नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 134, कुल 258 में से
संदर्भ में पढ़ें११४ नलचम्पूः ।
इति रभसमिवास्य प्रस्तुतं श्लाघमानो
वियति पटुरकस्मादुत्थितस्तूर्यनादः ॥ २२ ॥
अपि च ।
उपरि परिमलान्धैः सस्वनं संचरद्भि-
र्मधुकरनिकुरम्बैश्चुम्ब्यमाना भैरेण ।
अविरलमधुधारासारसंसिक्तभूमिः
सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥ २३ ॥
अवतेरुश्च तत्कालमेवाम्बरतलादुल्लसद्ब्रह्मकान्तिकलापपवित्रीकृता-
ष्टाग्दिग्भागभूमयः सकलसागरसरित्तीर्थाम्बुपूर्णकमण्डलुमृत्कुशकुसुमौ-
षधिरुद्धपाणयो दर्शनादेवापनीतसमस्तकलिकल्मषाः केऽपि कुतोऽपि
ब्रह्मर्षयः ॥ क ॥
सहर्षेण सविनयेन सपरिवारेण च चलत्कर्णोत्पलगलद्वहलरजः-
पुञ्जपिञ्जरितकपोलपालिना पृथिवीपालेन प्रणम्य कृतातिथेयाः समु-
चितान्यलंचक्रुरासनानि ॥ ख ॥
कृतकुशलप्रश्नालापाश्च प्रस्तुतकुमाराभिषेकस्य नरपतेः स्वस्वक-
ण्डलुवारीणि दर्शयामासुः ॥ ग ॥
इदं मन्दाकिन्याः सलिलमवगाहागतमरु-
त्पुरंध्रीणां पीनस्तनशिखरभङ्गोर्मिवलयम् ।
इदं कालिन्द्याश्च प्रविकसिततीरद्रुमलता-
पतत्पुष्पैरन्तः सुरभिततरङ्गं नृप पयः ॥ २४ ॥
इदं गोदावर्यास्त्रिनयनजटाखण्डगलितं
महाराष्ट्रीनेत्रैः कृतकुवलंय मज्जनविधौ ।
इदं चापि प्रेङ्खन्मुनिजनविकीर्णाधकमलं
पयो विन्ध्यस्कन्धस्थलविलुलितं नार्मदमपि॥ २५॥ युग्मम् ।
उचितेति ॥ कटुत्वमत्राप्रियत्वमेव ॥ २२ ॥
तदेतदिति ॥ शयनसमये युगान्ते शार्ङ्गधनुषो विष्णोः संबन्धिनौ चरणौ
प्रक्षाल्य पुण्यानां परमसीमानं गतमुदधेः समुद्रस्य तदेतत्पयो वर्तते । यत्र विहा-
राय क्रीडार्थमुन्मज्जन्ति यानि वरुणवधूवृन्दवक्त्राणि तैः कृत्वा विकसदम्भोजख-
ण्डशोभां क्षणं दधौ ॥ २३ ॥
१ 'श्लाघ्यमानः'. २ 'देरेण'. ३ 'मृत्कुसुम'. ४ 'प्रणय'. ५ 'भग्न'. ६ 'जटाजूट'.
७ 'जनम्'.