सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

क्ताफलक्षोदरङ्गावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि च-
त्वराणि, पूज्यन्तां द्विजन्मानो देवताश्च, दीयन्तां दानानि, गीयन्तां
मङ्गलानि, विसृज्यन्तां वैरिबन्धः, मुच्यन्तां पक्षिणोऽपि पञ्जरेभ्यः'
इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गार-
मुखरे संचरति पुरपथेपु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव
भुक्ताशेषभुवनस्येवास्वादितामृतसस्येवानुभूतपरमानन्दस्येव राज्ञः
कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् ॥ क ॥
एवमतिक्रामत्सु केषुचिद्दिवसेषु, जरठीभूते महोत्सवव्यतिकरे, गत-
वति यैथायथमामन्त्रितायाते समस्तसामन्तलोके, यौवराज्यरञ्जिते च
परितः परिजने जनेश्वरॊ रिपुपयोधिबडवानलं नलर्मोवभाषे ॥ ख ॥
'तात, किमपि ब्रूमो यदि न खिद्यसे । संप्रति प्रियं सख्यं श्रेयस्क-
रमस्माकमैणम्, न त्रैणम् । आभरणाय योग्या जटाभाराः, न हाराः ।
साहाय्याय साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका,
न तूलिका । क्रीडार्थे वरा वेगवन्तो निर्झरप्रवाहाः, न वाहाः । प्रार्थनी-
याश्च हरप्रसादाः, न प्रासादाः ॥ ग ॥
तदायूष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः'
इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहुलबाष्पाम्बुप्लवप्लावित वक्ष-
सि निधाय परिष्वज्य च पुनः पुनः पुलककोरकितभुजलताभ्यामन्त-
र्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवद्दृक्शुक्तिकपोलमाविर्भवन्मोहमू-
र्छान्धकारकुञ्चितलोचनमिममाघ्राय मूर्ध्नि वनाय वनितासहायः प्रतस्थे
॥ घ ॥
प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियुज्यमानचलच्च-
क्रवाकीष्विव कृतकरुणाक्रन्दासु प्रजासु, प्रतिभवनमुच्चलितेषु जरत्पौ-
रजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलिरस्य क्रमागतकर्म-
कारिणः श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्य-
स्मदनुकम्पयाऽपराधाः । पश्यैय । पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलय-
तातेति ॥ स्त्रीणामिदं त्रैणम् । 'स्त्रीपुंसाभ्यां नञ्स्नञौ' इति नञ् ॥ ग ॥
तदेति ॥ अन्तर्मध्ये मन्युभरेण दैन्यातिशयेन निरुद्ध्यमानमुत्तरं यस्य ॥ घ ॥
१ 'देवाश्च'. २ 'भुक्त'. ३ 'यथागतम्'. ४ 'बभाषे'. ५ 'संप्रति सख्यम्'.
६ 'आहरणाय योग्या नीवाराः'; 'नाहाराः'. ७ 'क्रीडार्हा'. ८ 'उक्तम्'. ९ 'लपिते
च'. १० 'कोरकिताभ्याम्'. ११ 'आकुञ्चित'. १२ 'यतः'.

११८ नलचम्पूः ।
न्तोऽपि कमलाकरान्र्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्ज-
नानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूमूजि
भुंजायामानिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिल-
संतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः, पैतद्बहलवा-
ष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न
लोचने तं दिवसं समुदमीलयत् ॥ ख ॥
केवलममन्दर्मन्यूद्गारगद्गदया गिरा पुनः पुनरिमं श्लोकमपठत्।।ग।।
तच्चातस्य कृतादरस्य रभसार्दाह्वाननं दूरत-
स्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् ।
ताम्बूलं च तदर्थचर्वितमतिप्रेम्णा मुखेनार्पितं
पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे' ॥ ३१ ॥
एंतच्चाकर्ण्य दमयन्ती चिन्तितवती—'अहो, स्नेहवानाद्रहृदयः
खल्वसौ महानुभावः । तत्सर्वथास्मत्प्रीतिपात्रं भवितुमर्हति' इत्यव-
धारयन्ती पुनः प॑प्रच्छ ॥ घ ॥
'हुं हंस, ततस्ततः' ॥ क ॥
सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार।ख
'सुन्दरादरि, तैतँश्च
किमपि परिजनेन स्वेन तैस्तैर्विनोदैः
पितृविरहविषादं सोऽथ विस्मार्यमाणः ।
गमयति परिवर्तं वासराणामिदानीं
हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हर-
चरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥
हुं हंसेति ॥ हुमित्यव्ययं प्रश्ने ॥ क ॥
इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
इति चण्डपालविरचिते दमयन्तीकथाविवरणे चतुर्थ
उच्छ्वासः समाप्तः ॥
१ 'भुजाभ्यां निर्जित'. २ 'मृगशावक इव मार्गच्युतः'. ३ 'गलद्'. ४ 'दैन्य'.
५ 'इदम्'. ६ 'आवाहनम्'; 'अद्येहितम्'. ७ 'एतदाकर्ण्य'. ८ 'पप्रच्छ हंसं ततस्ततः'.
९ 'उपसंहरन्'. १० 'तदस्तु'.

अथ विश्रान्तवाचि वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णे वर्णितनि-
षधराजे राजहंसे 'अहं सेवार्थी' इत्य²भिधायोपरुध्यमाना कृतोत्तरा-
सङ्गेन द्विज³न्मना श्रुतानुरागेण । 'वत्से, चिरान्मिलितासि' इत्यु-
क्त्वैवोपश्लिष्टा हृदये प्रवृद्धया चिन्तया । 'पुत्रि, क⁵थंकथमपि दृष्टासि'
इति संभाव्येवालिङ्गिता सर्वाङ्गेषूत्कम्पजनन्यौ रोमाञ्चावस्थया⁸ । 'तरु-
णि, त्यज्यतामिदानीं शैशवव्यवहारः' ६त्यभिधायेव मुग्धे स्पृष्टा प्रमु-
खेण मुखे वैवर्ण्येन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव⁷
ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन दमयन्ती । तथापि क्षणमिव
महानुभावतामवलम्ब्यानुपलक्षितावस्थमवतस्थे ॥ क ॥
तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम्,
अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीत⁹नै¹⁰लावलोकना-
र्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम्, आकस्मिकस्मरापस्मारेण दाम्यन्तीं
दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासन्यसनिनो परिहा-
सशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय
श्राम्यति श्रोत्रे¹¹न्द्रियम् । न तृप्यति प्र¹²श्नरसायनाय जिह्वा । न संतु-
ष्यति विशेषज्ञानाय शेमुषी । नै¹³नुरागायोपरमते मनः । तै¹⁴त्कथं कृत-
अथेति ॥ अनन्तरं । स्तुतनले हंसे । सेवितुकामोऽहमित्युक्त्वैव कृत उत्पा-
दित उत्तरास्यां दिशि विषये आसङ्ग आसक्तिर्येन । नलाधारत्वादुत्तरस्याः । तथा
द्वाभ्यां (तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । १ उ. ५९ श्लो.) येनोदीच्याध्व-
गेनोक्तं तस्मादेकस्मात् द्वितीयादंसोत्पत्तिर्यस्य स तथाभूतः। श्रुतादाकर्णना-
द्योऽनुरागः प्रेमबन्धः । तेनोपरुध्यमाना व्याप्यमाना । कृतवैकक्षेकेणाध्ययनानुरा-
गेन विप्रेण दाक्षिण्यं नीयमानेत्यर्थान्तरम् । एवम्भूता दमयन्ती प्रकर्षेण वृद्धिं
गतया चिन्तया पुत्रि चिरान्मिलिता त्वमित्युक्तेवेव चित्तेऽवष्टब्धा । तथा उत्कम्पं
जनयतीति उत्कम्पजनन्या । प्रमुखेन प्रधानेन । गुरुणा दुर्वाहभारेण । अर्थान्तरे
तु प्रवृद्धया जरत्या । उद्गतकम्पया जनन्या मात्रा । प्रकृष्टं मुखं यस्य तेन प्रमु-
खेन । गुरुणा आचार्येण ॥ क ॥
तां चेति ॥ दाम्यन्तीं गृह्यमाणां स्मरणपरवशामित्यर्थः । तदिङ्गिताकारेत्यत्रै-
१ 'वत्सि'. २ 'अभिधायैवोपस्थ्यमाना'; 'अंमथायोपसृत्य निरुध्यमाना'. ३ 'द्वि-
जन्मनेव'. ४ 'इव'. ५ 'कथमपि'. ६ 'इत्यालप्येव'. ७ 'एव'. ८ 'अवस्थांम्'.
९ 'मनोरथपथानीत'. १० 'नललावण्यावलोकनार्थम्'. ११ 'श्रवणेन्द्रियम्'. १२ 'प्रश्न-
रसायने'. १३ 'न विरमत्यनुरागाय मनः'. १४ 'तत्कथय कथम्'.

१२० नलचम्पूः ।
वानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथा-
पदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाक्रमस्य विरामम्,
एतत्परमपि पिपासया पयः पातुमुद्यतस्येवाविरतायां तृषि वारिधारा-
निवारणम् । इयं सा भुञ्जानस्यार्धतृप्तिः । सोऽयमप्राप्तरतस्य रिरंसा-
व्याघातः । तन्न युक्तमिवान्तरे विरन्तुम् । निष्कारणोपकारिन्, प्रव-
र्त्यतां पुण्यराशेस्तस्य स्वरूपाख्यानामृतप्रपामैण्डपो, निर्वाण्तु च चिर-
कालमनङ्गाग्निभोपतप्ता एवंविधकन्याकाः प्रसारितश्रवणाञ्जलयः' इति
दमयन्तीमर्धेक्षणेन कटाक्षयन्ती तं राजहंसमालापयांचकार ॥ क ॥
सोऽपि 'सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापित-
प्रतिमस्याद्यापि प्रैशस्यते ॥ ख ॥
यत्र श्रूयमाणे न मधुरो वेणुवीणाँक्वणः, दृष्टे नाभिरामः कामः ।
संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्यममृतम्, अभ्यस्ते
नानन्दीन्दुः, प्रैसादिते न प्रशंसास्पदं धैनदः ॥ ग ॥
किं बहुना ।
भवति यदि सहस्रं वाक्पटूनां मुखानां
निरुपममवधानं जीवितं चापि दीर्घम् ।
कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं
सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥
अपि च ।
संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं
नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः ।
गितं चेष्टितम् । आकारो मुखरागादिः । वारिधाराया विधारणं विच्छेदः । 'निवार-
णम्' इति वा पाठः । रिरंसायां सत्यां व्याघातोऽन्तरायः । 'रतिव्याघातः' इति
पाठे तु स्पष्टमेव ॥ क ॥
यत्रेति ॥ श्रूयमाणे नेत्यादौ सप्तम्यन्तान्नञ् । अभ्यस्ते परिशीलिते ॥ ग ॥
संसारेति ॥ खस्तियोगे त इति चतुर्थ्यन्तम् ॥ २ ॥
१ 'कारिणः'. २ 'अर्धगतायाम्'. ३ 'असमाप्तरतस्य'; 'असमाप्तरसस्य'. ४ 'अवान्तरे';
'अत्रान्तरे'. ५ 'अकारणो'. ६ 'पुनः पुण्य'. ७ 'मण्डपे.' ८ 'निर्वांतु चिर'.
९ 'दमयन्ती तामर्धेन'; 'दमयन्तीमर्धेक्षितेन'. १० 'समालपयां'. ११ 'किं प्रशस्यते'.
१२ 'वीणाकलकाणः'; 'वीणाकाणः'. १३ 'अनुप्रसादिते'. १४ 'धनद इत्यभाषत'.

पञ्चम उच्छ्वासः । १२१
सा त्वं तस्य कुरङ्गशावनयने योग्यासि पृथ्वीपते-
रेतत्ते कथितं किमन्यदधुना यामो वयं स्वस्ति ते ॥ २ ॥
अन्यच्च ।
चन्द्रमुखि, महानाम्नि सुसंधिकृति सुसमासाख्याततद्धिते सत्का-
रके परिभाषाकुशले बलाबलविचारिणि विचार्यमाणे व्याकरणे प्रेष्य-
माणे च दूते नापशब्दसंबंधो भवति । तत्प्रेष्यतां तथाविधस्तस्या-
न्तिकं कोऽपि दूतः ॥ क ॥
नच वृहत्यासंपदान्विते जगत्याख्याते सत्कृतगुरुगणे शार्दूलविक्री-
डिताडम्बरिणि पुण्यश्लोके पर्यालोच्यमाने छन्दसि प्रार्थ्यमाने च
तस्मिन्निषधेश्वरे वृत्तभङ्गो भवति' इत्यभिधाय गन्तुमुदचलत् ॥ ख ॥
उच्चलितं च तं परिहासशीला पुनर्वभाषे ॥ ग ॥
चन्द्रेति ॥ चन्द्रमुखीति संबोधनम् । नाम प्रातिपदिकं तद्विषयं प्रकरणमपि
नामेत्युपचारे सति महदिति विशेषणस्य सफलत्वम् । नाममात्रस्य महच्छब्देन
व्यवच्छेदाभावात् । सुष्ठु संधिर्वर्णसंश्लेषः कृत्संज्ञकप्रत्ययश्च यत्र । समासस्तत्पुरु-
षादिः । आख्यातं क्रिया । तद्धितोऽणादिः । कारकमपादानादि । परिभाषा न्याय-
सूत्राणि । बलाबलं पूर्वापरविधीनां बाधस्थितिः । अपशब्दोऽसाधुशब्दः । दूतपक्षे ।
नाम संज्ञा । सुष्ठु संधिं पणबन्धं करोतीति कौ सप्तमी । सुष्ठु समासेन संक्षेपेणा-
ख्यातं कथितं तस्मै हितं येन तस्मिन् । सत्कारके सत्क्रियाजनके । परितो भाषाः
संस्कृतप्राकृताद्याः कर्णाटादिदेशभाषा वा तासु दक्षे । वलावलं शक्त्यशक्ती ।
अपशब्दोऽपवादः ॥ क ॥
ननु यद्यहं दूतं प्रेषयिष्यामि । तदा 'स्वच्छन्दचारिणीयाम्' इति किंवदन्ती
भविष्यतीत्याशङ्क्याह—नचेति ॥ बहतीजगतीशब्दौ छन्दोजातिवचनौ तृती-
यान्तौ ख्यातपदेन प्रसिद्धार्थेन योज्यौ । तथा संगतैः पदैरन्विते । अथवा छन्दसि
कथंभूते पदान्विते कथं यथा भवति वृहत्यासं वृहत्यां जातौ आसोऽवस्थानं
यस्येति पदान्वयक्रियाविशेषणम् । यदिवा वृहत्या जात्या हेतुभूतया याऽसौ संप-
च्छोभा तयान्विते । पक्षे वृहत्या गुर्व्या संपदा श्रियान्विते । जगति लोके आ-
ख्याते कीर्तिते । गुरवो विपरीतलकारादयः । आचार्याश्च । शार्दूलविक्रीडितं
छन्दोनाम, सिंहविलसितं च । श्लोकः पद्यं यशश्च । वृत्तं पद्यं शीलं च । इह
यद्यपि श्लोकोऽनुष्टुप्छन्दो लोके प्रसिद्धम् । तथापि केचित्सर्वमपि पद्यं श्लोक-
माहुः ॥ ख ॥
१ 'संवाधो;', 'संबोधो' २ 'सुषूक्तेऽतिसुप्रतिष्ठिते जगति'. ३ 'सात्कृति'. ४ 'स्वार्थे
सद्धंशस्थे विलसत्करकंकणे पुण्यश्लोके'. ५ 'विचार्यमाणे'. ६ 'न वृत्तभङ्ग'. ७ 'लीला'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१२२ नलचम्पूः ।
'महानुभाव, यथेयमनुरागकन्दलैर्रालापैस्त्वयोक्ता, तथा सोऽपि
स्पृहणीयोक्तिभिरभिधातव्यः । यतो नैहैकहस्ततलेन तालिका वाद्यते,
नचैकं तप्तमतप्तेनापरेण लोहं लोहेन संधीयते, नाप्येकं रक्तमरक्तेना-
न्येन वस्त्रमपि वाससा संयोजितं शोभां लभते । केवलं विर्युगलमेव
भवति' इति ॥ क ॥
एवंवादिनीं दमयन्ती परिहासशीलामलपत् ॥ ख ॥
'सखि, किमस्य निष्कारणवत्सलस्यैवमभ्यर्थ्यते ॥ ग ॥
यंस्यास्मासु निरपेक्षः पक्षपातः, स्वभावजं सौर्जन्यम्, अकृत्रिमः
स्नेहभावः, अनुपचरितमुपकारित्वम्, अपरिचया प्रीतिः, अनभ्यासं
सौहार्दम्, अदृष्टपूर्वा मैत्री ॥ घ ॥
तदेवंविधो निर्निमित्तबन्धुः किमभ्यर्थ्यते । केन याच्यन्ते चन्द्रच-
न्दनसज्जनाः परोपकाराय । किंतु कतिपयमुहूर्तमैत्रीर्रञ्जितास्मन्म-
नसो दुस्त्यजस्याकाण्ड एवास्य गन्तुमुत्सहमानस्य किं ब्रूमः । मा गा
इत्येशकुनम्, गच्छेति निष्ठुरता, यदिष्टं तद्विधीयतामित्यौदासीन्यम्,
आदर्शनारप्रियोऽसीति क्रियाशून्यालापः, कस्त्वमेवंविधो दिव्यवाक्प-
क्षिरत्नमित्यप्रस्तुतप्रश्नः, केनार्थीत्यप्रक्रान्तम्, किं ते प्रियमोराचरामीत्यु-
पचारवचनम्, कृतोपकारोऽसीति प्रत्यक्षस्तुतिः ॥ ङ ॥
तन्न जानीमः कल्याणबन्धो, किमुच्यसे । वरमदर्शनमेव र्भवादृ-
शाम्, नतु लूयमानाङ्गावयवदुःसहो दर्शनव्याघातः । वरमनास्वादित-
मेवामृतम्, नतु सकृत्पीत्वा पुनरैलाभदुःखम् ॥ च ॥
अैतः प्रार्थ्यसे भूयो दर्शनार्थम्, इैयं भविष्यति भवत्प्रियस्य कस्या-
प्युपायनमात्रमस्मदनुस्मरणनाटकसूत्रधारी हारलता' इत्यभिधाय नल-
सुररीकृत्य 'महानुभाव, द्वाभ्यां श्रुतोऽसि पान्थार्दॆस्माद्राजहंसाच्च,
द्वाभ्यामुह्यसे वाचा हृदयेन च, द्विकालं स्मर्यसे दिवा नक्तं च, द्वयी
गतिरस्माकमिदानीं त्वं वा मृत्युर्वा' इति द्विसंख्यैसंदेशौर्थमिव द्विगु-
यस्येति ॥ पक्षो मित्राद्यवष्टम्भः पक्षती च । अभ्यासः सामीप्यम् ॥ घ ॥
१ 'नह्येकहस्तेन'. २ 'अपरेण'. ३ 'विफलमेतद्भवति'. ४ 'लीलाम्'. ५ 'यदस्य'.
६ 'सौन्दर्यम्'. ७ 'अनायासम्'. ८ 'परोपकारकरणाय'. ९ 'मैत्रीरस'. १० 'अशकुनः'.
११ 'अप्रस्तुतम्'; 'अप्रस्तुतः'. १२ 'आचरामः'. १३ 'उपचारः'. १४ 'भवादृशानाम्'.
१५ 'अलाभस्तद्दुःखमेव'. १६ 'एष प्रार्थ्यसे'. १७ 'इयं च'. १८ 'द्विधा'.
१९ 'अस्माच्च राजहंसात्'. २० 'द्विःकालम्'. २१ 'त्वं मृत्युश्चेति'. २२ 'संख्या'.
२३ 'संदेशानार्थम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

णीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठितामिव स्वां मूर्तिमतीं तस्य
मुक्तावलीं गले व्यलम्बयत् ॥ क ॥
सोऽपि 'सुन्दरि, सोऽयं स्कन्धीकृतो मया मुक्तावलीच्छलेन
तस्य पुरो भवद्वर्णनाभारः' इत्यभिधाय सह तेन विहंगमगणेनोत्प-
पात ॥ ख ॥
उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां सफललोचनाः,
पश्यतापूर्वं खीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानि-
वाह्वयति, तीव्रप्रभ्रमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्धा-
वकाशा आशा इवाश्वासयति, पक्षिमण्डले तस्मिन्विस्मयोन्मुखी सा
भूपालपुत्री निर्निमेपं निक्षिप्य चक्षुश्चिरमूर्ध्वैवावतस्थे ॥ ग ॥
चिन्तितवती च ॥
'तात तावन्ममाप्येवं न विधत्से प्रजापते ।
पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ ३ ॥
अपिच ।
उड्डीय वाञ्छितं यान्तो वरमेते विहंगमाः ।
न पुनः पक्षहीनत्वात्पङ्गुप्रायं कुमानुषम्' ॥ ४ ॥
इति चिन्तयन्ती गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फार-
लोचना निस्पन्दतया काष्ठकल्पावस्थां दधाना चिरात्सखीभिः संबोध्य
स्वगृहंमनीयत ॥ घ ॥

सोऽपीति ॥ स्कन्धीकृतोऽङ्गीकृतः ॥ ख ॥
उत्पतिते च नभस्तलमिति ॥ दिक्पालानाह्वयतीत्यनेन भाविदिक्पाला-
गमनं सूच्यते ॥ ग ॥
उड्डीयेति ॥ यद्यपि मनोरपत्यं स्त्री मानुषी पुमान्मानुष इति 'स्त्रीपुंसयोरप-
त्यान्ता द्विचतुःषट्पडोरगाः' इति लिङ्गवचनान्मानुषशब्दस्य स्त्रीपुंसस्य वृत्तित्ता,
तथापि नपुंसकलमपि । लिङ्गस्य लोकाश्नयलात् । तथाच भवभूतिः—'अद्वैतं
सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो
रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारस्थितं भद्रं तस्य सुमानुषस्य कथम-
प्येकं हि तद्दुर्लभम्' ॥ ४ ॥

१ 'उत्कण्ठामिव मूर्तिमतीम्'. २ 'संपद्यताम्'. ३ 'लोचनानि; लोचनता'. ४ 'पटले'.
५ 'निक्षिप्तचक्षु'. ६ 'ऊर्ध्वमुखैव'. ७ 'संचिन्तयन्ती'. ८ 'विस्मयेन'. ९ 'विस्फारित-
विलोचना'; 'विस्तारितलोचना'; 'विस्फारितलोचना'. १० 'स्वगृहान्'.

१२४ नलचम्पूः ।
ततः प्रभृति च तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति
वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्र्वति स्वेदाम्भो न स्तम्भः,
मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, संतापशान्तये
तद्गुणादानं न ज्ञानम्, प्रीयते हारो नाहारः, सुखायाङ्गे लग्नमुद्यानप्र-
भञ्जनो न जनः ॥ क ॥
पठति च मुहुर्मुहुरिमं श्लोकम् ॥ ख ॥
विश्राम्यन्ति न कुत्रचिन्ने च पुनर्मुह्यन्ति मार्गेष्वपि
प्रोत्तुङ्गे विलैगन्ति नान्तरतरुश्रेणीशिखापञ्जरे ।
खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया
धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः॥५॥
तेऽपि राजहंसाः शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु,
वनेषु, सुशोभां कौमुदीं दधत्सु, शश्वदनुकृतसौमुद्रवृद्धिषु, चन्द्रमण्ड-
लरूपेष्विव सरःसलिलेषु विर्हरन्तस्तुहिनाद्रिकुञ्जॉंनिव सत्रिपथगान्न-
गनगराग्राम्राग्रहारप॑त्तनप्रदेशानुलङ्घयन्तः कतिपयदिवसैरासेतुरुद्यानं
निषधायाः ॥ ग ॥
तत इति ॥ प्रभञ्जनो वात एवाङ्गे लग्नन्सुखाय न परिजनः ॥ क ॥
विश्राम्यन्तीति ॥ मनसि रथा इव मनोरथाः संकल्पाः । विश्रामादयो रथ-
धर्माः ॥ ५ ॥
तेऽपीति ॥ हंसा वनेषु सरोजलेषु च विहरन्तो नगादिप्रदेशान् व्यतिक्राम-
न्तो निषधोद्यानमापुः । कीदृक्षु वनेषु । शशा अङ्के यस्यास्ताथाभूता धरा भूमिर्येषु ।
तथा सच्छद्मानः पञ्चाननाः सिंहा येषु । शिवस्तु शशाङ्कं चन्द्रं धरति । तथा सह
प्रपञ्चैः पृथग्भागमोपदेशलक्षणैर्वर्तन्ते तथाभूतानि पञ्चसंख्यानि आननानि वक्त्रा-
णि यस्य । सरोजलेषु कीदृक्षु कुमुदानांमियं कौमुदी शोभा ताम् । चन्द्रमण्डले तु
कौमुदी चन्द्रिका ताम् । तद्विशेषणं सुशोभामिति । अनुकरणमनुहरणम् । चन्द्र-
पक्षे अनु पश्चात्कृता सामुद्री वृद्धिर्येन । चन्द्रोद्यो हि जलधिविवृद्धये । न विद्यन्ते
नावो यत्र तदनु, अनु यथा भवति एवं कृतवृद्धिषु । पूरोत्पीडे हि न केऽपि नावं
क्षिपन्तीति । नगनगरप्रदेशान् । कीदृशः । सत्राणि ब्राह्मणादीनां भोजनानि यज्ञा
वा विद्यन्ते येषु । ते च ते पन्थानश्च सत्रिपथास्तानाच्छन्ति प्राप्नुवन्तीति सत्र्रि-
पथगास्तान् । हिमाद्रिनिकुञ्जांस्तु सह त्रिपथगया गङ्गया ( तस्य द्वित्वम् ) ॥ ग ॥
१ 'सुखायालमुद्यान'. २ 'ननु'. ३ 'अपि गलन्ति'. ४ 'समुद्र'. ५ 'रूपेषु सरः';
'रूपेषु च सरः'. ६ 'विहरन्तो बिसशकलानि कवलयन्तः कूजन्तः'. ७ 'निकुञ्जानिव'.
८ 'पुरपत्तन'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

क्रीडितुमारभन्त च स्वच्छन्दम् ॥ क ॥
अथ तेषामन्यतममवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसीमा-
गत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् ॥ ख ॥
'देव, हंसवार्तामनुदिनं पृच्छति देवस्तदद्य काचित् ॥ ग ॥
कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् ।
त्वदरिवधूरिव राजन्नुद्यानस्रोगता हंसी ॥ ६ ॥
अपि च ।
अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि ।
नीरागमना नृपते तव रिपुवनितातये हंसी' ॥ ७ ॥
राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधारयन्स्तोकस्मितसुधा-
धवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः
कथमन्धथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदा-
स्ते ॥ घ ॥
तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूककुसुमकान्तदन्त-
च्छदा नीलांशुकपटीं परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा
हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव,
सोऽयं कथमप्यागतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं
राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादा-
रविन्दयोर्निधाय राज्ञः प्रणाममकरोत् ॥ ङ ॥
कुरुत इति ॥ राजन् नृप, उद्यानतडागगता हंसी नालस्य बिसकाण्डस्य कव-
लनं ग्रासं कुरुते । तथा गर्भे मध्ये यो जम्बालः कर्दमस्तं च दूरं परिक्षिपति ।
वधूस्तु उद्यानेन पलायनेन सरोगता रोगवत्ता यस्याः । तथा अलकस्य वलनं न
कुरुते । गर्भजातं बालं दूरे क्षिपति । भीत्या हि गर्भः पतति ॥ ६ ॥
अभिलषतीति ॥ नालं कमलकाण्डमशनमाहारं वाञ्छति । स्वपित्यपि नूत-
नाभ्जपत्रशय्यायाम् । नीरे आगमनं यस्याः । रिपुवनिता तु नीरागं वैराग्योपेतं
मनो यस्याः । अतएवालमत्यर्थमशनं नाभिलषति । नापि कमलदलतल्पे शेते ।
वा अथवा ॥ ७ ॥
तावदिति ॥ यावत्तद्वार्तयास्ते नृपस्तावत् । शरदुपमा वनपालिका प्रविश्य
देवेत्यभिधाय तं राजहंसं राज्ञः पादयोर्निधाय प्रणामं चकार । नीलोत्पलदलादीनि
लोचनादीनामुपमानानि । दन्तच्छद ओष्ठः । नीलमंशुकं वासस्तस्य पटी उत्त-
१ 'तेषां मध्येऽन्य'. २ 'पङ्कजपुञ्जपञ्जरे'. ३ 'राजहंस'. ४ 'दिवसम्'. ५ 'यतते'.
६ 'अवधार्य सावसरं प्रशस्य स्तोक'. ७ 'राजहंसाः'. ८ 'अकथयनातः'.

१२६ नलचम्पूः ।
राजापि 'सारसिके, साधु कृतम् । तत्क्रियतामशून्यः स्वाधिकारः ।
गम्यतामिदानीं १यथास्थानम्' इत्यभिधाय तुष्टिप्रदानपरितोषितां तां
लवङ्गिकासहितां विसृज्य, विरलीकृतपरिजनः प्रत्युज्जीवनौषधमिव
प्राणरक्षाक्षरमिव स्वस्तीकरणमणिमिवो२श्वासनाभेषजमिवान्लादनकन्द-
मिव तमग्रेस्थितमानन्दनिःस्पन्दपक्ष्मपालिना चिरं चक्षुषा३ऽवलोक्य
बहु मानयन्मुग्धस्मितेन स्वागतमपृच्छत् ॥ क ॥
सोऽपि 'देव, ४दर्शनामृतमनुभवतो ममाद्य स्वागतम्' इत्यभिधा-
योपश्लोकयांचकार ॥ ख ॥
'देव,
प्रसृतकमलगन्धं नीरसंसक्तकण्ठं
धृतकुवलयमालं जातभङ्गोर्मिकं च ।
त्वयि कृतरुषि भीतास्तावदास्तां तडागं
निजमपि च कलत्रं शत्रवो नाद्रियन्ते ॥ ८ ॥
किं चान्यत् ।
असमहरिततीरं विस्रजम्बालशेषं
स्फुटकुमुदपरागोल्लाससंपद्वियु५क्तम् ।
रीयम् । परिपाके हि शालिगौरः स्यादतस्तन्मञ्जरीवद्गौरमङ्गं यस्याः । प्रवृद्धाः
काशाः काशपुष्पाण्येव हासो यस्याः ॥ ङ ॥
प्रसूतेति ॥ प्रसृतः कमलानामब्जानां गन्धो यत्र । तथा नीरेण संसक्तो
युक्तः कण्ठः पालिप्रान्तो यस्य । तथा धृता कुवलयानां नीलोत्पलानां माला येन ।
तथा जाता उत्पन्ना भङ्गास्तरङ्गा ऊर्मयः कल्लोला यत्र । एतच्चतुष्टयमपि तडागा-
दरहेतुः । देव, त्वयि रुष्टे यद्भीताः शत्रवस्तडागमेवंविधं नाद्रियन्ते । यावत्क-
लत्रमपि । तत्किंविशिष्टम् । प्रसृतः के मूर्ध्नि मलगन्धो यस्य । स्नानाभावात् । तथा
निर्गतो रसो वक्त्रामृतकला शृङ्गारादिर्वा यत्र । तथा सक्तोऽन्तर्लग्नः कण्ठो यस्य ।
तथा धृता कुत्सितवलयानां सुवर्णाद्यभावात्काचादिवलयानां माला येन । तथा
जातभङ्गा भग्ना ऊर्मिका अङ्गुलीयकं यस्य ॥ ८ ॥
असमेति ॥ हरित्पतेः सिंहपद्धतेः सकाशादीरः क्षेपस्त्रासो हरिततीरः, असमो
हरिततीरो यस्य । अथवा मा लक्ष्मीस्तया सह समं, न सममसममश्रीकम् । तथा
हरित्तीवार्नरपङ्कीरीरयति क्षिपति । पश्चात्कर्मधारयः । तथा विगतस्रजं विगतमा-
ल्यम् । तथा बालशेषं हतमन्त्र्यादित्वात् । तथा स्फुटं कु कुत्सा यस्य तं स्फुटकुम् ।
१ 'यथावस्थानम्'; 'यथास्वस्थानम्'. २ 'आश्वासन'. ३ 'विलोक्य'. ४ 'त्वद्दर्शन'.
५ 'विमुक्तम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १२७
वयमिह बहुशोकं दृष्टवन्तो वनान्ते
त्वदरियुवतिलोकं ग्रीष्ममासे सरश्च¹ ॥ ९ ॥
राजापि 'श्लेषोक्तिनिधे, तथा गृहीत्वास्मन्मनो गतवानसि, यथा
सुखसंवित्तिशून्याः संतापारम्भिणो रणरणकाङ्कुरप्ररोहकाः कँथमप्य-
स्माकमेतेऽतिक्रान्ता दिवसाः ॥ क ॥
तत्कथय। का नामाभिनन्दनीया सा दिक्, यस्यां विहारमकरोः ।
के ते सफलचक्षुषो जनाः, यैश्चिरमालोकितोऽसि । के लब्धसुभाषिता-
मृतसास्वादाः, यैः संभाषितोऽसि । के प्राप्तप्राणितव्यफलाः, यैः सह
गोष्ठीमनुष्ठितवानसि ॥ ख ॥
स्पृहणीयसंगम, गते त्वयि तर्कशास्त्रमिव प्रस्तुतपरमोहम्, व्याक-
रणमिव भूतनिष्ठमिदमस्माकमासीन्मनः ॥ ग ॥
तँद्देोहि' इत्यभिधाय स्वयं करकमलतलेनोत्क्षिप्य सस्नेहं प॑रामृ-
ष्टन् ॥ घ ॥
सोऽपि 'एष महान्प्रसादो यदेवमनुकम्पतेऽस्मान्देवः' इत्यभि-
धाय गमनादारभ्य दमयन्तीदर्शनालापव्यतिकरमशेषं हारलंतार्पणप-
र्यन्तमाचचक्षे ॥ ङ ॥
आख्याय च चरणेनैकेन ग्रीवाग्रादाकृष्य तां तथास्थितामेव मुक्ता-
वलीमिँदमवादीत् ॥ च ॥
तथा उद्गतोपरागस्य रागाभावस्योल्लासो यस्य । स चासौ संपत्तिद्युक्तश्च । अथवा
स्फुटा कुत्सितोदरभरणादिमात्रजा सुधस्य स स्फुटकमुत् । तथापगतो रागोल्लासो
यस्य । स्फुटकमुच्चासावपरागोह्लासश्च स्फुटकमुदपरागोह्लासः, स चासौ संपत्तिद्यु-
क्तश्च । बहुः शोको यस्य । ईदृशं त्वदहितस्त्रीजनमपश्याम । ग्रीष्मे सर इव ।
तदपि कीदृक् । समं हरितं तीरं यस्य तत्समहरितीरं, न समहरितीरमसमह-
रितीरं, विषमं शुष्कं च तीरं यस्येत्यर्थः । तथा विस्रं आमगन्धिको जम्बालः
कर्दम एव शेषो यत्र । तथा विकसित कुमुदरेणूल्लाससमृद्धिरहितम् । नास्ति कं
जलं यत्रेत्यकम् । बहुश इति क्रियाविशेषणम् ॥ ९ ॥
स्पृहेति ॥ प्रकृतोत्कृष्टमोहं मनः, शास्त्रं तु प्रस्तुततः परम ऊहो वितर्को यत्र ।
भूता संजाता निष्ठा क्लेशो यत्र मनसि, व्याकरणे तु भूतेऽतीतकाले निष्ठासंज्ञः
प्रत्ययो यत्र ॥ ग ॥
१ 'संपत्ति'. २ 'कथमप्येते'. ३ 'समम्'. ४ 'प्रमृत'. ५ 'तदेहि'. ६ 'परामृशत'.
७ 'एवम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१२८ नलचम्पूः ।
'उन्मादिनी मदनकार्मुकमण्डलज्या
सौभाग्यभाग्यपरंपरवैभववैजयन्ती ।
मुक्तावलीकुलधनं नरनाथ सैषा
कण्ठग्रहं तव करोतु भुजेव तस्याः ॥ १० ॥
अपिच ।
प्रेमप्रपञ्चनवनाटकसूत्रधारी
मूर्ता मनोभवनृपस्य नियन्त्रणाज्ञा ।
तस्याः स्वयंवरपरिग्रहेहेतुरेषा
हारावली हृदि पदं भवतः करोतु' ॥ ११ ॥
राजा तु तामादाय निरूप्य च चिरं चिन्तयांचकार ॥ क ॥
'आनन्दिसुन्दरैगुणामलकोपमान-
मुक्ताफलप्रचयमद्भुतमूद्वहन्ती ।
एषा च सा च नयनोत्सवकारिकान्ति-
श्चेतोहरा हृदि पदं न करोति कस्य' ॥ १२ ॥
इति चिन्तयन्द्विगुणामेकगुणीकृत्य पुनः सस्पृहमैक्षत ॥ ख ॥
हंसस्तु विहस्य परिहासमकरोत् ॥ ग ॥
'तया दत्ता मयानीता स्वयमाह्लादिनी त्वया ।
इत्यनेकगुणाप्येषा कथमेकगुणीकृता' ॥ १३ ॥
राजापि परिहासेनान्तःसूत्रं दर्शयन् 'पक्षिपुंगव, किं न पश्यस्ये-
क॑र्गुणैवेयम् ॥ घ ॥
आनन्दीति ॥ गुणस्तन्तुः शौर्यादिश्च । आमलकोपमानानां मुक्ताफलानां
मौक्तिकानां प्रचयं समचायम् । अद्भुतमाश्चर्यकारिणम् । वहन्ती । दमयन्ती तु
मलातपापान्मालिन्याद्वा, कोपात्क्रुधो, मानाद्रर्वात्साहश्याद्वा मुक्ता भ्रष्टा । तथाद्भुतं
चित्रं फलानां प्रचयं वहन्ती परिणेतुरिति शेषः । चेतोहरा मनोज्ञा । अन्यत्र चेत-
सि हरोऽस्याः । एवम्भूतेयं मुक्तावली सा च कस्य हृदि वक्षसि चेतसि च,
पदमवस्थानं न करोति, सर्वस्यापि करोत्येवेत्यर्थः ॥ १२ ॥
तया दत्तेति ॥ गुणाश्चारुतादयस्तन्तुसरिका च ॥ १३ ॥
१ 'भर'. २ 'दूति'. ३ 'मुद्गतम्'. ४ 'आवहन्ती'. ५ 'आह्लादिता'; 'आसादिता'.
६ 'गुणेयम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १२९
अथवा ।
कः करोति गुणवान्गुणसंख्यां
श्लाघ्यजन्ममहसः स्फुटमस्याः ।
कुम्भिकुम्भपरिणाहिनि तस्याः
स्वैरमास्यत यया कुचयुग्मे ॥ १४ ॥
इत्यभिधाय नीत्वा च निजकण्ठकन्दलम्, 'इहास्ते सा तव पूर्वप्र-
णयिनी' इत्यन्तःस्थितां दमयन्तीं दर्शयितुमिव हृन्मध्यवर्तिनीं ताम-
करोत् ॥ क ॥
कृत्वा च किंचिदनुच्चस्मितं मधुरमधुरया वाचा 'विहंगपुंगव, पुनः
कथ्यतां कीदृशी सा, कीदृग्रूपा, किं¹ च वयः, कीदृशी² लावण्यसंपत्,
को विनोदः, कीदृशं वाग्वैदग्ध्यम्, किं प्रियम्, का गोष्ठी, इति श्रुता-
मप्यपूर्वामिव तद्वार्तामादरेण पृच्छन्ना³गच्छंश्च चटुलकरकृतशरसंधा-
नस्यानवरतविरचिताद्रुतभ्रमणकर्मकार्मुकवलयस्य लक्ष्यतां म⁴करके-
तोरविदिताप्रक्रमानतिबहून्वेलाँ⁵लवानवतस्थे ॥ ख ॥
स्थिते च विभूष्य मध्यं⁶ नभोभागं भगवति भासुर⁷भासि भास्वति,
श्रवणपुटपथमवतरति च प्रहरावसानप्रहारभांकारिभेरीरवे, 'वयस्य,
विश्रम्यतामिदानीम⁸मन्दमन्दारतरुपरिकरतरोधसि मन्दिरोद्यानारवि-
न्ददीर्घिकायामेवं⁹ प्रार्थ्यसे च न गन्तव्यमविसर्जितेन त्वया पूर्ववत्'
इति नियम्य तं राजहंसं स्वयमप्याह्निको¹⁰यदतिष्ठत् ॥ ग ॥
एवं च
शिथिलितसकलान्यव्यापृतस्तस्य राज्ञः
परिहृतनिजवन्ध्योर्यान्ति हंसेन सार्धम् ।
दिनमनु दमयन्तीवृत्तवार्ताविनोदै-
रविदितपरिवर्ता वासराः शारदीनाः ॥ १५ ॥
कः करोतीति ॥ परिणाहो विशालता ॥ १४ ॥
शिथिलितेति ॥ दिनमनुदिनं लक्षीकृत्य । एतेन रात्रिन्निषेधः । पक्षिणो
हि निशि नीडे निलीयन्ते । तापहेतवोऽपि दिवसा हंसवार्तया अविदितपरिवर्ताः।
शरदि भवं शारदं रूपमुष्णलातिशयादि तद्दियते यस्यासौ शारदी इनो येषु ते
शारदीनाः ॥ १५ ॥
१ 'कीदृग्वयाः', 'किंवयाः' २ 'कीदृश' ३ 'श्रुतां श्रुतामपि'; 'अतिभूयाः श्रुतामपि',
४ 'अपृच्छत्'. ५ 'च मकरः'. ६ 'कालवेला'. ७ 'मध्यम्'. ८ 'भास्वर'. ९ 'विश्राम्यताम्'.
१० 'एष'. ११ 'अपि माध्याह्निकाय'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

॰१३०॰ नलचम्पूः ।
एकदो१ प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुं-
सुम२कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनैः३
शचीदयितदिशि, मन्द४मुन्मिषत्कमलमुकुलोच्छलच्चटुलालिचक्रवालक-
लकलेनोन्निद्रितेन तन्द्रामुद्रितोन्मिषच्चक्षुषा चलच्चञ्चूकोटिकण्डूयन-
विरामधुतपक्षरोमराजिना राजहंसकदम्बके५नानुगम्यमानो विहाय वि-
हंगमः सरस्तीरम्, उपसृत्य६ किंनरमधुर७गीतध्वनिविनिद्रितमावश्यका८-
वसाने राजानम्, इदमवादीत् ॥ क ॥
'देव, विज्ञापयामो देवस्य दर्शनम्, अनालेप्यं चन्दनम्, अस्पर्श
कर्पूरपांसुपटलोद्धूलनम्, अपातव्यममृतम्, अनास्वाद्यं रसायनम्,
अलेह्यं९ मधु । कुतः किलैतदनुभवतामस्माकमपि वर्षसहस्रेणापि परि१०-
तोषः । किं तु तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहो दुस्त्यजाश्च
जल११जन्मनोऽपि जन१२जन्मभूमयो भवन्ति । अवगमिष्यति च विश्रब्धमे-
तत्सर्वमपि देवो यादृशा येन१३ च जन्मान्तराराधनोपरोधेन१४ प्रेषिता
वयम् । अनवसरः खल्वयमस्य कथाप्रक्रमस्य । तदादिशतु देवोऽस्मा-
नामनाय । न च प्रस्तुतानुचरालापेषु वयं विस्मरणीयाः । किमन्यज्ज-
न्म च जीवितं च तदेव श्लाघ्यं१५मन्यामहे, यत्र१६ प्रसङ्गेन भवादृशा अ-
नुस्मृतिं कुर्वन्ति । तदेष प्रस्थानप्रार्थनाप्रणामः' इत्युक्तवन्तमिममवनि-
पालः कथ१७मपि विसर्जयामास१८ ॥ ख ॥
गते च तस्मिन्नविस्मरणी१९योपकारे कादम्बकदम्बकेश्वरे, श्रवणप्रणा-
लिकया प्रविश्य मानसं२० सरस्तरलयन्त्यां विदर्भराजहंससुतायां, प्रह-
रति प्रत्यङ्गमनङ्गधनुष्के, समीपवनविकासिकुन्दमकरन्दास्वादमदमे-
एकदेति ॥ नीलाञ्जनिका तापिच्छः ॥ क ॥
देवेति ॥ आस्तां मनुष्याणाम्, अस्माकमपि पक्षिजातीयानामपीत्यपिशब्दार्थः।
तिरयति तिरस्करोति ॥ ख ॥
गते चेति ॥ तस्मिन्हंसद्यून्दनेतरि । श्रवणमाकर्णनमेव प्रणाली जलमार्ग-
स्तया । कृत्वा मानसं चेत एव सरस्तडागम् । अथ च मानसाख्यं देवतडागं कर्म-
१ 'एकदा तु'. २ 'कुसुम्भ'. ३ 'शनैः शनैः'. ४ 'मन्दमन्दम्'. ५ 'कदम्बेन'.
६ 'उपगम्य'. ७ 'मधुमधुर'. ८ 'आवश्यकशौचावसाने'. ९ 'अनालेह्यम्'. १० 'परितः
परितोषः'. ११ 'जलजन्मानोऽपि'; 'जलजनोऽपि'. १२ 'निजजन्म'. १३ 'येच येन'.
१४ 'राधनोपरोधिता'. १५ 'वयं श्लाघ्यम्'. १६ 'यत्र प्रस्तावेन भवन्तोऽस्मृतिं कुर्वन्ति';
'यत्र प्रसङ्गेन भवादृशा अनुस्मृतिं कुर्वन्ति'. १७ 'कथंकथमपि'. १८ 'विसर्जयांचकार'.
१९ 'अस्मरणीय'. २० 'मानससरः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १३१
दुरगिरां गच्छति श्रवणपथमतिमधुरे मधुलिहां झंकारे, आकर्णपूरीकृ-
तकार्मुकगुणे रणरणकारम्भिणि तत्रावसरे ॥ क ॥
आविर्भूतविषादकन्दमसमव्यामोहमीलन्मन-
श्चिन्तोत्तानितनिर्निमेषनयनं निःश्वासदग्धाधरम् ।
जातं स्थानकमुत्सुकस्य नृपतेस्तत्तस्य यस्मिन्नभू-
त्प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे रसाः ॥१६॥
ततश्च वृश्चिकदंशदुःसहव्यथामवस्थामनुभवन्निव, १कण्टकैश्चरणम-
र्मणि विध्यमान इव, मुहुर्मुहुर्मुर्मुर२पुञ्जराजीवाङ्गानि धारयन्नुमग्रीष्मा-
निलोल्लोलैरिवानिङ्ग्यमानो, ३मनागपि न क्वापि शर्म लेभे ॥ ख ॥
तथाहि ।
४श्च्योतच्चन्द्रमणि५प्रणालशिशिराः सौगन्ध्यरुद्धाम्बरै-
र्निर्गच्छन्नवधूपधूमपटलैः संभिन्नवातायनाः ।
सौधोत्सङ्गभुवो विकीर्णकुसुमाः पूर्णेन्दुरश्मि६श्रिया
रम्यायां निशि नो हरन्ति हृदयं हृद्यं किमुद्वेगिनाम् ॥ १७ ॥
अपि च ।
तापन्नम् । विदर्भराज एव हंसस्तस्य पुत्र्यां तरलयन्त्यां सत्याम् । तथा श्रवणीकृ-
तधनुर्गुणे अनङ्गधनुर्धरे । तथा मधुलिहां मधुरगिरां झंकारे कर्णे गच्छति औत्सु-
क्यकारिणि वावसरे सति । ‘हंसो विहंगभेदे स्यान्निर्लोभनृपतावपि’ ॥ क ॥
आविरिति ॥ उत्कण्ठितस्य नृपतेस्तत्स्थानकमवस्थान्तरं जातम्। यत्र (स्थान-
के ) पञ्चमे पञ्चमाख्ये रागविशेषे रागो रसवत्ता स एव प्रियः । शेषास्तु रसा
विषयानुरागा रिपवः ॥ १६ ॥
ततश्चेति ॥ तापातिरेकात्प्रतिक्षणं क्षणमात्रशुष्कम्लान्मुर्मुरः पुञ्जो येषां तानि
मुर्मुरपुञ्जानि, तथाभूतानि राजीवानि येष्वङ्गेषु तानि । मुर्मुवस्तुषवह्निः । यद्विश्वप्र-
काशः-‘मुर्मुवस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि' ॥ ख ॥
श्च्योतदिति ॥ क्षरच्चन्द्रकान्तप्रणालशीताः । सुगन्धितनभोभिर्धूपधूमैर्मिश्रग-
वाक्षाकीर्णपुष्पाः । प्रासादभूमयः परिपूर्णचन्द्रेण रमणीयायामपि रात्रौ चेतो हरन्ति ।
उद्वेगायेत्यर्थः । राज्ञ इति शेषः । युक्तं चैतत् । दुःखितानां किं हृद्यं । न किमपीति
भावः ॥ १७ ॥
१ 'भिन्न इव'. २ 'पुञ्जमाक्षीव'. ३ 'मनागपि क्वापि शयितो विप्रबुधो वा न शर्म'.
४ 'श्चोतन्'. ५ 'प्रणालि'. ६ 'श्रियो'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१३२ नलचम्पूः ।

हृद्योद्यानसरस्तरङ्गशिखरप्रेङ्खोलनायासिताः
संभोगश्रमखिन्नकिंनरवधूस्वेदोदबिन्दुच्छिदः ।
सायं सान्द्रविनिद्रकैरववनान्यन्दोलयन्तः शनै-
रङ्गेऽङ्गारसमाः पतन्ति पवनाः प्रालेयशीता अपि ॥ १८ ॥
तदाप्रभृति चास्य प्रायः प्रीतिरभूद्दाक्षिणात्यजनेष्वेव, पुलकमकरो-
न्नामापि विदर्भदेशस्य, श्रुतापि श्रवणयोः सुखमजीजनद्दक्षिणा दिक्
॥ क ॥
किं बहुना ।
लिप्तेवामृतपङ्केन स्पृष्टेवानन्दकन्दलैः ।
आसीद्दिग्दक्षिणा तस्य कर्णयोर्मनसो दृशोः ॥ १९ ॥
दमयन्त्यपि हंसदर्शनदिवसादारभ्य भ्रमद्भृङ्गकुलकलकलोन्नादि-
तपर्यन्तेषु, प्रत्यग्रोल्लूनपुष्पपल्लवास्तरणेषु, विचलद्विनोदविहंगेषु विह-
रति नासन्नोद्यानलतामण्डपेषु, न च विकचकुवलयकहारकुशेशयै-
सारवारिणि रणच्चटुलचञ्चरीकचक्रवाकचक्रे क्रीडति क्रीडासरसि, न
च स्पृशति पाणिनापि माणिक्यमालामण्डनानि, न च रचयति रुचि-
रालकवल्लीर्भङ्गान्तरालेषून्मिषत्कुसुमविन्यासान् 'न च कचिदुच्चहंस-
तूलिकातल्पेऽपि कोमलकपोलावष्टम्भभाजि निद्रासुखमनुभवति, केव-
लमधिपाण्डुगण्डस्थलस्थापितपाणिपल्लवा प्रेषयन्ती प्रतिक्षणमुत्तरस्यां
दिशि दृशं, तद्देशागतानागने पक्षिणोऽपि सस्पृहं पश्यन्ती, तत्रत्यान-
ध्वगानपि बन्धुबुद्ध्यालापयन्ती, तन्मण्डलागताय मरुतेऽप्यपनीतोत्त-
रीयांशुका हृद॑यमर्पयन्ती दिनं दिनमनङ्गेनाभ्यभूयत ॥ ख ॥
तथाहि ।
लास्यं पांसुकणायते नयनयोः, शल्यं श्रुतेर्वल्लकी,
नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः ।
तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा
प्राणत्राणनिबन्धनं प्रियकथा यस्यामभूत्केवलम् ॥ २० ॥


हृद्योद्यानेति ॥ रम्यतडागोर्मितरलनेन खेदिताः । तथा किंनरीस्वेदजलवि-
न्दुमुषः । वनानि कम्पयन्तः । शनैरङ्गे लगन्तो हिमसमा अपि वायवोऽङ्गारा इव
पतन्ति ॥ १८ ॥
---------------------------------------------
१ 'स्पृष्टेव'. २ 'दिनात्'. ३ 'कुरेशये सार'; 'कुशेशयचारु'. ४ 'स्पृहयति'.
५ 'रुचिता'. ६ 'भङ्गान्तरेषु'. ७ 'तूली'. ८ 'अधिकपाण्डु'. ९ 'गण्डपालिनिहित'.
१० 'स्वयं हृदय'.

पञ्चम उच्छ्वासः । १३३
एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवर्धितानुरागयोः च१लन्त्य-
ङ्गानि न मनोरथाः, परिवर्तते चक्षुर्न हृदयम्, कृशतामेत्यङ्गयष्टिनो-
त्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न
निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः ॥ क ॥
किं बहुना ।
कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलै-
र्दो२स्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्र३स्तरे ।
मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो४-
र्यस्यां चन्दनचन्द्रचम्पकद५लश्रेण्यादि वहीयते ॥ २१ ॥
आसीच्च तयोः कृतान्योन्यगुणप्रशंसालापजपयोः पुनरुक्तावर्तित-
नामधेयस्वाध्याययोः संकल्पसमागमविबद्ध६ध्यानयोः स्मरानले खं७ हृदयं
जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न८ योगः॥ख॥
कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्का-
मं९पहसितसुरासुरसुन्दरीरूपश्रियं शृङ्गाररस१०राजधानीमवलोक्य यौव-
नावस्थां दमयन्त्याः ‘कोऽस्याः किलानुस्पः पतिर्भवेत्’ इति, चिरं
चिन्ताकुलो विदर्भेश्वरः स्वयं स्वं११यंवरधर्मप्रारम्भाय समं मन्त्रिभिर्म-
न्त्रनिश्चयं चकार ॥ ग ॥
न चिराच्च प्रा१२च्यप्रतीच्यादीच्यदाक्षिणात्यनरपतिनिम१३न्त्रणे समा-
वृतान्प्रगल्भप्रौ१४यान्प्रधानप्रेष्यान्प्रेषयामास ॥ घ ॥
एवमिति ॥ तां दिशं प्रति चलन्त्यभिमुखीभूय निवर्तन्ते । एवं चक्षुरपि
॥ क ॥
आसीच्चेति ॥ कृतोऽन्योन्यगुणप्रशंसालाप एव जपो जाप्यं यकाभ्याम् । पुन-
रावर्तितं नामैव स्वाध्यायो ययोः । संकल्पे चित्तकर्मणि यः समागमस्तत्राबद्धं
ध्यानं यकाभ्याम् । कामाग्नौ स्वचेतो होमयतोः । तप्यमानयोः । मौनिनो-
रप्यनयोर्वियोगो विरह एवासीत् । न योगः । योगः संबन्धोऽध्यात्मविषयश्च ।
अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनं व्रतं च कुर्वतो योगलाभः स्यात् ।
तप्यमानेति संतापपक्षे कर्मकर्तरि, तपःपक्षे तु कर्तरि, तपेः कर्मविषयत्वात् ॥ ख ॥
१ ‘स्खलन्ति’; ‘वलन्ति’. २ ‘आकीर्णे’. ३ ‘प्रस्तरे’. ४ ‘द्वयोः’. ५ ‘वन’. ६ ‘अव-
बद्ध’. ७ ‘स्वहृदयम्’. ८ ‘नियोगः’. ९ ‘उपहसित’. १० ‘रसराजराजधानी’. ११
‘स्वयंवरकर्म’; ‘स्वयंवरधर्मकर्म’. १२ ‘प्राच्योदीच्यावाच्यदाक्षिणात्य’. १३ ‘निमन्त्रणाय’.
१४ ‘प्रश्रयान्’.
१२

१३४ नलचम्पूः ।
प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमास-
सखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् ॥ क ॥
'भूपालामन्त्रणे तात तथा संचार्यतां यथा ।
नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम्' ॥ २२ ॥
सोऽप्यवगतश्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् ॥ ख ॥
'केनापि व्यवहारेण कयापि प्रौढलीलया ।
करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम्' ॥ २३ ॥
तदायुष्मति सुखमास्ताम्' इत्यभिधाय गतवान् ॥ ग ॥
अथ नातिचिरेणागतस्तया रहः समाहूय स ब्राह्मणः सोमशर्मा
नर्मलापलीलया दमयन्त्या बभाषे ॥ घ ॥
'आहूतोदीच्यभूपेन तातादेशविधायिना ।
नालीकापि त्वया वार्ता विद्वन्नावेदिता मम' ॥ २४ ॥
सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय
विहसन्नाख्यातुमारब्धवान् ॥ ङ ॥
इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमताऽभ्रंकषानेक-
कूटकोटिस्थपुटितकटकस्य निषधनाम्नो महीध्रस्य दक्षिणारण्यस्थलीषु
मृगयासक्तः ॥ च ॥
माद्यन्मांसलतुङ्गपुंगवककुत्कूटांनतांसस्थलः
कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुविम्वाननः ।
एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृ-
दृष्टे नष्टनिमेषया मम दृशा लब्धं फलं जन्मनः ॥ २५ ॥
तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषमाभाषितो-
ऽस्मि ॥ छ ॥
भूपेति ॥ तातेति संबोधने । नृपनिमन्त्रणे तथा संचार्यतां, यथा आगमाव-
गतिः शास्त्रप्रतीतिर्लोप्या न स्यादिति बाह्यार्थः । इष्टार्थस्तु नलनामापि नृपो यथा-
गमनबुद्धिर्भवेदिति ॥ २२ ॥
केनेति ॥ आगमस्य शास्त्रस्य । अर्थे लङ्घनं न करिष्यामीति बाह्यार्थः । इष्टा-
र्थस्तु आगमनस्यार्थे रभसेनाौत्सुक्येन घनं निबिडं नलाल्यं नृपं करिष्यामि आने-
ष्याम्येवेत्यर्थः ॥ २३ ॥
आहूतेति ॥ आकारितोत्तरनृपेण त्वया विद्वन्नलीकापि वार्ता न कथितेति बा-
ह्योऽर्थः । आन्तरस्तु नलस्येयं नाली वार्ता सा कापि त्वया नाभ्यधायि ॥ २४ ॥
१ 'संचय्र्यताम्'. २ 'उत्तरम्'. ३ 'गुर्वा'. ४ 'परिभ्रमता सवाञ्न'. ५ 'क्रान्त'.

मयापि कृतोचितालापेनोक्तम् ॥ क ॥
'यथेयमाकृतिर्लोकलोचनानन्ददायिनी ।
तव भद्र तथा सत्यं सत्यागोऽसि नलोभवान्' ॥ २६ ॥
एवमुक्तः सोऽपि मनाङ्मुग्धस्मितमेवोत्तरं कल्पितवान् ॥ ख ॥
अथ प्रथमवयोविभूषिताङ्गस्तुङ्गतुरंगमारूढो गाढग्रंथितपरिकरः
करेण कोदण्डमाकलयंस्तद्वितीयो युवा तमेव देशमंगतवान् ॥ ग ॥
आगत्य च बालनीलनलशालिनि शिलोच्चयस्थलीप्रदेशे कांचित्का-
ञ्चनकुम्भकान्तिकुर्चकंठलुलितर्तंकुसुममालिकामवलोकयन्निदमवादीत्
॥ घ ॥
'युवराज, पश्य ।
नद्यास्तीरे विदर्भायाः कापि गोपालवालिका ।
गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम्' ॥ २७ ॥
एतदाकर्ण्य मयाप्युक्तम्— 'महानुभाव, न केवलमियंमैन्यापि
काँपि कापि' इति ॥ ङ ॥
इत्युक्तवन्तं मामवलोक्य भावितार्थः स पुनः सस्मितमवो-
चत् ॥ च ॥
'इयं च सा च


यथेयमिति ॥ सन् शोभनस्त्यागो यस्य । तथा न लं लोभवान् । असीत्य-
व्ययं युष्मदर्थे । पक्षे सत्यागस्त्वम् । तथा नलाख्यो भवान् इति पृथग्वाक्यद्वयम् ।
एकवाक्यतायां तु भवानसीति मध्यमपुरुषो दुर्लभः ॥ २६ ॥
नद्या इति ॥ विशिष्टदर्भाया नद्यास्तीरे । काप्यनिर्दिष्टनामा । गोपी । वरं
श्रेष्ठं नलं ( डं ) तृणविशेषं । केदारीकृत्य । गा धेनूः । समुत् सहर्षा । चारयति ।
श्लेषवक्रोक्त्या तु विदर्भाभिधानाया नद्यास्तीरे, कापि महनीयमहिमा, गोपालस्य
भूपस्य, बालिका सुता, नलं राजानं, वरं वरयितारं, क्षेत्रीकृत्याश्रयीकृत्य, गिरः
समुच्चारयति । वर ईप्सायाम्, वर्यत इति वरः । क्षेत्रं सद्भूमिः ॥ २७ ॥


१ 'ततो मया'; 'मया च'. २ 'कृतोचिताचारालापेन'. ३ 'प्रथम वयोविशेषभूषि';
'प्रथमवयोभू'. ४ 'तुरङ्ग'. ५ 'ग्रन्थिग्रथितप'; 'ग्रथित'. ६ 'तमेवोद्देशम्'. ७ 'आया-
तवान्'. ८ 'नलशाद्दलशालि'. ९ 'कान्त'. १० 'कुचकुम्भ'. ११ 'लुलित'.
१२ 'मालिकां बालिका'; 'मालिकां गोपबालिकाम्'. १३ 'इयमेवान्यापि'. १४ 'कापि
कापि नद्यास्तीरे विदर्भायाः कापि गोपालबालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं
वरमित्युक्तवन्तं'. १५ 'पुनः पुनः'.

१३६ नलचम्पूः ।
अनुभवतु चिराय चञ्चलाक्षी-
रसपरिणामफलानि गोपपुत्री ।
अपसरति महोद्यमेन यस्याः
कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥
आस्तां तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच
कियद्धाद्यापि वर्त्मातिक्रमितव्यम्' इति ॥ क ॥
अथ कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः,
कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यन्वयु-
क्तः स पुनरुक्तवान् ॥ ख ॥
'अयमसो सौम्य, समस्तशर्स्त्राशास्त्रकोविदो विदारितवैरीवैरसेनि-
र्नलैः । किमन्यदहमपि श्रुतशीलो नामास्यैवाज्ञाकारी, इत्यभिधाय
विश्रान्तवान् ॥ ग ॥
नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः,
समर्थ्य चैं स्वयंवरआमन्त्रणमुत्सुकतया तत्कालमेवोड्डीर्य गन्तुमीहमानः
संभाषितैन स्मितेनैर्नालोकितेन च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि
प्रतिग्राह्य च वलादनर्घ्याणि स्वाङ्गाभरणानि चिराँदेव व्यसर्ज-
यत् ॥ घ ॥
स्वयं च मृगयाव्यसनितया मृगयालुभिः सह ॥ ङ ॥
धीरं रङ्गन्तमारुह्य सारं रंहसि वाजिनम् ।
हारं रम्यं गले विभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥
अनुभवत्विति ॥ गोपालिका क्षीरस्य सपरिणामानि परिणतानि यानि फला-
नि क्षैरेयीदधिघृतप्रभृतीनि तान्यनुभवतु चिराय । चञ्चला लोला गोचारणवशात् ।
यस्याः संप्रत्येष धेनुरागो । महोद्यमेन हेतुना । कथमपि केनापि प्रकारेण । न
निवर्तते । श्लेषे तु गोपपुत्री भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी लोलनेत्रा
शृङ्गारादिरसपरिपाकफलान्यपभुङ्क्ताम् । यस्याः संप्रति नैषधे नले महोद्यमेऽनुरागः
प्रेमबन्धः । कथमपि नापसरति ॥ २८ ॥
धीरमिति ॥ धीरमत्रासं रङ्गन्तं वलगन्तं रंहसि वेगे सारमुत्कृष्टं वाजिनमश्व-
मारुह्य कण्ठे हारं गुणं बिभ्राणः स्वच्छन्दं क्रीडितुं पुनरप्यगात् ॥ २९ ॥
१ 'आस्तां च'. २ 'कियच्चाद्यापि'. ३ 'सौम्यः'. ४ 'शस्त्रास्त्रशास्त्र'. ५ 'नलो
नाम'. ६ 'श्रुतशीलनाम'. ७ 'च स्वयं स्वयं'. ८ 'उड्डीयेवागन्तुम्'. ९ 'सस्मितेन';
'कुत्रचित्पुस्तके स्मितेनेत्येतन्नास्ति'. १० 'अवलोकितेन'. ११ 'चिरादिव'.