सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 150, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 150

॰१३०॰ नलचम्पूः ।
एकदो१ प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुं-
सुम२कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनैः३
शचीदयितदिशि, मन्द४मुन्मिषत्कमलमुकुलोच्छलच्चटुलालिचक्रवालक-
लकलेनोन्निद्रितेन तन्द्रामुद्रितोन्मिषच्चक्षुषा चलच्चञ्चूकोटिकण्डूयन-
विरामधुतपक्षरोमराजिना राजहंसकदम्बके५नानुगम्यमानो विहाय वि-
हंगमः सरस्तीरम्, उपसृत्य६ किंनरमधुर७गीतध्वनिविनिद्रितमावश्यका८-
वसाने राजानम्, इदमवादीत् ॥ क ॥
'देव, विज्ञापयामो देवस्य दर्शनम्, अनालेप्यं चन्दनम्, अस्पर्श
कर्पूरपांसुपटलोद्धूलनम्, अपातव्यममृतम्, अनास्वाद्यं रसायनम्,
अलेह्यं९ मधु । कुतः किलैतदनुभवतामस्माकमपि वर्षसहस्रेणापि परि१०-
तोषः । किं तु तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहो दुस्त्यजाश्च
जल११जन्मनोऽपि जन१२जन्मभूमयो भवन्ति । अवगमिष्यति च विश्रब्धमे-
तत्सर्वमपि देवो यादृशा येन१३ च जन्मान्तराराधनोपरोधेन१४ प्रेषिता
वयम् । अनवसरः खल्वयमस्य कथाप्रक्रमस्य । तदादिशतु देवोऽस्मा-
नामनाय । न च प्रस्तुतानुचरालापेषु वयं विस्मरणीयाः । किमन्यज्ज-
न्म च जीवितं च तदेव श्लाघ्यं१५मन्यामहे, यत्र१६ प्रसङ्गेन भवादृशा अ-
नुस्मृतिं कुर्वन्ति । तदेष प्रस्थानप्रार्थनाप्रणामः' इत्युक्तवन्तमिममवनि-
पालः कथ१७मपि विसर्जयामास१८ ॥ ख ॥
गते च तस्मिन्नविस्मरणी१९योपकारे कादम्बकदम्बकेश्वरे, श्रवणप्रणा-
लिकया प्रविश्य मानसं२० सरस्तरलयन्त्यां विदर्भराजहंससुतायां, प्रह-
रति प्रत्यङ्गमनङ्गधनुष्के, समीपवनविकासिकुन्दमकरन्दास्वादमदमे-
एकदेति ॥ नीलाञ्जनिका तापिच्छः ॥ क ॥
देवेति ॥ आस्तां मनुष्याणाम्, अस्माकमपि पक्षिजातीयानामपीत्यपिशब्दार्थः।
तिरयति तिरस्करोति ॥ ख ॥
गते चेति ॥ तस्मिन्हंसद्यून्दनेतरि । श्रवणमाकर्णनमेव प्रणाली जलमार्ग-
स्तया । कृत्वा मानसं चेत एव सरस्तडागम् । अथ च मानसाख्यं देवतडागं कर्म-
१ 'एकदा तु'. २ 'कुसुम्भ'. ३ 'शनैः शनैः'. ४ 'मन्दमन्दम्'. ५ 'कदम्बेन'.
६ 'उपगम्य'. ७ 'मधुमधुर'. ८ 'आवश्यकशौचावसाने'. ९ 'अनालेह्यम्'. १० 'परितः
परितोषः'. ११ 'जलजन्मानोऽपि'; 'जलजनोऽपि'. १२ 'निजजन्म'. १३ 'येच येन'.
१४ 'राधनोपरोधिता'. १५ 'वयं श्लाघ्यम्'. १६ 'यत्र प्रस्तावेन भवन्तोऽस्मृतिं कुर्वन्ति';
'यत्र प्रसङ्गेन भवादृशा अनुस्मृतिं कुर्वन्ति'. १७ 'कथंकथमपि'. १८ 'विसर्जयांचकार'.
१९ 'अस्मरणीय'. २० 'मानससरः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA