सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 580, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 580

५४८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
व्यक्तिविशेषो लभ्यते, न च तत् तत्र श्रूयते । न चाश्रुतमपि कल्पयितुं शक्यते ।
बीजाभावात् ।
प्रकाशः ।
संस्कारादुपतिष्ठेत । न चापूर्वः पुरुषविशेषो न भासते इति वाच्यम् । गृहप्रवेशानन्तरं अयं यथा
पूर्वमज्ञात एव मञ्चाः क्रोशन्तीति शब्दात् क्रोशनकर्तृतयाऽवगत इत्यनुभवात् । तस्मादनन्यगति-
कतयेतरान्वितस्वार्थबोधकत्वमभ्युपेयम् ।
अथैवंसति यजिपदेन स्वर्गकामकार्यविषयो याग इत्यनुभवो जन्येत, लक्षणायामितरपदस्य
लक्षणीयविशेषणस्वार्थविशेष्यकानुभवजनकत्वात्, न चैतादृशो बोध आकांक्षित इति चेत् । न ।
स्वर्गकामकार्यविषयो याग इत्यनुभवेऽपि स्वर्गकामकैर्ययोरन्वयप्रकारत्वेनापूर्वलाभात् ।
तादृशशब्दानुभवानन्तरमर्थाद्यागविषयकं कार्यमित्यौपादानिकबोधात् प्रवृत्त्युपपत्तेश्च । अस्तु
वा लाक्षणिकमपि पदमनुभावकम्, तच्च द्वितीयाध्यायप्रकाशे प्रपञ्चितमस्माभिरिति नेह प्रतन्यते ।
किञ्च न कार्ये घटादौ लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया शक्तिग्रहकाले क्रियानिरासवत्
यागान्वयानुपपत्त्या घटादिनिरासस्यापि सम्भवात्, तत्र यागविषयकत्वस्य बाधात्, अन्यथाऽन्वि-
ताभिधानकालेऽपि तन्निरासानुपपत्तेः । न च शक्तिग्रहकाले यागान्वयानुपपत्तेरप्रतिसन्धानं, किन्तु
स्वर्गकामान्वयानुपपत्तिमात्रं प्रतिसन्धीयते इति युक्तम् । प्रत्ययस्यान्तरङ्गप्रकृत्यर्थान्वयं बोधयत
एवेतरान्वयबोधकत्वमिति तदन्वयानुपपत्तिप्रतिसन्धानस्यैव प्राथमिकत्वात् । पुरुषदोपादप्रतिसन्धा-
नेऽपि शक्तिग्रहस्य भ्रमत्वापत्तेः, घटादेरशक्यत्वात् । घटादीनामानन्त्येऽपि पृथिवीत्वादिनाऽन्विता-
भिधानकालवन्निरासोपपत्तेः । एवञ्च प्रचरत्कार्यनिरासे क्व कार्यधर्मिणि शक्तिग्रहः ? ।
एतेन-लिङ्पदमेकत्रोच्चारणे स्थायिकार्यस्वर्गजनकत्वादीनां ज्ञाने शक्तमिति व्युत्पत्तिः । स्थायि-
ज्ञानादिकञ्चोपस्थितमेव । अतो लिङ्पदेनैकोच्चारण योग्यतादिवशाद् यागविषयकं स्थायिस्वर्ग-
जनकं कार्यमित्येकं ज्ञानमनुभवरूपं प्रचरद्वस्तुविलक्षणविषयं क्रियते । न चैवं नानार्थवदेकैकज्ञाने
शक्तिग्रहादेकैकविषयोऽनुभवो भवेत्, न समुदितविषय इति वाच्यम् । शक्तिग्रहकाले एकत्रोच्चारणे
इति विशेषणमहिम्ना तत्सम्भवात् । नानार्थे तु प्रमाणाभावेन गौरवेण शक्तिग्रहे तस्याप्रवेशात् ।
तथाप्यमीषां समूहालम्बनापत्तिर्न तु मिथो वैशिष्ट्यज्ञानमिति न वाच्यम् । साकाङ्क्षधर्मधर्मिणोरेकं
ज्ञानमेव हि विशिष्टज्ञानम् । इत्थमेवालौकिककार्येषु स्वर्गादिपदेषु शक्तिग्रह-इत्यपास्तम् ।
स्थायिनां घटादीनां निरासाद् धर्ममात्रे च शक्तिग्रहस्य प्रकृतेऽनुपयोगात् । किञ्च तेषु समु-
दितेषु न शक्तिग्रहः, प्रथमं समुदायस्यैकज्ञानाविषयत्वात् । विषयत्वे वा पूर्वमेव विशिष्टस्य सत्त्वे
अपूर्वत्वव्याघातः । एकज्ञानविषयकसाकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वात् । नापि प्रत्येकम्, तथाहि-
लिङ्पदात् स्मरणत्रयं यजिपदाच्च यागस्मरणम् । न च चतुर्णां तेषां यौगपद्यमस्ति । न च प्रत्येकं
शक्तिग्रहेऽपि समुदितविषयमेकं स्मरणं लिङ्पदादिति वाच्यम् । समुदायस्य पूर्वमननुभवात् । किञ्च
एकमेव स्मरणं यदि साकाङ्क्षधर्मधर्मिविषयकं, तर्ह्यपूर्वत्वक्षतिः । तवैकज्ञानारूढयोः साकाङ्क्षधर्म-
धर्मिणोरेव विशिष्टत्वादित्यस्मत्पितृचरणाः ।
ननु विश्वजिन्न्न्यायेन नित्येऽपि फलं कल्पयिष्यते इत्यत आह न चेति । त्वन्नये इति शेषः ।
प्रकाशिका ।
स्वर्गकामकार्यविषय इति । कार्यपदमत्र यागपरम् । नन्वेवमपि चिकीर्षाजनकत्वानुपपत्ति-
स्तदवस्थैवेत्यत आह तादृशशब्देति । वस्तुतस्तु एतदुत्तरकालीनो यागः कार्यं इतीहोत्पादानिक-
बोधः प्रवर्त्तक इति मन्तव्यम् । त्वन्नय इति । त्वन्नयेत्यस्य निष्फलत्वाभ्युपगमादिति भावः ।
मकरन्दः ।
त्वन्नये इति । त्वया निष्फलत्वेनाभ्युपगमादिति भावः । न त्विति । न त्वपूर्व स्वर्गसाधन-
मिति तत्र गौणप्रयोजनत्वधीरित्यर्थः ।