मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
३४० मृगेन्द्रतन्त्रे । [ ११३
इत्थं बिन्दुकलाचतुष्कमुक्त्वा नादकलो-
त्त्यर्थमाह
ऊर्ध्वाधोविषयालोको
महान्यश्च महत्तरः ॥१७०॥
महत्तमश्च क्रियते
चितो याभिर्विमुच्यतः ।
ता इन्धिकाद्यास्तत्स्थानं
तद्वानीशस्तिसृष्वपि ॥१७१॥
विमोचनं विमुक्तिर्बन्धापगमः । विमुचमि-
च्छत्यात्मन इति क्यचि कृते शत्रन्तस्य विमु-
च्यत इति रूपम् । एवं च विमुच्यतो मोक्षै-
षिणः पुंस ऊर्ध्वाधोविषय आलोकः प्रकाशो
महानिन्धिकया विधीयते स एव दीपिकाख्यया
महत्तरः संपाद्यते, रेचिकया त्वसावेव मह-
त्तमः क्रियते, तानि चैतासां स्थानानि इन्धि-
कादिसंज्ञानीति । तिसृष्वप्येतासु कलास्व-
धिपतिस्तद्वानीतीन्धिकाद्युपलक्षितो वेदित-
व्यः ॥ १७१ ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३४१
अथ मोचिकायाश्चोर्ध्वगायाश्चोक्तव्यापा-
रमाह
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
प्रमाष्टि तद् यया सास्य
मोचिका तत्पदं च यत् ॥१७२
मोचकस्तत्क्रियाकृच्च
ययेशानं करोति तम् ।
सोर्ध्वगा तत्पदं चेति
तदीशश्चोर्ध्वगापतिः ॥१७३॥
विद्येशाद्यधिकारभाजां सर्वज्ञत्वादिगुणयो-
गेऽपि मलांशावशेषतः प्रेर्यत्वं यदस्ति तद्यया
शक्त्यात्मनो निवर्तयति सास्य भगवतो मो-
चिकाख्या शक्तिस्तस्याश्च यत्स्थानं तत्कृत्यकारी
च परमेश्वरः, तदेतत् सर्वं मोचिकाख्यया व्य-
पदेश्यं यया कृतानुग्रहमीशानं संपादयति सा
शक्तिरूर्ध्वगाख्या, तच्च स्थानमूर्ध्वगाख्यं, तद-
धिष्ठाता चेश्वर ऊर्ध्वगाधिपतिरित्युक्तः ॥१७३॥
३४२ मृगेन्द्रतन्त्रे । [ १।१३
येऽपि तत्पदमापन्नाः
शैवसाधनयोगतः ।
ते तत्स्थित्यन्तमाह्लादं
प्राप्य यान्ति परं पदम् ॥ १७४
न च सृष्ट्यादि कुर्वन्ति
स्वार्थनिष्ठा हि ते यतः ।
तत्तद्विधोपदेशरूपेण ज्ञानाख्येन वक्ष्यमा-
णानेकविधभुवनयोजनात्मकेन दीक्षाख्येन शै-
वेन पारमेश्वरेण साधनेनोपायेन युक्तत्वात् ये-
ऽणवस्तत्पदावाप्तिभाजस्तत्स्थितिपर्यन्तं निर-
तिशयानन्दात्मकं भोगं प्राप्य परं पदं यान्ति
शिवसमानाः संपद्यन्ते । न च परमेश्वरवत्सृष्टि-
स्थित्यादि कृत्यं विदधति यतः स्वार्थे परे निर्वा-
णावाप्तिलक्षणे निष्ठा विश्रान्तिर्येषां त एवं-
विधाः । ततः परं प्राप्यस्यान्यस्य च वस्तुनोऽसं-
भवात् प्रेर्यतापगमाच्च सृष्टिस्थित्यादिकृत्यं न
ते कुर्वन्तीति यावत् ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३४३
उपसंहरन्नाह
इति सादाशिवं तत्त्वं
व्याख्यातं लेशतस्तव ॥ १७५ ॥
लेशतः स्वल्पया मात्रया, तवेति प्रष्टुर्भरद्वा-
जमुनेः ॥ १७५ ॥
'ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ।
इत्युक्त्या तच्छक्तितत्त्वमपि तदन्तर्भूतमेवेति
वक्तुमतिदिशति
शाक्तावप्येवमित्येष
सकलः कृत्ययोगतः ।
कृत्यं तदादिविषयं
निष्कलोऽन्यत्र सर्वदा ॥ १७६॥
शक्तिरप्येवं व्यापिकैव ज्ञेया, इत्येवमुक्तया
रीत्या एष सदाशिवनाथः कृत्ययोगात् स्थित्या-
दिव्यापारवशात्सकलः । सह कलाभिर्ब्रह्मपञ्च-
कसंबन्धिनीभिरष्टत्रिंशत्संख्याभिः तारा सुतारा
तरणीत्यादिभिरारब्धमूर्तिकः । यथोक्तं प्राक्
'तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकम् ॥'
इति । तच्च कृत्यं तदादिविषयमिति, तदादिर्वि-
३४४ मृगेन्द्रतन्त्रे । [ १।१३
षयो यस्य प्रथमतस्तदिच्छयैव पञ्चविधकृत्य-
निष्पत्तिरित्यर्थः । अन्यत्रेति स्थित्याद्यप्रवृत्तौ
तदुपरमे वा सर्वकालं निष्कल एव परमेश्वरः
कार्यार्थं कलाकल्पितमूर्तित्वात् ॥ १७६ ॥
भूमिप्राधानिकग्रन्थि-
विद्याबिन्दुकलादिषु ।
गुणकारा दशाद्याः स्यु-
र्नादकोटेरधो मुने ॥ १७७ ॥
भूमिश्च पृथिवी, प्राधानिकं च प्रकृतितत्त्वं,
ग्रन्थिश्च माया, तेषु भूमिप्रधानग्रन्थितत्त्वेषु,
विद्यायां च शुद्धविद्यायां बिन्दुनादकलानवके
च इत्येवमत्र गुणकारा गुणबन्धनस्थानानि स्युः
सन्तीत्यर्थः । तत्र पार्थिवप्राकृतमायीयतत्त्वत्रये
गुणात्मिकाः सत्त्वरजस्तमोबहुलाः काराः
पाशाः सन्ति, सत्त्वादिगुणत्रयमत्र पाशतया
स्थितमित्यर्थः । सत्त्वस्य रजस्तमोपेक्षया प्रका-
शत्वेनोत्कर्षे सत्यपि रजस्तमोभ्यामन्यत्वेन
विषयत्वासंभवात् पाशत्वसिद्धेः । तथा चोक्तं
सिद्धगुरुणा
'सत्त्वगुणावच्छिन्नो भविनां भोगो मलोऽशुचिर्बन्धः ।
पतिभावानलदाह्यः पुंसां चेतोगुणप्रभवः ॥'
इति । विद्यायां बिन्दुनादकलानवके च
गुणानां सर्वज्ञतातृप्त्यनादिबोधादीनां या निर-
तिशयस्य महत्तमस्यालोकस्य कर्त्री मध्यमा
कला रोचिकाख्या तदधोवर्ति च नादकलाद्वयं
बिन्दुकलाचतुष्कं च, शुद्धविद्या माया अव्यक्तं
पृथिवी च काराः प्रतिबन्धकत्वेन स्थिताः। अत
एवाह 'दशाद्याः स्युर्नादकोटेरधः' इति नादस्य
या कोटिरूर्ध्वगाख्यायाः कलायाः पर्यन्तस्तदधो
दशैताः प्रोक्तवन्नादबिन्दुकलानवकं शुद्धवि-
द्यातत्त्वं चेत्येतद्दशकं निरतिशयसर्वज्ञत्वतृप्त्या-
दिपारमेश्वरगुणप्रतिबन्धकस्थानत्वात् आद्या
इति मुख्याः कारा बन्धनभुवः । अन्ये तु भूमिः
प्राधानिको ग्रन्थिरित्यसमस्तपाठाभिप्रायेणैवं
व्याचक्षते । यदुत गुणानां सत्त्वरजस्तमसा-
मशुद्धानां प्राधानिकस्तावत्पाशग्रन्थिरिव ग्रन्थि-
भूमिरिति मुख्यव्याप्तिस्थानं विद्यायां बिन्दु-
नादकलानवके चेत्येवं दशस्वाद्येषु स्थानेषु ।
अन्ये तु शुद्धास्ते सत्त्वाद्यस्तत्तद्भुवनं निर्वर्त्य
३४६ मृगेन्द्रतन्त्रे । [ १।१३
तत्तत्कृत्योपयोगिनः संभवन्ति । यथोक्तमाग-
मान्तरे
'पार्थिवप्राकृताण्डाभ्यामूर्ध्वमण्डद्वये परे ।
शुद्धाः सत्त्वादयः सन्ति बिन्दुनादकलासु च ॥'
इति । अत्र च शुद्धत्वादेव कारात्वमुपपन्न-
मिति न चोद्यं, परकैवल्यप्रतिबन्धहेतुत्वेन
तथाविधानामपि तेषां पाशत्वानपगमात् ।
उक्तं च
'समनान्तं वरारोहे पाशजालमनन्तकम् ।'
इति ॥ १७७ ॥
इदानीं प्रागुक्तानां गहनेशादीनां कियदा-
स्पदमिति प्राक् यन्नोक्तं तद्वक्तुमाह
ऊर्ध्वं कलाया विद्याधः
श्रूयन्ते गहनाधिपाः ।
तदन्तरालमेताव-
दिति धीजात्र लक्षणा ॥१७८॥
विद्याशब्देनात्र माया । तदुक्तं श्रीमत्पौ-
ष्करे
'................माया विद्याऽपरा स्मृता ।'
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ३४७
इति। अस्या अधः कलायाश्चोर्ध्वं गहनेशा-
दयो रुद्राः शास्त्रेषु श्रूयन्ते। तत्र तयोर्माया-
कलयोरेतावत्प्रमाणमन्तरालमिति बुद्धिर्जैवात्र
लक्षणा मानं परिच्छिनत्ति, नत्वत्र प्रमाणं
परमुच्यते मायातत्त्वस्यानन्तत्वश्रुतेः। तथा
चोक्तं तत्रभवद्बृहस्पतिपादैः
‘अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुदीर्णाः।
मायायामानन्त्यान्नोच्येत स्रोतसां संख्या॥’
इति॥ १७८॥
उपसंहर्तुमाह
द्वयोरप्यध्वनोरेवं
क्रमप्रसवयोगिनोः।
विलयः प्रातिलोम्येन
शक्तितत्त्वद्वयावधिः॥१७९॥
एवमित्युक्तेन प्रकारेण क्रमिको यः प्रसवः
सर्गस्तद्योगिनोर्द्वयोरपि शुद्धाशुद्धयोरध्वनोः स-
र्गविपर्ययेण संहारक्रमेण विलयः। यत एव
यस्य प्रसवस्तस्यैव तत्रान्तर्भाव इत्यर्थः। श-
क्तितत्त्वद्वयावधिरिति, शुद्धस्य तावत्परशक्त्य-
न्तः, अशुद्धस्य मायाशक्त्यन्तः॥ १७९॥
३४८ मृगेन्द्रतन्त्रे । [ ११३
अत्यर्थं संक्षेपेण सूचितं संहारक्रमं विशेष-
जिज्ञासुर्मुनिः प्रश्नयति
व्यस्तस्याथ समस्तस्य
विलयः स कथं कियान् ।
तत्त्वमार्गस्य भगवन्
ब्रूहि सर्वार्थदर्श्यसि ॥१८०॥
यतः सर्वगतार्थदर्शित्वं त्वयि भगवन् ततो-
ऽस्माकमादिश कथं केन क्रमेण कियत्काली-
नश्च व्यस्तस्य प्राधानिकादेः समस्तस्य शक्ति-
तत्त्वान्तस्य तत्त्वाध्वनो विलय उपसंहार इति
प्रश्नार्थः ॥ १८० ॥
अथात्रोत्तरं
महास्वापे समस्तस्य
व्यस्तस्यावान्तरो लयः ।
सर्गोऽप्येवं स्थितेः कालः
कथ्यमानोऽवधार्यताम् ॥१८१॥
अनवरतमनन्तपुरुषोपभोगसाधनतनुकरण-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३४९
भुवनादिजननापचितशक्तेर्मायातत्त्वस्य पुनस्त-
त्कार्यनिवर्तनक्षमविचित्रशक्त्युत्तेजनार्थं भविनां
भवभ्रमणखिन्नानां वा विश्रान्त्यै व्यस्तस्य
प्राधानिकादेरध्वनो विलयः स्वेच्छापरिगृहीतस-
दाशिवादिसकलरूपोपसंहृतिलक्षणे महास्वापे
समस्तस्याप्यध्वनः प्रतिसंचरः । यथा यादृश-
श्चासौ तथाग्रे स्पष्टयिष्यति । सर्गोऽप्येवमिति
व्यस्तसमस्तत्वेन । तथाहि परापरविद्येश्वरा-
द्यनेकाधिकारिकृतत्वेन व्यस्तः, परमेश्वरेच्छा-
प्रेरितानन्तादिरूपतया तु समस्तः । तदित्थं
व्यस्तसमस्तस्य चाध्वनः कथं विलय इति
प्रश्नितं यत् तदियता प्रत्युक्तम् । इदानीं
कियानिति कियत्कालीनः स विलय इति
प्रश्नस्योत्तरं 'स्थितेः काल' इत्यादिना स्थिति-
पूर्वकत्वाद्विलयस्य स्थितेस्तावत्कालोऽभिधीय-
मानः श्रूयताम् ॥ १८१ ॥
कोऽसावित्याह
चतुर्युगसहस्रान्त-
महर्हैमाण्डजन्मनः ।
३५० मृगेन्द्रतन्त्रे । [ १।१३
निशा तावत्यहोरात्र-
मानेनाब्दपरार्धके ॥ १८२ ॥
विलयो व्युत्क्रमेणैष
प्रकृत्यादि निवार्यते ।
कृतादियुगचतुष्टयसहस्रान्तमानकं कनका-
ण्डजस्य ब्रह्मणः संबन्धि दिनं तावत्येव च
रात्रिरनेनाहोरात्रमानेन षष्ट्यधिकशतत्रयसं-
ख्यातेऽब्दे एकदशशतसहस्रगणनया परार्ध-
संख्या यदाब्दानामुत्पद्यते तदा व्यस्तस्य प्रा-
धानिकस्याध्वनो विलयः । एष च व्युत्क्रमे-
णेति, सृष्टिक्रमवैपरीत्येन पश्चाद्यस्तस्याध्वनः
सर्गो भूतसंहारस्तु पूर्वमिति वैपरीत्यं तदा च
प्रकृत्यादि प्रधानादि यत्सर्गस्योपादानकारणं
तत् निवार्यते तत्तदधिकृतैरुपसंहृतव्यापारः
क्रियते ॥ १८२ ॥
अथ कथं तदधिकृतास्तदानीमासत इत्याह
तदा रुद्रशतं वीर-
श्रीकण्ठौ च प्रधानपाः ॥१८३॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५१
शक्त्याक्रम्य जगत्सूक्ष्मं
सूक्ष्मदेहांश्च चिद्गतः ।
प्रकृतिस्थाशयान् कालं
तत्स्वापान्तमुपासते ॥१८४॥
तस्मिंश्च काले शतरुद्राः श्रीकण्ठवीरभद्रौ
च क्रोधेशचण्डसंवर्तादयश्च प्रधानाधिकृताः
प्रकृतिस्वापावसानं यावत्स्वाधिष्ठेयं जगत् त-
दानीं शक्तिरूपतयावस्थानात् सूक्ष्मं प्रकृति-
स्थितकर्माशयान् क्षित्यादिकलान्ततत्त्वारब्ध-
सूक्ष्मदेहांश्चिद्गतश्चाणून् स्वशक्त्याधिष्ठाय तिष्ठ-
न्ति ॥ १८४ ॥
तदनन्तरम्
शिवेष्टमन्त्रभृन्नुन्न-
मण्डलाधिपतीरिताः ।
काले जगत्समुत्पाद्य
स्वाधिकारं प्रकुर्वते ॥ १८५ ॥
पुनरवान्तरसर्गप्रारम्भे परमेश्वरेच्छाचोदि-
तानन्तादिविद्येश्वरप्रेरितैर्मण्डलाधिपतिसंज्ञितै-
३५२ मृगेन्द्रतन्त्रे । [ १।१३
रधिकारिरुद्रैः प्रवर्तितास्ते तस्मिन् काले जग-
न्निर्माय यथास्वमधिकारं विदधति ॥ १८५ ॥
अत्र प्रकृतिस्थाशयत्वश्रुतेर्मुनिः संदिहानः
प्रक्ष्यति
कर्म धर्मादिकं तच्च
गुणत्वेन मतौ स्थितम् ।
गुणिनो न गुणोऽपैति
प्रकृतावुच्यते कथम् ॥ १८६॥
धर्माधर्मरूपं यत्कर्म तद्बुद्धेर्गुणत्वेन स्थित-
मित्युकम् ।
‘भावा बुद्धिगुणा धर्मज्ञानवैराग्यभूतयः।’
इत्यादिना । नहि गुणिनः सकाशाद्गुणस्या-
पगमो दृष्टः, न हि पटाच्छौक्ल्यं शर्करादेर्मा-
धुर्यं वा पृथक्कर्तुं शक्यम् । ततश्च प्रकृतिस्था-
शयत्वश्रुतिः कथमिति प्रश्नार्थः ॥ १८६ ॥
सिद्धान्तस्तु
सत्यं बुद्धिगुणः कर्म
नापैति गुणिनो गुणः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५३
देहाक्षफलभूमीनां
तात्स्थ्यात् तत्रोपचर्यते ॥१८४॥
भवत्येव बुद्धिगुणत्वं प्रागुक्तरीत्या धर्माधर्मरू-
पस्य कर्मणः, गुणिनश्च सकाशान्न गुणस्य व्यप-
गमः, तत्र तु प्रकृतौ तत्कर्म स्थितमित्युपच-
र्यते। कस्मादुपचारबीजादित्याह, देहाक्षफलभू-
मीनां तात्स्थ्यात्। यतः प्रकृतिस्था एव भोक्तॄणां
शरीरेन्द्रियार्थभोगभूमयः तस्मात् कर्मापि त-
त्स्थत्वेनोक्तम् । बुद्धिस्थत्वेऽपि कर्माशयस्य
बुद्धेस्तत्स्थत्वात् प्रकृतिस्थाशयत्वमात्मनामुक्त-
मित्यविरोधः ॥ १८४ ॥
दृश्यन्ते च तात्स्थ्यादेरुपचारबीजादनेकवि-
धाः शब्दानामौपचारिक्यः प्रवृत्तयः। तथाहि
आधारे कारणे कार्ये
समीपे चोपकारके ।
धर्मार्थ्यनुकृतौ चेति
लक्षणां सूरयो जगुः ॥१८८॥
मुख्यार्थानुगमानुपपत्तेर्गौणार्थप्रतीतिकारि-
णीं लक्षणां सूरयस्तद्विदो जगुरूचुः । कुत्र कुत्रे
४५
त्याह आधार इत्यादि । तत्र तावदाधारे यथा
‘मञ्चाः क्रोशन्ति’ इति । अत्र हि मञ्चानाम-
धिकरणभूतानामाचैतन्याद्रोदनलक्षणेन क्रोश-
नार्थेनाननुगमादानर्थक्यात् तत्स्थानां बा-
लानां संबन्धि यत्क्रोशनं तत्तेषु तात्स्थ्यात्मक-
लक्षणयोक्तम् । कारणे तु लक्षणा यथा-‘शा-
लीन् वृष्टो देव’ इति । अत्र हि मुख्यया वृत्त्या
शालिवर्षणस्यार्थोऽनन्वित इति लक्षणया का-
लोचितायां वृष्टौ शालिकारणभूतायां प्रतिब-
न्धवैकल्ययोरसंभावनात् संपन्नमेव शालिल-
क्षणं कार्यमुपचर्यते । अथवा ‘आयुर्धृतम्’ इति
आयुष्कारणे घृते आयुषस्तत्कार्यस्योपचारः ।
एवं कार्येऽपि लक्षणा संभवति यथा-‘ऊर्णा
प्रावरणाः’ केचित् अपरे ‘तूलं वासाः’ इति । अत्र
किल सूत्रभावं विना भाविना कम्बलपटा-
दिभावेनापरिणतयोरूर्णातूलयोर्मुख्यया वृत्त्या
प्रावरणत्वमसंभावितं तत्कार्यस्य कम्बलपटा-
त्मन एव तदुपपत्तेः । ततश्च कम्बले पटादौ
च तयोः कारणभूतयोरूर्णाकार्पासयोरुपचारः
कृतः । समीपार्थलक्षणा यथा-‘गङ्गायां घोषः’
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५५
इति । अत्र हि मुख्यया वृत्त्या प्रवहज्जलरूपं
स्रोतः गुणवृत्त्या वा तद्विशेषं यदि किंचित्
गङ्गाशब्दः कथयेत् तदस्यासंभाव्यैव ग्रामा-
धिकरणतेति सामर्थ्यात् तत्सामीप्यलक्षणत्वेन
तद्व्यवतिष्ठते । उपकारकेऽपि लक्षणा दृश्यते
यथा—‘भिक्षा वासयन्ति’, ‘कारीषोऽध्यापयति’
इति । अत्र किल न भिक्षा तत्प्रावरणाञ्चलं
करेण गृहीत्वा गमननिषेधं कुर्वन्ति, नापि सर्व-
थास्मात् स्थानान्न गन्तव्यमिति प्रणयवचनैर-
वस्थापयन्ति, अपि तु प्रचुरान्नव्यञ्जनवत्यस्तृप्ति-
हेतुत्वात् निवसनक्रियायामुपकारकत्वेन संभा-
व्यमानाः प्रयोजकत्वेनोपचर्यन्ते । एवं च न
कारीषोऽङ्ग पुत्राधीष्वेति ब्रुवन् माणवकमध्या-
पयति, नापि तच्छरीरमनुप्रविश्य भूतवेताला-
दिभिरिवैनं पाठयति, किं तर्हि शीतापनुत्तिहेतु-
तयाध्ययनविध्युपकारकत्वेनानुकूल्यं भजंस्तत्प्र-
योजकत्वेनोपचरितः । किं च धर्माद्यनुकृता-
विति आदिग्रहणादाकारानुकृतौ जात्यनुकृतौ
वा । तत्र धर्मानुकृतौ यथा—‘सिंहो माणवकः’,
‘गौर्वाहीकः’ इति । अत्र किल लक्षणया सिं-
३५६ मृगेन्द्रतन्त्रे । [ २।१३
हृद्धर्माणां शौर्यादीनामनुकृत्यर्थं माणवके सा-
मानाधिकरण्येन सिंहशब्दः प्रवृत्तः, मुख्यया
वृत्त्या तस्य सिंहत्वस्यासंभवात्। वाहकेऽपि पुंसि
पृष्ठवहनत्वासंभवात् तिष्ठद्भक्षणगच्छत्तृणाद-
नादिबलीवर्दगतधर्मानुकरणाय गोशब्दः सा-
मानाधिकरण्येनोपचरितवृत्तिरेव प्रवृत्तः, मु-
ख्यया वृत्त्या तथानन्वयात्। एवमाकारानुकृतौ
यथा—सूच्यभेद्यैस्तमोभिरिति। अत्र हि तम-
सोऽमूर्तत्वात्सूचिभेद्यत्वं मुख्यवृत्त्या न संगत-
मतो लक्षणयातिनिबिडत्वं वक्तुमाकृतिः सूचि-
भेद्यत्वेनानुकृता। एवं नाम घनानि तमांसि
यद्वस्त्रादिवत् सूच्यादिना भेदमप्येषां वक्तुं
शक्यमित्यर्थः ॥ १८८ ॥
तदियता प्रासङ्गिकमुपचारबीजमनेकाका-
रमुदाहृत्य प्रकृतमुपसंहारक्रममनुसरन्नाह
एवं गुणादिसर्गाणां
परार्थे गुणकारणम् ।
कला लेढि कलां माया
स्वाधिकारपराङ्मुखी ॥ १८९॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५७
तन्निवृत्तौ निवर्तन्ते
देवास्तदधिकारिणः ।
सर्गस्थित्यादिको यस्मा-
दधिकारस्तदाश्रयः ॥ १९० ॥
गुणादिसर्गाणां प्रागुक्तनयेन परार्धसंज्ञके
कालेऽप्यतीते गुणकारणमव्यक्ताख्यं कला स्वा-
त्मन्युपसंहरति, तामपि कलां स्वस्मादधिका-
रात् पराङ्मुखी स्वव्यापारोपसंहारेच्छुर्माया
स्वात्मन्येवोपसंहरति । तस्य च मायाधिका-
रस्य निवृत्तौ तदधिकृताः सर्वे निवर्तन्ते विर-
तव्यापारा आसते, यस्मात्तेषां सर्गस्थित्यादि-
रूपोऽधिकारः सर्वो मायाश्रयः, तद्विरतौ च
कथं तेषां न विरामः स्यात् ॥ १९० ॥
इत्थमशुद्धेऽध्वनि प्रतिसञ्चर उक्तः इदानीं
शुद्धाध्वनि वक्तुमाह
एवं मन्त्रेशमुख्येषु
विशत्स्वभिमतं पदम् ।
विद्यामत्ति सदातत्त्वं
तद्विन्दुबैन्दवं ध्वनिः ॥ १९१ ॥
३५८ मृगेन्द्रतन्त्रे । [ १।१३
नादमत्ति परा शक्तिः
शक्तिमीष्टे स्वयं हरः ।
अनेनैव क्रमेण मन्त्रेश्वरप्रधानेषु मन्त्रमहे-
श्वरेष्वनन्तादिषु निवर्त्तिताधिकारत्वात् परकै-
वल्यप्रेप्सुषु सत्सु विद्यातत्त्वं सदाशिवतत्त्वे
समुपसंहृतवैभवं भवति । तच्च बैन्दवे, बैन्दवं
नादात्मनि, नादोऽपि परस्यां शक्तौ, तां तु
शक्तिं साक्षात्परमेश्वरः स्वात्मन्युपसंहरति क-
लाप्रसवां न करोति ॥
एवं च कृते सति परमेश्वरः
भविनां विश्रमायैवं
मायायाश्च परः शिवः ॥१९२॥
आकल्य स्वदृक्शक्त्या
स्वापं सृष्ट्यै प्रवर्तते ।
निजया ज्ञानशक्त्या भवभ्रमणखिन्नानां
भविनां यथोचितभोगोपयोगितनुकरणभुवना-
द्यनेककार्यप्रसवादपचितशक्तेश्च मायाख्यस्यो-
पादानकारणस्य विश्रमाय स्वापमव्यापृतत्वम् ।
इयता कालेन एते भविनो विश्राम्यन्ति, उप-
चितसामर्थ्यं च पुनः सर्गक्षमं मायाख्यं कारणं
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३५९
संजायत इत्येवमाकलय्य परमेश्वरः सृष्ट्यर्थं
प्राग्वत्प्रवर्तते ॥
यथा चैतान्युक्तानि स्वस्मिन् स्वस्मिन् कारणे
विलीयन्ते एवमन्यदपीत्याह
एवं तत्त्वानि भावाश्च
भुवनानि वपूंषि च ॥ १९३ ॥
शुद्धाशुद्धाध्वनोर्विप्र
व्याख्यातानि समासतः ।
अनेनैव क्रमेणान्यदपि तत्त्वभावभुवनादि
सितासिताध्ववर्ति यत्किंचित्तस्मिंस्तस्मिन् का-
रणे प्रलीनं संक्षेपतो व्याख्यातं ज्ञेयम् ॥
अत्र मुनिः प्रक्ष्यति
विद्या पञ्चाणुदेहाश्च
बिन्दुर्नादोऽथ कारणम् ॥ १९४॥
पञ्चस्कन्धः परो मार्गः
क्व भावाः प्रत्ययाः स्थिताः ।
शुद्धाशुद्धयोरध्वनोस्तत्त्वभावभुवनानां सं-
क्षेपादेवंविधः स्वस्मिन्कारणे प्रतिसंचर इति