सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 140, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 140

१२० नलचम्पूः ।
वानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथा-
पदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाक्रमस्य विरामम्,
एतत्परमपि पिपासया पयः पातुमुद्यतस्येवाविरतायां तृषि वारिधारा-
निवारणम् । इयं सा भुञ्जानस्यार्धतृप्तिः । सोऽयमप्राप्तरतस्य रिरंसा-
व्याघातः । तन्न युक्तमिवान्तरे विरन्तुम् । निष्कारणोपकारिन्, प्रव-
र्त्यतां पुण्यराशेस्तस्य स्वरूपाख्यानामृतप्रपामैण्डपो, निर्वाण्तु च चिर-
कालमनङ्गाग्निभोपतप्ता एवंविधकन्याकाः प्रसारितश्रवणाञ्जलयः' इति
दमयन्तीमर्धेक्षणेन कटाक्षयन्ती तं राजहंसमालापयांचकार ॥ क ॥
सोऽपि 'सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापित-
प्रतिमस्याद्यापि प्रैशस्यते ॥ ख ॥
यत्र श्रूयमाणे न मधुरो वेणुवीणाँक्वणः, दृष्टे नाभिरामः कामः ।
संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्यममृतम्, अभ्यस्ते
नानन्दीन्दुः, प्रैसादिते न प्रशंसास्पदं धैनदः ॥ ग ॥
किं बहुना ।
भवति यदि सहस्रं वाक्पटूनां मुखानां
निरुपममवधानं जीवितं चापि दीर्घम् ।
कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं
सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥
अपि च ।
संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं
नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः ।
गितं चेष्टितम् । आकारो मुखरागादिः । वारिधाराया विधारणं विच्छेदः । 'निवार-
णम्' इति वा पाठः । रिरंसायां सत्यां व्याघातोऽन्तरायः । 'रतिव्याघातः' इति
पाठे तु स्पष्टमेव ॥ क ॥
यत्रेति ॥ श्रूयमाणे नेत्यादौ सप्तम्यन्तान्नञ् । अभ्यस्ते परिशीलिते ॥ ग ॥
संसारेति ॥ खस्तियोगे त इति चतुर्थ्यन्तम् ॥ २ ॥
१ 'कारिणः'. २ 'अर्धगतायाम्'. ३ 'असमाप्तरतस्य'; 'असमाप्तरसस्य'. ४ 'अवान्तरे';
'अत्रान्तरे'. ५ 'अकारणो'. ६ 'पुनः पुण्य'. ७ 'मण्डपे.' ८ 'निर्वांतु चिर'.
९ 'दमयन्ती तामर्धेन'; 'दमयन्तीमर्धेक्षितेन'. १० 'समालपयां'. ११ 'किं प्रशस्यते'.
१२ 'वीणाकलकाणः'; 'वीणाकाणः'. १३ 'अनुप्रसादिते'. १४ 'धनद इत्यभाषत'.