नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
चतुर्थ उच्छ्वासः । १०९
तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां
शरणं नै स्त्री श्रीर्वा ॥ क ॥
शृङ्गारप्रधानास्तात, गाव ईव विचारिताः सरसा भवन्ति नै स्त्रियः
॥ ख ॥
ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्द्वृत्तौ पूर्वप-
दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया
सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा
सलज्जा सती । गुणिनो गुरुञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ
रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा-
दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा
धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥
एवमुक्तकपटानामनाईहृदयत्वादिवोपान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां
च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने-
नाभिहितम् । तदित्युपसंहारे । श्रेयोर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी ।
हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन
बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् ।
तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण-
मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि-
हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा-
तीत्यर्थः । नच भवादृशाश्चाद्वनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा
अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति ।
हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न
शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति ।
तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः
संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग-
म्भीरः प्रणामप्रगल्भो गुहः कार्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥
अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण
'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा
श्रियः' इति पूर्वकृतिकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह—
शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्त्राकीनैरसौ विमनस्को भविष्यतीति चित्ते
धारयन् कृत्यं चोपदिशन् तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु ।
तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा
१ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
१०८ नलचम्पूः ।
कस्य न पराभूतिर्भवति । कस्य नापूर्वं यशः समुच्छलति ॥ क ॥
किमतोऽप्यस्याः परमुच्यते ॥ ख ॥
यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे-
वरं सिंहमिव वलभद्रं दृष्ट्वा $^२$ प्रपलायते $^३$ । न वसुदेवेऽपि चक्षुः
पातयति ॥ ग ॥
केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु-
णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं
बध्नाति ॥ घ ॥
कस्येति ॥ स्त्रीवशगस्य पराभूतिः पराभवः । प्रतिषेधवाची अः पूर्वो यस्माद्य-
शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व-
मुत्कृष्टं यशः ॥ क ॥
खस्थावस्थायां छैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि-
णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं . प्रीणाति दवप्रियं रागगणम् ।
अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि-
क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः ।
शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे
शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः ।
सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे
रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते-
ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा-
द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो
वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं
कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीत वीक्ष्य प्रकर्षेण पलायते
स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥
यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिने प्रेम-
बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम-
नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः । रतं च
संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य
कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं
यस्याः । तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती-
त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः
पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती-
१ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.
चतुर्थ उच्छ्वासः । १०९
तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां
शरणं न॑ स्त्री श्रीर्वा ॥ क ॥
शृङ्गारप्रधानास्तात, गाव इव² विचारिताः सरसा भवन्ति न³ स्त्रियः
॥ ख ॥
ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्दृत्तौ पूर्वप-
दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया
सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा
सलज्जा सती । गुणिनो गुरूञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ
रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा-
दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा
धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥
एवमुक्तकपाटानामनाईहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां
च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने-
नाभिहितम् । तदित्युपसंहारे । श्रेयोऽर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी ।
हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन
बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् ।
तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण-
मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धेन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि-
हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा-
तीत्यर्थः । नच भवादृशाश्वाद्गनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा
अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति ।
हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न
शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति ।
तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः
संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग-
म्भीरः प्रणामप्रगल्भो गुहः कार्त्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥
अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण
'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा
श्रियः' इति पूर्वकविकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह—
शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते
धारयन् कृत्यं चोपदिशन तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु ।
तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा
१ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
तदेताः कंदर्पकण्डूक्षणविनोदमात्रोपकारिण्यो नात्यन्तविश्वास-
योग्याः सर्वथा विश्वस्तं विश्वासमेव नरं कुर्वन्ति स्त्रियः ॥ क ॥
श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात्
बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् ॥ ख ॥
अतः पुत्र, प्राप्स्यसि नचिरात्निजकुलकमलराजहंसीं राज्यश्रियम् ॥
अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते
खल्वियं लक्ष्मीः ॥ ग ॥
पाहि प्रजाः ॥ प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते
पोतकैः ॥ घ ॥
गावो विशेषेण चारिता दत्तास्वादवृत्तणकवलाः । तथा शृङ्गस्यारमग्रं प्रधानं यासु ।
तास्तथोक्ताः । तथा सरसाः सदुग्धाः । स्त्रियस्तु शृङ्गारो मण्डनं प्रधानं यासाम् ।
विचारिताः स्तृणन्तिं दुःशीलाः सत्यो गुणगणं छादयन्तीति तत्त्वतो विमृष्टाः सत्यो
न सरसाः । किंतु वैराग्यहेतवः ॥ ख ॥
तदेता इति ॥ तत्तस्माद्धेतोरेताः स्त्रियो नात्यन्तं विश्रम्भाः । कियदेवे-
त्यर्थः । तत्र हेतुमाह—कंदर्पेत्यादि । सर्वथा विश्वन्धं नरं स्त्रियो विगतश्वासमिव
कुर्वन्ति । तत् साध्योऽपि नात्यन्तं विश्रम्भाः । तथाच चाणक्यः—'अन्तर्गृ-
हगतः स्थविरस्त्री-परिशुद्धां देवीं पश्येत् । अपरिशुद्धां न कांचिदभिगच्छेत्' ।
श्रूयते हि—'देवीगृहगतो भ्राता भद्रसेनं जघान मातुः शय्यान्तर्गतश्च पुत्रः
कारूपम्' इत्यादि ॥ क ॥
स्त्रीणां दोषान्कण्डूविनोदमात्रफलं चाभिधाय संप्रति स्त्रीणां फलमाह— श्रि-
योऽपीत्यादि ॥ लोभे दूषणमाह—वहिति । बहुना लोभेनानुगतः । करौघस्तु ।
बहुलः प्राज्यः । तथा भानुं रविं गतो भानवीय इत्यर्थः ॥ ख ॥
यदि लोभवता मया संतप्यते जनस्तत्किमित्याशङ्कयाह—अत इति ॥ अत
एतस्माज्जनाच्छ्रियमाप्स्यसि । जनानुरागप्रभवा हि संपदः । अथवा एतस्मात्पूर्वो-
क्तादस्मदुपदेशात् । प्राप्य च श्रियं निरन्तरं कृतं यशो येन तद्वानं देहि धर्मादि-
पात्रेषु श्रियं नियुङ्क्ष्वेति भावः । खलु निश्चितमियं लक्ष्मीः पात्रेषु व्यवकलयति
त्वयि विष्ण्वाविव बहुकालं सहर्षं स्थास्यति । विष्णौ कीदृशि । कृतो यशोदाख्याया
जनन्या आनन्दो येन तस्मिन् । हि स्फुटम् ॥ ग ॥
बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि
तदाह—पाहीति ॥ पालय प्रजाः । यस्मात्प्रजां पाति यः क्षत्रियः स न पापी।
ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजापः । जपनं जापः ॥ घ ॥
१ 'श्रियः स्त्रियोऽपि'. २ 'दानोप'. ३ 'पापैः'.
चतुर्थ उच्छ्वासः। १११
मा च वृद्धिं प्राप्य गुणेषु द्वेषं¹ कार्षीः । व्याकरणे हि वृद्धिर्गुणं
बाधते, न सत्पुरुषेषु ॥ क ॥
वत्स मा चैवं चेतसि कृथाश्छान्दसोऽयम् । छान्दसश्च गुरुर्वक्र-
स्वभाव एव भवति तत्किमानेनेति यस्माच्चतुरानन्दिपदः पुण्यश्लोको
भवान् । अतोऽङ्गभावं यान्ति ते वक्रोक्तयोऽपि गुरवः । सरलतया
लघवोऽप्यन्तरङ्गा भवन्ति । किंतु ते ह्यवसाने कुटिलतामपि दर्शय-
न्ति ॥ ख ॥
तत्किं बहुना ।
तथा भव यथा तात त्रैलोक्योदरदर्पणे ।
विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्षसे ॥ १७ ॥
किं चान्यत् ।
बिभर्ति यो ह्यर्जुनवारि पौरुषं करोति नम्रे च न वा रिपौ रुपम् ।
न तेन राज्ञा सहसागराजिता भवेन्मही किं सहसागरा जिता १८
मा चेति ॥ वृद्धिं राज्यादिसमृद्धिम् । गुणेषु पाण्डित्यादिषु । हि यस्माद्गुणबा-
धिका वृद्धिरिति वैयाकरणसमयः ॥ क ॥
इदानीं शिक्षामभिधायात्मनोपदिष्टे आदरपरं कुमारं कुर्वन्मृदुवचोभिः प्रोत्साह-
यन्नाह—वत्सेत्यादि ॥ छन्दो वेदः छन्दःशास्त्रं च । गुरुस्त्वोपदेष्टा छन्दोह-
ष्टलघुद्वितीय आकारादिश्च । यस्मात्कारणाद्भवान्पुण्यश्लोकः पवित्रयशाः । तथा चतु-
रानन्दयति । तथाविधं पदं राज्यलक्षणं यस्य । अतो वक्रवचसोऽपि गुरवः ।
तेन च अङ्ग तव भावं भावनां यान्ति । त्वयि भावितात्मानो भवन्तीत्यर्थः । अ-
ङ्गेति कोमलामन्त्रणे । सरलतया एकमार्गतया लघवो लघुवृत्ता अप्यन्तरङ्गाश्चेतो-
भिग्रेताः स्युः । परं तेऽन्ते कौटिल्यमपि प्रकाशयन्ति । अथ च पुण्यः श्रेयान्
श्लोकः पद्यम् । तदा चत्वारि आनन्दीनि पदानि पादा यस्य ते प्रसिद्धा गुरवो
वक्राकृतयोऽङ्गभावमवयवत्वं यान्ति । श्लोकस्येति शेषः । सरलतया ऋजुतया
लघवो लेखाकृतयोऽन्तरङ्गा मध्यगताः स्युः । परमन्ते पादान्ते कुटिला अपि स्युः।
'वा पादान्ते लसौ ग्वक्र' इति वचनात् ॥ ख ॥
तथेति ॥ तातेति कोमलामन्त्रणे । तथा तेन प्रकारेण भव यथा तैस्तैरस्म-
दुपदिष्टैः प्रजात्राणादिभिर्विशेषैरुपलक्षितमात्मानं भुव्युषितः पृथिवीस्थित एव त्रैलो-
क्यमेव योऽसौ दर्पणस्तत्र नित्यमविनश्वरं पश्यसि । अन्योऽपि तैस्तैराकल्पविशेषै-
र्मण्डितमात्मानं दर्पणे पश्यतीति । यशोऽर्थमेव प्रयतितव्यमिति भावः ॥ १७ ॥
बिभर्तीति ॥ अर्जुनमेव वृणोत्याच्छादयति वारयति वेत्येवंशीलं निजप्रकर्षेण
१ 'प्रद्वेषम्'. २ 'सत्पुरुषे'. ३ 'सरलतया युक्ताः'. ४ 'अवमाने'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
११२ नलचम्पूः ।
अपि च ।
'किं तेन जातु जातेन मातुर्यौवनहारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा' ॥ १९ ॥
एवमुक्त्वा विश्रान्तवाचि वाचस्पतिसमे मन्त्रिणि राजापि प्रेमार्द्र-
या दृशा नलमवलोक्य वक्तुमारभत ॥ क ॥
'तात, युक्तमुक्तोऽसि सालङ्कायनेन । कस्यान्न्यस्य निर्यान्ति
वदनारविन्दादेवंविधाः पदे पदेऽर्थसमर्था मृद्व्यो मृष्टाः श्लिष्टाश्च
वाचः ॥ ख ॥
तद्दर्शितस्तवानेन निर्वापितदेहः स्नेहः । स्वीकृतस्त्वं मनसा सम-
स्तसाम्राज्यभारोद्वहनधुर्यतां प्रति । तेनायमनुशास्ति ॥ ग ॥
युज्यते चैतत् ॥
तथाहि ।
संग्रहं नाकुलीनस्य सर्पस्येव करोति यः ।
स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २० ॥
किं च ।
न पश्यसि सांप्रतमिदमस्माकमतिभीरुभूपालमण्डलमिव वलिभि-
राक्रान्तम् अशेषमङ्गम् अतिजीर्णशीर्णकर्पटमिवावरीतुं न शक्यते ।
तच्चरित्रापह्नवकारि पौरुषं यो राजा धत्ते । अथवा नम्रे रिपौ शत्रावपि रुषं कोपं
नच नैव करोति । धर्मविजयत्वात् । तेन राज्ञा अगराजिता अष्टसंख्यकुलाचलाल-
कृता । तथा सहसागरा ससमुद्रा सहसा बलेन किं मही न जिता भवेत् । जितै-
वेति भावः ॥ १८ ॥
किं नेति ॥ मातुर्जनन्यास्तारुण्यमुषा तेन जातेन किम् । किमपि नेत्यर्थः ।
यो जातु कदाचिदपि स्वस्यान्वयस्याग्रं नारोहति । अग्रेगण्यतां न यातीत्यर्थः ।
ध्वजपक्षे वंशो वेणुः ॥ १९ ॥
संग्रहमिति ॥ न निषेधे । अकुलीनस्यानभिजातस्य । सर्पस्य तु नाकुर्वल्मीक-
स्तत्र लीनस्य । कर्मणामारम्भोपायः पुरुषद्रव्यसंपत् । देशकालविभागो विनिपात-
प्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः गारुडाद्विषयश्चेति योगान्मन्त्रिणावमा-
त्याहितुण्डिकौ ॥ २० ॥
नेति ॥ वलयस्त्वक्शैथिल्यानि । बलिनो बलवन्तश्च । आवरणं संव्यानम् । अ-
ङ्गपक्षे संवरणम् । निःसौष्ठवादशक्यम् । उपरिपतितं शैथिल्यात्स्रस्तं भ्रूचक्रं यस्याम् ।
१ 'अग्रम्'. २ 'प्रेमद्रवार्द्रया'. ३ 'स्वीकृतश्वासि'. ४ 'तेनायमेवमनुशास्ति'; 'तेने-
यमेवमनुशास्ति'. ५ 'सांप्रतमस्माकम्'. ६ 'अतिशीर्णकुथकर्पटम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
चतुर्थ उच्छ्वासः । ११३
क्वाप्युपरिपतितभ्रूचक्रा भीरुभटपेटीव नष्टा दृष्टिः ॥ क ॥
ये हितवर्गोपदेशिनो मुख्यास्तेऽपि सालङ्कायनप्रभृतयो मन्त्रिण
इव विरलीभूता दन्ताः । शब्दशास्त्रे हि राजादीनामदन्तता श्लाघ्यते ।
नान्यत्र ॥ ख ॥
तदिदानीं मम वन्यश्वापदमिव विषयविमुखं मनो वनाय धावति ।
कृतं च यन्मनुष्यजन्मनि क्रियते ॥ ग ॥
तथाहि ।
एताः प्राप्य परोपकारविधिना नीताः श्रियः श्लाघ्यता
मापूर्वापरसिन्धुसीम्नि च नृपाः स्वाज्ञां चिरं ग्राहिताः ।
भूभारक्षमदोर्युगेन भवता जाता वयं पुत्रिण-
स्तत्संप्रत्युचितं यदस्य वयसस्तत्कर्म कुर्मो वने ॥ २१ ॥
इत्यभिधाय तत्कालमेव मौहूर्तिकानाहूयादिदेश- ‘कथ्यतां यौव-
राज्याभिषेकोत्सवाय दिवसः' इति ॥ घ ॥
अथ कथयामासुस्तेऽपि—‘देव, श्रूयतामनवद्यतनमेव राज्याभि-
षेकयोग्यमहः । केन्द्रस्थानवर्तिनः सर्वेऽप्युच्चग्रहाः, पुण्यो मासः, पूर्णा
तिथिः, श्लाघ्यो योगः, प्रशस्तो वारः, शुभं नक्षत्रम्, कल्याणी वेला,
विधीयतां यद्विधेयम्' इत्यभिधाय स्थितेषु तेष्वनन्तरमेव 'सुश्रोणि,
श्रूयतां यदस्माभिः श्रुतमाश्चर्यम् ॥ ङ ॥
उचितमुचितमेतद्धैर्यधाम्नां नृपाणां
वयसि कटुनि कान्तालोचनानां तृतीये ।
भीरुनाहलमण्डलीपक्षे तु प्रतिभटानामिति शेषः । भीरवो हि वैरिणि विलोकयति
पलायन्ते । पेटशब्दः संघाते त्रिलिङ्गः ॥ क ॥
य इति ॥ हितवर्गे हितसमूहमुपदिशन्ति मुख्याश्च प्रधानभूताः सालङ्कायन-
प्रभृतयोऽमात्या यथा विरलीभूता विरला एव केचित् । न सर्वे तथाविधाः । तथा
ये दन्ताः हि स्फुटं तवर्गमुपदिशन्त्युच्चारयन्ति । तवर्गस्य दन्त्यत्वात् । तथा मुखे
भवा मुख्याः । तेऽप्यविरला विरलाः संपन्ना विरलीभूताः । बलिप्रस्तानां हि मांस-
मुक्ता दन्ता विरलाः स्युः । मुख्याश्चतुःसंख्या राजदन्ताः । 'राजाद्दः—' इति
सूत्रोक्ता राजादयः ॥ ख ॥
तदिति ॥ विषया इन्द्रियार्था देशाश्च ॥ ग ॥
एता इति ॥ यथाक्रमं धर्मार्थकाममोक्षाणामुपन्यासः ॥ २१ ॥
अथेति ॥ केन्द्रस्थानं शुभस्थानम् ॥ ङ ॥
१. 'अयम्' २. 'अभिषेकाय' ३. 'प्रस्थितेषु'
११४ नलचम्पूः ।
इति रभसमिवास्य प्रस्तुतं श्लाघमानो
वियति पटुरकस्मादुत्थितस्तूर्यनादः ॥ २२ ॥
अपि च ।
उपरि परिमलान्धैः सस्वनं संचरद्भि-
र्मधुकरनिकुरम्बैश्चुम्ब्यमाना भैरेण ।
अविरलमधुधारासारसंसिक्तभूमिः
सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥ २३ ॥
अवतेरुश्च तत्कालमेवाम्बरतलादुल्लसद्ब्रह्मकान्तिकलापपवित्रीकृता-
ष्टाग्दिग्भागभूमयः सकलसागरसरित्तीर्थाम्बुपूर्णकमण्डलुमृत्कुशकुसुमौ-
षधिरुद्धपाणयो दर्शनादेवापनीतसमस्तकलिकल्मषाः केऽपि कुतोऽपि
ब्रह्मर्षयः ॥ क ॥
सहर्षेण सविनयेन सपरिवारेण च चलत्कर्णोत्पलगलद्वहलरजः-
पुञ्जपिञ्जरितकपोलपालिना पृथिवीपालेन प्रणम्य कृतातिथेयाः समु-
चितान्यलंचक्रुरासनानि ॥ ख ॥
कृतकुशलप्रश्नालापाश्च प्रस्तुतकुमाराभिषेकस्य नरपतेः स्वस्वक-
ण्डलुवारीणि दर्शयामासुः ॥ ग ॥
इदं मन्दाकिन्याः सलिलमवगाहागतमरु-
त्पुरंध्रीणां पीनस्तनशिखरभङ्गोर्मिवलयम् ।
इदं कालिन्द्याश्च प्रविकसिततीरद्रुमलता-
पतत्पुष्पैरन्तः सुरभिततरङ्गं नृप पयः ॥ २४ ॥
इदं गोदावर्यास्त्रिनयनजटाखण्डगलितं
महाराष्ट्रीनेत्रैः कृतकुवलंय मज्जनविधौ ।
इदं चापि प्रेङ्खन्मुनिजनविकीर्णाधकमलं
पयो विन्ध्यस्कन्धस्थलविलुलितं नार्मदमपि॥ २५॥ युग्मम् ।
उचितेति ॥ कटुत्वमत्राप्रियत्वमेव ॥ २२ ॥
तदेतदिति ॥ शयनसमये युगान्ते शार्ङ्गधनुषो विष्णोः संबन्धिनौ चरणौ
प्रक्षाल्य पुण्यानां परमसीमानं गतमुदधेः समुद्रस्य तदेतत्पयो वर्तते । यत्र विहा-
राय क्रीडार्थमुन्मज्जन्ति यानि वरुणवधूवृन्दवक्त्राणि तैः कृत्वा विकसदम्भोजख-
ण्डशोभां क्षणं दधौ ॥ २३ ॥
१ 'श्लाघ्यमानः'. २ 'देरेण'. ३ 'मृत्कुसुम'. ४ 'प्रणय'. ५ 'भग्न'. ६ 'जटाजूट'.
७ 'जनम्'.
चतुर्थ उच्छ्वासः। १९५
इतश्च
तदेतत्पुण्यानां परममवधिं प्राप्तमुदधेः
पयः प्रक्षाल्याङ्घ्री^१ शयनसमये शार्ङ्गधनुषः।
विहारायोन्मज्जत्तरुणवनितावृन्दवदनैः
क्षणं य॑^२त्रोत्फुल्लन्नवकमलखण्डश्रियमधात् ॥ २६ ॥
राजा तु तत्कालमुन्मीलद्बहलपुलकाङ्कुरकोरकितदेहः किमप्यद्भुत-
रसेनावेशित इव विधूय शिरो॑^४श्चिन्तयांचकार ॥ क ॥
'५नूनमयमस्मद्गृहे हरिहरब्रह्माणाम॑^६न्यतमः कोऽप्यवतीर्णो भविष्यति।
यतः। कार्यं^३ शिक्षाक्रमंः^७, केयम्^३स्माकमाकस्मिकी यूनोऽस्या^८भिषेकाय
बुद्धिः, क॑^९ चानुकूलकालसंपत्तिः, क चामी समस्ताभिषेकोपकरणपा-
णयो महामुनयः ॥ ख ॥
सर्वथा नमोऽस्तु घटितदुर्घटाय वेधसे। यस्यायमेवमद्भुतो व्यापारः'
इत्यवधारयन्नुत्थाय गृहीत्वा तानि तीर्थोदकानि कृत्वा कनककुम्भेषु
तात्कालिकास्फालितमृदङ्गझल्लरीरवभरसोल्ला॑^१०स्यविलासिनीवृन्दैरानन्द्य-
मानो मङ्गलोद्गारमुखरपरिजनपरिवृतः सह सालङ्कायनेन 'सहस्रं
समास्तात एवानुपालयतु राज्यम्' इत्यभिधानमनिच्छन्तमपि नलं
बलान्निवेश्याभिषेकपट्टे स्वयमेवाभिषेकमकरोत् ॥ ग ॥
परिधाप्य च मङ्गलाभरणवाससी सिंहासनमारोप्य पुत्रप्रेम्णा पुरः
स्थित्वा कनकदण्डपाणिः क्षणं प्रातिहार्यमन्वतिष्ठत् ॥ घ ॥
सालङ्कायनोऽप्यतिस्नेहेनास्योपरि लम्बितमुक्ताकलापमास्रवत्सुधा-
धारे॑^११मिन्दुमण्डलमिव कनकदण्डमापाण्डुरमातपत्रमधारयत् ॥ ङ ॥
सौ^१२मन्तचक्रं च चलच्चामीकरचारुचामरकलापव्यापृतकरपल्लवम-
स्याग्रे विनय्मदर्शयत् ॥ च ॥
मुनयोऽप्युच्चारयांचक्रुश्चतुर्वेदप्रशस्तमन्त्रान् । उत्थाय च गृहीत्वा-
क्षताञ्शिरसि विकिरन्तोऽस्य पुनरिदमवोचन् ॥ छ ॥
सर्वथेति ॥ घटितं योजितं दुर्घटं शिक्षाप्रकमादिलक्षणं येन तस्मै वेधसे
नमः ॥ ग ॥
१ 'अङ्गीन्'. २ 'यत्रोत्फुल्लन्न'. ३ 'कायः.'. ४ 'शिरश्चिरं चिन्त'. ५ 'नूनमस्मत्'.
६ 'एकतमः'. ७ 'प्रक्रमः' ८ 'यूनोऽप्यस्य'. ९ 'क चाविलम्बितानुकूल'. १० 'उल्ला-
सि'. ११ 'धारं कनकगिरिशिखरस्थितमिन्दुः'. १२ 'सकलसामन्तचक्रम्'.
११६ नलचम्पूः ।
'याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं
स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः ।
ताभिस्तेऽद्य विरञ्चिवक्त्रसरसीहंसीभिराशास्महे
वैदर्भीवसुधाविवाहसमये मन्त्रोक्तिभिर्मङ्गलम् ॥ २७ ॥
अन्यदपि तत्र दिवसे ३सुभ्रु समाकर्ण्यतां यदद्भुतमभूत् ॥ क ॥
दिशः प्रसेदुः सुरभिर्ववौ मरु-
द्दिवो निपेतुः सुरपुष्पवृष्टयः ।
कृताभिषेकस्य नलस्य निस्वना-
ननाहता दुन्दुभयोऽपि चक्रिरे ॥ २८ ॥
अन्तरिक्षे च कोऽप्यदृश्यमान एवाशीःश्लोकद्वयमपठत् ॥
'अहीनां मालिकां बिभ्रत्तथापीताम्बरं वपुः ।
हरो हरिश्च भूपेन्द्र करोतु तव मङ्गलम् ॥ २९ ॥
अपि च ।
लीलया मण्डलीकृत्य भुजंगान्धारयन्हरः ।
देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ ३० ॥
इत्याशास्य विश्रान्तायां वियद्वाचि स्थित्वा च किंचित्कृँतोचितापचि-
तिषु गतेषु क्षणादन्तर्धानं मुनिषु 'समुच्छ्रीयन्तां वैजयन्त्यः, बध्यन्तां
तोरणानि, सिच्यन्तां चन्दनाम्भोभिः पन्थानः, मण्ड्यन्तां मसृणमु-
अहीति ॥ शिवोऽहीनां सर्पाणां स्रजं तथा तेन प्रकारेण इताम्बरं ताण्डवा-
दिष्वतिततमूर्तित्वाद्ब्याप्ताकाशम् । अथ च पराचीनावस्थायां दिगम्बरत्वादित्ता-
म्बरं गतवस्त्रम् । यदिवा आ समन्तातपीतं प्रस्तमतिवितततया छन्नमम्बरमाकाशं
येन । तथाविधं वपुर्नित्यं बिभ्रत् । हरिश्च विष्णुर्वनमालीति ख्यातत्वात् । अहीनां
पूर्णामेव मालिकाम् । तथा पीताम्बरं हारिद्रवसनं वपुर्बिभ्रत् । राजेन्द्र, तवं मङ्गलं
करोत्वित्यर्थः । न केवलं व्याप्तपृथ्वीकम् । इताम्बरमपीत्यपिशव्दार्थः । अष्ट-
मूर्तिर्हि भगवान् । यदाह मल्हणः 'उर्वींसमीरयजमानजलानलार्कसोमाम्बरादिभिः'
इति ॥ २९ ॥
लीलयेति ॥ लीलयावज्ञया भुजंगान्सर्पान् मण्डलीकृत्य हरः । भुजं मण्डली-
कृत्य गां वसुधां धारयन् वराहश्च तुभ्यं समधिकां श्रियं देयात् । अत्र वराह इति
नरवराहमूर्तिर्नरसंसहवद्भुजमण्डलीकरणानुरोधाज्ज्ञेयः ॥ ३० ॥
१ 'ताभिस्तस्य'. २ 'विरिंच'. ३ 'शुभम'. ४ 'च तस्य'. ५ 'भूपाल'. ६ 'प्रकृ-
तोचितोपचितेषु'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
क्ताफलक्षोदरङ्गावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि च-
त्वराणि, पूज्यन्तां द्विजन्मानो देवताश्च, दीयन्तां दानानि, गीयन्तां
मङ्गलानि, विसृज्यन्तां वैरिबन्धः, मुच्यन्तां पक्षिणोऽपि पञ्जरेभ्यः'
इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गार-
मुखरे संचरति पुरपथेपु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव
भुक्ताशेषभुवनस्येवास्वादितामृतसस्येवानुभूतपरमानन्दस्येव राज्ञः
कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् ॥ क ॥
एवमतिक्रामत्सु केषुचिद्दिवसेषु, जरठीभूते महोत्सवव्यतिकरे, गत-
वति यैथायथमामन्त्रितायाते समस्तसामन्तलोके, यौवराज्यरञ्जिते च
परितः परिजने जनेश्वरॊ रिपुपयोधिबडवानलं नलर्मोवभाषे ॥ ख ॥
'तात, किमपि ब्रूमो यदि न खिद्यसे । संप्रति प्रियं सख्यं श्रेयस्क-
रमस्माकमैणम्, न त्रैणम् । आभरणाय योग्या जटाभाराः, न हाराः ।
साहाय्याय साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका,
न तूलिका । क्रीडार्थे वरा वेगवन्तो निर्झरप्रवाहाः, न वाहाः । प्रार्थनी-
याश्च हरप्रसादाः, न प्रासादाः ॥ ग ॥
तदायूष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः'
इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहुलबाष्पाम्बुप्लवप्लावित वक्ष-
सि निधाय परिष्वज्य च पुनः पुनः पुलककोरकितभुजलताभ्यामन्त-
र्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवद्दृक्शुक्तिकपोलमाविर्भवन्मोहमू-
र्छान्धकारकुञ्चितलोचनमिममाघ्राय मूर्ध्नि वनाय वनितासहायः प्रतस्थे
॥ घ ॥
प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियुज्यमानचलच्च-
क्रवाकीष्विव कृतकरुणाक्रन्दासु प्रजासु, प्रतिभवनमुच्चलितेषु जरत्पौ-
रजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलिरस्य क्रमागतकर्म-
कारिणः श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्य-
स्मदनुकम्पयाऽपराधाः । पश्यैय । पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलय-
तातेति ॥ स्त्रीणामिदं त्रैणम् । 'स्त्रीपुंसाभ्यां नञ्स्नञौ' इति नञ् ॥ ग ॥
तदेति ॥ अन्तर्मध्ये मन्युभरेण दैन्यातिशयेन निरुद्ध्यमानमुत्तरं यस्य ॥ घ ॥
१ 'देवाश्च'. २ 'भुक्त'. ३ 'यथागतम्'. ४ 'बभाषे'. ५ 'संप्रति सख्यम्'.
६ 'आहरणाय योग्या नीवाराः'; 'नाहाराः'. ७ 'क्रीडार्हा'. ८ 'उक्तम्'. ९ 'लपिते
च'. १० 'कोरकिताभ्याम्'. ११ 'आकुञ्चित'. १२ 'यतः'.
११८ नलचम्पूः ।
न्तोऽपि कमलाकरान्र्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्ज-
नानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूमूजि
भुंजायामानिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिल-
संतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः, पैतद्बहलवा-
ष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न
लोचने तं दिवसं समुदमीलयत् ॥ ख ॥
केवलममन्दर्मन्यूद्गारगद्गदया गिरा पुनः पुनरिमं श्लोकमपठत्।।ग।।
तच्चातस्य कृतादरस्य रभसार्दाह्वाननं दूरत-
स्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् ।
ताम्बूलं च तदर्थचर्वितमतिप्रेम्णा मुखेनार्पितं
पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे' ॥ ३१ ॥
एंतच्चाकर्ण्य दमयन्ती चिन्तितवती—'अहो, स्नेहवानाद्रहृदयः
खल्वसौ महानुभावः । तत्सर्वथास्मत्प्रीतिपात्रं भवितुमर्हति' इत्यव-
धारयन्ती पुनः प॑प्रच्छ ॥ घ ॥
'हुं हंस, ततस्ततः' ॥ क ॥
सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार।ख
'सुन्दरादरि, तैतँश्च
किमपि परिजनेन स्वेन तैस्तैर्विनोदैः
पितृविरहविषादं सोऽथ विस्मार्यमाणः ।
गमयति परिवर्तं वासराणामिदानीं
हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हर-
चरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥
हुं हंसेति ॥ हुमित्यव्ययं प्रश्ने ॥ क ॥
इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
इति चण्डपालविरचिते दमयन्तीकथाविवरणे चतुर्थ
उच्छ्वासः समाप्तः ॥
१ 'भुजाभ्यां निर्जित'. २ 'मृगशावक इव मार्गच्युतः'. ३ 'गलद्'. ४ 'दैन्य'.
५ 'इदम्'. ६ 'आवाहनम्'; 'अद्येहितम्'. ७ 'एतदाकर्ण्य'. ८ 'पप्रच्छ हंसं ततस्ततः'.
९ 'उपसंहरन्'. १० 'तदस्तु'.
अथ विश्रान्तवाचि वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णे वर्णितनि-
षधराजे राजहंसे 'अहं सेवार्थी' इत्य²भिधायोपरुध्यमाना कृतोत्तरा-
सङ्गेन द्विज³न्मना श्रुतानुरागेण । 'वत्से, चिरान्मिलितासि' इत्यु-
क्त्वैवोपश्लिष्टा हृदये प्रवृद्धया चिन्तया । 'पुत्रि, क⁵थंकथमपि दृष्टासि'
इति संभाव्येवालिङ्गिता सर्वाङ्गेषूत्कम्पजनन्यौ रोमाञ्चावस्थया⁸ । 'तरु-
णि, त्यज्यतामिदानीं शैशवव्यवहारः' ६त्यभिधायेव मुग्धे स्पृष्टा प्रमु-
खेण मुखे वैवर्ण्येन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव⁷
ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन दमयन्ती । तथापि क्षणमिव
महानुभावतामवलम्ब्यानुपलक्षितावस्थमवतस्थे ॥ क ॥
तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम्,
अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीत⁹नै¹⁰लावलोकना-
र्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम्, आकस्मिकस्मरापस्मारेण दाम्यन्तीं
दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासन्यसनिनो परिहा-
सशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय
श्राम्यति श्रोत्रे¹¹न्द्रियम् । न तृप्यति प्र¹²श्नरसायनाय जिह्वा । न संतु-
ष्यति विशेषज्ञानाय शेमुषी । नै¹³नुरागायोपरमते मनः । तै¹⁴त्कथं कृत-
अथेति ॥ अनन्तरं । स्तुतनले हंसे । सेवितुकामोऽहमित्युक्त्वैव कृत उत्पा-
दित उत्तरास्यां दिशि विषये आसङ्ग आसक्तिर्येन । नलाधारत्वादुत्तरस्याः । तथा
द्वाभ्यां (तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । १ उ. ५९ श्लो.) येनोदीच्याध्व-
गेनोक्तं तस्मादेकस्मात् द्वितीयादंसोत्पत्तिर्यस्य स तथाभूतः। श्रुतादाकर्णना-
द्योऽनुरागः प्रेमबन्धः । तेनोपरुध्यमाना व्याप्यमाना । कृतवैकक्षेकेणाध्ययनानुरा-
गेन विप्रेण दाक्षिण्यं नीयमानेत्यर्थान्तरम् । एवम्भूता दमयन्ती प्रकर्षेण वृद्धिं
गतया चिन्तया पुत्रि चिरान्मिलिता त्वमित्युक्तेवेव चित्तेऽवष्टब्धा । तथा उत्कम्पं
जनयतीति उत्कम्पजनन्या । प्रमुखेन प्रधानेन । गुरुणा दुर्वाहभारेण । अर्थान्तरे
तु प्रवृद्धया जरत्या । उद्गतकम्पया जनन्या मात्रा । प्रकृष्टं मुखं यस्य तेन प्रमु-
खेन । गुरुणा आचार्येण ॥ क ॥
तां चेति ॥ दाम्यन्तीं गृह्यमाणां स्मरणपरवशामित्यर्थः । तदिङ्गिताकारेत्यत्रै-
१ 'वत्सि'. २ 'अभिधायैवोपस्थ्यमाना'; 'अंमथायोपसृत्य निरुध्यमाना'. ३ 'द्वि-
जन्मनेव'. ४ 'इव'. ५ 'कथमपि'. ६ 'इत्यालप्येव'. ७ 'एव'. ८ 'अवस्थांम्'.
९ 'मनोरथपथानीत'. १० 'नललावण्यावलोकनार्थम्'. ११ 'श्रवणेन्द्रियम्'. १२ 'प्रश्न-
रसायने'. १३ 'न विरमत्यनुरागाय मनः'. १४ 'तत्कथय कथम्'.
१२० नलचम्पूः ।
वानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथा-
पदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाक्रमस्य विरामम्,
एतत्परमपि पिपासया पयः पातुमुद्यतस्येवाविरतायां तृषि वारिधारा-
निवारणम् । इयं सा भुञ्जानस्यार्धतृप्तिः । सोऽयमप्राप्तरतस्य रिरंसा-
व्याघातः । तन्न युक्तमिवान्तरे विरन्तुम् । निष्कारणोपकारिन्, प्रव-
र्त्यतां पुण्यराशेस्तस्य स्वरूपाख्यानामृतप्रपामैण्डपो, निर्वाण्तु च चिर-
कालमनङ्गाग्निभोपतप्ता एवंविधकन्याकाः प्रसारितश्रवणाञ्जलयः' इति
दमयन्तीमर्धेक्षणेन कटाक्षयन्ती तं राजहंसमालापयांचकार ॥ क ॥
सोऽपि 'सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापित-
प्रतिमस्याद्यापि प्रैशस्यते ॥ ख ॥
यत्र श्रूयमाणे न मधुरो वेणुवीणाँक्वणः, दृष्टे नाभिरामः कामः ।
संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्यममृतम्, अभ्यस्ते
नानन्दीन्दुः, प्रैसादिते न प्रशंसास्पदं धैनदः ॥ ग ॥
किं बहुना ।
भवति यदि सहस्रं वाक्पटूनां मुखानां
निरुपममवधानं जीवितं चापि दीर्घम् ।
कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं
सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥
अपि च ।
संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं
नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः ।
गितं चेष्टितम् । आकारो मुखरागादिः । वारिधाराया विधारणं विच्छेदः । 'निवार-
णम्' इति वा पाठः । रिरंसायां सत्यां व्याघातोऽन्तरायः । 'रतिव्याघातः' इति
पाठे तु स्पष्टमेव ॥ क ॥
यत्रेति ॥ श्रूयमाणे नेत्यादौ सप्तम्यन्तान्नञ् । अभ्यस्ते परिशीलिते ॥ ग ॥
संसारेति ॥ खस्तियोगे त इति चतुर्थ्यन्तम् ॥ २ ॥
१ 'कारिणः'. २ 'अर्धगतायाम्'. ३ 'असमाप्तरतस्य'; 'असमाप्तरसस्य'. ४ 'अवान्तरे';
'अत्रान्तरे'. ५ 'अकारणो'. ६ 'पुनः पुण्य'. ७ 'मण्डपे.' ८ 'निर्वांतु चिर'.
९ 'दमयन्ती तामर्धेन'; 'दमयन्तीमर्धेक्षितेन'. १० 'समालपयां'. ११ 'किं प्रशस्यते'.
१२ 'वीणाकलकाणः'; 'वीणाकाणः'. १३ 'अनुप्रसादिते'. १४ 'धनद इत्यभाषत'.
पञ्चम उच्छ्वासः । १२१
सा त्वं तस्य कुरङ्गशावनयने योग्यासि पृथ्वीपते-
रेतत्ते कथितं किमन्यदधुना यामो वयं स्वस्ति ते ॥ २ ॥
अन्यच्च ।
चन्द्रमुखि, महानाम्नि सुसंधिकृति सुसमासाख्याततद्धिते सत्का-
रके परिभाषाकुशले बलाबलविचारिणि विचार्यमाणे व्याकरणे प्रेष्य-
माणे च दूते नापशब्दसंबंधो भवति । तत्प्रेष्यतां तथाविधस्तस्या-
न्तिकं कोऽपि दूतः ॥ क ॥
नच वृहत्यासंपदान्विते जगत्याख्याते सत्कृतगुरुगणे शार्दूलविक्री-
डिताडम्बरिणि पुण्यश्लोके पर्यालोच्यमाने छन्दसि प्रार्थ्यमाने च
तस्मिन्निषधेश्वरे वृत्तभङ्गो भवति' इत्यभिधाय गन्तुमुदचलत् ॥ ख ॥
उच्चलितं च तं परिहासशीला पुनर्वभाषे ॥ ग ॥
चन्द्रेति ॥ चन्द्रमुखीति संबोधनम् । नाम प्रातिपदिकं तद्विषयं प्रकरणमपि
नामेत्युपचारे सति महदिति विशेषणस्य सफलत्वम् । नाममात्रस्य महच्छब्देन
व्यवच्छेदाभावात् । सुष्ठु संधिर्वर्णसंश्लेषः कृत्संज्ञकप्रत्ययश्च यत्र । समासस्तत्पुरु-
षादिः । आख्यातं क्रिया । तद्धितोऽणादिः । कारकमपादानादि । परिभाषा न्याय-
सूत्राणि । बलाबलं पूर्वापरविधीनां बाधस्थितिः । अपशब्दोऽसाधुशब्दः । दूतपक्षे ।
नाम संज्ञा । सुष्ठु संधिं पणबन्धं करोतीति कौ सप्तमी । सुष्ठु समासेन संक्षेपेणा-
ख्यातं कथितं तस्मै हितं येन तस्मिन् । सत्कारके सत्क्रियाजनके । परितो भाषाः
संस्कृतप्राकृताद्याः कर्णाटादिदेशभाषा वा तासु दक्षे । वलावलं शक्त्यशक्ती ।
अपशब्दोऽपवादः ॥ क ॥
ननु यद्यहं दूतं प्रेषयिष्यामि । तदा 'स्वच्छन्दचारिणीयाम्' इति किंवदन्ती
भविष्यतीत्याशङ्क्याह—नचेति ॥ बहतीजगतीशब्दौ छन्दोजातिवचनौ तृती-
यान्तौ ख्यातपदेन प्रसिद्धार्थेन योज्यौ । तथा संगतैः पदैरन्विते । अथवा छन्दसि
कथंभूते पदान्विते कथं यथा भवति वृहत्यासं वृहत्यां जातौ आसोऽवस्थानं
यस्येति पदान्वयक्रियाविशेषणम् । यदिवा वृहत्या जात्या हेतुभूतया याऽसौ संप-
च्छोभा तयान्विते । पक्षे वृहत्या गुर्व्या संपदा श्रियान्विते । जगति लोके आ-
ख्याते कीर्तिते । गुरवो विपरीतलकारादयः । आचार्याश्च । शार्दूलविक्रीडितं
छन्दोनाम, सिंहविलसितं च । श्लोकः पद्यं यशश्च । वृत्तं पद्यं शीलं च । इह
यद्यपि श्लोकोऽनुष्टुप्छन्दो लोके प्रसिद्धम् । तथापि केचित्सर्वमपि पद्यं श्लोक-
माहुः ॥ ख ॥
१ 'संवाधो;', 'संबोधो' २ 'सुषूक्तेऽतिसुप्रतिष्ठिते जगति'. ३ 'सात्कृति'. ४ 'स्वार्थे
सद्धंशस्थे विलसत्करकंकणे पुण्यश्लोके'. ५ 'विचार्यमाणे'. ६ 'न वृत्तभङ्ग'. ७ 'लीला'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१२२ नलचम्पूः ।
'महानुभाव, यथेयमनुरागकन्दलैर्रालापैस्त्वयोक्ता, तथा सोऽपि
स्पृहणीयोक्तिभिरभिधातव्यः । यतो नैहैकहस्ततलेन तालिका वाद्यते,
नचैकं तप्तमतप्तेनापरेण लोहं लोहेन संधीयते, नाप्येकं रक्तमरक्तेना-
न्येन वस्त्रमपि वाससा संयोजितं शोभां लभते । केवलं विर्युगलमेव
भवति' इति ॥ क ॥
एवंवादिनीं दमयन्ती परिहासशीलामलपत् ॥ ख ॥
'सखि, किमस्य निष्कारणवत्सलस्यैवमभ्यर्थ्यते ॥ ग ॥
यंस्यास्मासु निरपेक्षः पक्षपातः, स्वभावजं सौर्जन्यम्, अकृत्रिमः
स्नेहभावः, अनुपचरितमुपकारित्वम्, अपरिचया प्रीतिः, अनभ्यासं
सौहार्दम्, अदृष्टपूर्वा मैत्री ॥ घ ॥
तदेवंविधो निर्निमित्तबन्धुः किमभ्यर्थ्यते । केन याच्यन्ते चन्द्रच-
न्दनसज्जनाः परोपकाराय । किंतु कतिपयमुहूर्तमैत्रीर्रञ्जितास्मन्म-
नसो दुस्त्यजस्याकाण्ड एवास्य गन्तुमुत्सहमानस्य किं ब्रूमः । मा गा
इत्येशकुनम्, गच्छेति निष्ठुरता, यदिष्टं तद्विधीयतामित्यौदासीन्यम्,
आदर्शनारप्रियोऽसीति क्रियाशून्यालापः, कस्त्वमेवंविधो दिव्यवाक्प-
क्षिरत्नमित्यप्रस्तुतप्रश्नः, केनार्थीत्यप्रक्रान्तम्, किं ते प्रियमोराचरामीत्यु-
पचारवचनम्, कृतोपकारोऽसीति प्रत्यक्षस्तुतिः ॥ ङ ॥
तन्न जानीमः कल्याणबन्धो, किमुच्यसे । वरमदर्शनमेव र्भवादृ-
शाम्, नतु लूयमानाङ्गावयवदुःसहो दर्शनव्याघातः । वरमनास्वादित-
मेवामृतम्, नतु सकृत्पीत्वा पुनरैलाभदुःखम् ॥ च ॥
अैतः प्रार्थ्यसे भूयो दर्शनार्थम्, इैयं भविष्यति भवत्प्रियस्य कस्या-
प्युपायनमात्रमस्मदनुस्मरणनाटकसूत्रधारी हारलता' इत्यभिधाय नल-
सुररीकृत्य 'महानुभाव, द्वाभ्यां श्रुतोऽसि पान्थार्दॆस्माद्राजहंसाच्च,
द्वाभ्यामुह्यसे वाचा हृदयेन च, द्विकालं स्मर्यसे दिवा नक्तं च, द्वयी
गतिरस्माकमिदानीं त्वं वा मृत्युर्वा' इति द्विसंख्यैसंदेशौर्थमिव द्विगु-
यस्येति ॥ पक्षो मित्राद्यवष्टम्भः पक्षती च । अभ्यासः सामीप्यम् ॥ घ ॥
१ 'नह्येकहस्तेन'. २ 'अपरेण'. ३ 'विफलमेतद्भवति'. ४ 'लीलाम्'. ५ 'यदस्य'.
६ 'सौन्दर्यम्'. ७ 'अनायासम्'. ८ 'परोपकारकरणाय'. ९ 'मैत्रीरस'. १० 'अशकुनः'.
११ 'अप्रस्तुतम्'; 'अप्रस्तुतः'. १२ 'आचरामः'. १३ 'उपचारः'. १४ 'भवादृशानाम्'.
१५ 'अलाभस्तद्दुःखमेव'. १६ 'एष प्रार्थ्यसे'. १७ 'इयं च'. १८ 'द्विधा'.
१९ 'अस्माच्च राजहंसात्'. २० 'द्विःकालम्'. २१ 'त्वं मृत्युश्चेति'. २२ 'संख्या'.
२३ 'संदेशानार्थम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
णीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठितामिव स्वां मूर्तिमतीं तस्य
मुक्तावलीं गले व्यलम्बयत् ॥ क ॥
सोऽपि 'सुन्दरि, सोऽयं स्कन्धीकृतो मया मुक्तावलीच्छलेन
तस्य पुरो भवद्वर्णनाभारः' इत्यभिधाय सह तेन विहंगमगणेनोत्प-
पात ॥ ख ॥
उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां सफललोचनाः,
पश्यतापूर्वं खीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानि-
वाह्वयति, तीव्रप्रभ्रमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्धा-
वकाशा आशा इवाश्वासयति, पक्षिमण्डले तस्मिन्विस्मयोन्मुखी सा
भूपालपुत्री निर्निमेपं निक्षिप्य चक्षुश्चिरमूर्ध्वैवावतस्थे ॥ ग ॥
चिन्तितवती च ॥
'तात तावन्ममाप्येवं न विधत्से प्रजापते ।
पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ ३ ॥
अपिच ।
उड्डीय वाञ्छितं यान्तो वरमेते विहंगमाः ।
न पुनः पक्षहीनत्वात्पङ्गुप्रायं कुमानुषम्' ॥ ४ ॥
इति चिन्तयन्ती गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फार-
लोचना निस्पन्दतया काष्ठकल्पावस्थां दधाना चिरात्सखीभिः संबोध्य
स्वगृहंमनीयत ॥ घ ॥
सोऽपीति ॥ स्कन्धीकृतोऽङ्गीकृतः ॥ ख ॥
उत्पतिते च नभस्तलमिति ॥ दिक्पालानाह्वयतीत्यनेन भाविदिक्पाला-
गमनं सूच्यते ॥ ग ॥
उड्डीयेति ॥ यद्यपि मनोरपत्यं स्त्री मानुषी पुमान्मानुष इति 'स्त्रीपुंसयोरप-
त्यान्ता द्विचतुःषट्पडोरगाः' इति लिङ्गवचनान्मानुषशब्दस्य स्त्रीपुंसस्य वृत्तित्ता,
तथापि नपुंसकलमपि । लिङ्गस्य लोकाश्नयलात् । तथाच भवभूतिः—'अद्वैतं
सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो
रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारस्थितं भद्रं तस्य सुमानुषस्य कथम-
प्येकं हि तद्दुर्लभम्' ॥ ४ ॥
१ 'उत्कण्ठामिव मूर्तिमतीम्'. २ 'संपद्यताम्'. ३ 'लोचनानि; लोचनता'. ४ 'पटले'.
५ 'निक्षिप्तचक्षु'. ६ 'ऊर्ध्वमुखैव'. ७ 'संचिन्तयन्ती'. ८ 'विस्मयेन'. ९ 'विस्फारित-
विलोचना'; 'विस्तारितलोचना'; 'विस्फारितलोचना'. १० 'स्वगृहान्'.
१२४ नलचम्पूः ।
ततः प्रभृति च तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति
वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्र्वति स्वेदाम्भो न स्तम्भः,
मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, संतापशान्तये
तद्गुणादानं न ज्ञानम्, प्रीयते हारो नाहारः, सुखायाङ्गे लग्नमुद्यानप्र-
भञ्जनो न जनः ॥ क ॥
पठति च मुहुर्मुहुरिमं श्लोकम् ॥ ख ॥
विश्राम्यन्ति न कुत्रचिन्ने च पुनर्मुह्यन्ति मार्गेष्वपि
प्रोत्तुङ्गे विलैगन्ति नान्तरतरुश्रेणीशिखापञ्जरे ।
खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया
धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः॥५॥
तेऽपि राजहंसाः शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु,
वनेषु, सुशोभां कौमुदीं दधत्सु, शश्वदनुकृतसौमुद्रवृद्धिषु, चन्द्रमण्ड-
लरूपेष्विव सरःसलिलेषु विर्हरन्तस्तुहिनाद्रिकुञ्जॉंनिव सत्रिपथगान्न-
गनगराग्राम्राग्रहारप॑त्तनप्रदेशानुलङ्घयन्तः कतिपयदिवसैरासेतुरुद्यानं
निषधायाः ॥ ग ॥
तत इति ॥ प्रभञ्जनो वात एवाङ्गे लग्नन्सुखाय न परिजनः ॥ क ॥
विश्राम्यन्तीति ॥ मनसि रथा इव मनोरथाः संकल्पाः । विश्रामादयो रथ-
धर्माः ॥ ५ ॥
तेऽपीति ॥ हंसा वनेषु सरोजलेषु च विहरन्तो नगादिप्रदेशान् व्यतिक्राम-
न्तो निषधोद्यानमापुः । कीदृक्षु वनेषु । शशा अङ्के यस्यास्ताथाभूता धरा भूमिर्येषु ।
तथा सच्छद्मानः पञ्चाननाः सिंहा येषु । शिवस्तु शशाङ्कं चन्द्रं धरति । तथा सह
प्रपञ्चैः पृथग्भागमोपदेशलक्षणैर्वर्तन्ते तथाभूतानि पञ्चसंख्यानि आननानि वक्त्रा-
णि यस्य । सरोजलेषु कीदृक्षु कुमुदानांमियं कौमुदी शोभा ताम् । चन्द्रमण्डले तु
कौमुदी चन्द्रिका ताम् । तद्विशेषणं सुशोभामिति । अनुकरणमनुहरणम् । चन्द्र-
पक्षे अनु पश्चात्कृता सामुद्री वृद्धिर्येन । चन्द्रोद्यो हि जलधिविवृद्धये । न विद्यन्ते
नावो यत्र तदनु, अनु यथा भवति एवं कृतवृद्धिषु । पूरोत्पीडे हि न केऽपि नावं
क्षिपन्तीति । नगनगरप्रदेशान् । कीदृशः । सत्राणि ब्राह्मणादीनां भोजनानि यज्ञा
वा विद्यन्ते येषु । ते च ते पन्थानश्च सत्रिपथास्तानाच्छन्ति प्राप्नुवन्तीति सत्र्रि-
पथगास्तान् । हिमाद्रिनिकुञ्जांस्तु सह त्रिपथगया गङ्गया ( तस्य द्वित्वम् ) ॥ ग ॥
१ 'सुखायालमुद्यान'. २ 'ननु'. ३ 'अपि गलन्ति'. ४ 'समुद्र'. ५ 'रूपेषु सरः';
'रूपेषु च सरः'. ६ 'विहरन्तो बिसशकलानि कवलयन्तः कूजन्तः'. ७ 'निकुञ्जानिव'.
८ 'पुरपत्तन'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
क्रीडितुमारभन्त च स्वच्छन्दम् ॥ क ॥
अथ तेषामन्यतममवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसीमा-
गत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् ॥ ख ॥
'देव, हंसवार्तामनुदिनं पृच्छति देवस्तदद्य काचित् ॥ ग ॥
कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् ।
त्वदरिवधूरिव राजन्नुद्यानस्रोगता हंसी ॥ ६ ॥
अपि च ।
अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि ।
नीरागमना नृपते तव रिपुवनितातये हंसी' ॥ ७ ॥
राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधारयन्स्तोकस्मितसुधा-
धवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः
कथमन्धथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदा-
स्ते ॥ घ ॥
तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूककुसुमकान्तदन्त-
च्छदा नीलांशुकपटीं परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा
हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव,
सोऽयं कथमप्यागतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं
राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादा-
रविन्दयोर्निधाय राज्ञः प्रणाममकरोत् ॥ ङ ॥
कुरुत इति ॥ राजन् नृप, उद्यानतडागगता हंसी नालस्य बिसकाण्डस्य कव-
लनं ग्रासं कुरुते । तथा गर्भे मध्ये यो जम्बालः कर्दमस्तं च दूरं परिक्षिपति ।
वधूस्तु उद्यानेन पलायनेन सरोगता रोगवत्ता यस्याः । तथा अलकस्य वलनं न
कुरुते । गर्भजातं बालं दूरे क्षिपति । भीत्या हि गर्भः पतति ॥ ६ ॥
अभिलषतीति ॥ नालं कमलकाण्डमशनमाहारं वाञ्छति । स्वपित्यपि नूत-
नाभ्जपत्रशय्यायाम् । नीरे आगमनं यस्याः । रिपुवनिता तु नीरागं वैराग्योपेतं
मनो यस्याः । अतएवालमत्यर्थमशनं नाभिलषति । नापि कमलदलतल्पे शेते ।
वा अथवा ॥ ७ ॥
तावदिति ॥ यावत्तद्वार्तयास्ते नृपस्तावत् । शरदुपमा वनपालिका प्रविश्य
देवेत्यभिधाय तं राजहंसं राज्ञः पादयोर्निधाय प्रणामं चकार । नीलोत्पलदलादीनि
लोचनादीनामुपमानानि । दन्तच्छद ओष्ठः । नीलमंशुकं वासस्तस्य पटी उत्त-
१ 'तेषां मध्येऽन्य'. २ 'पङ्कजपुञ्जपञ्जरे'. ३ 'राजहंस'. ४ 'दिवसम्'. ५ 'यतते'.
६ 'अवधार्य सावसरं प्रशस्य स्तोक'. ७ 'राजहंसाः'. ८ 'अकथयनातः'.
१२६ नलचम्पूः ।
राजापि 'सारसिके, साधु कृतम् । तत्क्रियतामशून्यः स्वाधिकारः ।
गम्यतामिदानीं १यथास्थानम्' इत्यभिधाय तुष्टिप्रदानपरितोषितां तां
लवङ्गिकासहितां विसृज्य, विरलीकृतपरिजनः प्रत्युज्जीवनौषधमिव
प्राणरक्षाक्षरमिव स्वस्तीकरणमणिमिवो२श्वासनाभेषजमिवान्लादनकन्द-
मिव तमग्रेस्थितमानन्दनिःस्पन्दपक्ष्मपालिना चिरं चक्षुषा३ऽवलोक्य
बहु मानयन्मुग्धस्मितेन स्वागतमपृच्छत् ॥ क ॥
सोऽपि 'देव, ४दर्शनामृतमनुभवतो ममाद्य स्वागतम्' इत्यभिधा-
योपश्लोकयांचकार ॥ ख ॥
'देव,
प्रसृतकमलगन्धं नीरसंसक्तकण्ठं
धृतकुवलयमालं जातभङ्गोर्मिकं च ।
त्वयि कृतरुषि भीतास्तावदास्तां तडागं
निजमपि च कलत्रं शत्रवो नाद्रियन्ते ॥ ८ ॥
किं चान्यत् ।
असमहरिततीरं विस्रजम्बालशेषं
स्फुटकुमुदपरागोल्लाससंपद्वियु५क्तम् ।
रीयम् । परिपाके हि शालिगौरः स्यादतस्तन्मञ्जरीवद्गौरमङ्गं यस्याः । प्रवृद्धाः
काशाः काशपुष्पाण्येव हासो यस्याः ॥ ङ ॥
प्रसूतेति ॥ प्रसृतः कमलानामब्जानां गन्धो यत्र । तथा नीरेण संसक्तो
युक्तः कण्ठः पालिप्रान्तो यस्य । तथा धृता कुवलयानां नीलोत्पलानां माला येन ।
तथा जाता उत्पन्ना भङ्गास्तरङ्गा ऊर्मयः कल्लोला यत्र । एतच्चतुष्टयमपि तडागा-
दरहेतुः । देव, त्वयि रुष्टे यद्भीताः शत्रवस्तडागमेवंविधं नाद्रियन्ते । यावत्क-
लत्रमपि । तत्किंविशिष्टम् । प्रसृतः के मूर्ध्नि मलगन्धो यस्य । स्नानाभावात् । तथा
निर्गतो रसो वक्त्रामृतकला शृङ्गारादिर्वा यत्र । तथा सक्तोऽन्तर्लग्नः कण्ठो यस्य ।
तथा धृता कुत्सितवलयानां सुवर्णाद्यभावात्काचादिवलयानां माला येन । तथा
जातभङ्गा भग्ना ऊर्मिका अङ्गुलीयकं यस्य ॥ ८ ॥
असमेति ॥ हरित्पतेः सिंहपद्धतेः सकाशादीरः क्षेपस्त्रासो हरिततीरः, असमो
हरिततीरो यस्य । अथवा मा लक्ष्मीस्तया सह समं, न सममसममश्रीकम् । तथा
हरित्तीवार्नरपङ्कीरीरयति क्षिपति । पश्चात्कर्मधारयः । तथा विगतस्रजं विगतमा-
ल्यम् । तथा बालशेषं हतमन्त्र्यादित्वात् । तथा स्फुटं कु कुत्सा यस्य तं स्फुटकुम् ।
१ 'यथावस्थानम्'; 'यथास्वस्थानम्'. २ 'आश्वासन'. ३ 'विलोक्य'. ४ 'त्वद्दर्शन'.
५ 'विमुक्तम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA