सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 156, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 156

१३६ नलचम्पूः ।
अनुभवतु चिराय चञ्चलाक्षी-
रसपरिणामफलानि गोपपुत्री ।
अपसरति महोद्यमेन यस्याः
कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥
आस्तां तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच
कियद्धाद्यापि वर्त्मातिक्रमितव्यम्' इति ॥ क ॥
अथ कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः,
कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यन्वयु-
क्तः स पुनरुक्तवान् ॥ ख ॥
'अयमसो सौम्य, समस्तशर्स्त्राशास्त्रकोविदो विदारितवैरीवैरसेनि-
र्नलैः । किमन्यदहमपि श्रुतशीलो नामास्यैवाज्ञाकारी, इत्यभिधाय
विश्रान्तवान् ॥ ग ॥
नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः,
समर्थ्य चैं स्वयंवरआमन्त्रणमुत्सुकतया तत्कालमेवोड्डीर्य गन्तुमीहमानः
संभाषितैन स्मितेनैर्नालोकितेन च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि
प्रतिग्राह्य च वलादनर्घ्याणि स्वाङ्गाभरणानि चिराँदेव व्यसर्ज-
यत् ॥ घ ॥
स्वयं च मृगयाव्यसनितया मृगयालुभिः सह ॥ ङ ॥
धीरं रङ्गन्तमारुह्य सारं रंहसि वाजिनम् ।
हारं रम्यं गले विभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥
अनुभवत्विति ॥ गोपालिका क्षीरस्य सपरिणामानि परिणतानि यानि फला-
नि क्षैरेयीदधिघृतप्रभृतीनि तान्यनुभवतु चिराय । चञ्चला लोला गोचारणवशात् ।
यस्याः संप्रत्येष धेनुरागो । महोद्यमेन हेतुना । कथमपि केनापि प्रकारेण । न
निवर्तते । श्लेषे तु गोपपुत्री भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी लोलनेत्रा
शृङ्गारादिरसपरिपाकफलान्यपभुङ्क्ताम् । यस्याः संप्रति नैषधे नले महोद्यमेऽनुरागः
प्रेमबन्धः । कथमपि नापसरति ॥ २८ ॥
धीरमिति ॥ धीरमत्रासं रङ्गन्तं वलगन्तं रंहसि वेगे सारमुत्कृष्टं वाजिनमश्व-
मारुह्य कण्ठे हारं गुणं बिभ्राणः स्वच्छन्दं क्रीडितुं पुनरप्यगात् ॥ २९ ॥
१ 'आस्तां च'. २ 'कियच्चाद्यापि'. ३ 'सौम्यः'. ४ 'शस्त्रास्त्रशास्त्र'. ५ 'नलो
नाम'. ६ 'श्रुतशीलनाम'. ७ 'च स्वयं स्वयं'. ८ 'उड्डीयेवागन्तुम्'. ९ 'सस्मितेन';
'कुत्रचित्पुस्तके स्मितेनेत्येतन्नास्ति'. १० 'अवलोकितेन'. ११ 'चिरादिव'.