-तेनैवेति ग्रन्थविरोधात् एवमपि विनिगमकाप्राप्तेश्चेति ।
यद्भावनाविशेष्यत्वे सतीति । भावनाविशेष्यस्य कर्तुः कर्म्मणो वा प्रथमान्त-
पदोपस्थाप्यत्वमेवाक्षेपलभ्यत्वमित्यर्थः । मिश्रास्तु विशिष्टमेव पारिभाषिकमाक्षेपलभ्यत्वमितरकारक-
व्यावृत्तं, तत्र च क्तान्तपदोपस्थाप्येऽतिव्याप्तिरिति सत्यन्तम् । सुप्यत इत्यादिभावप्रत्ययान्तोपस्था-
मकरन्दः ।
यद्भावनेति । भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्तपदेनोपस्थाप्यत्वमेवाक्षेपलय-
त्वमिति भावः ।
टिप्पणी ।
आक्षेपलभ्य इति । संख्येये कर्तरि, आक्षेपलभ्ये सति, अभिधानस्य शक्तेः, कल्पना
आख्यातस्य न भवति अनन्यलभ्यो हि शब्दार्थ इति न्यायात् । नन्वेवमाख्याताभिहित-
संख्यायाः कर्त्तर्येवान्वयो न कर्मणीति कुतोऽत आह संख्येयमात्रेत्यादि । तुशब्दोऽ-
प्यर्थकः, संख्यायाः संख्येयमात्राक्षेपित्वेऽपि यं यं पदार्थं भावनाऽन्वेति तं तं संख्यापीति व्युत्पत्त्या
व्यवस्थितिः संख्याऽन्वयनियमः, तथाच कर्तृविवक्षिताख्यातोपस्थाप्यसंख्यायाः कर्तरि, कर्म्म-
विहिताख्यातोपस्थाप्यसंख्यायाः कर्मण्यन्वय इति भावः ।
६८ न्या० कु०

५३८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकान्यायार्थो
काङ्क्षति । न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयत्वात् , समवायं
प्रति तदनुपयोगात् , विजातीयव्यापारवतोऽकर्तृत्वाच्च । न च द्वितीयाद्याः
प्रातिपदिकविभक्तयः । ततः प्रथमानिर्दिष्टेनैव भावनाऽन्वीयते इति तस्यान्वय-
योग्यतानियमात् सङ्ख्याऽपि तदनुगामिनी तेनैवान्वीयते इति नातिप्रसङ्गः,
नञर्थवत् । यथा हि चैत्रो न गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषण-
विशेष्यसमभिव्याहारविशेषेऽपि नञा तदनभिधानावशेषेऽपि नञर्थस्य विशेष-
णांशैरेवान्वयो न विशेष्यांशेन ।
ननु बाघात्तत्र तथा, न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद्भवेत् ,
तन्निषेधेनैव विशेषणनिषेधोपलब्धेः । उभयनिषेधे चावृत्तौ वाक्यभेदादनावृत्तौ
निराकाङ्क्षत्वादिति चेत् । न, तुल्यत्वात् । समानप्रत्ययोपात्तभावनाऽन्वित्तान्वयो-
पपत्तौ बाधकं विना सन्निहितत्यागे व्यवहितपरिग्रहस्य गुरुत्वात् । भावनायाश्च
सामान्याक्षेपेऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः । न ह्यन्यतराकाङ्क्षा
अन्वयहेतुः, अपि त्बुभयाकाङ्क्षा । प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रिया-

प्रकाशः ।
युक्त्यन्तरमाह समवायं प्रतीति । तदनुपयोगाद् = व्यापारवदनुपयोगात् । भावनाया
इव तत्समवायस्यापि शुद्धप्रातिपदिकार्थापेक्षतया भावनादिविशिष्टनिराकाङ्क्षत्वादित्यर्थः ।
यद्वा समवायो मेलकः । यन्मेलकस्य पूर्वापरीभूतभावनावचाकेनाख्यातेनैव बोधितत्वाद् न
तदन्वयाय भावनान्तरापेक्षेत्यर्थः । नन्वात्माश्रयानवस्थाभ्यां सजातीयव्यापारवदनाकाङ्क्षेऽपि
द्वितीयाद्युपनीतविजातीयव्यापारवत् साकाङ्क्षत्वं स्यादित्यत आह विजातीयेति । तथासत्यऽयोग्य-
त्वादनन्वयापत्तिः, न हि घटानुकूलव्यापारेण पाककर्तृत्वं दृष्टमित्यर्थः ।
ननु शुद्धप्रातिपदिकार्थापेक्षिण्यपि भावना कुतो न द्वितीयाद्युपनीतेनान्वेतीत्यत आह न
चेति । उभयोपस्थितावपि साकाङ्क्षेण सहान्वयो भावनाया न निराकाङ्क्षेणेति दृष्टान्तेन स्पष्ट-
यति नञर्थवदिति । न चैत्र इत्यादिना क्रमेण जातिगुणकर्मद्रव्याणां विशेषणानां निषेध्यत्वमुक्तम् ।
आवृत्ताविति । उभयनिषेधे च सकृदुच्चरितस्य नञोऽन्यतरनिषेधेनैव निराकाङ्क्षत्वात् तदर्था-
न्वयार्थमावृत्तिकल्पने पदावृत्तिरूपवाक्यभेदापत्तिरित्यर्थः । अनावृत्ताविति । सकृदुच्चरितनञो येन
केनचिदेकेनैव चरितार्थत्वाद् निराकाङ्क्षत्वादित्यर्थः ।
भावनाऽन्वयिनैव सङ्ख्याऽन्वेतीत्यत्राभिमतं नियामकं स्पष्टयति समानेति । यद्यपि व्यापारा-
त्मिका भावना व्यापारिामान्यमाकाङ्क्षति आक्षिपति, तथापि साकाङ्क्षेण व्यापारिणा प्रातिप-
दिकार्थेनान्चीयते, न तु निराकाङ्क्षेण कारकान्तरेणेत्याह सामान्येति । उभयाकाङ्क्षामह प्राति-

प्रकाशिका ।
प्येऽतिव्याप्तिरिति प्रथमान्तेत्यादि व्याचक्षते भावनादिविशिष्टेति । सजातीयव्यापारमभिप्रेत्य । ननु
भावनासमवायस्यापदार्थत्वेन तदन्वयो न शब्दान्पदमपीत्यरुचेराह यद्वेति । भावनान्तरापेक्षेति ।
तथा च शुद्धप्रातिपदिकमात्राकाङ्क्षैवेति भावः ।

मकरन्दः ।
भावनादिविशिष्टेति । सजातीयव्यापारमभिप्रेत्य ।
ननु भावनासमवायो न पदार्थः, किन्तु तदन्वय इति तस्यान्वयप्रतियोगित्वाभावान्निराकाङ्क्ष-
त्वेऽप्यदोष इत्यरुचेराह यद्वेति ।
भावनान्तरेति । तथा च शुद्धप्रातिपदिकार्थगात्राकाङ्क्षैवेति भावः ।

पञ्चमस्तवके ] ईश्वरबाधनम् । ५३६
सम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्व-
यहेतुः । कटं कटेनेत्यादि तु कारक तयैव फलसमन्वितं न व्यापारात्तरमपेक्षते इति
निराकाङ्क्षमिति ।
अत एवो'ऽऽस्यते सुप्यते' इत्यादौ नाक्षिप्तेनान्वयः। न हि चैत्रेणेति तृतीयान्त-
शब्दस्य भावनायामाकाङ्क्षाऽस्ति । भाव्याकाङ्क्षाऽस्तीति चेत् । न, फलेन शयना-
दिधात्वर्थेनान्वयात् । फलसम्बन्धिनश्चात्र कत्र्र्ननतिरेकात्, न हि शयनादयो
धात्वर्थाः कत्र्र्तातरेकिसंबन्धाः । न च फलतत्संबन्धिब्यतिरेकेणान्यो भाव्यो नाम
यमपेक्षेत ।


प्रकाशः ।
पदिकार्थ इति । फलेन-धात्वर्थेन, क्रियासम्बन्धं व्यापारसम्बन्धमित्यर्थः । कटं कटेनेति ।
अत्र द्वितीयातृतीयाभ्यां कारकविभक्तिभ्यां क्रियाऽनुकूलव्यापारसहितस्यैवो पस्थितेर्न भावनाऽऽका-
ङ्क्षेत्यर्थः ।
ननु यदि स्वपिति इत्यादावाक्षिप्तेन कर्त्राऽन्वयस्तदा सुप्यते इत्यादावपि तथा स्यादित्यत आह
अत एवेति । अत एव उभयाकांक्षा निवन्धनोऽन्वय इत्यर्थः । भाव्यं भावनाजन्यं, फलञ्चेत्तत्राहं
फलेनेति । अथ फलसम्बन्धि कर्म भाव्यं, तत्राह फलेति । धातूनामकर्म्मकत्वात् तदाश्रयत्वं
कत्र्तुरेवेत्यर्थः । तस्य च चैत्रेणेति तृतीयया कर्तृत्वोपस्थितेर्न भाव्यत्वेनान्वयान्तरमिति भावः ।
ननु चैत्रस्तण्डुलान् पचति इत्यत्र भावनाऽन्वयश्चैत्रे सम्भवत्याश्रयत्वात् । चैत्रेण पच्यन्ते
तण्डुला इत्यत्र तण्डुलानां न तावद्विषयत्वेन भावनाऽन्वयः, यत्नस्य विक्लित्त्यनुकूलव्यापारविषयत्वात् ।
विषयत्वेनान्वये वा चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां विषयत्वेन भावनाऽन्वयापत्तौ सङ्ख्याया
अपि तदन्वयापत्तेः । नाप्याश्रयतया, भावनाया अतदाश्रितत्वात् । न च चैत्रेण भावनाऽन्वयः,
तृतीयार्थयत्नेनावरुद्धतया भावनायास्तदनन्वयात् । अचेतने वा कथं सङ्ख्याऽन्वयनियमः ? । तत्र
भावनाया अनन्वयात् । यत्र च पचतीत्येव प्रयुज्यते, तत्र कथं भावनायाः कर्त्रन्वयः ? । यत्र
वा चैत्रः कर्त्ता पचत्योदनम् इति प्रयोगः, तत्र चैत्रेणेतिवत् कर्तृत्वेनैवोपस्थितावाकाङ्क्षाविरहा-
द्भावनाऽनन्वये कथं कर्त्तरि सङ्ख्याऽन्वयः ? ।
उच्यते—यत्र यद्विशेष्यं, तेन सङ्ख्याऽन्वयः । तथा हि चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां
कर्मत्वेनान्वयात् तण्डुलवृत्तिफलजनकव्यापारजनकयतनाश्रयश्चैत्र इति प्रतीतेः स विशेष्यः ।
चैत्रेण पच्यन्ते तण्डुला इत्यत्र चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयास्तण्डुलाः प्रतीयन्ते इति


प्रकाशिका ।
तृतीयार्थयत्नेनेति । ‘कर्त्तृकरणयोस्तृतीये’त्यनेन कर्त्तरि तृतीयानुशासनादिति भावः । ननु
तत्राक्षिप्तेनैव चैत्रादिना भावनान्वयोऽन्यथा तदनन्वय एवेत्यरुचेराह यत्र वा चैत्र इति ।
यत्र यद्विशेष्यमिति । आख्यातवाच्यविशेष्यमित्यर्थः । आख्यातवाच्यश्च कचिद्यत्नः
क्वचिद्व्यापार इति । तण्डुलवृत्तीत्यादि । फलं द्वितीयार्थः, तदेव कर्मत्वं, वृत्तिस्तु संसर्गः,
व्यापारश्च धात्वर्थः, जनकत्वं च संसर्गः, यत्नश्चाख्यातार्थः, तस्य च व्यापारेण समं जनकत्वं
देवदत्तेन सममाश्रयत्वं संसर्ग इति भावः । चैत्रवृत्तीत्यादि । अत्र च यत्नस्तृतीयार्थः व्यापारो


मकरन्दः ।
तृतीयेयेति । ‘कर्तृकरणयोस्तृतीये’ति कर्तृत्वे तृतीयाऽनुशासनादिति भावः ।
ननु अत्राक्षिप्तेन चैत्रादिना भावनाऽन्वयः, अन्यथा तदनन्वय इष्ट एवेत्यरुचेराह यत्र चेति ।
यद्विशेष्यमिति । आख्याततात्पर्यविषयीभूतार्थविशेष्ये इत्यर्थः। अत एवाह अचेतनेऽपीति ।

५४० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायां
स्यादेतत्, किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितान-
भिहितव्यवस्थाऽभावादिति चेत् । न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् । द्विती-
प्रकाशः।
यत्नस्य परम्परया तण्डुला विशेष्याः । एवं यद्यप्युभयत्र चैत्रः कर्त्ता तण्डुलाः कर्माणि, तथापि
यत्नविशेष्ये सङ्ख्याऽन्वयः । अचेतनेऽपि रथो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिफलजनकव्यापाराश्रयो
रथः प्रतीयते, रथेन गम्यते ग्राम इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो ग्राम इति, तत्रापि विशेष्ये
सङ्ख्याऽन्वयः ।
चैत्रेण सुप्यते इत्यत्र न चैत्रो भावनाविशेष्यः, तृतीयार्थाविरुद्धत्वात्, कर्म तत्र नास्त्येव ।
अतो धात्वर्थ एव भावनाविशेष्यः, फलत्वाद्दिषयत्वाच्चेति तत्र सङ्ख्याऽन्वयः । न च प्रातिपदिकार्थे
भावनाऽन्वयेऽपि न सङ्ख्याऽन्वयः, प्रथमोपनीतसङ्ख्याऽन्वयेन च तस्य तदनाकाङ्क्षत्वादिति
वाच्यम् । प्रथमाऽऽख्याताभ्यामेकस्या एव सङ्ख्याया अभिधानात्, चैत्रो दण्डीत्यत्रेव सामाना-
धिकरण्यानुरोधात् । अन्यथा तन्मते प्रथमाऽर्थसङ्ख्याऽन्वयश्चैत्रे न स्यात्, आख्यातेनैव स्ववा-
च्यकर्तृसङ्ख्याऽभिधानात् । नापि पचतीत्यत्र पाकयत्नवानिति विवरणात् कर्त्ता आख्यातवाच्यः ।
कर्तुरनन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्य्यविषयपरत्वात्, द्वन्द्वादिसमासस्य विप्रेहेण विव-
रणोऽपि तत्र शक्त्यभावाच्च ।
अत्रास्मत्पितृचरणाः—कृतिरूपकर्त्तृत्ववत् कर्म्मत्वमपि लकारवाच्यम्, तद्धर्मिणोरन्यत
एव लाभात् । तण्डुलान् पचतीत्यत्र (१) द्वितीयात इव चैत्रेणौदनः पच्यते इत्यत्रान्यतः कर्म्मत्वाला-
भादित्याहुः ।
कर्तृकर्मकरणादीनामभिहितानभिहितत्वविशेषाभावे कटं करोति चैत्र इत्यत्र विभक्तिपरिणामे
प्रयोगः किं न स्यादित्याह—किमिति । चैत्रशब्दस्य पुंलिङ्गत्वात् प्रथमायां तद्रूपमसाधित्याह
प्रकाशिका।
धात्वर्थः फलं च कर्म्मत्वरूपमाख्यातार्थः कृतिजन्यत्वादिकश्च संसर्ग इति भावः । न चैवं कर्म्मत्व-
स्याख्यातवाच्यत्वे चिन्तामणिकारीयमतभेदः, आख्यातवाच्यकर्त्तृत्वे कर्म्मत्वाधिकरणत्वं संख्यान्व-
यनियामकमित्येतावता चिन्तामणिकारीयमतभेदात् । कर्म्मत्ववाचकता तु कर्माख्यातस्योभयमतेऽपीति
भावात् , एषा च रीतिः फलोपलक्षितव्यापारवाचकत्वे धातोः, यदा तु फलविशिष्टव्यापार एव धात्व-
र्थोऽन्यथा त्यजिगत्योः पर्यायतापत्तिरिति मतं, तदाश्रयत्वरूपमेव कर्मत्वं द्वितीयायाः आख्यातस्य
चार्थः, तत्प्रकारकप्रतीत्यनुरोधादन्वयश्च पूर्ववदेवेत्यवधेयम् । केचित्तु फलस्य विशेषरूपेण धातुवा-
च्यत्वं सामान्येन तु द्वितीयादिवाच्यत्वमिति फलस्य धातुवाच्यत्वपक्षेऽपि पूर्वैव रीतिरित्याहुः ।
तद्धर्म्मिणोरिति । कर्त्तृत्वधर्मित्वधर्मिणोः, कर्त्तृधर्मिणोरित्यर्थः। द्वितीयाया इति। तथा
च वाच्यतया चैत्रोपस्थितेः तथात्वेन कटं नापेक्षते किन्तु भावकत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः ।
मकरन्दः।
तद्धर्मिणोरिति । कर्त्तृत्वकर्मत्वधर्मिणोः कर्त्तृकर्म्मणोरित्यर्थः ।
इत्याहुरित्यस्वरसोद्भावनम् । तद्बीजन्तु-तथाप्याश्रयत्वमात्रमनन्यलभ्यतया लकारवाच्यं, पर-
स्यचैतक्रियाफलशालित्वं हि कर्म्मत्वमिति चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयत्वमेव तस्य कर्म्मत्वं
वाच्यम् । तत्र तृतीयया यत्नस्य धातुना फलावच्छिन्नव्यापारस्याभिधानेऽपरस्यानन्यलभ्यत्वादिति ।
द्वितीयाया इति । तथा च भाव्यतया चैत्रस्योपस्थितेस्तथात्वेन कटं नापेक्षते, किन्तु भाव-
कत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः ।
( १ ) अत्र द्वितीयाया इति प्रकाशिकामकरन्दाभिमतः पाठः ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५४१
यान्तस्य तु कर्म्मवचनत्वेन तत्संबन्धाद्भाव्यानपेक्षणीभावेन भावकमात्रमपे-
क्षेत । न च कटस्य चैत्रं प्रति भावकत्वं, विपर्ययात् । अनाप्तेन तु विवक्षायां प्रयु-
ज्यत एव ।
प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि । न, नित्यसन्दिग्धत्वेन वाक्यार्थास-
मर्षकत्वात् । ततस्तदुपपत्तये विशेषस्य व्यञ्जनीयत्वात् । व्यज्यतां तर्हि तृतीयया
चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत् । न, अप्रयो-
गात् । न ह्यनाप्तेनाऽप्येवंप्रायाणि प्रयुज्यन्ते । लक्षणाविरोघेन कुत एतदेवेति चेत् ।
लोकस्यापर्य्यनुयोज्यत्वात् ।
न हि गार्गिक्येति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते ।
तस्य तदुपाधिनैव विहितत्वादिति चेत् । एतदेव कुतः ? लोके तथैव प्रयोगदर्शना-
दिति चेत् । तुल्यम् । करोतीत्यादिकर्म्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते,
क्रियते इति कर्तृविभक्तिसमभिव्याहारेणैवेति किमत्र क्रियताम् ।
इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेनेह्येतावान् परामर्शः सर्वेषां
हृदि पदमादधातीत्यभिधानानिभिधानविभाग एव व्युत्पादनदशायां पेशल इति ।
स्यादेतत्, भवतु सर्वाख्यातसाधारणी भावना, कालविशेषसंबन्धिनी सा
लडाद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत् । न, यत्नपदेन समानार्थत्वप्रस-
ङ्गात् । विषयोपरागानुपरागाभ्यां विशेष इति चेत् । न, यागयत्न इत्यनेन पर्याय-
प्रकाशः ।
चैत्रमितीति । भाव्यानपेक्षिणीति । द्वितीयायाः कर्मत्वाभिधायकत्वेन भाव्यानपेक्षिणी भाव-
नेत्यर्थः । नित्येति । कर्तृकर्मभावे इति शेषः। लोकस्येति । व्याकरणस्याप्यनादिप्रयोगानुपजीव्यैव
शब्दान्वाख्यायकत्वादित्यर्थः । तुल्यमिति । अनादिः प्रयोगोऽस्माकमप्युपजीव्य इत्यर्थः ।
इममेवेति । बालव्युत्पत्त्यर्थं प्रकृतिप्रत्ययविभागस्येवाभिहितानभिहितत्वस्यापि व्युत्पादन-
मित्यर्थः । वस्तुतो यत्पदस्य यत्पदसमभिव्याहारेणैव प्रयोगनियमः, तस्य तत्पदं विना न प्रयोग
इत्यर्थः ।
कर्तृधर्मस्य यत्नस्य विधित्वे सर्वाख्यातसाधारयेनोक्तातिप्रसङ्गे समाधिं शङ्कते—
स्यादेतदिति । लडादीनां वर्त्तमानादिकालनियमवच्छिन्नस्तदभावादिति नातिप्रसङ्ग इत्यर्थः ।
यत्नज्ञानस्याप्रवर्त्तकतया प्रागुक्तप्रवृत्तेरिति स्मारणेन परिहरति यत्नपदेनेति । अथ लिङा न
प्रकाशिका ।
यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति, न तु स्वात्मनि वृत्तिविरोध-
दोषः, तथापि यत्नवानित्यतोऽप्रवृत्तिरेव तत्पक्षे दूषणमित्यवधेयम् । न वा तत्साधनमिति । पर-
मकरन्दः ।
यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति न स्वात्मनि वृत्तिविरोधी दोषः,
तथापि प्रवृत्तिहेतौ सङ्कल्पे शक्तेरित्युक्तत्वात् तद्दूषणे तात्पर्य्यम् ।
न वा तत्साधनमिति । यद्यपि परम्परया तत्साधनत्वं वक्ष्यति, तथापि साक्षान्न तथेत्या-
पातत इदम् । यद्वा कुम्भकारपितृवदन्यथासिद्धतया न साधनमिति भावः ।
टिप्पणी ।
नित्यसंदिग्धत्वेन-कोऽत्र कर्ता किं कर्मेति संदिग्धत्वेन ।
गार्गिक्येत्यादि । गोत्रचरणाच्छ्लाघाऽऽन्याकारतदवतेषु ( ५-१-१३४ ) इति पाणिनी-
यसूत्रेण गोत्रप्रत्ययान्तात् गार्ग्यशब्दात् भावे वुञ्प्रत्ययेन केवलं गार्गिकशब्‍दो व्युत्पादितोऽपि गार्गि-

५४२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकान्याख्यायां
ताऽऽपत्तेः । कर्तृसङ्ख्याऽभिधानानभिधानाभ्यां विशेष इति चेत् । न, यागयत्न-
वानित्यनेन साम्यापत्तेः। इष्ट एवायमर्थ इति चेत् । न, इतो वत्सरशतेनाप्यप्रवृत्तेः।
फलसमभिव्याहाराभावान्न प्रवर्त्तते इति चेत्। न, स्वर्गकामो यागयत्नवानित्यतोऽ-
प्यप्रवृत्तेः। तत् कस्य हेतोः ? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य
कारणं, अपि त्विच्छा। न च साऽपि प्रतीता यत्नजननी येन सैव विध्यर्थ इत्य-
नुगम्यताम्, अपि तु सत्येव। न च लिङः श्रुतिकाले सा सती। न च लिङेव तां
जनयति। अर्थविशेषमप्रत्याययन्त्यास्तस्यास्तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात्।
अनुपलब्धलिङाश्चेच्छाऽनुत्पत्तिप्रसङ्गादिति । एतेन-वृद्धव्यवहाराद् व्युत्पत्तिर्भ-
वन्ती बालस्यात्मनि प्रवृत्तिहेतुर्योऽवगतस्तमेवावगमयेत्, स्वयञ्च कुर्यामिति सङ्क-
ल्पादेवाय प्रवृत्तः, ततः स एव लिङर्थ-इति निरस्तम्। कुर्यामिति प्रयत्नो वा
स्यादिच्छा वा ? नाद्यः, स्वात्मनि वृत्तिविरोधात्। न द्वितीयः, सा हि सत्त्यैव
प्रयत्नोत्पादिनी, न च लिङः श्रुतिकाले सा सतीत्युक्तम्।
फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः। अन्यविषयत्वात्।
तदर्थञ्च शास्त्रवैयर्थ्यात्। तस्याः कारणान्तरत एव सिद्धेः, तत्प्रतीत्यर्थमपि
प्रकाशः।
यत्नः क्रियते अपि तु यत्नज्ञानमिति, तत्राह यत्नप्रतीतिर्वेति । अत्रापि न हीति योज्यम् ।
अस्तु कर्तृधर्म इच्छैव लिङ्वाच्येत्यत आह न चेति। प्रवृत्तिहेतुज्ञानविषयस्य लिङर्थत्वादित्यर्थः।
असत्त्वादिति विवृणोति न च लिङ इति । प्रत्ययत्यागादिति हेतुं व्याचिख्यासुर्भूमिकामा-
रचयति न च लिङेवेति । अथ विषयज्ञानमनुत्पाद्य लिङपि नेच्छां जनयति, अन्यथा व्युत्प-
न्नस्येवाव्युत्पन्नस्यापि लिङ्श्रवणादिच्छा स्यादित्याह अर्थेति । स्वयञ्चेति । इष्टसाधनं ममेति
मत्वा कुर्यामिति यः सङ्कल्पः, तज्ज्ञानादहं प्रवृत्तः, अतः प्रयोज्यवृद्धोऽपि तत एव प्रवृत्तः, ततः
सङ्कल्पज्ञानं लिङ्च्चारणानन्तरं जातमिति लिङेव तत्करणमित्यवगच्छति व्युत्पद्यमानो बाल इत्यर्थः ।
स्वात्मनीति । यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इत्यर्थः । अनेन विरोधात इति
कारिकांशो विवृतः । इच्छा साधनगोचरा प्रवृत्तिहेतुरपि न ज्ञाता सतीति न लिङर्थ इत्याह
सा हीति । न चेति । लिङः श्रवणात् प्रागिच्छाहेत्विष्टसाधनताज्ञानाभावादित्यर्थः ।
सङ्कल्पादिति कारिकाऽशं विवरीतुं, सुखादीच्छा लिङः श्रुतिकालैऽप्यस्तीति सा लिङर्थः प्रय-
त्नहेतुश्च स्यादिति निरस्यति फलेच्छा त्विति। निसर्गवाहित्वं-निरुपाधित्वम्। अन्यविषयत्वा-
दिति । फलसाधने हि पुरुषः प्रवर्त्तते, न फले अन्येच्छायाश्चान्यत्र प्रवृत्तिहेतुत्वेऽतिप्रसङ्ग इत्यर्थः।
अपि च फलेच्छां शास्त्रमुत्पादयेत् , ज्ञापयेद्वा ? तन्न नाद्य इत्याह तदर्थञ्चेति । फले-
च्छायाः फलज्ञानादेवोत्पत्तेः, तस्य स्वविषयेच्छाजनकत्वस्वभावत्वादित्यर्थः । अतएव यज्ज्ञातं
स्ववृत्तितयेष्यते, तदेव स्वतः प्रयोजनमिति भावः । द्वितीयमाशङ्क्य निराकरोति तदिति ।
प्रकाशिका ।
म्परासाधनत्वेऽपि साक्षादसाधनत्वाभिप्रायेण वा कुम्भकारपितृवदन्यथासिद्धयभिप्रायेण वेदमू-
क्तम् । न चेति । तथा च संकल्पविषयः संकल्पो न भवत्येवेति भावः ॥११॥
मकरन्दः।
न चेति । तथा च सङ्कल्पविषयः सङ्कल्पो न भवत्येवेति भावः ॥११॥
टिप्पणी ।
कया श्लाघते इत्येव प्रयुज्यते, तन्न श्लाघतेपदसमभिव्याहारमन्तरेणापि कुतो न प्रयोग इति प्रश्ने
तथैव व्यवहारः शरणमित्यर्थः ॥११॥

पंचमस्तबके ] ईश्वरसाधनम् । ५४३
शास्त्रानपेक्षणात् , तस्या मनोवेद्यत्वात् । अप्राप्ते च शास्त्रानवकाशात् । तद-
भिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् , तदा हि यजेतेत्यस्यैव याग-
कर्त्ता स्वर्गकाम इत्यर्थः स्यात् ।
यदि च फलविषयैव साधनविषयं प्रयत्नं जनयेत्; अन्यत्रापि प्रसुवीत, निया-
मकाभावात् । हेतुफलभाव एव नियामक इति चेत् । न । अज्ञातस्य तस्य निया-
मकत्वे लिङं विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् । ज्ञातस्य तु तत्साधन-
त्वस्य नियामकत्वे तदिच्छयैव तत्र प्रवर्त्तयतु । यो यत्कामयते स तत्साधनमपि
कामयत एवेति नियमात् । न च सा तदानीं सती । न च तज्ज्ञानमेव प्रयत्नजनकं,
तच्च लिङा क्रियते इति युक्तम् । स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्ति-
प्रसङ्गात् । लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्त्तेत । स्वसम्बन्धितया तद्वग-
मस्तथा न तु सामान्यत इति चेत् । न । प्रथमपुरुषेण तदभिधाने तस्याविध्यर्थत्व-
प्रसङ्गात् । ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च ।
अपि च, सङ्कल्पज्ञानात् यदि प्रयत्नो जायेत तथापि सङ्कल्पस्य कुतो जन्म
किमर्थञ्च ? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत् । नन्विच्छाविशेषः सङ्कल्पः; स
तावत् सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम् ? तत्साध-
नत्वादेवेति चेत् । तर्हि तत्साधनत्वज्ञानात् न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति ।
प्रकाशः ।
किमतो यद्येवमित्यत आह अप्राप्ते चेति । अवकाशे वा फलेच्छाया लिङैवोक्तत्वात् स्वर्गकाम
इति पुनरुक्तरूपसङ्कारापत्तिरित्यत आह तदभिधान इति ।
ननु समानविषयक तयेच्छाप्रवृत्त्योर्हेतु हेतुमद्भाव एव कुतः इत्यत आह—
यदि चेति । अन्यत्राप्यसाधनेऽपीत्यर्थः । नियामकमाह हेतुफलेति । फलेच्छा तत्सा-
धन एव प्रयत्नमुत्पादयति नान्यत्रेत्यर्थः । यदि स्वरूपसन्नेव हेतुफलभावः प्रवृत्तिनियामकः, तदा
स्वर्गकामो यजेतेत्यादिविधिजन्यज्ञानं विनाऽपि स्वर्गसाधने प्रवृत्त्यापत्तिरित्याह अज्ञातस्येति ।
भ्रमादसाधनेऽप्रवृत्त्यापत्तेश्चेति भावः । अथ ज्ञातः, तदा फलसाधनेच्छैव तत्साधने प्रवर्त्तयतु समा-
नविषयत्वादित्याह ज्ञातस्य त्विति ।
ननु साधनविषया नेच्छा तस्य निसर्गसुन्दरत्वाभावादित्यत आह यो यदिति । अस्तु साध-
नविषयैवेच्छा प्रयत्नजननी लिङर्थ इत्यत आह न चेति । साधनेच्छा न लिङः श्रुतिकाले सती-
त्यर्थः । ननु साधनेच्छायास्तत्काला सत्त्वेऽपि तज्ज्ञानादेव प्रवृत्तिः स्यादित्यत आह न चेति ।
तच्चेति । साधनविषयेच्छाज्ञानमित्यर्थः । यदि च साधनेच्छाज्ञानादेव प्रवृत्तिः, तदा स्वेच्छानु-
त्पत्तिदशायामपि ततः प्रवर्त्तेतेत्याह लिङो वेति । यजेतेत्यतः साधनेच्छाज्ञानं जातं, न तु स्वस-
म्बन्धितया, तादृशश्च प्रवर्त्तरूप , अतो नानिच्छन्नपि प्रवर्त्तेतेत्यत आह स्वसम्बन्धितयेति ।
एवं यजेतेत्यस्य विध्यर्थत्वं न स्यात्तस्य स्वेच्छाज्ञानाजनकत्वादित्याह प्रथमेति ।
किमर्थमिति । इच्छाज्ञानादेव प्रवृत्तौ किमर्थमिच्छोत्पादनमित्यर्थः । कुत इति प्रश्ने सङ्क-
ल्पज्ञानादित्युत्तरं, किमर्थमित्यत्र तु, प्रयत्नार्थमिति । इच्छाविशेषः,-कुर्यामित्याकारः । स्वभा-
वतः-सुखज्ञानस्य स्वविषयविषयकेच्छाजनकस्वभावत्वादित्यर्थः । औपाधिकः-तत्साधनताज्ञानजन्य
इत्यर्थः । सङ्कल्पस्तु न फलं न वा तत्साधनमिति नेच्छाविषयः, न च सङ्कल्पज्ञानात् फलसाधन
एवेच्छा, ज्ञानस्य स्वसमानविषयकेच्छाजनकत्वनियमादिति भावः । तत्साधनत्वादेवेति । पर-
म्परया फलसाधनत्वज्ञानादेवेत्यर्थः । तर्हीति । तथा चेष्टसाधनतैव विधिः स्यान्न सङ्कल्पः, तेन
रूपेणाप्रवर्त्तकत्वादिति भावः ।

५४४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
अन्यथेटसाधनताज्ञानमप्यनर्थकमापद्येत। तस्मात् सङ्कल्पः प्रवर्त्तक इत्यभ्युपेयते,
किन्तु सत्तामात्रेण न तु ज्ञात इति नासौ विधिः। ज्ञानञ्च विषयोपहारेणैव व्यवहार-
यतीति तद्विषय एवावशिष्यते इति कर्तृधर्मव्युदासः ॥ ११ ॥
अस्तु तर्हि कर्म्मधर्म्मः। नेत्युच्यते,
अतिप्रसङ्गाच्च फलं नापूर्वं तत्त्वहानितः ॥
तदलाभान्न कार्य्यञ्च न क्रियाऽप्यप्रवृत्तितः ॥ १२ ॥
प्रकाशः।
यद्वा सङ्कल्पादिति विवृणोति तर्हीति। एवं लाघवादिष्टसाधनतैव विधिः, सङ्कल्पस्य तु तत्स-
द्धीनत्वादित्यर्थः।
यदि च नैवं तदा भोजनादाविष्टसाधनताज्ञानमिच्छोत्पादकं न स्यादित्याह अन्यथेति।
सङ्कल्पस्याप्रवर्त्तकत्वे शास्त्रविरोधं परिहरति तस्मादिति। तर्हि ज्ञानमेव कर्तृधर्मो विधिरस्त्वित्यत
आह ज्ञानञ्चेति। तद्विषय एव-ज्ञानविषय एव। विधिरित्यनुषज्यते। यदि हि विषयविशेषान-
वच्छिन्नं ज्ञानं प्रवर्त्तयेत्, सर्वत्र प्रवृत्तिप्रसङ्गः। तदवच्छिन्नस्य च तस्य तथात्वे यं विषयमुपन-
यत्तत् प्रवर्त्तकं स एवार्थो विधिरिति कृतिहेतुचिकीर्षाकारणज्ञानविषयो विधिरित्यर्थः ॥११॥
क्रियते इति व्युत्पत्त्या कर्मपदेन यदि फलं स्वर्गाद्युच्यते, तस्य च कार्य्यत्वं ज्ञात्वा प्रवर्त्तते
तदा अनुपायेऽपि प्रवर्त्तेतेत्याह-
अतिप्रसङ्गादिति। अथापूर्वस्य कार्य्यत्वं ज्ञात्वा प्रवर्त्तते, तदा शब्दानुभवात् पूर्वं तदुप-
स्थितं न वा ? आद्ये अपूर्वत्वव्याघातः, तस्य शब्दानुभवैकवेद्यत्वादित्यर्थः। अन्त्ये कथं
शक्तिग्रह इति भावः। ननु कार्य्यत्वेनोपलक्षिते अपूर्वे कार्य्यत्वेनैव रूपेण शक्तिग्रहः, कार्य्यत्वविशिष्ट-
द्योपस्थितमेवेत्याह तदलाभादिति। उपलक्ष्यस्यान्यत्र मानान्तरसिद्धत्वादत्रापि तथात्वे अपूर्व-
त्वहानिरन्यथा तु तदलाभ इत्यर्थः।
यद्वा कार्य्यत्वविशिष्टे कार्य्ये धर्मिणि शक्तिग्रहः, वाक्यार्थानुभवदशायामयोग्यतया घटादौ
निरस्ते च तदतिरिक्तापूर्वलाभः स्यादित्यत आह तदलाभादिति। तथापि नित्यनिषेधापूर्वयो-
रलाभः स्यादित्यर्थः। न क्रियाऽपीति। क्रियायाः कार्य्यत्वज्ञानात् न प्रवृत्तिरनिष्टसाधनत्वा-
दित्यर्थः।
टिप्पणी
फलनिष्ठकार्य्यताज्ञानम् अपूर्वनिष्ठकार्य्यताज्ञानं, यागादिनिष्ठकार्य्यताज्ञानं वा प्रवर्त्तकमिति विकल्प्य
प्राभाकरमतं क्रमेण दूषयति अतिप्रसङ्गादिति। स्वर्गादिः कार्य इति ज्ञानं यदि प्रवर्त्तकं
स्यात्तदा स्वर्गाद्यसाधनेऽपि प्रवृत्तिप्रसङ्गनियामकस्य कस्यचिदप्यभावात्। तत्त्वहानित
इति। अपूर्वस्य शाब्दबोधात्प्रागुपस्थितावपूर्वत्वहानिः अनुपस्थितौ च शाब्दबोधानुपपत्तिरि-
त्यर्थः। ननु यथा गन्धवत्त्वेनोपलक्षितायां पृथिवीत्वविशिष्टायां घटादिव्यक्तौ पृथिवीपदस्य शक्ति-
ग्रहस्तदनन्तरं च पृथिवीत्वेन शाब्दबोधः तथा कार्यं विधिशक्यमिति कार्यत्वोपलक्षितेऽपूर्वे शक्तिग्रह-
स्तदनन्तरं चापूर्वत्वेनापूर्वस्य शाब्दवोधः स्यादत आह तदलाभादिति। अपूर्वत्वविशिष्टापूर्वान्य-
क्त्यनुपस्थितेरित्यर्थः। अयमाशयः-गन्धवत्वपृथिवीत्वयोः पूर्वानुभवजन्यसंस्कारेण स्मरणस्य सह-
चारदर्शनेन पूर्वगृहीतव्याप्तेः स्मरणानानुमितेर्वा संभवात् किमनयोः पृथिवीपदप्रवृत्तिनिमित्तमिति
संशये अखण्डपृथिवीत्वजातौ लाघवात् प्रवृत्तिनिमित्तत्वं परिच्छिद्यते नतु गन्धवत्त्वे सखण्डे गौरवात्
इह तु अपूर्वत्वस्य प्रागनुपस्थितिः, उपस्थितिश्चेदपूर्वत्वव्याघात इति। क्रिया यागादिस्तद्धर्मोऽपि
कार्य्यत्वं न विध्यर्थ इत्याह न क्रियाऽपीति। अप्रवृत्तित इति।

पंचमस्तवके ] ईश्वरसाधनम् । ५४५
कर्म्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा ? न प्रथमः
फलेच्छायाः प्रवृत्तिं प्रत्यहेतुत्वात्, अतिप्रसङ्गादित्युक्तत्वात् । न द्वितीयोऽव्युत्पत्तेः।
लिङो हि प्रवृत्तिनिमित्तमपूर्व्वत्वं वा स्यात्, उभयं वा ? न प्रथमः । शब्दप्रवृत्ति-
निमित्तस्यापूर्व्वत्वस्य प्रमाणान्तरादवगतावपूर्व्वत्वव्याघातात्, अनवगतावव्यु-
त्पत्तेः, सम्बन्धिनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् । तत एवावगतावित-
रेतराश्रयदोषान् ।
न च गन्धवत्त्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् अपूर्वे प्रवर्त्तते लिङिति
युक्तम् । तत्रोभयोरपि प्रतीयमानत्वेन सन्देहकल्पनागौरवपुरस्कारेण पृथिवीत्व-
एव सङ्गतिविश्रान्तेरुपपत्तेः, न त्वत्रापूर्वत्वप्रतीतिः ।
स्यादेतत् , कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता, तदुपलक्षितश्च
यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधन-
समर्थः । न चाकाम्यफले कामी नियोक्तुं शक्यते । ततोऽन्यदेवा लौकिकं किञ्चि-
दनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्नमिति चेत् । उपलक्षणं
हि स्मरणमनुमानं वा । उभयमप्यनवगतसम्बन्धेनाशक्यम् , न हि संस्कारवन्म-
नोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति, ज्ञानापेक्षणात् । ततो हस्तीव हस्तिपकं,
धूम इव धूमध्वजं, तत्सम्बन्धज्ञानादुपलक्षयेत्, न त्वन्यथा ।
प्रकाशः ।
तत्कारणमपूर्वकारणम्। फलेच्छाया इति । स्वर्गादेः कार्य्यतां जानन्नपि उपायज्ञानं विना न
प्रवर्त्तते । कथं वाऽन्यज्ञानादन्यत्र साधने प्रवृत्तिः । यदि च साध्यसाधनभावो नियामकः, तदा
भ्रमादसाधने न प्रवर्त्तेतेत्यर्थः ।
प्रमाणान्तरादिति । शब्देतरप्रमाणागोचरत्वस्यापूर्व्वस्य त्वयाऽभ्युपगमादित्यर्थः । अनव-
गतान्निति । मानान्तराच्छक्तिग्रहविषयानुपस्थितौ तदसम्भवादित्यर्थः । तत एवेति । लिङ्पदा-
देवेत्यर्थः । इतरेति । लिङः शक्तिग्रहे ततोऽपूर्वोपस्थितिस्तदुपस्थितौ च तत्र शक्तिग्रह इत्यर्थः ।
तत्रेति । पृथिवीत्वगन्धवत्त्वयोः प्रत्यक्षतः सिद्धौ तदन्यतरत्र प्रवृत्तिनिमित्तत्वसंशये गन्धवत्त्व-
स्योपाधित्वेन सखण्डत्वात् पृथिवीत्वस्य च जातित्वेनाखण्डत्वात् तत्रैव शक्तिः कल्प्यते, प्रकृते त्वपू-
र्वत्वाप्रतीतौ न तथेत्यर्थः ।
कार्य्यत्वमिति । वृद्धव्यवहाराद्व्युत्पद्यमानो बालः आत्मन्यवगतं प्रवृत्तिहेतुं कार्य्यत्वं लिङ-
मवधारयति ततः कार्य्यशक्तं लिङ्पदं स्वर्गयोः कार्य्यत्वं त्यक्त्वा स्वर्गसाधनतायोग्यं तन्मध्यवर्त्ति-
कार्य्यत्वोपलक्षितमपूर्व्वमनुभावयिष्यतीत्यर्थः ।
उपलक्षणं हीति । यथा गङ्गापदं स्वार्थान्वयानुपपत्त्या स्वसम्बन्धितया प्रतीतचरं तीरं
स्मारयति, यथा वा व्याप्यं व्यापकत्याऽवगतमनुमापयति, न तद्वदपूर्वमप्रतीतचरत्वेन सम्बन्धितया
व्यापकत्या वाऽनवगतं कार्य्यत्वं स्मारयितुमनुमापयितुं वाऽलमित्यर्थः । न च यथा संस्का-
रादिरज्ञात एव स्मृत्यादि जनयति, एवं कार्य्यत्वमज्ञातमेवापूर्वं ज्ञापयति, सम्बन्धित्वव्याप्यत्वाभ्यां
ज्ञातस्यैव ज्ञापकत्वादित्याह न हीति । तत्सम्बन्धेति । अपूर्वेण सम्बन्धज्ञानादित्यर्थः । एवञ्च
प्रागुक्तन्यायसम्पादनमपि अफलं, सर्वथाऽपूर्व्वस्याप्रतीततया तत्र शक्तिग्रहाशक्यत्वादित्याह-
मकरन्दः ।
एवं कार्य्यत्वमिति । स्वभावादिति भावः । तमेवाह सम्बन्धित्वेति । प्रागुक्तेति । उप-
लक्षितस्येत्यादिना प्रागुक्तेत्यर्थः ।
६६ न्या० कु०

५५६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकान्याख्यायां
तथाच न्यायसम्पादनाऽध्वरण्ये रुदितम्, न हि युक्तिसहस्रैरप्यविदिते सङ्ग-
तिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्त्तत इति । एतेन-भेदाग्रहात् क्रियाकार्ये व्युत्प-
त्तिः-इति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् ।
किञ्चापूर्व्वत्वे प्रवृत्तिनिमित्ते कल्यमाने लौकिकी लिङनर्थिका प्रसज्येत,
तत्रोपलक्षणीयाभावात् । तत्र कार्य्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि
तथैवास्तु क्लृप्तत्वात् सम्भवाच्चेति ॥
अस्तु तर्हि तदेव प्रवृत्तिनिमित्तं, तर्कसम्पादनया त्वपूर्व्वव्यक्तिलाभ इति चेत् ।
न । नित्यनिषेधापूर्व्वयोरलाभप्रसङ्गात् । न चास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रा-
प्रकाशः ।
तथा चेति । स्थायिकार्य्यत्वमेव लिङः प्रवृत्तिनिमित्तं, क्रियारूपकार्य्ये तु भेदाग्रहा-
च्छिद्धः प्रवृत्तिरित्यप्यत एवापास्तं, ज्ञातेनैव सह भेदाग्रहस्य प्रवर्त्तकत्वादित्याह एतेनेति । किञ्चेति ।
पचेतेत्यादौ क्रियाया योग्यत्वेन त्यागाभावात्तत्क्रियाकार्य्यत्वमेव लिङ्पदात् प्रतीयते इत्यपूर्व्वत्वस्य
तत्प्रवृत्तिनिमित्तत्वे तदानर्थक्यं स्यादित्यर्थः । प्रकृतेऽपीति । तच्च क्रियासाधारणमिति नापूर्व्व-
व्यक्तिलाभ इति भावः ।
ननु कार्य्यधर्मिणि कार्य्यत्वेन रूपेण घटादावेव शक्तिग्रहः सम्भवति, कार्य्यत्वञ्च मानान्तरोपस्थि-
तमेवातोऽन्विताभिधानदशायां स्वर्गकामायोग्यतया घटादिकं तिरस्कृत्य क्रियातोऽन्यत् स्थायिस्वर्ग-
साधनतायोग्यं लिङा बोध्यते । न चान्यत्र शक्तिग्रहोऽन्यच्च शब्देन बोध्यते इति न स्यादिति वाच्यम् ।
येन रूपेण शब्दादनुभवः, तेन शक्तिग्रहस्य हेतुत्वात्, तथा च कार्य्यत्वेन रूपेण घटादौ शक्तिग्रहे
योग्यतादिसहकारिवशादप्रतीतं धर्म्म्यन्तरं लिङाऽनुभाव्यते । न च स्मृतानां पदार्थानां योग्यता-
दिसाचिव्याच्छब्देनान्वयो बोध्यते, न चापूर्व्वं स्मृतिगोचर इति वाच्यम् । शक्तिग्रहपदार्थस्मरण-
वाक्यानेुभवादीनां समानप्रकारत्वेनैव कार्यकारणभावात्, लाघवादावश्यकत्वाच्च । न च क्वचित्
सहचारमात्रेणान्वयप्रतियोगिन एव स्मृतिरन्वयबोधे हेतुः, गौरवात् । प्रकृतेऽपि कार्य्यशक्ता लिङिति
शक्तिग्रहात् कार्य्यमिति ततः स्मृतिः, यागविषयकं कार्य्यमित्यनुभव इति क्रमेण तेषां समानप्रकारकत्व-
मस्त्येवेत्यभिसन्धाय्याह—
अस्त्विति । यदि कार्य्यत्वेन क्रियासाधारन्येन लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया च
क्रियानिरासः, तदा 'अहरहः सन्ध्यामुपासीत, न कलञ्जं भक्षयेदि'त्यत्र नित्यनिषेधापूर्व्वयोरलाभः,
न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते, फलाश्रवणेन न्यायसम्पादनानवकाशादित्याह
नित्येति । अस्मिन् पक्षे-कार्य्यत्वप्रवृत्तिनिमित्ततापक्षे । न्यायेति । न ह्यपूर्व्वत्वेन शक्तिरपि तु
कार्य्यत्वेन कार्ये धर्मिणि, क्रिया च तथा भवत्येवेति न तद्भिन्नं लिङा बोध्येतेदर्थः ।
ननु न लोके कार्ये धर्मिणि शक्तिः कल्पिता, किन्त्वनन्यलभ्ये कृतिरूपे कार्य्यत्वमात्रे, धर्मिणः
पाकादेर्धातोरिवोपस्थितिसम्भवात् । क्रियाकार्य्यत्वस्य चान्विताभिधानलभ्यत्वात् । तथा च धर्मिणि
शक्तिर्वेद एव कल्प्या, सा च क्रियानिरासेनेव, क्रियाया अन्वययोग्यत्वे धर्मिणि शक्तिग्रहस्या-
प्रकाशिका ।
स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वमेवानेनोपलक्षितम्-अत एवाग्रे
तस्यैव दूषणं किञ्चेत्यादिना । कार्य्यत्वमात्रमित्युपलक्षणम्-क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वय
इत्यपि द्रष्टव्यम् ।
मकरन्दः ।
स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वत्वमेवानेनोपलक्षितम्, अत एव
किञ्चेत्यादिना तदेव दूषयतीति भावः ।

पञ्चमस्तबके] ईश्वर्र्साधनम्। ५४७
र्थैनान्यत्र तथैव व्यवहार इति सम्भवति। कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णी-
तत्वात्, न त्वपूर्वत्वस्य। न्यायसम्पादनायाश्च तत्रासम्भवात्। फलानुगुण्येन हि
प्रकाशः।
शक्यत्वात् । तस्मादयोग्यतया क्रियायां निरस्तायां धर्मिणि शक्तिग्रहकाले वस्तुतो यत्क्रियाभिन्नं
कार्यं, तत्र शक्तिः। तथा च नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाभिधीयते, कॢप्त-
त्वात्, न तु क्रियान्वययोग्यकार्यत्वमात्रं, लक्षणाप्रसङ्गात्, धर्मिणि बाधकाभावाच्च । अत एव
क्रियाकार्यत्वे लौकिकी लिङ् लाक्षणिकी, उक्तरीत्या क्रियानिरासेनाैव वेदे धर्मिणि शक्तिकल्पनात् ।
लौकिकानां तत्र तात्पर्यांसम्भवात् , क्रियासाधारणशक्तावपि लोके लिङ् लाक्षणिकी । पचेतेत्यादौ
पाककार्यताज्ञानेऽपि लाघवात् कार्यत्वे लिङ्हतात्पर्यम्, न तु धर्मिण्यपि धातुलभ्यत्वात् , तथा च
तृतीयायाः करणैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं, किन्तु विशिष्टम् , विशिष्टाच्च विशेषण-
मन्यदेवेति कार्यत्वे लक्षणा। न चानुपपत्त्या कार्यत्वविशिष्टोपस्थितावपि धर्म्यंशमपहाय क्रियायाः
कार्यत्वान्वयोपपत्तौ किमुपस्थित्यन्तरार्थं लक्षणयेति वाच्यम्। यत इतरधर्मिगतत्वेनोपस्थितस्य
कार्यत्वस्य न धर्म्यन्तराकाङ्क्षाऽस्ति, येन तदितरधर्म्यन्वयो ज्ञायेत, तथा च स्वतन्त्रकार्यत्वोपस्थि-
तये लक्षणा युक्ता ।
मैवम्। कार्यत्वमात्रशक्तस्य लिङ्पदस्यापूर्व्वलक्षणयैवोपपत्तौ तत्र शक्तौ मानाभावात्। न
चापूर्वं शक्यकार्यत्वसम्बन्धितया न ज्ञातमिति न तत्र लक्षणेति युक्तम्। यथा हि शक्तिपक्षे कार्यत्वेन
रूपेण घटादावेव लिङः शक्तिग्रहः कार्यमिति ततः स्मृतिश्चानुभवदशायां च योग्यतावशात् घटादिकं
विहायापूर्वं भासते, तथा लक्षणायामपि लिङ्वाच्यं कार्यत्वं कार्यघटादिसम्बन्धितया ज्ञातं कार्यं घटादि
स्मारयतु, योग्यतावशाच्चापूर्वमनुभवे भासताम्, कार्यस्मरणं हि अन्विताभिधानोपयोगि न त्वपूर्व-
स्मरणम्, तच्च पदेन पदार्थेन वेति न कश्चिद्विशेषः। न च लिङो लाक्षणिकत्वेनापूर्व्वानुभवप्रसङ्गः,
लाक्षणिकपदस्यानुभावकत्वादिति युक्तम्। त्वन्मये इतरान्वितस्वार्थशक्तस्य यजिपदस्यैवेतरदपूर्व-
मादायानुभावकत्वात्, अन्यथा तीरादेरप्यननुभवापत्तिः।
अथेतररोपलक्षितस्वार्थान्वयमात्रे पदानां शक्तिर्न तु इतरत्रापि, गौरवात्, पदान्तरलभ्यत्वाच्च।
न च तीरादिप्रतिबन्धिः, तत्र हि तीरोपसङ्क्षितान्वयशालिस्वार्थान्वयानुभावकत्वं वसतत्यादिपदस्य,
तीरस्य तु संस्कारादुपस्थितिः, प्रकृते चापूर्व्वस्य संस्काराविषयत्वादिति चेत् । न। मञ्चाः
क्रोशन्तीत्यत्र मञ्चस्थाः पुरुषाः क्रोशन्तीत्यवगम्यते, न च मञ्चस्थः पुरुषः प्रागनुभूतो येन तीरमिव
प्रकाशिका।
तच्च पदेन पदार्थेन वेति। एतच्च लक्षणास्थाने पदार्थस्य शक्यस्य लक्ष्योपस्थापकत्वमिति
मतमाश्रित्य, वस्तुतः पदस्यैव लक्ष्योपस्थापकत्वमिति साक्षात्सम्बन्धेन परम्परासम्बन्धेन वेति
विकल्पार्थो द्रष्टव्यः । न चैतादृशं बोधयति चिकीर्षाजनकस्यैव बोधकस्याकाङ्क्षितत्वात् , एतस्य
चातथात्वात् , न ह्येतेनापूर्वगोचरा चिकीर्षा तद्विशेष्यकत्वात्, नापि यागविशेष्यिका तत्र
कार्यत्वसम्बन्धानवगाहनात् ।
मकरन्दः।
कार्यत्वमात्रमित्युपलक्षणं, न क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वयः, न हि यद्यनुपपानु-
पपत्त्या यत्कल्पनं तदेव तस्य विषय इत्यभ्युपगमादित्यपि द्रष्टव्यम् ।
कार्यमात्रशक्तस्येति । न च स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणेति नियम इति
वाच्यम् । अप्रयोजकत्वात् । अत एव नीलादिपदस्य तद्वति लक्षणाऽभ्युपगम इति भावः । अधिकं
शब्दप्रकाशे द्रष्टव्यम् ।

५४८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
व्यक्तिविशेषो लभ्यते, न च तत् तत्र श्रूयते । न चाश्रुतमपि कल्पयितुं शक्यते ।
बीजाभावात् ।
प्रकाशः ।
संस्कारादुपतिष्ठेत । न चापूर्वः पुरुषविशेषो न भासते इति वाच्यम् । गृहप्रवेशानन्तरं अयं यथा
पूर्वमज्ञात एव मञ्चाः क्रोशन्तीति शब्दात् क्रोशनकर्तृतयाऽवगत इत्यनुभवात् । तस्मादनन्यगति-
कतयेतरान्वितस्वार्थबोधकत्वमभ्युपेयम् ।
अथैवंसति यजिपदेन स्वर्गकामकार्यविषयो याग इत्यनुभवो जन्येत, लक्षणायामितरपदस्य
लक्षणीयविशेषणस्वार्थविशेष्यकानुभवजनकत्वात्, न चैतादृशो बोध आकांक्षित इति चेत् । न ।
स्वर्गकामकार्यविषयो याग इत्यनुभवेऽपि स्वर्गकामकैर्ययोरन्वयप्रकारत्वेनापूर्वलाभात् ।
तादृशशब्दानुभवानन्तरमर्थाद्यागविषयकं कार्यमित्यौपादानिकबोधात् प्रवृत्त्युपपत्तेश्च । अस्तु
वा लाक्षणिकमपि पदमनुभावकम्, तच्च द्वितीयाध्यायप्रकाशे प्रपञ्चितमस्माभिरिति नेह प्रतन्यते ।
किञ्च न कार्ये घटादौ लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया शक्तिग्रहकाले क्रियानिरासवत्
यागान्वयानुपपत्त्या घटादिनिरासस्यापि सम्भवात्, तत्र यागविषयकत्वस्य बाधात्, अन्यथाऽन्वि-
ताभिधानकालेऽपि तन्निरासानुपपत्तेः । न च शक्तिग्रहकाले यागान्वयानुपपत्तेरप्रतिसन्धानं, किन्तु
स्वर्गकामान्वयानुपपत्तिमात्रं प्रतिसन्धीयते इति युक्तम् । प्रत्ययस्यान्तरङ्गप्रकृत्यर्थान्वयं बोधयत
एवेतरान्वयबोधकत्वमिति तदन्वयानुपपत्तिप्रतिसन्धानस्यैव प्राथमिकत्वात् । पुरुषदोपादप्रतिसन्धा-
नेऽपि शक्तिग्रहस्य भ्रमत्वापत्तेः, घटादेरशक्यत्वात् । घटादीनामानन्त्येऽपि पृथिवीत्वादिनाऽन्विता-
भिधानकालवन्निरासोपपत्तेः । एवञ्च प्रचरत्कार्यनिरासे क्व कार्यधर्मिणि शक्तिग्रहः ? ।
एतेन-लिङ्पदमेकत्रोच्चारणे स्थायिकार्यस्वर्गजनकत्वादीनां ज्ञाने शक्तमिति व्युत्पत्तिः । स्थायि-
ज्ञानादिकञ्चोपस्थितमेव । अतो लिङ्पदेनैकोच्चारण योग्यतादिवशाद् यागविषयकं स्थायिस्वर्ग-
जनकं कार्यमित्येकं ज्ञानमनुभवरूपं प्रचरद्वस्तुविलक्षणविषयं क्रियते । न चैवं नानार्थवदेकैकज्ञाने
शक्तिग्रहादेकैकविषयोऽनुभवो भवेत्, न समुदितविषय इति वाच्यम् । शक्तिग्रहकाले एकत्रोच्चारणे
इति विशेषणमहिम्ना तत्सम्भवात् । नानार्थे तु प्रमाणाभावेन गौरवेण शक्तिग्रहे तस्याप्रवेशात् ।
तथाप्यमीषां समूहालम्बनापत्तिर्न तु मिथो वैशिष्ट्यज्ञानमिति न वाच्यम् । साकाङ्क्षधर्मधर्मिणोरेकं
ज्ञानमेव हि विशिष्टज्ञानम् । इत्थमेवालौकिककार्येषु स्वर्गादिपदेषु शक्तिग्रह-इत्यपास्तम् ।
स्थायिनां घटादीनां निरासाद् धर्ममात्रे च शक्तिग्रहस्य प्रकृतेऽनुपयोगात् । किञ्च तेषु समु-
दितेषु न शक्तिग्रहः, प्रथमं समुदायस्यैकज्ञानाविषयत्वात् । विषयत्वे वा पूर्वमेव विशिष्टस्य सत्त्वे
अपूर्वत्वव्याघातः । एकज्ञानविषयकसाकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वात् । नापि प्रत्येकम्, तथाहि-
लिङ्पदात् स्मरणत्रयं यजिपदाच्च यागस्मरणम् । न च चतुर्णां तेषां यौगपद्यमस्ति । न च प्रत्येकं
शक्तिग्रहेऽपि समुदितविषयमेकं स्मरणं लिङ्पदादिति वाच्यम् । समुदायस्य पूर्वमननुभवात् । किञ्च
एकमेव स्मरणं यदि साकाङ्क्षधर्मधर्मिविषयकं, तर्ह्यपूर्वत्वक्षतिः । तवैकज्ञानारूढयोः साकाङ्क्षधर्म-
धर्मिणोरेव विशिष्टत्वादित्यस्मत्पितृचरणाः ।
ननु विश्वजिन्न्न्यायेन नित्येऽपि फलं कल्पयिष्यते इत्यत आह न चेति । त्वन्नये इति शेषः ।
प्रकाशिका ।
स्वर्गकामकार्यविषय इति । कार्यपदमत्र यागपरम् । नन्वेवमपि चिकीर्षाजनकत्वानुपपत्ति-
स्तदवस्थैवेत्यत आह तादृशशब्देति । वस्तुतस्तु एतदुत्तरकालीनो यागः कार्यं इतीहोत्पादानिक-
बोधः प्रवर्त्तक इति मन्तव्यम् । त्वन्नय इति । त्वन्नयेत्यस्य निष्फलत्वाभ्युपगमादिति भावः ।
मकरन्दः ।
त्वन्नये इति । त्वया निष्फलत्वेनाभ्युपगमादिति भावः । न त्विति । न त्वपूर्व स्वर्गसाधन-
मिति तत्र गौणप्रयोजनत्वधीरित्यर्थः ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५४६
तद्धि विध्यन्यथाऽनुपपत्त्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथाऽनुपपर्त्या वा,
लोकवत् । न प्रथमः। भवतां दर्शने तस्योपेयरूपत्वात्, यतः श्रुतस्वर्गफलत्वेऽपि
साध्यविशिष्टिरुच्यते । न द्वितीयः। शब्दबलेन तत्प्रत्यये तदनपेक्षणात्, लोके हि
तत्प्रत्यय इष्टाभ्युपायताऽधीनो न तु वेदे इत्यभ्युपगमात् । अन्यथेट्ठाभ्युपायताच
प्रथमं वेदादवगन्तव्या, प्रमाणान्तराभावात्, ततः कार्य्यतेत्यानुमानिको विधिः
स्यात्, न शाब्दः।
आनुमानिकं फलमस्तु, यत्कर्त्तव्यं तदिष्ट्ठाभ्युपाय इति व्याप्तेरित्यपि न युक्तम् ।
सुखेन व्यभिचारात् । अन्यत्वे सतीति चेत् । न । दुःखाभावेन व्यभिचारात् ।
फलं विहायेति चेत् । तदेव किमुक्तं स्यात् । इष्टं स्वभावत इति चेत् । तर्हि ततोऽ-
न्यदनिष्टं स्यात्, तच्च कर्त्तव्यमिति व्याघातः। तत्साधनमिति चेत् । तत्साधनत्वे
सतीति साध्याविशिष्टं विशेषणम् । स्वभावतो नेदमिष्टं कर्त्तव्यञ्च, ततो नूनमिष्ट-
प्रकाशः ।
तथाच तवापसिद्धान्त इति भावः । बीजाभावं स्पष्टयति तद्धीति । तत्-फलम् । विधित्वं-कार्य-
त्वम् । तत् फलजनकत्वं विनाऽनुपपन्नं फलं कल्पयतीत्यर्थः । लोकवदिति । यथा लोके कार्यत्वं
पाकादेरिष्टसाधनत्वेन लिङ्गेनानुमीयते इति कार्यत्वमिष्टं फलं प्रतीत्यैव प्रतीयते, तथा वेदेऽपीत्यर्थः ।
उपेयरूपत्वादिति । त्वन्नये अपूर्वस्यैव स्वतःकाम्यतयाऽनन्योद्देश्यकृतिकृत्यन्वयित्वादित्यर्थः ।
तथा च फलजनकत्वं विनाऽपि फलस्येवापूर्वस्य कार्यत्वमुपलभ्यमानं न फलकल्पकमिति भावः। यत
इति । यत्रापि स्वर्गः फलं श्रूयते, तत्राप्यपूर्वस्यैव स्वतःप्रयोजनता स्वर्गपर्यन्तं व्याप्नोति । न
त्वपूर्वं स्वर्गसाधनमिति धीः, प्रधानस्य गुणत्वानुपपत्तेरिति तव दर्शनादित्यर्थः ।
एतच्च विरोधोद्भावनमात्रम्, वस्तुतोऽपूर्वं न स्वतःप्रयोजनं, लोके तथाऽनवगमात् । वेदेऽपि
काम्यस्थले काम्यसाधनस्यैवापूर्वस्य गौणप्रयोजनस्य लिङाऽभिधानम्, काम्यसाधनताज्ञानं विना
कामिकार्यत्वस्य बोधयितुमशक्यत्वात्, न तु स्वतःप्रयोजनत्वेन, तत्रासामर्थ्यादनुपयोगाच्च ।
प्रवृत्तेर्भोजनादाविव लोकक्लृप्तकाम्यसाधनताज्ञानात् कार्यताज्ञानाद्वा गौणप्रयोजकत्वेनैवोपपत्तेः। अथ
नित्ये -लोकवेदावगतगौणमुख्यप्रयोजनाभावे सति लिङेवापूर्वस्य स्वतःप्रयोजनत्वं बोधयति, तेन
विना प्रवृत्तिपरत्वानिर्वाहादिति चेत्। न। निरुपाधीच्छाविषयत्वं हि स्वतःप्रयोजनत्वमपूर्वस्य
लिङा बोधनीयं, न चापूर्वस्य तादृशेच्छाविषयत्वं क्वचिदपि सिद्धमिति भावः।
शब्दबलेनेति । कार्यताधीर्लैङ्गिकी, तत्र सा लिङ्गमिएसाधनत्वमपेक्षते, वेदे तु कार्यशक्ता
लिङेव तां जनयतीति न तत्र सा तदपेक्षेतेत्यर्थः । यदि चापूर्वं न स्वतःकार्यमिति तत्रापि सा
तदपेक्षेत, तदिष्टसाधनत्वज्ञापकस्यान्यस्याभावाद्देव एव तद्बोधयेत्, तथाच लोकवल्लिङ्गादेव कार्य्य-
ताधीसम्भवान्न लिङस्तत्र शक्तिः कल्प्येतेत्याह अन्यथेति । साध्याविशिष्टमिति । दृष्टसा-
धनत्वस्यैव साध्यत्वादित्यर्थः । स्वभावत इति । सोपाधीच्छाविषयत्वे सति कर्त्तव्यत्वेनापूर्वं फल-
प्रकाशिका ।
न त्वपूर्वं स्वर्गसाधनमिति धीः। यत्र गौणप्रयोजनत्वधीरित्यर्थः । प्रधानस्येति ।
तच्चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमित्यर्थः । तन्मतेऽस्वरसमाविष्करोति एतच्चेति ।
परं प्रत्यसिद्धान्तोद्भावनमात्रमित्यर्थः ।
मकरन्दः ।
प्रधानस्येति । तथा चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमिति भावः । अत्र मते
अस्वरसमुद्भावयति एतच्चेति । परं प्रत्यपसिद्धान्तोद्भावनमात्रमित्यर्थः । यदि चेति । स्वतः-
काम्यत्वे इष्टसाधनत्वाभावान्न तदपेक्षेति भावः ।