न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 558, कुल 608 में से
संदर्भ में पढ़ें५२६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो
तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोऽर्थविशेषस्तज्ज्ञापको
वाऽर्थविशेषो विधिः प्रेरणा प्रवर्त्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति
स्थिते विचार्यते । स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा,
नियोक्तृधर्मो वेति ! न प्रथमः ।
इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः ।
असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥८॥
प्रकाशः ।
अभावेऽपि यत्नस्य सत्त्वादित्यर्थः । आरम्भो-यत्नः। तत्प्रत्यायनार्थमिति । शास्त्रस्य ज्ञापकतया
स्वरूपसद्धेतौ शास्त्रानुपयोगादित्यर्थः । तदिदं परमतनिराकरणं विना न सिद्ध्यति, तदर्थमुपन्य-
स्यति स हीति । कर्तृधर्मः-प्रवर्त्त्यपुरुषधर्मः । स्पन्द इच्छा प्रयत्नो वा । कर्मधर्मोऽपूर्वस्य
क्रियाया वा धर्मः कार्यत्त्वादिः । करणधर्म इष्टसाधनत्वं शब्दव्यापारो भावना वा । नियोक्तृधर्म
आप्ताभिप्रायः ।
तत्र स्पन्दस्य विधित्वं दूषयति इष्टहानेरिति ।
अन्यादृष्ट्यतिव्याप्तिमित्यर्थः । यत्नस्य विधित्वं दूषयति अप्रवृत्तेरिति । यत्नमात्रस्यानि-
ष्टसाधनसाधारण्यादित्यर्थः । इच्छाया विधित्वे बाधकमाह विरोधत इति । इच्छाया विधित्वे
तयैव तज्जननाद्विरोध इत्यर्थः । न चेच्छा ज्ञाता प्रयत्नजननी, किन्तु सत्तया । न च लिङ्श्रवणकाले
सा सतीत्याह असत्त्वादिति । न च लिङेव तां जनयति । तत्र ज्ञानकारणत्वत्यागापत्तेः, लिङं
प्रकाशिका ।
कर्त्तृधर्म इति मूलम् । स्पन्दो वा प्रयत्नो वा इच्छैवेत्यर्थः, स्पन्दश्च परम्परासम्बन्धेन कर्तृधर्म
इत्यवधेयम् । कर्म्मधर्मो विति मूलम् । फलधर्मो वा अपूर्वधर्मो वा क्रियाधर्मो वेत्यर्थः । करण-
धर्मो वेति मूलम् । शब्दधर्मोऽभिधा वा शब्दार्थीभूतप्रयत्नधर्मेष्टसाधनत्वं वेत्यर्थः । नियोक्तृ-
मकरन्दः ।
स्पन्द इति । यद्यपि स्पन्दो न पुरुषधर्मस्तथापि तदवच्छिन्नशरीरे स्पन्द इति तथोक्तम् ।
टिप्पणी ।
तज्ज्ञापक इति । याग इष्टसाधनम् आप्ताभिप्रायविषयत्वात् इति रीत्येष्टसाधनत्वानुमापकः
कैवलोऽनन्यलभ्य आप्ताभिप्राय एव विधिप्रत्ययार्थः, नत्विष्टसाधनत्वं तथा तस्यानुमानलभ्यत्वात्,
अनन्यलभ्यस्यैव शब्दार्थत्वात्, तथाच यजेदित्यादौ विध्यर्थानुमापकतया विध्यर्थतया चाऽपेक्षणी-
यस्यानुप्रायस्याश्रय ईश्वरः सिध्यति ।
शब्दप्रमाणातिरिक्तस्थलसाधारणप्रवृत्तिकारणचिकीर्षाजनकज्ञानविषयमिष्टसाधनत्वमेवेति परि-
शेषात्साधयति इष्टहानेरिति । चिकीर्षारूपेच्छाविशेषस्य विधित्वं दूषयति विरोधत इति ।
विध्यर्थज्ञानादिच्छा जायते ततः प्रवृत्तिरिति निर्विवादम्, इत्थं च यदीच्छा विध्यर्थः स्यात्तदा
विध्यर्थज्ञानात् इच्छाज्ञानात् प्रवृत्त्यनुकूलेच्छा जायेत तदिदमिच्छाज्ञानं मानसप्रत्यक्षरूपमेव, प्रत्यक्षे
च विषयस्य कारणत्वादिच्छया जायेतेत्यन्योऽन्याश्रय इति भावः। ननु लौकिकप्रत्यक्षे एव
विषयस्य कारणत्वं न तु शाब्दे ज्ञानेऽतो लिङा इच्छाज्ञानं जायेत ततः प्रवृत्तिरिति नान्योऽ-
न्याश्रयोऽत आह असत्त्वादिति । इच्छाया ज्ञानं लिङा जायतां नाम इच्छा तु क्लृप्तकार-
णेनेष्टसाधनताज्ञानादिनेव जायते नतु लिङाऽतस्तदानीमिच्छाया अनुत्पत्त्या प्रवृत्तिं प्रति स्वरूपस-
त्कारणीभूताया इच्छाया अभावात् प्रवृत्तिर्न स्यादित्यर्थः। नन्वस्तु लिङपीच्छाकारणमत आह प्रत्यय-
त्यागादिति । इष्टसाधनताज्ञानस्येच्छां प्रति कारणत्वं सर्ववादिसिद्धमेव, तत्र यदि लिङादिरपि कारणं