सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

४० मृगेन्द्रतन्त्रे । [ २१
स्तदासेवनात्मकेन शालन्ते शोभन्ते इति वैरा-
ग्याभ्यासशालिनः दान्ताश्चोपशमयुक्ताः । एवं-
विधैर्यगिभिः शनैर्शनैर्निखिलमपि जगत् धार-
णाव्याप्तिक्रमेण गोचरीकर्तुं शक्यते, किं पुन-
र्ध्येयं चित्रं पारमेश्वरं वपुरिति ॥
एवं सालम्बनं योगमुपदिश्य प्रकृष्टमना-
लम्बनमुपदेष्टुं भूमिकां विरचयति ।
केयं वा रूपकेयत्ता
सर्वाधिष्ठानयोगिनः ॥५८॥
सर्वदा सर्वभूतानां
सर्वाकारोपकारिणः ।
स्थानरूपप्रमाणानि
परिकल्प्य स्वचेतसा ॥५९॥
यत्रोपरमते चित्तं
तत्तद्धेयं पुनः पुनः ।
यद्वा सर्वाधिष्ठानयोगिनः परमेश्वरस्येयमेव
श्वेतादिवर्णा दशभुजा पञ्चवक्त्राद्याकृतिर्ध्या-
तव्या इति कोऽयमेवंविधं रूपं प्रति नियमो

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४१
न कश्चिदित्यर्थः । विततवैभवविजृम्भावतः
परिमितरूपाकृतिस्थानोपासनमसमीचीनमेव
किल भगवतः । अतश्च बहिरन्तर्वाविचलित-
चेतसा स्थानरूपप्रमाणाकृत्यादि परिकल्प्य यत्र
यत्र भावशरीरे भूतशरीरे वा चित्तमुपशाम्यति
तत्र तत्र भूयोभूयः प्रयत्नवता गुरूपदेशसम-
धिगतयुक्तिना ध्यातव्यम्। उक्तं च पारमेश्वरे
'नेन्द्रियाणि न च प्राणा न मनो धिषणेषणा ।
नाहमस्मि न चान्योऽस्मि चित्तस्य प्रलयस्ततः ॥
चित्तक्षयः परावाप्तिरिति सत्यं गणाम्बिके ।'
इति ॥
अथास्यैव फलमाह
तेनास्य चेतसः स्थैर्यं
सविशेषगुणं शनैः ॥ ६० ॥
उन्मील्य योगसंस्कारं
हतविघ्नस्य जायते ।
'तत्रास्था चेतसः कथम्' इति यत् प्राक् पर्य-
नुयुक्तं तदर्थमिदम् । तेनामुना प्रागुक्तेन योगे-
नास्य योगिनो निर्विघ्नस्य च सतः चेतसः स्थैर्य-
६ मृ. यो.

४२ मृगेन्द्रतन्त्रे । [१११
मचाञ्चल्यं परस्वरूपविश्रान्तेरतिविलक्षणं जा-
यते । कीदृशं तत्स्थैर्यमित्याह-सविशेषगुणं
सविशेषाः सातिशया गुणाः प्रागुक्ता अणिमा-
दयो यत्र तत्तथा। किं कृत्वैतत्तु उत्पद्यते इत्याह-
शनैर्योगसंस्कारमुन्मील्य क्रमेण योगसंस्कारं
तल्लयरूपं प्रकाश्य तद्वासनाधिष्ठितत्वात् तद्व्य-
वहारावस्थितस्यास्य निर्विघ्नस्य सतस्तत्रैव चित्त-
स्थैर्यं जायते इत्यर्थः ॥
एवमतिष्ठतः सम्य-
ग्विनैवाकारकल्पनाम् ॥ ६१ ॥
अकिञ्चिच्चिन्तकस्यास्य
रूपमुन्मीलति स्वकम् ।
सर्वार्थदृक्रियारूप-
मानन्दमयमव्ययम् ॥ ६२ ॥
यत्प्राप्य न पुनर्दुःख-
योगमेत्यशिवावहम् ।
एवमेनं प्रागुक्तं योगविधिं सम्यक् शुद्धा-
भ्यासातिशयवशेनाकारकल्पनां विनाप्यनुति-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ४३
ष्ठतो योगिनोऽकिंचिच्चिन्तकस्य किंचिदप्यचि-
न्तयतश्चित्तक्षयात् स्वात्मन्येव निस्तरङ्गमहोद-
धिप्रशान्तेऽवस्थितस्य स्वकं निजं रूपमुन्मीलति
विकसति अपरिमितं संपद्यते, प्रसरन्निरावरण-
निजस्वरूपो भवति इत्यर्थः । कीदृक् स्वकं रू-
पमुन्मीलतीत्याह—सर्वार्थदृक्क्रियारूपमित्यादि,
सर्वार्था सर्वविषया दृक् ज्ञानं क्रिया च व्यापा-
ररूपा ते एव रूपं यस्य । यतः
‘ज्ञानक्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे ।’
इति यच्छिवरूपमागमेषूपदिष्टं तदानन्दमयम-
नुरूपमाह्लादसुन्दरमव्ययं चाविनश्वरमस्य यो-
गिन एवमभ्यस्यतोऽभिव्यज्यते । यत्प्राप्तेर्ज-
न्ममरणादि अशिवमश्रेय आवहतीत्यशिवावहं
संसारलक्षणं दुःखयोगं नैति न प्राप्नोति ।
उक्तं च श्रीमदवधूतगुरुणा
‘यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वत्तन्मतचोदिताः ॥’
इति ॥
अत्र स्वरूपप्रशंसापूर्वमतिरहस्यतया सर्वान्
प्रति अप्रकाश्यत्वमभिधातुमाह

४४ मृगेन्द्रतन्त्रे । [ ११

एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ॥ ६३ ॥
साक्षादालोचनं शम्भो-
रत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैत-
देयं नातिप्रमादिने ॥ ६४ ॥
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥
यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूह-
नीयं निरतिशयनिःश्रेयसावाप्तिहेतुत्वात् , अत
एव च सिद्धैरमरैश्चाभिष्टुतम् । साक्षात् परमे-
श्वरस्य तेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेतन्नाल्पकालोषितायान-
तिचिरोपसन्नत्वात् अविज्ञातनिरतिशयश्रद्धा-
भक्तियोगाय शिष्याय, नातिप्रमादिने सप्रमा-
दाय न चाल्पप्रज्ञायानयोरुभयोरपि रक्षितु-
मशक्यत्वात् । नाप्यतपसे नियमविरहिताय ।
न च यः परमेश्वरार्चनं न करोति । एतयोर-
१ 'ज्ञानयोगयोरपि' ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४५
प्रमादित्वांजडत्वे सत्यपि तपोविरहात् भक्त्य-
योगतश्चानधिकृतत्वात् ॥
तदेवमस्यापि योगविधेर्भुक्तिमुक्तिलक्षणं
फलमवगन्तव्यमित्येतदुपसंहाराय पुरस्ताद्-
भिधास्यमानचर्यापादोपक्षेपाय चायं श्लोकः
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै-
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥
अस्यैवंविधस्य निरालम्बनस्य योगस्याभ्यासः
पुनःपुनःसेवनं तस्माद्दिव्या अलौकिक्यश्चतुः-
षष्टिगुणा अणिमादिसिद्धयो येषां ते दिव्य-
सिद्धयः अंशुजालाः शक्तिप्रसराः तैः, रोरुचानो
वितततेजःपुञ्जत्वात् देदीप्यमानः सन् अभि-
मतान् लोकान् यथेच्छं विहृत्य इति तेषु
स्वर्गादिलोकेषु विहरणं क्रीडालक्षणं निर्वर्त्य,
अपगतानि बाह्यविषयैकग्रहणप्रवणानि अन्त-
रात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिः सा-
त्येन गच्छन्तीति आस्रवशब्दवाच्यानीन्द्रि-

४४ मृगेन्द्रतन्त्रे । [ १।१
एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ॥ ६३ ॥
साक्षादालोचनं शम्भो-
रत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैत-
द्देयं नातिप्रमादिने ॥ ६४ ॥
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥
यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूह-
नीयं निरतिशयनिःश्रेयसावाप्तिहेतुत्वात्, अत
एव च सिद्धैरमरैश्चाभिष्टुतम् । साक्षात् परमे-
श्वरस्य तेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेतन्नाल्पकालोषितायान-
तिचिरोपसन्नत्वात् अविज्ञातनिरतिशयश्रद्धा-
भक्तियोगाय शिष्याय, नातिप्रमादिने सप्रमा-
दाय न चाल्पप्रज्ञायान^१योरुभयोरपि रक्षितु-
मशक्यत्वात् । नाप्यतपसे नियमविरहिताय ।
न च यः परमेश्वरार्चनं न करोति । एतयोर-
१ 'ज्ञानयोगयोरपि' ।

प्रमादित्वाञ्जडत्वे सत्यपि तपोविरहात् भक्त्य-
योगतश्चानधिकृतत्वात् ॥
तदेवमस्यापि योगविधेर्भुक्तिमुक्तिलक्षणं
फलमवगन्तव्यमित्येतदुपसंहाराय पुरस्ताद्-
भिधास्यमानचर्यापादोपक्षेपाय चायं श्लोकः
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै-
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥
अस्यैवंविधस्य निरालम्बनस्य योगस्याभ्यासः
पुनःपुनःसेवनं तस्माद्दिव्या अलौकिक्यश्चतुः-
षष्टिगुणा अणिमादिसिद्धयो येषां ते दिव्य-
सिद्धयः अंशुजालाः शक्तिप्रसराः तैः, रोरुचानो
वितततेजःपुञ्जत्वात् देदीप्यमानः सन् अभि-
मतान् लोकान् यथेच्छं विहृत्य इति तेषु
स्वर्गादिलोकेषु विहरणं क्रीडालक्षणं निर्वर्त्य,
अपगतानि बाह्यविषयैकग्रहणप्रवणानि अन्त-
रात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिः सा-
तत्येन गच्छन्तीति आस्रवशब्दवाच्यानीन्द्रि-

याणि यस्मात् तमपास्त्रवं परिहृतबहिर्वृत्तित्वेन-
सर्वदान्तर्मुखसमग्रेन्द्रियग्रामं, दिव्यमपि देहं
यथाभिमते कस्मिंश्चिदपि काले हित्वा संत्यज्य,
स्वरूप एवास्ते, निर्वृतो भवतीत्यर्थः। कीदृशः
सन्नित्याह-आश्चर्यचर्याधिवास इति, आश्चर्य-
प्रधाना सा आश्चर्यचर्या अत्यद्भुतत्वादप्रमेयं
स्थित्यादिपञ्चविधकृत्यकर्तृत्वं तस्या अधिवासः
उपाश्रयः। परमेश्वरवदिच्छामात्रसंपाद्ये पञ्च-
विधे स्थित्यादौ व्यापारे शक्तोऽपि स्वात्मन्ये-
वास्ते करणीयस्याभावात्-इत्येतद्विवेचितप्रायं
विद्यापाद एवेति शिवम् ॥
संक्षिप्तोक्तिः स्फुरति विततं स्फारयन्ती प्रमेयं
पौर्यापर्यक्रमविमृशनात्पौनरुक्त्यं न किंचित् ।
नातिव्याप्तिः प्रकृतकथनान्नैव चाव्याप्तिरित्थं
योगः साङ्गो जयति गदितः श्रीमृगेन्द्रागमेऽस्मिन् ॥
इति श्रीमद्विद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ योगपादप्रकरणम् ॥
समाप्तश्चायं
योगपादस्तृतीयः ॥

This page is blank and contains no text.

This page is blank and contains no text.

This page is blank and contains no text to transcribe.

This image contains a blank page/cover with no visible text to transcribe.

The provided image is a blank page (or endpaper) with no visible text to transcribe.

The provided image contains only a blank book cover (cloth/buckram binding texture) with no visible text, sutras, or commentary to transcribe.