न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 552, कुल 608 में से
संदर्भ में पढ़ें५२० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां
ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥ ६ ॥
आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती। भूतार्थस्य तु यद्यपि
नाहत्य प्रवर्त्तकत्वं निवर्त्तकत्वं वा, तथापि तात्पर्य्यतस्तत्रैव प्रामाण्यम् । तथाहि
विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते । प्रशस्ते हि सर्वः प्रवर्त्तते, निन्दि-
ताच्च निवर्त्तते इति स्थितिः ।
तत्र पदशक्तिस्तावत्सिद्धा, तद्बलायातः पदार्थः। आकाङ्क्षादिमत्त्वे सति
चाऽन्वयशक्तिः पदानां पदार्थानां वा वाक्यं, तद्बलायातो वाक्यार्थः ।
तात्पर्यार्थस्तु चिन्त्यते-तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य,
तदिदं तत्परम्, तस्य भावस्तत्त्वम्, तद् यद्विषयं, स तात्पर्यार्थ इति स्यात् ।
तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् । फलस्य च तत्प्रतिपत्तितोऽ-
न्यस्याभावात् । प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं पर-
मुच्यते इति चेन्न। गङ्गायां घोष इत्यत्र तीरस्याऽप्रवृत्तिनिवृत्तिरूपस्यासाध्य-
स्यापि परत्वात् । तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति
चेन्न। स्वरूपाख्यानमात्रेणापि पर्य्यवसानात्।
न द्वितीयः । पदवाक्ययोः पदार्थतत्त्संसर्गौ विहाय प्रतिपाद्यान्तराभावात् ।
'पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न
साम्प्रतम् । न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य, अतिप्र-
सङ्गात् । तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात् , अविनाभावस्य ताद-
वस्थ्यात् । मुख्ये बाधके सति तत्तथा स्यादिति चेत् । न तस्मिन्नसत्यपि भावात् ।
तद् यथा-
प्रकाशः।
पदानां सर्वज्ञे नित्यज्ञाने वेदादेव शक्तिग्रहात् ततोऽपि तत्सिद्धिरित्याह ईश्वरादीति ॥ लोक-
वृत्तेति ॥ लौकिकदृष्टान्ते व्याप्तिग्रहादित्यर्थः ॥
वृद्धव्यवहारेण कार्यान्विते पदार्थे पदानां शक्तिः कार्यान्वयश्च विधिसमभिव्याहृतस्य साक्षात्,
तदसमभिव्याहृतस्य च परम्परयेति मतमाश्रित्याह आम्नायस्येति ॥ भाव्यार्थस्य-साध्यार्थस्य ॥
यथा पथ्यं भुञ्जीत अपथ्यं न भुञ्जीत इत्यस्य साक्षात् कार्यान्वयज्ञानात् प्रवर्त्तकत्वनिवर्त्तकत्वे ॥
भूतार्थस्य-सिद्धार्थस्य ॥ यथा परिणतिसुरसमाम्रफलं परिणतिचिरसं पनसमिति वाक्यस्य तद्-
भावाद् भक्षणाऽभक्षणकार्यत्वे तात्पर्यग्रहात् परम्परया तथात्वमित्यर्थः । तदुपपादयति विधि-
शक्तिरिति ॥ कार्यत्वज्ञानजननेऽपि प्रवृत्त्योपयिकं प्रवृत्तिविषयस्यान्यापेक्षया प्राशस्त्यज्ञानं, तद्रूप-
सहकार्यलाभो विधिशक्तेरवसादः, तल्लाभश्चोत्तम्भनम्। तत्सहकारित्वे मानमाह प्रशस्ते हीति ॥
पदार्थवाक्यार्थाभ्यां तात्पर्यं भेदयितुं प्रतौति तत्रेति ॥ तदेव परं यस्य स्तुत्यादिवाक्यस्येत्यत्र
परपदार्थं विकल्पयति साध्यमिति ॥ तदिदमिति ॥ वाक्यमित्यर्थः ॥
ननु वाक्यार्थस्य वाक्यरूपप्रमाणासाध्यत्वेऽपि तन्निष्टफलसाध्यतयैव तत्साध्यता स्यादित्यत
आह फलस्य चेति ॥ तस्य च द्वितीयविकल्प एव प्रवेशादिति भावः ॥ तीरस्यापीति ॥
साध्यफलभागितया तीरस्यापि साध्यत्वमित्यर्थः ॥ स्वरूपेति ॥ प्रवृत्त्यादौ तात्पर्याभावेऽपि
तीरस्य तात्पर्यविषयत्वादित्यर्थः ॥ पदवाक्ययोरिति ॥ स्तुत्यादिवाक्यस्य पदार्थवाक्यार्थभिन्ने
टिप्पणी।
साधयति ईश्वरादेरिति । आहत्य साक्षात् । सा च प्रवृत्तिश्च, इच्छात्तः-चिकीर्षातः।