सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५०९
प्रत्ययोऽपि । प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते । तथाच
प्रयोगः-आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् । न
हि प्रामाण्यप्रत्ययं विना कचित् समाश्वासः । न चाऽसिद्धस्य प्रामाण्यस्य
प्रतीतिः । न च स्वतः प्रामाण्यमित्यावेदितम् । न च नेदं प्रमाणं, महाजनपरिग्रहा-
दित्युक्तम् । न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति । न चासर्वज्ञस्य गुण-
वत्तेति निश्शङ्कमेतत् ।
श्रुतेः खल्वपि । तथाहि-सर्वज्ञप्रणीता वेदाः, वेदत्वात् । यत् पुनर्न सर्वज्ञप्र-
णीतं, नाऽसौ वेदो यथेतरवाक्यम् ।
-प्रकाशः।
प्रत्ययपदं समाश्वासशक्तं तत्सम्बन्धि तद्विषयं प्रामाण्यं लक्षयतीत्याह—
प्रत्ययशब्देनेति। तथा चेति। आगमस्य सम्प्रदायः प्रवाहः प्रमात्वप्रयोजकवाक्यार्थ-
प्रमाणरूपगुणजन्यो यथार्थचिख्यापयिषादिवक्तृगुणजन्यो वा प्रमाणशब्दत्वात् लौकिकप्रमा-
णशब्दवदित्यर्थः । लक्षणाबीजं सम्बन्धमाह न हीति । न च प्रमाणत्वमसिद्धं, प्रामाण्याज्ञाने
पारलौकिके कर्मणि वेदोद्बोधिते प्रेक्षावतां प्रवृत्त्यनुपपत्तेरित्याह । न चेति । तथापि तेन वक्तृगुण-
पूर्वकेणैव भाव्यमित्यसिद्धमित्यत आह न च स्वत इति । तथापि वक्तुः सर्वज्ञत्वं कुतः सिद्धय-
तीत्याह न चेति । तथाहीति । यद्यपि परैः सर्वज्ञानङ्गीकारात्तत्प्रणीतत्वं परं प्रत्यसिद्धं,
तथाप्यात्मत्वमसंसारिवृत्ति जातित्वात् घटत्ववत् । स चासंसारी किञ्चिद्वाक्यप्रयोक्ता पुरुषत्वादिति
साध्यप्रसिद्धौ, वेदा असंसारिपुरुषप्रणीता इति साध्यम् । न चास्मदाद्युच्चरिते वेदे व्यभिचारः।
प्रकाशिका ।
मादायर्थान्तरं मनसि अभिचारश्चेत्यन्यथा माचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक-
सूचनाय न साध्यप्रविष्टमत एवाग्रिमसाध्ये तन्नोपात्तम् । अध्यापकादिप्रमामादायर्थान्तरमिति साध्या-
न्तरमाह यथार्थेति। न चात्रापि तद्दोषतादवस्थ्यं वक्तृपदस्य स्वतन्त्रवक्तृपरत्वात् । तथाप्यात्मत्व-
मिति । न च सुखसमवायिकारणतावच्छेदकजातौ व्यभिचारः । नित्यस्येत्यादिन्यायेनेरन्भ्युपगमेन
तस्यात्रैव पक्षत्वात् । न चाप्रयोजकत्वमन्यथा सुखित्वमसंसारिवृत्तिसुखित्वव्यापकत्वादित्यपि स्यादिति
वाच्यम् । ईश्वरप्रतिपादकागमस्यात्र विपक्षबाधकत्वात् तत्र च तदभावादिति भावः । न चास्मदा-
दीति । तत्प्रणीतत्वं तत्कण्ठतलत्वाद्यभिघातजन्यत्वमित्याशयेन व्यभिचारोद्भावनमिदम् , अन्यथास्म-
मकरन्दः ।
दायार्थान्तरं, मनसि व्यभिचारश्चेत्यन्यथा व्याचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक-
सूचनाय, न तु साध्ये प्रविष्टम् , अत एवाग्रिमसाध्ये नोपात्तम् । अध्यापकत्वमादायर्थान्तरमित्य-
रुचेराह यथार्थेति । न चात्रापि दोषतादवस्थ्यम्, अस्मदादेरनुवक्तृतया वक्तृत्वाभावात् ,
स्वतन्त्रवक्तृपरत्वाद्वा ।
न चाप्रयोजकत्वम्, अन्यथा दुःखित्वमसंसारिवृत्ति धर्मत्वादित्यादिकमपि स्यादिति
वाच्यम् । ईश्वरप्रतिपादकागमादेर्विपक्षबाधकस्य सत्त्वात्तत्र च तदभावात् । न चास्मदादीति ।
ननु तस्य पक्षत्वात् पक्षसमत्वाद्वा कथं तत्र व्यभिचारः, अन्यथा वेदज्ञानाजन्यत्यादिसिद्धान्ते
का गतिः, यदि चाजन्यज्ञानमादाय तत्र साध्यसत्त्वमिति व्यतिरेकित्वमविकलं, तदाश्रयपुरुष-
मादाय प्रकृतेऽपि तथेति तुल्यमिति चेत् । न । असंसारिपुरुषप्रणीतत्वं तत्कण्ठतालवाद्युच्चरितत्वम-
भिप्रेत्य व्यभिचारदर्शनात् । एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनम् , अन्यथा

५१० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् ,
अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति
चेन्न । अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् । न
ह्यस्मदादीनां प्रत्यक्षादि मूलम् । भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् । नापि
परम्परैव मूलं, महाप्रलये विच्छेदादित्युक्तम् ।

प्रकाशः ।
वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति भावः । विरुद्धत्वादिति । प्रतारकवाक्यस्याप्यदृष्ट-
विषयत्वादित्यर्थः । मन्वादीति । मन्वादिवाक्यस्याप्यदृष्टविषयप्रमाणत्वादित्यर्थः । अनुपलभ्य-
मानेति । मन्वादिवाक्ये च वेदस्यैव मूलान्तरस्योपलभ्यमानत्वादित्यर्थः ॥
ननु वाक्यत्वमसिद्धम् , समुदायस्याप्रतिपादकत्वात् । न च शाखासमुदायो वेदः ।

प्रकाशिका ।
दुच्चरितवेदस्य पक्षसमत्वेन तदनुपपत्तेः एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनं वेद-
ज्ञानाजन्येति । वेदज्ञानेतिविशेषणमप्रसिद्धिवारणाय अन्यथा अस्मदाद्युच्चरितवेदस्यापि
पक्षसमत्वान्न तेन व्यभिचार इति भावः । न चैवं वेदत्वघटकभूतशब्दत्वस्यैव हेतुत्वमिति
व्यर्थविशेषणतेति वाच्यम् । व्यतिरेकव्याप्तावखण्डाभावतया तदभावात् । न चैवं व्यतिरेकव्याप्तौ
नीलधूमादित्यपि हेतुः स्यादिति वाच्यम् । इष्टत्वात् अन्वयव्याप्तावेव तस्य हेत्वाभासत्वात् ।
विशिष्टैकार्थप्रतिपादकत्वं वाक्यत्वं पदधर्मः समुदाये नास्तीत्याशङ्कते ननु वाक्यत्वमिति ।
ननु समुदितानि पदान्येव समुदायः तत्र च प्रतिपादकत्वमस्त्येव, अन्यथा वाक्यत्वमप्रसिद्धमेव
स्यात्, प्रत्येकपदस्य वाक्यत्वाभावात्, समुदायस्य चाप्रतिपादकत्वात् । किञ्चैवं प्रमाणत्वस्य प्रतिपाद-
कत्वविशेषतया तद्गर्भसिद्धान्तलक्षणमपि वेदस्यायुक्तं स्यादित्यरुचेः पक्षतावच्छेदकविकल्पमाह

मकरन्दः ।
तस्यापि सर्वज्ञप्रणीतत्वेन तदभावात् । अन्यथा तु चिन्त्यम् । वेदज्ञानाजन्येति । अप्रसिद्धि-
वारणाय वेदज्ञानेति विशेषणम् । अस्मदाद्युच्चरितवेदस्यापि पक्षत्वाज्जन्यज्ञानमादाय साध्यसत्त्वा-
त्तन्न न व्यभिचारः । न चैवं वेदत्वहेतुविवेचने व्यर्थविशेषणत्वम् । अखण्डाभावतया व्याप्तिग्रहे
तदभावात् । वस्तुतस्तथा सति व्यतिरेकिणि व्यर्थविशेषणत्वं नोद्भाव्येत । न चेष्टापत्तिः, कथक-
सम्प्रदायविरोधात् । नीलधूमस्यापि व्यतिरेकतया गमकत्वापत्तेः । यदि च व्यतिरेकसहचारेणा-
न्वयव्याप्तिरेव गृह्यते इति मतं, तदा प्रकृतेऽपि तुल्यमिति पूर्वास्वरसादेवान्वयतो वेति कल्पान्तर-
मिति । समुदायस्येति । पदवाक्यसमुदायविशेषो वेदः पक्षः, तत्र विशिष्टैकार्थप्रतिपादकत्वरूपस्य
वाक्यत्वस्य समुदाये विरहादसिद्धिरित्यर्थः । ननु समुदितानि पदान्येव समुदायः, अतिरिक्तस्या-
नभ्युपगमात् । तत्र च प्रतिपादकत्वसत्त्वाद्वाक्यत्वमप्रत्यूहमेव । अन्यथा वाक्यत्वमप्रसिद्धमेव
स्यात् । प्रत्येकपदे वाक्यत्वाभावात् । समुदायस्याप्रतिपादकत्वात् । यदि च नैवं, तदा प्रमाण-
त्वस्यापि प्रतिपादकगर्भतया तद्गर्भसिद्धान्तलक्षणमपि भज्येतेति चिन्त्यम् । शब्दतदुपजीवीति
शब्दप्रकाशे विपश्चितम् । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीयत्वस्याभेद-

टिप्पणी ।
महाप्रलय इति । अत्राखिलकार्यद्रव्यध्वंसाधारः कालो महाप्रलयो बोध्यः, अयमपि तत्तत्खण्ड-
प्रलयापेक्षया महाप्रलय उच्यते, निखिलभावकार्यध्वंसाधारः कालो मुख्यो महाप्रलयस्तु नात्राभिप्रेतः
तदनन्तरं सृष्टेरभावात् , स हि क्रमशः सर्वेषु जीवेषु मुक्तेषु भवति तदनन्तरं कस्यचिदप्यदृष्टादि-
रूपकारणाभावान्न भवति सृष्टिरित्यवगन्तव्यम् ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५२१

अन्वयतो वा। वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद्, अस्मदादिवाक्यवत् ।
अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न। असिद्धेः ।
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःस्रुताः ।
प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते ॥
वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः । तस्माद्, 'यज्ञात् सर्वहुत ऋचः
सामानि जज्ञिरे' इत्यादिश्रुतिपाठकस्मृतेश्च ।

प्रकाशः ।
तस्य वेदनिरूप्यत्वात् । नापि महाजनानां वेदाकारानुगतव्यवहाराद्वेदत्वं जातिः । देवदत्तीयत्वानुमा-
पकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् । नापि स्वर्गकामादिशब्दः । स्मृत्यादौ तथात्वात् ।
उच्यते । शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्य-
वाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम् । ईश्वरप्रमाया अजन्यत्वात् । वेदार्थस्यानुमानादिविषयत्वे-
ऽप्यनुमानादेर्वेदोषजीवकत्वात् । स्मृत्यादीनां वेदसमानार्थत्वेऽपि शब्दजन्यधीजन्यत्वात् । वेदार्थं
प्रतीत्य तत्प्रणयनात् ।
वाक्यादिति सङ्गृहीतं हेतुं व्याचष्टे । अन्वयतो वेति । ननु किं पौरुषेयत्वम् ? । न तदर्थ-
धीजन्यत्वं, तदुच्चारणधीजन्यत्वं वा । अध्यापकतदुभयजन्यत्वेन सिद्धसाधनात् । नापि स्वतन्त्र-
पुरुषप्रणीतत्वम् । इदानीं पठ्यमाने वेदे तदभावात् । न च स्वतन्त्रपुरुषप्रणीतजातीयत्वं साध्यम् ।
आद्यस्मृत्यादौ व्यभिचारात् । तज्जातीयस्य स्वतन्त्रपुरुषप्रणीतत्वाभावात् । नाप्यर्थं प्रतीत्य तदर्थ-
परतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वम् । अर्थज्ञानवताऽध्यापकेन सिद्धसाधनात् ।
अत्राहुः—सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वम् । आद्यस्मृतावपि तज्जातीयत्वान्न
व्यभिचारः । यद्वा वेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति प्रमाणत्वावच्छेदकवाक्यधर्म-
त्वात् । स्मृतित्ववत् ।
यज्ञादिति । यज्ञो विष्णुः । ननु वेदे कर्तृस्मरणमर्थवादतया न मानम्, कार्यान्वितज्ञानज-

प्रकाशिका ।
न च शाखासमुदाय इति । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीय-
त्वस्य भेदगर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यसङ्गतेः । वस्तुत उच्चारणानपेक्षोच्चारणकर्तृत्वमेव स्वात-
न्त्र्यमिति पूर्वपक्षिणः तात्पर्यमिति स्मृतिमात्र एतदभाव इति यथाश्रुत एव ग्रन्थः । अत एव
सजातीयपदप्रक्षेपेण सिद्धान्त इति बोध्यम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यनति-
रिक्तवृत्तित्वं तदेदानीन्तनवेदत्वे व्यभिचारः, यदि चान्यूनतिरिक्तवृत्तित्वं तदासिद्धिरिति वाच्यम् ।

मकरन्दः ।
गर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यगतेरिति ध्येयम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं
यद्यन्यूनतिरिक्तवृत्तित्वं तदाऽसिद्धिः, अनतिरिक्तवृत्तित्वमात्रञ्चेत्तदा पठ्यमानवेदत्वादौ व्यभिचार
इति वाच्यम् । स्वसमानानुपूर्वीकसकलवाक्यवृत्तिधर्मत्वादित्यत्र तात्पर्यात् । न च विशेष्यभागस्यैव
व्याप्यत्वं तावन्मात्रञ्च स्वरूपासिद्धमिति वाच्यम् । अखण्डाभाववदखण्डोपाधौ न व्यर्थत्वमिति
मतेनोक्तत्वात् । यन्निष्ठा यन्निरूपितेति न्यायात् । अत एव प्रमेयत्वादेः शास्त्रे हेतुत्वेनाभिधानं
प्रयोजनाभावान्नान्यत्र विशेषणप्रक्षेपः । अन्यथा अखण्डाभावे का गतिः । तत्रापि प्रतियोगिको-
टावनेकविशेषणप्रक्षेपसंभवात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकल-
भोगाधिकरणवृत्तित्वादित्यत्र भोगाधिकरणपदं सार्थकम् । यत्तु व्याप्याश्रयसंकोचकविशेषणस्य
व्यर्थत्वं यथा नीलधूमे, न तु विकासकस्य, यन्निष्ठा यन्निरूपिता इति न्यायेन तद्विशेषणं विना

५१२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
: अर्थवादमात्रमिदमिति चेन्न । कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् । तथा चास्म-
रणे कालिदासादेरस्मरणात् । एवञ्च कुमारसम्भवादेरकत्तृकत्वप्रसङ्गः । अनैका-
न्तिकत्वं वा हेतोः ।
प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेन्न । प्रणेतारं प्रत्यसिद्धेः ।

प्रकाशः ।
न कस्यैव पदस्य शक्तिग्रहादित्याह अर्थवादेति । 'आदित्यो वै यूप' इत्यादैरर्थवादस्य मुख्यार्थत्वे
बाधकादप्रमाणत्वात् , स्तुतिपरत्वेऽपि प्रकृते बाधकानां निरासादविध्यर्थस्याऽपि मुख्यार्थत्वमेव ।
अन्यथा यन्न दुःखेन सम्भिन्नमित्यादेरपि स्वाऽर्थपरित्यागप्रसङ्गात् । कालिदासस्मरणेऽपि विध्य-
भावात् तत्काव्यस्याप्यकत्तृकत्वप्रसङ्गात् ।
सकर्तृकत्वे वा तत्रैवायं हेतुरनैकान्त इत्याह कर्तृस्मरणस्येति ।
प्रमाणान्तरेति । वेदा न पौरुषेयाः प्रमाणान्तरागोचरार्थत्वात्, यन्नैवं तन्नैवम् ,
यथा मन्वादिवाक्यमित्यर्थः । यदि वेदप्रणोतृप्रमाणान्तरागोचरार्थत्वं हेतुः, तदा तत्प्रणेतुरीश्वरस्य
प्रत्यक्षगोचरत्वादसिद्धिः । अथ यस्य कस्यापि प्रमाणान्तरागोचरार्थत्वं, तदाऽनैकान्तिकमित्याह

प्रकाशिका ।
समानानुपूर्वीकसकलवाक्यवृत्तिधर्म्मत्वस्य हेतुत्वात् । न च विशेषमात्रमेव व्याप्यमिति वाच्यम् ।
स्वसमानाधिकरणानुपूर्वीसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याखण्डाभावस्य हेतुत्वात् । अत
एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्तिसकलभोगाधिकरणवृत्तित्वादित्यत्रापि भोगसमा-
नाधिकरणात्यन्ताभावाप्रतियोगित्वहेतुरित्यन्यत्र विस्तरः । आकस्मिकमहेतुकं न च तत्र बीजसम्भव

मकरन्दः ।
तन्निष्ठव्याप्तेरग्रहात् । प्रकृते च विशेष्यभागस्य न्यूनवृत्तित्वविशिष्टस्याधिकवृत्तित्वमिति तस्य
विकाशकत्वमिति । तत् प्रमादविजृम्भितम् । व्याप्याश्रयस्यैवंविकाशेऽपि व्याप्याश्रयविकाशाभावात्
तद्घटितोपाधेरेकत्वात् ।
न च व्याप्याश्रयविकाशस्यापि न व्यर्थत्वं, तत्र यन्निष्टेत्यादिन्यायस्याप्यसम्भवेन मानाभा-
वादिति । अन्यथा धूमालोकान्यतरत्वादावपि व्यर्थविशेषणत्वं न स्यात् । आलोकादिपदस्या-
योगोलकादिन्याप्याश्रयविकाशत्वात् ।
आकस्मिकञ्च तत्र बीजञ्चेति व्याहतमत आह दृष्टेति ।

टिप्पणी ।
अर्थवादमात्रमिति । अर्थवादस्त्रिधा भवति गुणवादोऽनुवादो भूतार्थवादश्च, तदुक्तम्-विरोधे-
गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र प्रमाणान्तर-
विरोधे गुणवादः, यथाऽऽदित्यो यूप इत्यादिः, प्रमाणान्तरावगतार्थबोधकोऽनुवादः, यथाऽग्निर्हिमस्य
भेषजमित्यादिः, प्रमाणान्तरेण प्राप्तिविरोधयोरभावे भूतार्थवादः, यथा इन्द्रो वृत्राय वज्रमुदय-
च्छदित्यादि ।
प्रणेतारमिति । प्रणेतृप्रमाणान्तरागोचरार्थकत्वस्य हेतुत्वं न संभवति अपौरुषेयत्वं
साध्यतां भवतां मीमांसकानां मते वेदे पदे प्रणेतृघटितहेतोरभावादित्यर्थः । यत्किंचित्पुरुषीय-
प्रमाणन्तरगोचरार्थकत्वस्य हेतुत्वं दूषयति अन्यं प्रतीति ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५१३
अन्यं प्रत्यनैकान्तिकत्वात् । आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं
प्रति प्रमाणान्तरगोचरस्यापि तेनैव चक्षुषा प्रतिपाद्यमानत्वात् ।
वक्तैव प्रकृते न सम्भवति । हेत्वभावे फलाभावात् । चक्षुरादीनां तत्रासाम-
र्थ्यात् । अस्मदादीन्द्रियवत् । मनसो बहिरस्वातन्त्र्यात् । न । चेतनस्य ज्ञानस्ये-
न्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् । नित्यनिराक-
रणे चासामर्थ्यात् ।
परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न । द्रष्टारं
प्रत्यसिद्धेः । अन्यं प्रति सिद्धसाधनात् ।
तथापि वाक्यत्वं न प्रमाणम् । अप्रयोजकत्वात् । प्रमाणान्तरगोचरार्थत्व-
प्रयुक्तं तत्र पौरुषेयत्वं, न तु वाक्यत्वप्रयुक्तम् । न । सुगताद्यागमा-
नामपौरुषेयत्वप्रसङ्गात् । प्रमाणवाक्यस्य सत इति चेन्न । प्रयोतृप्रमाणान्तरगो-
चरार्थत्वस्य साध्याऽनुप्रवेशात् । स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् । अर्थप्र-
तीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् । सम्वादिवाक्यस्याऽपौरुषेयत्वप्र-
प्रकाशः ।
प्रयोतारमिति । अनैकान्तिकत्वं स्पष्टयति आकस्मिकेति । दृष्टकारणोपहारं विना जातस्मि-
तस्य यद्बीजं सुखानुस्मृतिरूपं कारणं तस्येत्यर्थः । सर्वज्ञो वेदवक्ता न सम्भावनाऽऽस्पदम् ,
वाक्यार्थज्ञानसामग्रीरहितत्वादित्याह वक्तैवेति । ईश्वरो नातीन्द्रियार्थदर्शी पुरुषत्वात् , तज्ज्ञानं
वा नातीन्द्रियविषयं ज्ञानत्वात् , तदिन्द्रियं वा नातीन्द्रियार्थग्राहि इन्द्रियत्वात् , तन्मनो वा नाती-
न्द्रिये प्रवर्त्तते मनस्त्वादित्यादयः प्रयोगाः प्रागेव निरस्ता इत्याह चेतनस्येति । अपि च
सामग्र्यभावात् कार्यज्ञानाभावेऽपि अकार्यं ज्ञानं न निवर्त्तते इत्याह नित्येति । उपाधिं शङ्कते
प्रमाणान्तरेति । अत्र साध्याव्यापकत्वमाह सुगतेति । पक्षधर्मावच्छिन्नसाध्यव्यापकत्वादुपाधित्वं
स्यादित्याह प्रमाणेति । प्रयोत्रिति । साध्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाच्च
व्याप्यव्यापकभावस्येत्यर्थः । प्रमाणान्तरगोचरार्थत्वेन शब्देतरप्रमाणगोचरार्थत्वं विवक्षितं,
मानान्तरगोचरार्थत्वं वा, मूलभूतमानान्तरगोचरार्थत्वं वा ? । आद्ये सम्वादीति । द्वितीय-
प्रकाशिका ।
इत्यत आह दृष्टकारणेति । साध्यादभिन्नत्व इति । यद्यपि नात्राभेद उपाधिभेदात् किञ्चापौर-
षेयत्वस्य सुगतागमवृत्तित्वादुक्तोपाधेश्च तदवृत्तित्वात् सर्वथा भेद एव, तथापि साध्यसिद्धिपर्यवसित-
सिद्धिकत्वाद् वह्न्यादिसामग्रीवदुत्सर्गंतोऽस्यानुपाधित्वमित्यत्र तात्पर्यम् । शब्देतरेति । शब्दतदुप-
मकरन्दः ।
साध्यादभिन्नत्वे इति । यद्यप्यत्र नाभैदः, उपाधिभेदस्य स्फुटत्वात् , किञ्च पौरुषेयत्वस्य
सुगतागमादावपि सत्त्वादन्धथा वाक्यत्वस्य तत्र व्यभिचारापत्तेरिदञ्च तद्याप्तमिति सर्वथा भेद
एव, तथाप्येतदस्वरसादेव दोषान्तरदानमिति ब्रूमः । अन्यथा तु चिन्त्यम् ।
शब्देतरेति । शब्दतदुपजीविप्रमाणेतप्रमाणगोचरार्थत्वमित्यर्थः ।
टिप्पणी
परमाण्वादय इत्यादि । अत्रास्मत्सिद्धान्ते परमाण्वादीनामपीश्वरादिप्रत्यक्षविषयतया
सामान्यतः प्रत्यक्षविषयत्वाभावस्याप्रसिद्ध्या तेन रूपेण साध्यत्वे साध्याप्रसिद्धिः स्यादतो यत्किंचि-
त्प्रत्यक्षविषयत्वाभावः साधनीयः, तथाच यत्किञ्चित्पदेनेश्वरग्रहणे परमाण्वादावीश्वरप्रत्यक्षविषयत्वा-
भावो मास्तु प्रत्यक्षसामग्रीरहितत्वमस्त्विति व्यभिचारशंकानिवर्तकानुकूलतर्कशून्यत्वाद्व्याप्यत्वासिद्धिः,
यदि च यत्किञ्चत्पदेन जीवो गृह्येत तदा सिद्धसाधनमित्यर्थः ।
६५ न्या० कु०

५१४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां

सङ्गाच्च । तदर्थस्य शब्देतरप्रमाणागोचरत्वात् । प्रयुज्यमानवाक्येतरगोचरार्थ-
त्वमात्रमिति चेन्न । तस्य वेदेऽपि सत्त्वात् , एकस्याप्यर्थस्य शाखाभेदेन बहुभि-
र्वाक्यैः प्रतिपादनात् । अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेन्न । उक्तो-
त्तरत्वात् ।
संख्याविशेषात् खल्वपि । द्व्यणुकत्र्यणुके तावत् परिमाणवती द्रव्यत्वात् । तच्च
परिमाणं कार्यं कार्यगुणत्वात् । न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा
कारणम् । नित्यपरिमाणत्वात् , अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्प-
त्तिप्रसङ्गात् । द्व्यणुकस्य महत्त्वप्रसङ्गाच्च त्र्यणुकवदण्वारभ्यत्वाविशेषात् । तत्र

प्रकाशः ।
माशङ्क्य निराकरोति प्रयुज्यमानेति । तृतीयं शङ्कते अस्त्वेवमिति । मूलमूलीभावः
उपजीव्योपजीवकभावः । उक्तेति । प्रयोक्तृमूलभूतप्रमाणान्तरागोचरार्थत्वस्यासिद्धेरन्यं प्रत्यनैकान्ति-
कत्वादित्यादिनेत्यर्थः ।
द्व्यणुकादिपरिमाणमनेकवृत्तिसङ्ख्याजन्यं, तस्याश्च द्वित्वादेरपेक्षाबुद्धित उत्पत्तिः, तदाश्रय ईश्वर
इति साधयितुमाह—
द्व्यणुकेति । कार्यगुणत्वादिति । कार्यवृत्तिगुणत्वादित्यर्थः । ननु द्व्यणुके परमाणुपरिमाणात्
त्र्यणुके च द्व्यणुकपरिमाणादेव परिमाणोत्पादोपपत्तेः किं द्वित्वादिसङ्ख्ययेत्यतं आह न चेति ।
आकाशपरिमाणवदिति शेषः । यदि च परः परममहत्परिमाणमेव न स्वीकुर्यात् , तदा हेत्वन्त-
रमाह अणुपरिमाणत्वादिति ।
यद्यपि नात्र मनःपरिमाणं दृष्टान्तः, परमतै मनसो विभुत्वात् , न चानारम्भकद्व्यणुकपर-
माणुपरिमाणं दृष्टान्तः, तयोरपि कदाचिदारम्भकत्वात् , अचवयवाऽणुपरिमाणस्य जनकत्वा-

प्रकाशिका ।
जीविप्रमाणान्तरप्रमाणगोचारार्थत्वमित्यर्थः । साध्यसाधनेति । यद्यपि सुगतागमादाविव साधन-
व्यापकत्वं तथापि तत्र साध्याव्यापकत्वमपीति प्रमाणत्वावच्छिन्नसाध्यव्यापकत्वं वाच्यं तथा सति तदव-
च्छिन्नसाधनाव्यापकत्वमपीत्याशयेनेदमुक्तम् । हेत्वन्तरमाहेति । मनःपरिमाणदृष्टान्तावष्टम्भेनेति
भावः। तथा च पूर्वहेतावपि तदेव दृष्टान्त इति तात्पर्यम् । वस्तुतो द्व्यणुकपरिमाणपक्षतायां प्रथमहे-
तोरसिद्धिरित्याशयेनोभयसाधारणो हेतुरणुपरिमाणत्वादित्युक्त इति मूलस्य तात्पर्यम् । तयोरिति ।
अनारम्भके तत्र मानाभावेन तयोरपि कदाचिदारम्भकत्वादित्यर्थः । द्व्यणुकादीनामणारम्भकत्वे च
तत्परिमाणस्याप्यवयवपरिमाणतया जनकत्वमिति न दृष्टान्तत्वमित्याह अवयवेति । यदि च

मकरन्दः ।
यदि चेति । अत्रेदं चिन्त्यम् । तदस्वीकारे दृष्टान्तान्तरं कर्तुमर्हति, न तु हेत्वन्तरम् ।
मनःपरिमाणदृष्टान्तत्वेन प्रथमहेतावप्युपपत्तेः । तस्मात् द्व्यणुकपरिमाणपक्षके प्रथमस्यासिद्धत्व-
माशङ्क्य तदभिप्रायेण हेत्वन्तरम् । तत्र च प्रथमहेत्ववष्टम्भात् परमाणुपरिमाणमेव दृष्टान्तो मनः-
परिमाणं वेति मूलतात्पर्यं प्रतिभातीति ।
तयोरपीति । स्वरूपयोग्यत्वादित्यर्थः । यद्वा अनारम्भके तत्र मानाभावात् तयोरपि
कदाचिदारम्भकत्वादित्यर्थः ।
द्व्यणुकादीनामारम्भकत्वनियमे चावयवपरिमाणतया तत्परिमाणस्यापि जनकत्वमेवेति न
दृष्टान्तत्वमित्याह अवयवेति ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५१५
कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः । अणुत्वमेव महदारम्भे
विशेष इत्यपि न युक्तम् । महतो महदनारम्भप्रसङ्गात् । अणुत्वमहत्त्वयोर्विरुद्ध-
तया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् । बहुभिरपि परमाणुभिर्द्वाभ्यामपि
द्व्यणुकाभ्यामारम्भप्रसङ्गाच्च ।
एवं सति को दोष इति चेत् । परमाणुकार्यस्य महत्त्वप्रसङ्गः । कारणबहु-
प्रकाशः ।
ऽभ्युपगमाच्च, अन्यथा नित्यवृत्तिसङ्ख्याया अप्यजनकत्वापत्तेः । तथापि प्रमाणबलेन मनसोऽ-
णुत्वं साधयिष्यामीति तत्परिमाणमेव दृष्टान्त इति भावः ।
अन्यथेति । कालादिमनसां परिमाणस्य परिमाणजनकत्वे तैर्द्रव्यैर्द्रव्यानारम्भादनाश्रय-
परिमाणं जायेतेत्यर्थः । बाधकान्तरमाह द्व्यणुकस्येति । अणुपरिमाणं यदि त्र्यणुके महत्त्वा-
रम्भकं, द्व्यणुकेऽपि स्यादविशेषादित्यर्थः । त्र्यणुकेऽपि वा द्व्यणुकवदणुत्वापत्तिरिति भावः । यदि
न त्र्यणुकमहत्त्वारम्भकं बहुत्वं, तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्याया आरम्भकत्वसिद्धेर्द्व्यणुक-
परिमाणस्यानारम्भकत्वं सिद्धमित्याह तत्रेति । ननु द्व्यणुकपरिमाणे काचिज्जातिरस्ति तद्विशिष्टाणुत्वं
महत्त्वजनकमिति नोक्तदोष इत्यत आह अणुत्वमेवेति । एवं हि महत्त्वं महत्त्वारम्भकं न
स्याद्व्यभिचारेण कारणत्वाभावादित्यर्थः । यद्वा किमणुत्वं महत्त्वमेव जनयति, क्वचिदणुत्व-
मपि वा ? तत्राद्यमाशङ्क्य दूषयति अणुत्वमेवेति । अन्त्यं दूषयति अणुत्वमहत्त्वयोरिति ।
अणुत्वमहत्त्वयोर्विरुद्धजातीयतयाऽन्योन्यपरिहारेण स्थितेर्व्यभिचारान्नैकमप्यारम्भकं स्यादित्यर्थः ।
ननु कारणभेदात् कार्यभेदः स्यादित्यत आह बहुभिरपीति । यदि न संख्या कारणं, किन्त्वणु-
परिमाणमिति शेषः । परमाणुकार्यस्येति । कारणबहुत्वस्याप्यन्यत्र महत्त्वहेतुत्वकल्पनाद्
प्रकाशिका ।
तादृशस्यापि अणुपरिमाणत्वेनाजनक तया न दृष्टान्तत्वं तत्राह अन्यथेति । किमणुत्वमिति
एवकारोऽत्र भिन्नक्रमः तया च किमणुत्वमेवेत्यर्थः । तेन महतो महदनारम्भप्रसङ्गादिति मूल-
सङ्गतिः । क्वचिदणुत्वमपि वेति । क्वचिदणुत्वं क्वचिच्च महत्त्वं महत्त्वजनकत्वमिति विकल्पार्थः । न
तु तृणारणिमणिवत् कार्यवैजात्यान्न व्यभिचारः, अन्यथा संख्याहेतुत्वेऽपि का गतिरित्याह नन्विति ।
यदि नेति । यद्यपि संख्याकारणत्वेऽप्ययं प्रसङ्गः सम्भवी, तथापि परमाणुभिर्द्व्यणुकस्य द्व्यणुकाभ्यां
त्र्यणुकस्यारम्भप्रसङ्गो बोध्यः । न चाणुपरिमाणद्वयत्वेन द्व्यणुकाणुत्वजनकत्वमणुपरिमाणत्रयत्वेन
च त्र्यणुकमहत्वजनकत्वं स्यादिति वाच्यम् । तथासत्यावश्यकतया द्वित्वत्रित्वयोरेव जनकत्वात् परमा-
णुभिस्त्र्यणुकारम्भे बाधकं वक्ष्यतीति । ननु परमाणुपरिमाणं महत्त्वाजनकमेव संख्या तु तन्मते परि-
माणाजनिकैवेति कथं परमाणुत्रयारब्धद्व्यणुके महत्त्वापत्तिरित्यत आह कारणबहुत्वस्यापीति ।
मकरन्दः ।
यदि च तादृशस्यापि नित्यपरिमाणत्वेनैवाजनकत्वमिति दृष्टान्तत्वं तत्राह अन्यथेति ।
यद्यप्येतद्दूषणं मनःपरिमाणदृष्टान्तत्वपक्षेऽपि, तथापि तदग्रे परिहरिष्यतीति ध्येयम् ।
किमणुत्वमिति । एवकारोऽत्र भिन्नक्रमः । तेन किमणुत्वमेव महत्त्वं जनयतीत्यर्थः ।
तथा च महता महदनारम्भप्रसङ्गादिति घटते । मूलस्वरसोऽप्येवमेवेति केचित् । तृणारणि-
मणिवत् कार्यभेदान्न व्यभिचारः, अन्यथा सङ्ख्याहेतुत्वपक्षे का गतिरित्याह नन्विति ।
यदि नेति । यद्यपि सङ्ख्याकारणत्वपक्षेऽपि तत्र प्रसङ्गतुल्यः, तथापि परमाणुभिन्नार्थकस्य
द्व्यणुकाभ्यां त्र्यणुकस्यारम्भप्रसङ्गो बोध्यः । परिमाणद्वयत्वादिना कारणत्वे द्वित्वादेरेवावश्यकस्य
कारणत्वात् । परमाणुभिस्तु महदारम्भे बाधकं वक्ष्यतीति । ननु यथा नित्यपरिमाणत्वादिना

५१६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
ध्वस्य तद्धेतुत्वात् । अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैय-
र्थ्यप्रसङ्गात् । अणुत्व एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् । अस्तु
महदारम्भ एव त्रिभिरिति चेन्न । न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् ।
तथापि वा तारतम्ये संख्यैव प्रयोजिकेति । न च प्रचयोऽपेक्षणीयोऽवयवसंयोग-
स्याभावात्।
तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। अतोऽनेकसंख्या
प्रकाशः ।
द्व्यणुककार्यवत् परमाणुत्रयारब्धस्यापि बहुत्वहेतुकमहत्त्वोत्पादापत्तिरित्यर्थः । ननु परमाणुद्वया-
रब्धस्येवाणुत्रयारब्धस्याप्यणुत्वमेव स्यादित्यत आह अन्यथेति । तथा सति त्रित्वादिसंख्या-
वैयर्थ्यापत्तिरणुद्वयारब्धापेक्षया तद्विशिष्टारब्धे विशेषाभावादित्यर्थः । प्रत्येकं व्यभिचारादकारण-
त्वं स्यादिति भावः । नन्वणूनां संख्यावैचित्र्यमणुपरिमाणतारतम्यभेदसम्पादनोपयोगि, परि-
माणेऽवान्तरकारणभेदव्यङ्ग्यजातिभेदाच्च न व्यभिचार इत्यत आह द्वाणुण एवेति । तथापि
तारतम्ये संख्यैव प्रयोजिका, संख्याभेदं विना समुदाये भेदकान्तराभावादित्यर्थः । परमाणु-
कार्यस्य महत्त्वप्रसङ्ग इत्यत्रेष्टापत्तिमाह अस्त्विति । त्रिभिः परमाणुभिरित्यर्थः । महत इति ।
अनन्यथासिद्धान्वयव्यतिरेकाभ्यां तथैव कारणत्वनिर्णयादित्यर्थः । ननु द्यणुकादिपरिमाणस्य
परिमाणजन्यत्वेऽपि प्रचयजन्यत्वं स्यात्, तस्यापि महत्त्वे कारणत्वादित्यत आह न चेति ।
अतोऽनेकेति । अत्रेदं तत्त्वम् । त्र्यणुकमहत्त्वं न परिमाणजन्यं संख्याप्रचयाजन्यमहत्त्वं
प्रत्यवयवमहत्त्वेन कारणत्वात् । न त्ववयवपरिमाणत्वेन, परमाणुपरिमाणाद् द्यणुके महत्त्वापत्तेः ।
नापि जन्याऽवयवपरिमाणत्वेन, गौरवात् । नापि जन्याणुत्वेन, तथाऽदर्शनात् । महत्त्वविशेषे-
प्रकाशिका ।
समानपरिमाणकपालद्वयारब्धघटापेक्षया समानपरिमाणकपालत्रयारब्धघटे महत्त्वप्रकर्षदर्शनात्
संख्यापि कारणमित्यर्थः । न च तर्हीत एव बाधकात्रिभिः परमाणुभिर्द्वयणुक्यारम्भ इति वाच्यम् ।
परिमाणस्य स्वापेक्षयोत्कृष्टपरिमाणजनकत्या द्वयणुकत्र्यणुकयोरणुतमत्वापत्त्या नाणुपरिमाणं
परिमाणजनकमित्यग्रे वक्ष्यमाणत्वात् । ननु परिमाणद्वयेति । महत्त्वसमानाधिकरणाया एव
बहुत्वसंख्याया महत्त्वजनकत्वमिति भावः । ननु न वैयर्थ्यं द्वित्वत्रित्वादीनां कारणतावच्छेदकत्वा-
दित्यत आह प्रत्येकमिति । संख्यैव प्रयोजिकेति । तथा च संख्यायां अणुपरिमाणजनकत्वे
सिद्ध ईश्वर इति भावः । परमाणुकार्यस्येति । यद्यपि पूर्वं द्व्यणुके महत्त्वप्रसङ्गः कृतः, तथापि
द्व्यणुकेऽपि परमाण्वारभ्यत्वं नियम्यमिति तत्रैव इष्टापादनाशङ्केति भावः । ननु यथा नित्यवृत्ति-
परिमाणस्याणुपरिमाणस्य वाऽजनकत्वम् तथा नित्यवृत्तिईश्वरवृत्तिसंख्ययोरपि न जनकत्वमित्याश-
येनाह अत्रेदमत्तत्त्वमिति । नन्विति । न च महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न
द्व्यणुके महत्त्वमिति वाच्यम् । नित्यस्य स्वरूपयोग्यत्वात्फलावश्यम्भावनियमात् । गौरवादिति ।
जन्यत्वविशेषणप्रवेशेनेति भावः । महत्त्वविशेष इति । प्रचयशून्यावयवद्वयारब्धघटादिपरिमाणे
मकरन्दः ।
तन्न जनकं, तथा नित्यवृत्तिसंख्यात्वादिना बहुत्वसंख्याऽपि जनिका न स्यात्, न च द्यणुकस्य
महत्त्वप्रसङ्गः, कार्यस्य महतः कार्यद्रव्यारभ्यत्वनियमादित्याशयेनाह अत्रेदं तत्त्वमिति ।
न त्विति । यद्यपि महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्यणुके महत्त्वापत्तिः,
तथापि नित्यस्य तस्य स्वरूपयोग्यत्वे फलावश्यम्भावापत्तिरित्यत्र तात्पर्यम् ।
महत्त्वविशेषे इति । प्रचयशून्यावयवद्वयारब्धघटादिमहत्त्वे व्यभिचारादित्यर्थः ।

Here is the line-by-line transcription of the Sanskrit text from the image:

पंचमस्तबके ] ईश्‍वरसाधनम्। ५१७
परिशिष्यते। सापेक्षाबुद्धिजन्या, अनेकसंख्यात्वात्। न चास्मदादीनामपेक्षा-
प्रकाशः।
ऽनियतहेतुकताऽऽपत्तेश्च। महत्त्वत्वान्तरजातिकल्पने गौरवम्। बहुत्वकल्पनञ्च प्रामाणिकम्। एवं
द्व्यणुकपरिमाणं न महत्त्वजनकम् अणुपरिमाणत्वात् परमाणुपरिमाणवत्, अन्यथा तस्य
महत्त्वजनकत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, किन्त्ववयवबहुत्वं, परिमाणप्रचयाजन्यमहत्त्वे
अवयवबहुत्वेन कारणत्वकल्पनात्। एवं द्व्यणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वाद् ,
अणुपरिमाणत्वाद्वा। परमाणुपरिमाणं न परिमाणजनकम् अणुपरिमाणत्वाद् द्व्यणुकपरिमाणवत्।
यत्तु नित्यपरिमाणत्वान्न तज्जनकं व्योममहत्त्ववदिति। तन्न, अवयवनित्यपरिमाणस्य जनक-
त्वाभ्युपगमात्। अन्यथा नित्यवृत्तिसंख्याया अप्यजनकत्वापत्तेः। अतो द्व्यणुकपरिमाणं
संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यवयवबहुत्वाभावाद् द्वित्वमेव तज्ज-
नकम्। यदि च द्व्यणुकत्र्यणुकपरिमाणं परिमाणजन्यं स्यात्, तदा कारणपरिमाणापेक्षया उत्कृष्टं
स्यान्महज्जन्यमहत्तरमहत्तमवदित्यणुपरिमाणतरतमत्वापत्तिः। उत्कर्षश्च न कारणपरिमाणाऽपेक्षयाऽ-
धिकदेशत्वं, येनेष्टापत्तिः स्यात्, किन्तु तरवन्तकारणपरिमाणवाचकवाच्यत्वं, तत्प्रवृत्तिनिमित्तजा-
तिमत्त्वं वा।
ननु परमाणुद्वित्वं न परिमाणजनकं नित्यवृत्तिसंख्यात्वाद्, अणुवृत्तिद्वित्वत्वाद्वो, व्योम-
द्व्यणुकवृत्तिद्वित्ववत्। एवं द्व्यणुकवृत्तिबहुत्वं न परिमाणजनकम्, अवयववृत्तिबहुत्वात् ,
परमाणुबहुत्ववत्। यथा त्र्यणुकमहत्त्वस्याणुजन्यत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, तथाऽणुवृत्तिसं-
ख्याजन्यत्वेऽपि द्व्यणुकस्य महत्त्वप्रसङ्गः। यथा च परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वादणु-
तरत्वप्रसङ्गः तथा संख्याया अपि समानाधिकरणपरिमाणोत्कृष्टपरिमाणारम्भकत्वप्रसङ्गः।
मैवम्। सर्गादौ परमाणुवृत्तिद्वित्वबहुत्वयोरसिद्धावाश्रयासिद्धेः, सिद्धौ वा धर्मिग्राहकमानवा-
धात्। अथ द्व्यणुकपरिमाणं न द्वित्वजन्यं परिमाणत्वात्, त्र्यणुकमहत्त्वं नाणुवृत्तिबहुत्वजन्यं
प्रकाशिका।
व्यभिचारादित्यर्थः। परिमाणप्रचयजन्यमहत्त्वेति। परिमाणप्रचायाजन्यमहत्त्व इत्यर्थे यथाश्रुते
कल्पनास्थलाभावात्। एवं द्व्यणुकपरिमाणमिति। विपक्षबाधकन्तु अणुतमत्वापत्तिः पूर्वमु-
क्तैवेति द्रष्टव्यम्। अतो द्व्यणुकपरिमाणमिति। अत्र हेतौ प्रचयपदानन्तरं मात्रपदं
पूरणीयम्, तेन कपालत्रयारब्धघटपरिमाणं दृष्टान्तः, अन्यथा दृष्टान्तालाभात्। यद्वा त्र्यणुकपरि-
माणस्य परिमाणजन्यत्वे सिद्धे प्रयोगोयमिति तदेव दृष्टान्तमुपादाय यथाश्रुत एव तत्र हेतुः।
विपक्षबाधकमाह यदि चेति। अणुवृत्तिद्वित्वत्वादिति। अत्राणुवृत्तिपदं स्पष्टार्थम्।
अवयववृत्तीति। अवयवपदमणुपरं तेन कपालादिवहुत्वस्य घटादिपरिमाणारम्भकतया न
व्यभिचारः। यदि च बहुत्वस्य क्वचिदपि न परिमाणजनकत्वमिति पूर्वपक्ष्युतराशय इति नोक्तव्य-
भिचारः, तदावयवपदं स्पष्टार्थमेवेति मन्तव्यम्। उक्ताश्रयासिद्धिभिया परिमाणं पक्षयति अथेति।
मकरन्दः।
अणुवृत्तिद्वित्वत्वाद्वेति। अत्राणुवृत्तिपदं स्फुटार्थम्।
अवयववृत्तिबहुत्वादिति। अत्रापि वृत्त्यन्तं स्फुटार्थम्। अन्यत्रापि बहुत्वस्य तज्जनकत्वा-
नाभ्युपगमादित्येके। अवयवपदमणुपरं तुल्यपरिमाणाधिकसंख्यारब्धे महस्त्वोत्कर्षेण तस्य तज्जन-
कत्वे व्यभिचारादित्यन्ये। आश्रयासिद्ध्यादिपरिहारार्थं परिमाणं पक्षयति अथेति।

५१८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
बुद्धिः परमाणुपु सम्भवति । तद् यस्यासौ सर्वज्ञः । अन्यथा अपेक्षाबुद्धेरभावात्
संख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् द्व्यणु-
कानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः । अस्मदादीनामेवाऽनुमानिक्यपेक्षाबुद्धिरस्त्विति
प्रकाशः ।
महत्त्वत्वात् परिमाणत्वाद्वेति चेत् । न । प्रसिद्धद्वित्वबहुत्वजन्यत्वे साध्ये सिद्धसाधनात्, अप्रसिद्ध-
तन्निषेधे साध्याप्रसिद्धेरिति संख्यैव तज्जनिकेति वयम् ।
साम्प्रदायिकास्तु—द्व्यणुकपरिमाणसमवायिकारणताग्राहकं मानं यद्यणुपरिमाणं विषयी-
कुर्यात् तदा परिमाणद्वयासमावायिकारणत्वे गौरवमिति द्वित्वमेकं विषयीकरोति । यद्वा एकत्वस्य
परिमाणानारम्भकत्वे सजातीयनिरूपितोत्कर्षानाश्रयत्वं प्रयोजकम् , तच्च परमाणुपरिमाणेऽपि तुल्य-
मित्याहुः ।
ऋजवस्तु—कारणपरिमाणवत् कारणानेकवृत्तिसंख्याऽप्यन्वयाथनुविधानात् परिमाणहेतुः ।
ग्रन्थस्तु संख्यानिरपेक्षपरिमाणकारणत्वनिषेधपर इति समादधुः ॥
तद् यस्यासाविति ॥ ईश्वरापेक्षाबुद्धेर्नित्यत्वेनाविनाशेऽपि तदुत्पादितद्वित्वादेर्निमित्तान्त-
प्रकाशिका ।
प्रसिद्धेति । एतच्च सामान्यलक्षणानभ्युपगन्तृपरमतेन दूषणं स्वमतीतप्रयोजकत्वे तात्पर्यमिति ।
केचित्तु वस्तुतः सामान्यलक्षणानभ्युपगमेऽपि न तयालीकस्यापि सिद्धिरिति यथाश्रुतमेव सम्यगिति-
प्रतिभाति । साम्प्रदायिकास्त्विति । अत्रेदमरुचीबीजम्-ईश्वरासिद्धिदशायां परमाणुवृत्तिद्वित्व-
मसिद्धं परिमाणञ्च सिद्धमिति कॢप्तकल्पनालाघवेन परिमाणमेव कारणमुचितमिति मन्तव्यम् ।
यद्वेति । अत्रापि परमाणोरणुतमत्वात्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यरुचि-
बीजमिति केचित् । तदयुक्तम् उत्कर्षो ह्यत्राधिकदेशव्यापकत्वं न तु तारतम्यं द्वित्वादावभावात्,
तदभावस्य च सजातीयापेक्षया परमाणुपरिमाणे एकत्वे च समानत्वादिति । इदन्त्वरुचिबीजं
परिमाणजनकतावच्छेदकरूपाभाव एव एकत्वस्य परिमाणानारम्भप्रयोजकः, अन्यथा विभागादेरपि
तदारम्भकतापत्तेः जनकतावच्छेदकञ्चावयववृत्त्यनेकवृत्तिसंख्यात्वमेवेति । ऋजवस्त्विति । अत्रोभ-
यहेतुकल्पनेमानाभावः । न चावयवानेकवृत्तिसंख्यात्वमवयवपरिमाणत्वञ्च परिमाणजनकतावच्छेदक-
मित्येव मानमिति वाच्यम् । तथा सत्यणुत्तमत्वापत्तेरुक्तादित्यरुचिबीजम् । त्वनिमित्तान्तरमदृष्टं
वेदसमानविषयकत्यादितात्पर्यविषयकत्वं तात्पर्यविषयविषयकत्वं तावन्मात्रे च साध्ये अध्याप-
कतात्पर्येणार्थान्तरमिति तात्पर्यापूर्वकत्वं तात्पर्यविशेषणम् तथाप्यस्मदादेरेव स्वतन्त्रं
मकरन्दः ।
प्रसिद्धेति । एतच्च सामान्यलक्षणाभ्युपगन्तृमते दूषणम् । स्वमते त्वप्रयोजकत्वमित्यंत्र
तात्पर्यम् ।
साम्प्रदायिकास्त्विति । न चेश्वरासिद्धिदशायां द्वित्वस्य कल्पनीयतया धर्मिकल्पनात्
इति न्यायेन परिमाणमेव विषयीकरोतीति वाच्यम् । मानान्तरेणेश्वरस्य साधितत्वात् तदवष्टम्भे-
नेदमित्येके । अत्र कल्पेऽस्वरस एवायमित्यन्ये ।
परमाणोरणुतरत्वात् तत्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यस्वरसादाह
इत्याहुरिति ।
उभयहेतुत्वे गौरवमित्यस्वरसमाविस्करोति ऋजवस्त्विति ।
निमित्तान्तरम्—अदृष्टादि ।
वेदसमानविषयकेत्यादि । अत्र वेदपदं स्वपरं, तेन लौकिकप्रशंसावाक्ये न व्यभिचारः ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५१६
चेन्न । इतरेतराश्रयप्रसङ्गात् । जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानं, तस्मिन्
सति द्यणुकादिक्रमेण स्थूलोत्पत्तिः । अस्मद्दृष्टादेव परिमाणं कृतमपेक्षाबुद्धयेति.
चेत्। न। अस्तु तत एव सर्वं, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति ॥ ५ ॥
अथवा, कार्येत्यादिकमन्यथा व्याख्यायते—
उद्देश एव तात्पर्यं व्याख्या विश्वदृशः सती ।
प्रकाशः ।
रनाशेन नाश इति भावः ॥ जाते.हीति ॥ महत्त्वोत्पत्तेः पूर्वं द्यणुकस्याप्रत्यक्षत्वेन लिङ्गा-
भावादित्यर्थः ॥
अत्र कार्यमुद्देश्यत्वम्, उद्देशश्च तात्पर्यम् । तद्विषय. एव वेदस्य प्रामाण्यम् । तच्च परिशेषा-
द्वक्तुरिच्छा । सा च वेदार्थे नास्मदादीनामिति तदाश्रयेश्वरसिद्धिरित्याह—
उद्देश एवेति ॥ वेदस्यायोजनमासमन्ताद्भावेन योजनं व्याख्यानम् । तच्चास्मदादीनां सर्व-
वेदादर्शिनां न निष्कम्पप्रवृत्तिहेतुरिति तद्व्याख्यातृतयेश्वरसिद्धिरित्याह । व्याख्येति ॥ ईश्वरादि-
प्रकाशिका ।
पदार्थगोचरतात्पर्यमादायार्थान्तरमिति वेदसमानविषयकत्वं द्वितीयतात्पर्यविशेषणं, तच्च
वैदिकवाक्यार्थगोचरत्वम् । न चैवं लौकिकवाक्ये व्यभिचारः, समभिव्याहृतवाक्यपर-
त्वाद्द्वेदपदस्य हेतौ च सतात्पर्यकपद्ं बाधितार्थकशुकवाक्ये व्यभिचारवारणाय प्रमाणवाक्यस्य
सर्वस्य पक्षसमत्वाच्चेति ध्येयम् । तादृशेति । तथा च धृत्यादेरित्यत्र धृतिपदेन वेदधा-
रकत्वं युक्तमिति, तदाश्रयेश्वरसिद्धिरिति भावः ।
मकरन्दः ।
अध्यापकतात्पर्यविषयत्वेनार्थान्तरमत उक्तं तात्पर्यापूर्वकेति तात्पर्यविशेषणम् । तात्पर्यविषय-
काणीत्यत्र तात्पर्यविषयो विषयो यस्येति मध्यमपदलोपी समास इत्याहुः । न च हेतौ सतात्पर्य-
कपदं व्यर्थम्, ईश्वरतात्पर्यमादाय वाक्यमात्रस्य पक्षसमत्वेन व्यभिचाराभावादिति वाच्यम् ।
बाधितार्थके तत्तात्पर्याभावेन व्यभिचारसम्भवात् ।
सा चेतीति । तथा च धृत्यादेरित्यनेन वेदधारकत्वादिकमुक्तमिति तदाश्रयेश्वर-
सिद्धिरिति भावः ।
टिप्पणी ।
मीमांसकमुद्दिश्य प्रकारान्तरमाह अथवेति । उद्देश एवेत्यादि । तथाच वेदे यस्य
तात्पर्यं स एवेश्वरः सिध्यति । इदं तु तात्पर्यवतीश्रुतिः प्रत्यक्षाद्वलीयसी न श्रुतिमात्रम् ,
अन्यथार्थवादस्थले प्रमाणान्तरविरुद्धोऽप्यर्थः सिध्येदिति यजमानः प्रस्तर इत्यादिश्रुतिबलात्
यजमानादेः प्रस्तरादिरूपताऽपि स्यात् , तात्पर्यवत्या एव श्रुतेः प्राबल्योपगमे तु यजमानादौ
प्रस्तरार्थभेदबोधने श्रुतेस्तात्पर्याभावान्न प्राबल्यं किंतु प्रत्यक्षस्यैवेति न काचिदापत्तिरनुपपत्तिर्वेत्या-
चार्यवाचस्पतिमिश्राणाम्मतमनुसरति ।
आयोजनपदं व्याख्याति व्याख्येति । नत्वेवं सर्वज्ञानाकारस्य प्रदीपवत्सर्वार्थत्वद्योतिनः ऋग्वे-
दादेरल्पज्ञाज्जीवात् व्याख्या सती समीचीना भवितुमर्हतीत्यतस्तद्व्याख्यातृतया विश्वदृशः सर्वज्ञस्य
ईश्वरस्य सिद्धिः । एवं तत्कारिकाघटकधृत्यादेरित्यत्र धृतिर्धारणम् अध्ययनम् वेदाध्ययनम् स्वतन्त्र-
पुरुषप्रयोज्यम् शिष्टैरनुष्ठीयमानत्वात् इत्यनुमानेन साध्यघटकतयेश्वरः सिध्यति । धृत्यादेरित्यादिपदेनो-
पासनं संगृह्यते, तथाच ईश्वरोपासनं सद्विषयकं शिष्टैरनुष्ठीयमानत्वादित्यनुमानेनेश्वरसिद्धिः । पदादीश्वरं

५२० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां
ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥ ६ ॥
आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती। भूतार्थस्य तु यद्यपि
नाहत्य प्रवर्त्तकत्वं निवर्त्तकत्वं वा, तथापि तात्पर्य्यतस्तत्रैव प्रामाण्यम् । तथाहि
विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते । प्रशस्ते हि सर्वः प्रवर्त्तते, निन्दि-
ताच्च निवर्त्तते इति स्थितिः ।
तत्र पदशक्तिस्तावत्सिद्धा, तद्बलायातः पदार्थः। आकाङ्क्षादिमत्त्वे सति
चाऽन्वयशक्तिः पदानां पदार्थानां वा वाक्यं, तद्बलायातो वाक्यार्थः ।
तात्पर्यार्थस्तु चिन्त्यते-तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य,
तदिदं तत्परम्, तस्य भावस्तत्त्वम्, तद् यद्विषयं, स तात्पर्यार्थ इति स्यात् ।
तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् । फलस्य च तत्प्रतिपत्तितोऽ-
न्यस्याभावात् । प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं पर-
मुच्यते इति चेन्न। गङ्गायां घोष इत्यत्र तीरस्याऽप्रवृत्तिनिवृत्तिरूपस्यासाध्य-
स्यापि परत्वात् । तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति
चेन्न। स्वरूपाख्यानमात्रेणापि पर्य्यवसानात्।
न द्वितीयः । पदवाक्ययोः पदार्थतत्त्संसर्गौ विहाय प्रतिपाद्यान्तराभावात् ।
'पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न
साम्प्रतम् । न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य, अतिप्र-
सङ्गात् । तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात् , अविनाभावस्य ताद-
वस्थ्यात् । मुख्ये बाधके सति तत्तथा स्यादिति चेत् । न तस्मिन्नसत्यपि भावात् ।
तद् यथा-
प्रकाशः।
पदानां सर्वज्ञे नित्यज्ञाने वेदादेव शक्तिग्रहात् ततोऽपि तत्सिद्धिरित्याह ईश्वरादीति ॥ लोक-
वृत्तेति ॥ लौकिकदृष्टान्ते व्याप्तिग्रहादित्यर्थः ॥
वृद्धव्यवहारेण कार्यान्विते पदार्थे पदानां शक्तिः कार्यान्वयश्च विधिसमभिव्याहृतस्य साक्षात्,
तदसमभिव्याहृतस्य च परम्परयेति मतमाश्रित्याह आम्नायस्येति ॥ भाव्यार्थस्य-साध्यार्थस्य ॥
यथा पथ्यं भुञ्जीत अपथ्यं न भुञ्जीत इत्यस्य साक्षात् कार्यान्वयज्ञानात् प्रवर्त्तकत्वनिवर्त्तकत्वे ॥
भूतार्थस्य-सिद्धार्थस्य ॥ यथा परिणतिसुरसमाम्रफलं परिणतिचिरसं पनसमिति वाक्यस्य तद्-
भावाद् भक्षणाऽभक्षणकार्यत्वे तात्पर्यग्रहात् परम्परया तथात्वमित्यर्थः । तदुपपादयति विधि-
शक्तिरिति ॥ कार्यत्वज्ञानजननेऽपि प्रवृत्त्योपयिकं प्रवृत्तिविषयस्यान्यापेक्षया प्राशस्त्यज्ञानं, तद्रूप-
सहकार्यलाभो विधिशक्तेरवसादः, तल्लाभश्चोत्तम्भनम्। तत्सहकारित्वे मानमाह प्रशस्ते हीति ॥
पदार्थवाक्यार्थाभ्यां तात्पर्यं भेदयितुं प्रतौति तत्रेति ॥ तदेव परं यस्य स्तुत्यादिवाक्यस्येत्यत्र
परपदार्थं विकल्पयति साध्यमिति ॥ तदिदमिति ॥ वाक्यमित्यर्थः ॥
ननु वाक्यार्थस्य वाक्यरूपप्रमाणासाध्यत्वेऽपि तन्निष्टफलसाध्यतयैव तत्साध्यता स्यादित्यत
आह फलस्य चेति ॥ तस्य च द्वितीयविकल्प एव प्रवेशादिति भावः ॥ तीरस्यापीति ॥
साध्यफलभागितया तीरस्यापि साध्यत्वमित्यर्थः ॥ स्वरूपेति ॥ प्रवृत्त्यादौ तात्पर्याभावेऽपि
तीरस्य तात्पर्यविषयत्वादित्यर्थः ॥ पदवाक्ययोरिति ॥ स्तुत्यादिवाक्यस्य पदार्थवाक्यार्थभिन्ने
टिप्पणी।
साधयति ईश्वरादेरिति । आहत्य साक्षात् । सा च प्रवृत्तिश्च, इच्छात्तः-चिकीर्षातः।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५२१
'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥'
इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् । न च परं व्यापकमेव, अव्या-
पकेऽपि तात्पर्यदर्शनात् । तद् यथा-मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम् । न च
मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः ।
नापि तृतीयः । तद्धि प्रतिपाद्यापेक्षितं, प्रतिपादकापेक्षितं वा स्यात् । नाद्यः
शब्दप्रामाण्यस्यातदधीनत्वात् , तथात्वे वाऽतिप्रसङ्गात् । यस्य यदपेक्षितं, तं
प्रति तस्य परत्वप्रसङ्गात् । तदर्थसाध्यत्वेनाऽपेक्षानियम इति चेत् । न, कार्यज्ञा-
प्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् । धूमस्य हि
प्रदेशश्यामलतमशकनिवृत्त्याद्यनेकं कार्यम् । आर्द्रेन्धनदहनाद्यनेकं ज्ञाप्यम् ।
तथा चेह प्रदेशे धूमोऽय इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्, चेतना-
पेक्षाया नियन्तुमशक्यत्वात् । नाऽपि प्रतिपादकापेक्षितं, वेदे तदभावात् ।
चतुर्थस्तु स्यात् । यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्यु-
त्पत्तेः । तथाहि-प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् ।
निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद्धानपरम्, एवमन्यत्रापि स्वयमूहनीयम् ।
तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम् , अन्यथा अर्थवादानां सर्वथै-
वानर्थक्यप्रसङ्गात् । स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्य-
नर्थान्तरमिति तदाधारप्रणोतृपुरुषधौरेयसिद्धिः ।
तथा च प्रयोगः-वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंस-
प्रकाशः ।
प्रवृत्त्यादावपि तात्पर्यात्तद्व्यापकत्वादित्यर्थः । न च यदर्थज्ञानजनकत्वं यस्य, तस्य तत्र तात्पर्य-
मिति वाच्यम् । धूमोऽस्तीति वाक्यस्याग्निज्ञानजनकत्वेऽप्यग्नौ तात्पर्यात्तद्व्यापकत्वादिति भावः ॥
तद्धीति । प्रयोजनं न वक्तुः श्रोतुर्वेत्यर्थः । यत्र वक्तुस्तात्पर्यं तत्र शब्दस्य प्रामाण्यमिति
स्थितेराह शब्देति । अतिप्रसङ्गमेवाह यस्येति । तथाच तात्पर्यभेदेन वाक्यभेदः स्यादिति
भावः । तदर्थेति । शब्दस्य योऽर्थस्तस्य यत्साध्यं प्रतिपाद्यस्य चापेक्षितं तत्परं, न तु तद्-
साध्यमपीत्यर्थः । कार्येति । साध्यं जन्यं ज्ञाप्यं वा ? उभयस्याप्यनेकत्वात् । तथापि
तात्पर्यभेदाद्वाक्यभेद एव स्यादित्यर्थः । न च प्रकरणादिना तात्पर्यनियमान्न वाक्यभेदापत्तिः ।
प्रकरणं हि न साध्यं नियमयति, अशक्यत्वात् । न हि धूमं जिज्ञासमानस्य प्रतीयमान-
धुमाद्धूमकेतुप्रतीतिवन्मशकादिनिवृत्तिर्न भवति, प्रतिपादकाभिप्रायनियमे च सिद्धं वेदस्य
सकर्तृकत्वमिति भावः । चेतनेति । एक एवार्थः सर्वेषां चेतनानामपेक्षित इत्यत्र
नियामकाभावाद्भिन्नभिन्नार्थापेक्षायां तात्पर्यभेदाद्वाक्यभेदः स्यादिति भावः । वेदे इति ।
तव दर्शने इति शेषः । अर्थवेति । लोके हि पदानां स्वतन्त्राभिप्रायपूर्वकतया स्वार्थप्रतिपाद-
कत्वदर्शनाद्वेदेऽपि तथात्वं तत्पूर्वकतयैव युज्यते । न च लौकिकशब्देभ्यो वैदिकाः शब्दा अन्ये
एवेति लोकमर्यादाऽतिक्रमः स्यात् । यतोऽनेनैव न्यायेन लौकिकानामेव शब्दानामर्र्थविशेषे शक्ति-
ग्रहाद् वैदिकानां तद्भिन्नत्वादगृहीतशक्तिकत्वादर्थाप्रतिपादकत्वप्रसङ्गः । अत एव य एव लौकिकास्त
एव वैदिकास्त एव चामीपामर्था इत्याहुरित्यर्थः । ननूद्देश्यत्वं नेच्छाविषयत्वं, किन्तु वस्त्वन्तरमेवे-
त्यत आह स चेति । लोके तथैव निधयादित्यर्थः ।
वैदिकानीति । ननु सर्गाद्यकालीनवैदिकवाक्यपक्षतायामाश्रयासिद्धिः, इदानीन्तनस्य तस्य
६६ न्या० कु०

५२२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां

सावाक्यत्वात् परिणतिसुरसमास्रफलमित्यादिलोकवाक्यवदिति । एवं निन्दा-
वाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिचिरसं पनसफलमित्या-
दिवाक्यवत् , अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् ।
अपि च नो चेदेवं, श्रुतार्थापत्तिरपि हीयेत । सिद्धो ह्यर्थः प्रमाणविषयो,
न तु तेनैव कर्त्तव्यः। न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त
इति वाक्यशेषोऽस्ति , अनुपलब्धबाधितत्वात्-उत्पत्त्यभिव्यक्तिसामग्रीतालवा-
दिव्यापारविरहात् , अयोग्यस्याशङ्कितुमप्यशक्यत्वात् । तस्मादभिप्रायस्थ एव
परिशिष्यते, गत्यन्तराभावात् । स चैद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्-
व्युत्पादनानर्थक्यप्रसङ्गः। तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति ।
आयोजनात् खल्वपि । न हि वेदाद्व्याख्यातात् कश्चिदर्थमधिगच्छति । न
चैकदेशदर्शिनो व्याख्यानमादरणीयम् ।
पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् ।
इति न्यायानाश्वासात् । त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथा-
र्थप्रत्ययः स्यात् , किमुतातीन्द्रियानन्तरवाक्यसम्मेलदुरधिगमात् ।
ततः सकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयोऽन्यथाऽन्धपरम्पराप्रसङ्गात् ।
स च श्रुताऽधीतावधृतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः
सम्भवति । को ह्यप्रत्यक्षीकृतविश्वस्तदनुष्ठान एतावानेवायमाम्नाय इति निश्चिनु-
यात् । कश्चाऽर्वाग्दृग् निःशेषाः श्रुतीर्ग्रन्थतोऽर्थतो वाऽधीयीत, अध्यापयेद्वा ।
अत्रापि प्रयोगः - वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः अनुष्ठातृमति-

प्रकाशः।

पक्षत्वेऽप्येत्राऽस्मदादिनाऽर्थान्तरत्वं, स्वरूपाख्यानपरपुत्रस्तुतिवाक्ये चानैकान्तिकम् । अत्राहूः-
वैदिकप्रशंसावाक्यानि वेदसमानविषयकतात्पर्यपूर्वकतात्पर्यविषयकाणि सतात्पर्यवाक्यत्वात् लौकि-
कप्रशंसावाक्यवत् ।
यदि च वेदे न स्वतन्त्रपुरुषाभिप्रायपूर्वकता, तदा भट्ठानां श्रुतार्थापत्त्या शब्दः कल्प्यते इति
राद्धान्तव्याघात इत्याह - अपि चेति । ननु मा भूच्छ्रुतार्थापत्त्या शब्दकल्पनं, योग्यार्थकल्पनयैवो-
पपत्तेः । मैवम् । क्रियाकारकपदानामन्योन्योपस्थापिताऽर्थान्वयबोधकत्वनियमव्युत्पत्तेः । अन्यथा
गौः कर्मत्वमानयनं कृतिरित्यतोऽपि गामानयेत्यस्मादिवान्वयबोधापत्तेः, पुष्पेभ्य इत्यादौ स्पृहय-
तीत्यादिशब्दसमभिव्याहारं विना चतुर्थ्यनुपपत्तेश्च । न च स्पृहयतिशब्दार्थयोग एव चतुर्थी साधुः ।
पुष्पमिच्छतीत्यत्रापि चतुर्थ्यापत्तेः ।
तथापि स्वयं स्मृतानामेव योग्यासन्नसाकाङ्क्षपदानां श्रुतपदैः सहैकार्थप्रतिपादने तात्पर्यकल्पनं
श्रुतार्थापत्तिविषयः स्यादिति चेन्न । वेदे परस्परसमभिव्याहृतपदानामेकार्थप्रतिपादने तात्पर्येप-
लब्धेः । तस्य चोच्चारणाभिप्रायान्यतरनियतविषयत्वेनोभयथाऽपि ईश्वरसिद्धिरित्याशयेनाह
गत्यन्तराभावादिति ।
कार्येत्यादिकारिकायां धृत्यादेरित्यापि व्याचष्टे स चेति । श्रुतः-श्रोत्रेण साक्षात्कृतः ।
अधीतो-ज्ञानविषयार्थः । धृतः-सतताभ्यासेन दृढसंस्कारः । तद्विपरीतो विनैवाध्ययनं ज्ञातसकलाङ्गो-
पाङ्गवेदार्थः, अध्यापितधारितादिवेदार्थो वा । कदाचिदिति बाधनिरासाय । एकदेशदर्शि-

प्रकाशिका ।

एकदेशदर्शीति । पक्षसमेऽपि व्यभिचार इति मतेनेदम् । वस्तुत इदं विशेषणं त्याज्यमेव

मकरन्दः।

एकदेशदर्शीति । नन्दीश्वरव्याख्यानमादाय तस्यापि पक्षसमतया कथमनेकान्तिकम्,

चलनेऽपि निश्चलार्थानुष्ठानत्वात् , यदेवं तत्सर्वं तदर्थविद्भिर्व्याख्यातं, यथा मन्वा-
दिसंहितेति । अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदना-
देशिकत्वात् । अनुष्ठातार एवादेष्टार इति चेत् । न तेषामनियतबोधत्वात् । वेद-
च्छेदानुष्ठानमप्यनादीति चेत् । न । तद्धि स्वतन्त्रं वा, वेदार्थबोधतन्त्रं वा ? । आद्ये
निर्मूलत्वप्रसङ्गः । द्वितीये त्वनियमापत्तिः । न ह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः
प्रमाणं, न त्विदानीन्तनानामिति नियामकम्स्ति ।
पदात् खल्वपि । श्रूयते हि प्रणवेश्वरेशानादिपदम् , तच्च सार्थकम् , अवि-
गानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सामान्यतः सिद्धे
कोऽस्यार्थः ? इति व्युत्पित्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत् ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
इत्यर्थवादात् , यववराहादिवाक्यशेषाद्वा । तद् यथा ईश्वरप्रणिधानमुप-
क्रम्य श्रूयते—
प्रकाशः ।
व्याख्यातवेदात् , शिष्याणां श्रद्धया प्रवर्त्तमानानां निश्चलानुष्ठानमस्तीत्यनैकान्तिकमित्यत उक्तम्
अनुष्ठात्रिति । तत्राऽनुष्ठातृणामव्यवस्थितमतिस्वाभावादित्यर्थः ॥ अननुष्ठानहेतुमाह अव्यव-
स्थानादिति । अर्थनिश्चयस्येति शेषः । अन्यथा त्वनियतानुष्ठानं स्यादित्याह अव्यवस्था
वेति । अर्थनिश्चयाव्यवस्थानादित्यर्थः । अनादेशिकत्वात्-अनौपदेशिकत्वादित्यर्थः । ननु पूर्वेषामेव
स्वतन्त्रवेदार्थज्ञानं प्रमाणमाधुनिकानान्त्वप्रमाणं स्यादित्यत आह न हीति । न च कश्चित्
वेदार्थोऽस्तीत्यनेन रूपेणास्मदादिभिरेव व्याख्यानादनुमाने सिद्धसाधनं, येन रूपेण वेदार्थो
व्याख्यात इति लोके व्यवहारः, ताद्रूप्येण व्याख्यानस्य विवक्षितत्वात् । यद्वा वेदा व्याख्यानानुकूल-
तद्विषयानित्यज्ञानभिन्नज्ञानसमानविषया वाक्यत्वाद्, वेदा एतद्विषयाऽनित्यज्ञानान्यज्ञानविधृता
धृतवाक्यत्वादिति भावः । अविगानेनेति । निरर्थकतया प्रसिद्धभावेनेत्यर्थः । अत एव स्तोभैर्न
व्यभिचारः, निरर्थकत्वेनैव तेषां प्रसिद्धेरिति भावः । यथा स्वर्गपदे विधिशेषीभूतार्थवादाच्छक्ति-
ग्रहस्तथा प्रकृतेऽपीत्याह निर्णय इति । अर्थवादमाह उत्तम इति ।
यववराहादिवदिति । 'यवमयश्चरुर्भवति' 'वाराही चोपानहू' 'वैतसे कटे प्रजापत्यं घिनोती'त्यत्र
यववराहवेतसशब्दाः किं कङ्गुवायसजम्बूनां वाचकाः, उत दीर्घशूकशूकरवञ्जुलानामिति म्लेच्छार्य-
व्यवहारदर्शनाद्विप्रतिपत्तौ मुख्यार्थानिश्चयसायेऽननुष्ठानापत्त्या तत्पदवच्छेदप्रामाण्यसंशये, पूर्वपक्षः—
व्युत्पत्तिग्राहकव्यवहाराविशेषात् कङ्गवादावपि शक्तिरेव, पिकनेमतामरसपदेषु म्लेच्छप्रसिद्धेरादर-
णाच्चेति । राद्धान्तस्तु-वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः
प्रकाशिका ।
पक्षसमे च न व्यभिचार इति मतेनैवायं हेतुः, तद्विशेषणपि व्यभिचारापत्तेरिति ध्येयम् । धृत्यादे-
रित्यभिप्रायेणाह वेदा एतद्विपयेति । सर्वज्ञतेत्यादिमूलस्थकारिकायां स्वतन्त्रता-नित्येच्छा,
अनन्तशक्तिः,-कार्यमात्रकारणत्वम् । ननूपदेशादिरेव विधिरस्तीत्यतो मूलं विधिः प्रेरणेत्यादि ।
मकरन्दः ।
अन्यथा तादृशस्थले कदाचिदनुष्ठातृमतिचलनस्यापि सम्भवेन तत्पदोपादानेऽपि व्यभिचारा-
पत्तेरिति चिन्त्यम् ।
धृत्यादेरित्यभिप्रायेणाह वेदा इति ।

५२४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः पदाहुरङ्गानि महेश्वरस्य ॥ इति ॥
एवम्भूतोऽर्थः प्रमाणवानिति चेन्न । प्रागेव प्रतिषेधात् । तथापि न तत्र
प्रमाणमस्तीति चेत् । स्वर्गे अस्तीति का श्रद्धा । न ह्युक्तविशेषणे सुखे किञ्चित्
प्रमाणमस्त्यस्मदादीनाम् ।
याज्ञिकप्रवृत्त्यन्यथानुपपत्त्या तथैव तदित्यवधार्यते इतिचेद् । न । इतरेत-
राश्रयप्रसङ्गात्—अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथानुपपत्त्या च
तदवधारणमिति । पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेन्न । अन्धपरम्प-
राप्रसङ्गात् । विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति
नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् । तुल्यमितरत्रापि ।
अत्रापि प्रयोगः—यः शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्रयुज्यते स तस्य
वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं
जगतकर्त्तरीति । अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुप-
पत्तिरिति । एतेन-रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका व्याख्याताः ।
अपिच अस्मत्पदं लोकवद्वेदेऽपि प्रयुज्यते, तस्य च लोके नाचैतनेष्वन्य-
तमदर्थः, तत्र सर्वथैवाप्रयोगात् । नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रस-
ङ्गात् । अपि तु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह तथैवान्वयव्यतिरेका-
भ्यामवसायात् । ततो लोकव्युत्पत्तिमनातिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः,
अन्यथाऽप्रयोगप्रसङ्गात् । न च यो यदोच्चारयति वैदिकमहंशब्दं, स एव तदा
तस्यार्थ इति युक्तम् । तथा सति मामुपासीतेत्यादौ स एवोपास्यः स्यात् । अहं
सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधि-
गच्छेत्, तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् । लोकव्यवहारश्चोच्छिद्येत ।
तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते-वेदे अस्मच्छब्दः
स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्रोकवदिति ।
प्रकाशः ।
कणिशशालिनः॥ 'वराहं गावोऽनुधावन्ति' 'अप्सुजो वेतसः' इत्यादिवाक्यशेषरूपवेदविरोधिनी म्लेच्छ-
प्रसिद्धेर्हियेति म्लेच्छप्रसिद्धौ निरस्तायां निष्प्रतिपक्षार्थव्यवहाराच्छक्तिग्रहः । यत्र तु वेदविरोधो
नास्ति, तत्र पिकादिपदेष्वभियोगवत्त्वानम्लेच्छानां तत्प्रसिद्धिरेवादरणीयेत्यर्थः ।
प्रकृते विधिशेषीभूतं वाक्यशेषमाह सर्वज्ञतेति । तृप्तिः-स्वभोगेच्छाविरहः । अङ्गानि-
धर्माः । उक्तविशेषणे-दुःखादिसम्भिन्नत्वाभावादिविशिष्टे । याज्ञिकेति । लौकिकसुखाऽतिशय-
सुखं विना बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृत्तिर्न स्यादित्यर्थः । एतेनेति । रुद्रादिपदेष्वपि
रुद्रस्त्र्यम्बक इत्यादिवाक्यशेषाण्निर्णय इत्यर्थः ।
यदि अस्मच्छब्दस्योच्चारयितरि शक्तिस्तदा 'वाच्यस्त्वया मद्वचनात् स राजे'त्यत्र कविरेवास्म-
च्छब्देनोच्येतेत्यत उक्तं स्वातन्त्र्येणेति । अन्यकर्तृकत्वेनोच्चारणाभावः स्वातन्त्र्यम् । अत एव
'गृभ्णामि ते सौभगत्वायै'त्यादावपि नेश्वरवाचकत्वम्, अस्यान्यपरतयैव ईश्वरेणोच्चारितवात् ।
अस्मच्छब्दत्वादिति । अनन्यपरास्मच्छब्दत्वादित्यर्थः । तेषामिति क्रमेण यच्छब्दादीनामर्थ-

पंचमस्तवके ] ईश्वरसाधनम् । ५२५
एवमन्येऽपि यः कः स इत्यादिशब्दा द्रष्टव्याः । तेषां बुद्धयुपक्रमप्रश्नपराम-
र्शाद्युपहितमर्यादत्वात् , तस्य च वक्तृधर्मत्वात् । बुद्धयपक्रमो हि प्रकृतत्वं,
जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति । एवञ्च संशयादिवा-
चका अप्युन्नेयाः ।
न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् । शिष्यप्रतिबोधनाया-
हार्यत्वेनाविरोधात् । को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति । एतेन धिगहो बत
हंतेत्यादयो निपाता व्याख्याताः ॥ ६ ॥
प्रत्ययादपि । लिङादिप्रत्यया हि पुरुषधौरेयनियोगाथी भवन्तस्तं प्रतिपाद-
यन्ति । तथाहि—
प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा ।
तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥ ७ ॥
प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , आत्मा ज्ञातव्य
इत्याद्यव्यापनात् । नापीच्छामात्रम् , तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् ।
ततः प्रयत्नः परिशिष्यते । आत्मज्ञानभूतदयादावपि तस्याभावात् । तदुक्तं-
‘प्रवृत्तिरारम्भः’ इति ।
सैयं प्रवृत्तियतः सत्तामात्रावस्थिताद् , नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् ।
अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च
प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च प्रवृत्तिहेतुजननार्थं तदुप-
योगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् । ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्य-
त्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्त्तकत्वाच्च , नियामकाभावात् ।
प्रकाशः ।
कथनम् । धर्म इति । ‘अथातो धर्मजिज्ञासा’ इत्यनेन शास्त्रप्रयोजनमभिधाय विशेषेण धर्मजिज्ञासोः
शास्त्रारम्भे शिष्यजिज्ञासामुपादाय मीमांसाभाष्यम्-‘को धर्मः कथं लक्षणकः कान्यस्य साधनानीति’
यथेत्यर्थः । एतेन-बुद्ध्युपक्रमादीनां वक्तृधर्मत्वकथनेन । गर्हाविस्मयखेदानुशयानां वक्तृधर्म-
त्वादित्यर्थः ॥ ६ ॥
लोके लिङादीनामाप्तेच्छायां शक्तिग्रहाद्वेदेऽपि स एवार्थः । न च वेदार्थे अस्मदादीनामिच्छा
सम्भवतीति तदाश्रयेश्वरसिद्धिरित्याह—लिङादीति । नियोगोऽभिप्रायः । अन्येषां लिङर्थत्वे
बाधकस्य वक्तव्यत्वादित्यर्थः । प्रवृत्तिरिति । अन्यत्र ज्ञानादेरपि प्रवृत्तिपदवाच्यत्वेऽत्र कृतिरेव
सा विवक्षितेत्यर्थः । तथाच कृतिकारणेच्छाज्ञानविषयो विधिरित्यन्येषां मतम् । स्वमतमाह
तज्ज्ञापक इति ।
यथा चाप्तेच्छाविषयत्वेन प्रवर्त्तकज्ञानविषय इष्टसाधनत्वमनुमीयते, तथा वक्ष्यति । तच्च
परमतनिरासं विना न भवतीति तन्निराकर्तुमाह प्रवृत्तिः खल्विति । विधिकार्या-विधिज्ञानकार्ये-
त्यर्थः । आत्मेति । चेष्टां विनाऽपि विध्यर्थसत्त्वादित्यर्थः । तत एवेति । इच्छामात्रेण विध्यर्थनि-
र्वाहे बहुवित्तव्ययायाससाध्ययागाद्यकरणप्रसङ्गादित्यर्थः । तत इति । कृतौ नायम् , क्रियमाणयाग-
स्योपयोगादित्यर्थः । आत्मज्ञानेति । मोक्षकामस्य ज्ञानविधाने भूतेषु दयाविधाने च चेष्टाया
टिप्पणी ।
विषयस्तस्येति । तस्य ज्ञानस्य विषयः कृतिसाध्यत्वमिष्टसाधनत्वं च । विधिः विधिप्रत्ययस्यार्थः।

५२६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो
तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोऽर्थविशेषस्तज्ज्ञापको
वाऽर्थविशेषो विधिः प्रेरणा प्रवर्त्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति
स्थिते विचार्यते । स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा,
नियोक्तृधर्मो वेति ! न प्रथमः ।
इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः ।
असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥८॥
प्रकाशः ।
अभावेऽपि यत्नस्य सत्त्वादित्यर्थः । आरम्भो-यत्नः। तत्प्रत्यायनार्थमिति । शास्त्रस्य ज्ञापकतया
स्वरूपसद्धेतौ शास्त्रानुपयोगादित्यर्थः । तदिदं परमतनिराकरणं विना न सिद्ध्यति, तदर्थमुपन्य-
स्यति स हीति । कर्तृधर्मः-प्रवर्त्त्यपुरुषधर्मः । स्पन्द इच्छा प्रयत्नो वा । कर्मधर्मोऽपूर्वस्य
क्रियाया वा धर्मः कार्यत्त्वादिः । करणधर्म इष्टसाधनत्वं शब्दव्यापारो भावना वा । नियोक्तृधर्म
आप्ताभिप्रायः ।
तत्र स्पन्दस्य विधित्वं दूषयति इष्टहानेरिति ।
अन्यादृष्ट्यतिव्याप्तिमित्यर्थः । यत्नस्य विधित्वं दूषयति अप्रवृत्तेरिति । यत्नमात्रस्यानि-
ष्टसाधनसाधारण्यादित्यर्थः । इच्छाया विधित्वे बाधकमाह विरोधत इति । इच्छाया विधित्वे
तयैव तज्जननाद्विरोध इत्यर्थः । न चेच्छा ज्ञाता प्रयत्नजननी, किन्तु सत्तया । न च लिङ्श्रवणकाले
सा सतीत्याह असत्त्वादिति । न च लिङेव तां जनयति । तत्र ज्ञानकारणत्वत्यागापत्तेः, लिङं
प्रकाशिका ।
कर्त्तृधर्म इति मूलम् । स्पन्दो वा प्रयत्नो वा इच्छैवेत्यर्थः, स्पन्दश्च परम्परासम्बन्धेन कर्तृधर्म
इत्यवधेयम् । कर्म्मधर्मो विति मूलम् । फलधर्मो वा अपूर्वधर्मो वा क्रियाधर्मो वेत्यर्थः । करण-
धर्मो वेति मूलम् । शब्दधर्मोऽभिधा वा शब्दार्थीभूतप्रयत्नधर्मेष्टसाधनत्वं वेत्यर्थः । नियोक्तृ-
मकरन्दः ।
स्पन्द इति । यद्यपि स्पन्दो न पुरुषधर्मस्तथापि तदवच्छिन्नशरीरे स्पन्द इति तथोक्तम् ।
टिप्पणी ।
तज्ज्ञापक इति । याग इष्टसाधनम् आप्ताभिप्रायविषयत्वात् इति रीत्येष्टसाधनत्वानुमापकः
कैवलोऽनन्यलभ्य आप्ताभिप्राय एव विधिप्रत्ययार्थः, नत्विष्टसाधनत्वं तथा तस्यानुमानलभ्यत्वात्,
अनन्यलभ्यस्यैव शब्दार्थत्वात्, तथाच यजेदित्यादौ विध्यर्थानुमापकतया विध्यर्थतया चाऽपेक्षणी-
यस्यानुप्रायस्याश्रय ईश्वरः सिध्यति ।
शब्दप्रमाणातिरिक्तस्थलसाधारणप्रवृत्तिकारणचिकीर्षाजनकज्ञानविषयमिष्टसाधनत्वमेवेति परि-
शेषात्साधयति इष्टहानेरिति । चिकीर्षारूपेच्छाविशेषस्य विधित्वं दूषयति विरोधत इति ।
विध्यर्थज्ञानादिच्छा जायते ततः प्रवृत्तिरिति निर्विवादम्, इत्थं च यदीच्छा विध्यर्थः स्यात्तदा
विध्यर्थज्ञानात् इच्छाज्ञानात् प्रवृत्त्यनुकूलेच्छा जायेत तदिदमिच्छाज्ञानं मानसप्रत्यक्षरूपमेव, प्रत्यक्षे
च विषयस्य कारणत्वादिच्छया जायेतेत्यन्योऽन्याश्रय इति भावः। ननु लौकिकप्रत्यक्षे एव
विषयस्य कारणत्वं न तु शाब्दे ज्ञानेऽतो लिङा इच्छाज्ञानं जायेत ततः प्रवृत्तिरिति नान्योऽ-
न्याश्रयोऽत आह असत्त्वादिति । इच्छाया ज्ञानं लिङा जायतां नाम इच्छा तु क्लृप्तकार-
णेनेष्टसाधनताज्ञानादिनेव जायते नतु लिङाऽतस्तदानीमिच्छाया अनुत्पत्त्या प्रवृत्तिं प्रति स्वरूपस-
त्कारणीभूताया इच्छाया अभावात् प्रवृत्तिर्न स्यादित्यर्थः। नन्वस्तु लिङपीच्छाकारणमत आह प्रत्यय-
त्यागादिति । इष्टसाधनताज्ञानस्येच्छां प्रति कारणत्वं सर्ववादिसिद्धमेव, तत्र यदि लिङादिरपि कारणं

पंचमस्तवके ] ईश्वरसाधनम् । ५२७
स हि न स्पन्द एव, आत्मानमनुपश्येदित्याद्यन्वयातेः । ग्रामं गच्छतीत्याद्याव-
तिव्याप्तेश्च । नाऽपि तत्कारणं प्रयत्नः । तस्य सर्वाख्यातसाधारणत्वात् ।
ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः । करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्त-
स्याभावात् । संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् । ततो लिङादि-
वाच्य एव प्रयत्न इति । न, कुर्यादित्यत्रापि तुल्यत्वात् । प्रयत्नमात्रस्य प्रकृत्यर्थ-
त्वेऽपि तस्य पराङ्गताऽऽपन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत् । न, तथापि
तुल्यत्वात् । न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत । एको द्वौ बहव
एषिपतीत्यादौ व्यभिचारात् । तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते

प्रकाशः ।
विनाऽपीच्छोत्पत्तेश्चेत्याह प्रत्ययेति । उपायगोचरप्रवृत्ताविष्टसाधनत्वज्ञानस्य हेतुत्वनिश्चयात् तत्स-
ङ्कीर्णेच्छायाः प्रवर्त्तकत्वे लाघवादिष्टसाधनतैव विधिरित्याह सङ्करादिति ।
करोतीत्यत्र यत्नस्य कृधातुनैवोक्तत्वादाख्यातमात्रस्य यत्नार्थत्वे पौनरुक्त्यं स्यादिति नाख्या-
तमात्रं यत्नमभिधत्ते, किन्तु लिङेवेत्याह नन्विति । ननु यदि प्रकृत्यर्थातिरिक्तो नाख्यातार्थः, तदा
तत्प्रयोगो व्यर्थ इत्यत आह संख्येति । एकत्वादिसंख्यामात्रमाख्यातार्थः, तत्प्रत्यायनार्थमेव
तत्प्रयोग इत्यर्थः । तर्हि लिङपि न यत्नार्थः, कुर्यादित्यत्र पौनरुक्त्यापत्तेः । अथाख्यातात् कृतेरुप-
स्थितावपि तात्पर्याभावात् सा नान्वीयते, किन्तु संख्यामात्रम्, तर्हि करोतीत्यादावपि तुल्यमित्याह
कुर्यादित्यत्रेति । यदि कुर्यादित्यत्र यत्नमात्रं कृधात्वर्थः, तस्य च चैत्रादिसमन्वितत्वमनुकूलत्वं
वा प्रत्ययार्थ इति विशेषः, तदा करोतीत्यादावपि तुल्यमिति शब्दोत्तराभ्यामाह प्रयत्नमात्रस्येति ।
अपि च कृतेर्धात्वर्थत्वेऽपि प्रत्ययस्य तदर्थत्वं न दोषाय, प्रकृतिप्रत्यययोरन्यत्र समानार्थ-
त्वदर्शनादित्याह न चेति । एकस्य प्रकृतिरूपस्य, अन्यस्य प्रत्ययरूपस्य, तद्विपर्ययस्तद्वाचक-
त्वमित्यर्थः । अर्थैक इत्यादौ प्रकृत्यर्थातिरिक्तं द्वितीयमेकत्वादिकम् , एषिषतीत्यत्रापरेच्छा प्रत्य-
यार्थः, तदा करोतीत्यत्र यत्नान्तरमेवाख्यातार्थ इत्यस्त्वित्याह तत्रेति । ननु द्वितीयसंख्येच्छा य-

प्रकाशिका ।
धर्म्मो वेति मूलम् । वक्तुरभिप्राय इत्यर्थः । तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो वेत्यनेनैव
कारिकाभागेन यद्यपि गतार्थं तथाप्यस्य प्रतिज्ञात्वं कारिकाभागस्य चोपसंहारत्वमिति मन्तव्यम् । यद्वा
स्पन्दादौ कर्त्तृधर्म्मो न प्रथम इत्येवंपरत्वेन कारिकोत्तरं योजनीयम् । इष्टहानेरित्यादिमूलम् । स्पन्दस्य
विधित्वेऽव्याप्तिरात्मानं पश्येदित्यत्रातिव्याप्तिश्च, ग्रामंगच्छतीत्यत्र यत्नस्य विधित्वे ग्रामं गच्छेदित्यत्र
यत्नप्रतीत्यावश्यप्रवृत्तिः, इच्छाया विधित्वे इच्छाया इवेच्छाजनकत्वे विरोधो, लिङश्रुतिक्राले तस्या
असत्त्वन्न लिङ्वेच्छाजनने प्रत्ययत्यागोऽन्यत्र प्रतीतकारणत्यागः, इच्छादिज्ञानस्य चेच्छादिजनकत्वे
यागचिकीर्षावानित्पतोऽपि प्रवृत्त्यापत्तिरित्यप्रवृत्तिरेव दूषणम् । इष्टसाधनतासहितेच्छाया विधित्वे

मकरन्दः ।
तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो नेति कारिकया गतार्थमिति यद्यपि, तथापि स्पन्दादित्रिके प्रथमः
स्पन्दो नेत्यर्थः । उपसंहारश्च कर्त्तृधर्म्मो नेत्येके ।

टिप्पणी
मन्येत तदा तद्व्यतिरेकेऽपि लिङादिरिच्छां जनयेदतो व्यतिरेकव्यभिचारः स्यात्, ततश्च प्रत्ययस्य
इष्टसाधनताज्ञानस्य कारणत्वं परित्यज्येतातो नेच्छापि विध्यर्थः किंतु संकरात् दृष्टसाधनाज्ञान-
संकीर्णेच्छाया उपायगोचरप्रवृत्तौ कारणत्वात् इष्टसाधनतैव विध्यर्थ इत्यर्थः ॥

[५२८] व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायां

इत्यादावपि तथा स्यात्। प्रत्येकमन्यत्र सामर्थ्यावधृतौ सम्भेदे तथा कल्पना-
यास्तुल्यत्वात्।
रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत्, तन्तवः पटं कुर्वन्तीत्यत्र
था। लोकोपचारोऽयमपर्य्यनुयोज्य इति चेत्तुल्यम्। लिङः कार्यत्वे वृद्धव्यवहा-
राद्व्युत्पत्तौ सर्वं समञ्जसम्। आख्यातमात्रस्य तु न तथेति चेत्। न विवरणा-
देरपि व्युत्पत्तेः। अस्ति च तदिह—किं करोति? पचति, पाकं करोतीत्यर्थः
इत्यादिदर्शनात्।
तथापि फलानुकूलताऽपन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानक-


प्रकाशः।

त्नाननुभवान्न तथा, प्रकृतिप्रत्यययोः साम्येनान्वयानुपत्तेरित्यत आह प्रत्येकमिति। तथा चोभयो-
पस्थितेरावश्यकत्वेनैकस्यानन्वयेऽप्यदोषादित्यर्थः।
रथो गच्छतीत्यादावित्यादिपदाज्जानाति यतते निद्रातीत्यादेर्ग्रहणम्। तत्र धात्वर्थानुकूलयत्ना-
भावेऽप्याख्यातप्रयोगात्। यदि चाऽचेतने व्यापारमात्रमाख्यातार्थः, तदा चेतनेऽपि तथेत्यर्थः।
कृधातोर्यत्नार्थत्वस्योभयसिद्धत्वादचेतने यथा करोतेः प्रयोगो लाक्षणिकः, तथा रथो गच्छतीत्यादा-
वाख्यातस्येत्याह तुल्यमिति। लिङः स्वाऽऽत्मनि प्रवर्त्तकत्वेन ज्ञाते कार्यताज्ञाने वृद्धव्यवहारेण
शक्तिग्रहात्तस्य प्रयत्नार्थत्वे मानमस्ति, न त्वाख्यातमात्रस्येत्याह लिङ इति। पचति पाकं करो-
तीत्यादौ यत्नार्थककरोतिना सर्वाख्यातविवरणाद् वृद्धव्यवहारादिव बाधकं विना विवरणादपि
व्युत्पत्तेः। किं करोतीति यत्नविशेषप्रश्ने, पचतीत्युत्तरस्य यत्नार्थत्वं विनानुपपत्तेश्च प्रकृतेऽपि मान-
मस्तीत्याह विवरणादेरिति।
ननु धातुः स्वरूपेण स्वार्थं भावमाह, आख्यातन्तु यावता कर्मक्षणनिश्चयेन फलं सिद्ध्यति
तावति वर्त्तते, ओदनं पचतीति दर्शनात्, न ह्येकेन कर्मक्षणेनोदनः सिद्धयति, अतः फलार्थो
व्यापारसमूहो भाव्यत्वाद्भावनेत्युच्यते, भाव्यमानस्तु तस्य फलसाधनत्वात्, फलानुकूलता-
विशिष्टयत्नवाच्यत्वे तु कल्पनागौरवमिति शङ्कते तथापीति। पचेस्तावत्तुषबुषप्रक्षेपणादिव्या-
पारकलाप एवार्थः। तस्यैव रूपपरावृत्तिलक्षणफलं प्रत्यनुकूलता आख्यातवाच्या। अधिकयत्न-
स्यापि वाच्यत्वे गौरवमिति शङ्कार्थः। तावन्मात्रपरं-धात्वर्थस्य फलानुकूलतामात्रपरं, न तु यत्न-
परमित्यर्थः।
ओदनं पचतीत्यत्र धात्वर्थः पाक ओदनानुकूल इत्यर्थे काष्ठेनौदनं पचतीतिवदोदनेन पाकेन
करोतीति प्रयोगप्रसङ्गात्। न चेष्टापत्तिः। किं करोति। पचति, पाकं करोतीत्यनुभवस्य सार्वलौकि-


प्रकाशिका।

चावश्यकल्पनीयेष्टसाधनतासङ्कर इति लाघवादिष्टसाधनतैव विधिरस्त्वित्यर्थः। काष्ठेनौदनं पचती-
तिवदिति। यद्यपि तत्र काष्ठकरणकः पाकः ओदनानुकूल इत्यन्वयसम्भवेऽपि न तादृशप्रयोगेऽपि
पाके पाककरणत्वानन्वयात् पाकेन च पचतीति न प्रयोगः, तथापि पाकं करोतीति विवरणेन
स्यादित्यत्रैव तात्पर्यम्। वस्तुत ओदनं पचतीत्यत्र ओदनानुकूलः पाक इत्यर्थे ओदनं पाकेनेति
विवरणं स्यात् तृतीयानुकूलत्वलाभादिति मूलार्थः, एवञ्चौदनं पचतीति वक्तव्ये ओदनं पाकेनेति
प्रयोगः स्यादिति प्रकाशस्यापि तदनुसारिणी व्याख्येति न कदाचिन्मूलप्रकाशयोरसङ्गतिरित्यवधेयम्।


मकरन्दः।

. . काष्ठेनौदनं पचतीतिवदिति। यद्यपि काष्ठकरणकः पाक ओदनानुकूल इत्यन्वयसम्भवात्
प्रयोगेऽपि पाकेन पचतीति न प्रयोगप्रसङ्गः, पाके पाककरणत्वानन्वयात्, तथापि पाकं करोतीति