मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
३२८ मृगेन्द्रतन्त्रे । [ १।१३
स्वस्मात्पदादधोऽधिकरणस्थेभ्योऽप्यधिका
श्रीर्यस्य साक्षात्परमेश्वरेणानुगृहीतत्वात् तस्य
वीरभद्रस्य योगिभिरभिष्टुतं भास्वरं भुवनम् ।
अत्रैव चैते रुद्रा गुणतत्त्वमूर्ध्नि स्थिताः ॥ १४५ ॥
के त इत्याह
वामदेवभवानन्त-
भीमोमापत्यजेश्वराः ।
सर्वेशानेश्वरावेक-
वीरैकशिवसंज्ञितौ ॥ १४६ ॥
उग्रः प्रचण्डदृक् चेशो
गुणानां मूर्ध्नि संस्थिताः ।
तपसा गुरुणोपास्य
क्रोधादीन् गुरुतां गताः ॥ १४७॥
स्वाधिकारविधौ तीक्ष्णा
रुद्राः सर्वार्थदृक्रियाः ।
ऊर्ध्वस्थान् क्रोधेशादीन् महता तपसा
आराध्य गुरुतामनुग्रहकृत्त्वं प्राप्ताः । निजेऽधि-
कारविधौ तीक्ष्णाः कुशलाः सर्वार्थज्ञानक्रिया-
योगिनश्चैते ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२९
तेभ्यो दशगुणश्रीकान्
प्रधानाधिपतीञ्छृणु ॥ १४८ ॥
क्रोधेशचण्डसंवर्त-
ज्योतिःपिङ्गलसूरगाः ।
पञ्चान्तकैकवीरौ च
शिखेद इति ते स्मृताः ॥१४९॥
वामदेवादिभ्यः प्रागुक्तेभ्यो दशगुणा श्री-
र्येषां, त इमे क्रोधेशादयः प्रधानाधिपाः ॥१४९
सर्वेन्द्रियः सर्वतनुः
सर्वान्तःकरणाश्रयः ।
पुरुषे नियतौ यन्ता
काले कलनशक्तिमान् ॥१५०॥
पुरुषतत्त्ववर्तिनि भुवने सर्वेन्द्रियत्वादिवि-
शेषणविशिष्टो रुद्रोऽधिष्ठाता । यदुक्तं प्राक्
पुंस्तत्त्वनिरूपणावसरे
‘............भौवने रुद्रसंश्रयम् ।’
इति । एवं नियतौ नियन्तृसंज्ञः काले च कल-
नशक्तिमान् स्थितः ॥ १५० ॥
४२
३३० मृगेन्द्रतन्त्रे । [ १।१३
भुवनेशमहादेव-
वामदेवभवोद्भवाः ।
एकपिङ्गेक्षणेशाना-
ङ्गुष्ठमात्राश्च भास्वराः ॥ १५१ ॥
परमेशोपमा राग-
विद्यागर्भे कलापदे ।
महापुरचतुःषष्टि-
मण्डले मण्डलाधिपाः ॥ १५२॥
रागविद्ये गर्भे प्रागुक्तरीत्या यस्य तस्मिन्
कलाभुवने अष्टाष्टकक्रमेण श्रीमन्मतङ्गाद्युक्तेन
महापुरचतुःषष्टिमण्डलं यत् स्थितं तत्रामी भु-
वनेशादयो भुवनाधिपतयः परमेश्वरोपमशक्ति-
मत्त्वात् सुकान्तयः स्थिताः । कथं पुनश्चतुः-
षष्टिमण्डलं स्थितमितीह नोक्तं श्रीमन्मतङ्गा-
दिनोक्तं ज्ञेयम् ॥ १५२ ॥
अथ तेषामप्यधिपतीनाह
अनन्तस्त्रिकलो गोप्ता
क्षेमीशो ब्रह्मणः पतिः ।
योग-सिद्धि, नाड़ी-चक्र, शिव-सामरस्य एवं मृगेन्द्र आगम उपसंहार
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३१
ध्रुवतेजोधिपौ रुद्रौ
गहनेशश्च विश्वराट् ॥१५३॥
मायाधिकारिणो रुद्रा
मण्डलाधिपतीश्वराः ।
संसारचक्रकारूढ-
भूतग्रामविवर्तकाः ॥ १५४ ॥
एतावत्येव घोरेयं
सर्वभूतभवावनिः ।
सीदन्त्यज्ञानिनो यस्यां
पङ्के गाव इवाचलाः ॥१५५॥
अमी मायाधिकारिणोऽनन्तेशादयोऽष्टौ रुद्राः
संसार एवाजस्रभ्रमाच्चक्रं तदारूढस्य भूतग्रा-
मस्य विवर्तकाः संसरणकराः । इयत्येव चैषा
घोरा अशिवा सर्वभूतानां भवभूमिर्यस्याम-
विद्वांसः कर्दमनिमग्नाशक्तवलीवर्दवदवसादं
यान्ति ॥ १५५ ॥
अथ विद्याभुवनस्था विद्याराज्ञ्य उच्यन्ते
भृगुणी ब्रह्मवेताली
स्थाणुमत्यम्बिका परा ।
३३२ मृगेन्द्रतन्त्रे । [ १।१३
रूपिणी नन्दिनी ज्वाला
सप्त सप्तार्बुदेश्वराः ॥ १५६ ॥
विद्याराज्ञ्यस्तु कथिता
विद्यायां रुद्रसंस्तुताः ।
एताः सप्त विद्याराज्ञ्योऽनन्तरोक्तमण्डला-
धिपतिरुद्राभिष्टुताः सप्तानामर्बुदानां मन्त्रको-
टीनामीश्वर्यः ॥
तासामुपरि दीप्तश्री-
र्देवो विद्याधिपः स्थितः ॥ १५७॥
मन्त्रेशेशचिदाविष्ट-
रुद्रव्यूहाष्टकानुगः ।
उच्छुष्माः शम्बराश्चण्डा
महावीर्याः पदद्रुहः ॥ १५८ ॥
रुद्रा गणाः सदिक्पालाः
शास्त्राणि पतयस्ततः ।
ते चानन्तप्रभृतयो
गदिता एव नामतः ॥ १५९ ॥
स्वस्वरूपाश्च ते विप्र
पूर्वं प्रश्नानुषङ्गतः ।
ईश्वरोऽधःस्थविद्यानां: धःhas visarga. Look at line 12:उच्छुष्मादयश्च: च्छु, ष्म. Look at line 13: वृषभप्रभृतयो: वृ, ष, भ. Look at वृinवृषभ! The ृmatra inवृषभ: it is a simple hook curling to the left! Look at प्रभृतयो: भृhas aृhook curling to the left! Now look atकीदृग्in line 4: Theदृinकीदृग्: it is दwith aृhook curling to the left! Wait! Aृhook curls to the LEFT! Now look at the letter in line 6: Does its bottom curl to the left or to the right? It curls to the RIGHT! And what letter has a stroke going to the right at the bottom?ह! AND in line 6, after that ह, there is a त्? Wait! Look at line 6: Between हandक्रिया: Wait! Is that a त्? Look at स्तinआविष्टास्तदुत्तेजित: तhas a left curve. Look atहत्क्रिया: Wait! Could it be हत्क्रिया`?
Wait! What if
३३४ मृगेन्द्रतन्त्रे । [ १।१३
नादे ध्वनिपतिः शक्तौ
सर्वशक्तिमतां वरः ॥ १६१ ॥
योनिर्विश्वस्य वागीशाः
पतयः परतः शिवः ।
सदाशिवभुवने पवित्राणि सद्योजातादीनि
ब्रह्माणि, अङ्गानि च सर्वात्मसुशिवज्वालिन्या-
दीनि, संकलनिष्कलाख्यादयश्चाष्टौ रुद्राः परि-
च्छदः परिवारो यस्य स एवंविधः सदाशिव-
नाथः स्थितः । बैन्दवे तु स्थाने निवृत्तिप्रति-
ष्ठाविद्याशान्त्याख्यकलाधिपतिचतुष्कम् । नाद्-
भुवने ध्वनिपतिर्नादेश्वरः स्थितः । यथोक्तं
नादाधिकारे श्रीमत्स्वतन्त्रे
‘सुषुम्नेशः स्थितस्तत्र चन्द्रकोट्यर्बुदप्रभः ।
दशबाहुस्त्रिनेत्रश्च श्वेतपद्मासने स्थितः ॥
शशाङ्कशेखरः श्रीमान् पञ्चवक्रो महातनुः ।’
इति । शक्तावपि शाक्तसंश्रये सकलशक्ति-
मतां वरिष्ठः परमेश्वरः स्थितः । अत्रैव च यो-
निर्विश्वस्येति नादबिन्दादिक्रमेण सकलजग-
दुत्पत्तिहेतुः कुण्डलिन्याख्या शक्तिः स्थिता ।
यथोक्तं श्रीमत्स्वतन्त्रे
!
Wait, why does 'न्न' look weird?
In KSTS, printed at the "Tatva-Vivechaka Press, Bombay" or "Nirnaya Sagar Press":
In this typeface, the double 'न' (न्न) when followed by 'ना'... wait, is it 'न्न'?
Wait, in "श्रीमन्नारायण", it's 'न्' + 'न' + 'आ' = 'न्ना'!
Wait, does it have 'न्ना'?
Look: after 'म', there is:
Wait! Look at the glyph:
Is it 'न्न'?
Wait! Look at 'न्न' in 'इत्यस्मिन्नेव' (L4):
In L4: इ - त्य - स्मि - न्ने - व
Here 'न्' + 'ने' is written with half-na and full-na with e-matra.
In line 1, look at the glyph between 'म' and 'रा':
Wait! Is that glyph 'न्ना'?
Wait, if that glyph is 'न्ना', then what is the glyph after it?!
Let's read ALL glyphs in line 1:
1: श्री (śrī)
2: म (ma)
3: [glyph]
4: [glyph]
5: रा (rā)
6: य (ya)
7: ण (ṇa)
8: क (ka)
9: ण्ठ (ṇṭha)
10: वि (vi)
३३६ मृगेन्द्रतन्त्रे । [ १।१३ .
सिद्धान्तः
ईशानतीय शान्तान्तं
तत्त्वं सादाशिवं स्मृतम् ॥ १६३॥
भुवनान्यपि नादादि-
कला नान्यः पतिः शिवात् ।
अनन्तेशादिविद्येश्वरोपलक्षितमीश्वरतत्त्व-
मतिक्रम्य निष्कलतत्त्वान्तं सदाशिवतत्त्वं ज्ञे-
यम् । अत्र च नादबिन्दादिकला एव भुवनत्वेन
बोद्धव्याः, शिवभट्टारक एव चात्र सर्वतत्त्वा-
धिपतिर्नान्यः कश्चित्, ततश्च तदूर्ध्वं पतयः
कथमित्यस्य चोद्यस्यानवकाशः ॥
यद्येवं
'नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ।'
इति भिन्नत्वं पतीनां यदुक्तं तत्कथमित्याह
किंतु यः पतिभेदोऽस्मिन्
स शास्त्रे शक्तिभेदवत् ॥ १६४ ॥
कृत्यभेदोपचारेण
तद्भेदस्थानभेदजः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३७
शिवभट्टारकादन्यो नात्राधिपतिः किंतु
निवृत्त्यादिकलेश्वराणां योऽस्मिन् शास्त्रे भेदः
स यथैकस्या एव शक्तेः कृत्यभेदोपचारेण वा-
मादिभेदभिन्नत्वमेवं स्थानभेदहेतुकः कृत्यभे-
दकृतश्च ज्ञेयः ॥
तमेव कार्यभेदं दर्शयितुं बिन्दुभुवनस्थनिवृ-
त्यादिकलेश्वरचतुष्टयस्य साधारणं तावद्रूपमाह
करोत्युन्मीलनं याभिः
शक्तिभिर्नरतेजसः ॥ १६५ ॥
ता निवृत्त्यादिसंज्ञानां
भुवनानामधीश्वराः ।
आणवस्य सर्वज्ञत्वसर्वकर्तृत्वात्मनस्तेजसो
याभिः शक्तिभिः प्रकाशनं देवः कुरुते ताः
शक्तय एव निवृत्तिप्रतिष्ठादिसंज्ञानां भुवनाना-
मीश्वरत्वेनोक्ताः, इत्येतत्समानमासां स्वरूपम् ॥
अथासाधारणं चाह
निवर्तयति भूतानि
यया सास्य निवर्तिका ॥१६६॥
४३
३३८ मृगेन्द्रतन्त्रे । [ १।१३
निवृत्तिरिति तत्स्थानं
तत्रेशोऽपि निवृत्तिमान् ।
यया शक्त्या चतुर्दशविधं भूतसर्गं निवर्त-
यति संसारवैतृष्ण्यजननेन कैवल्याभिमुखं
संपादयति सा भगवतः शक्तिर्भवनिवर्तनव्या-
पारकारिणी । तच्च तदधिष्ठेयं स्थानं निवृत्ति-
संज्ञं तदधिपतिश्च परमेश्वरो निवृत्तिमानित्य-
यमसौ स्थानभेदात् कृत्यभेदाच्च भाक्त उक्तो
भेदः । एवं प्रतिष्ठादीनामपि ज्ञेयम् ॥
तथाहि
निवृत्तस्य गतिर्भूयो
यया प्रच्यावलक्षणा ॥ १६७ ॥
निषिध्यते प्रतिष्ठा सा
स्थानं तद्धांश्च तत्पतिः ।
अभिध्यानानुगृहीतस्योन्मोच्यस्याणोः पुन-
रधोऽध्वनि संसारलक्षणा गतिर्यया निषिध्यते
सा गतिनिवृत्तिहेतुत्वात् प्रतिष्ठाख्या शैवी
शक्तिः, स्थानं च तत्प्रतिष्ठाभुवनं, तदीश्वरश्च
प्रतिष्ठाधिपतिसंज्ञो विज्ञेयः ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३९
त्यक्त्वाप्तगम्यविषयं
यया ज्ञानं ददात्यणोः ॥१६८॥
सा विद्या स्थानमप्यस्या
विद्येशश्च तदीश्वरः ।
आप्तविषयं शब्दविषयं गम्यविषयं चा-
नुमेयं ज्ञानं त्यक्त्वा पारिशेष्यात् साक्षात्कृता-
शेषपदार्थजातज्ञानं यया शक्त्या अणोरात्मनः
परमेश्वरोऽभिव्यनक्ति सा शक्तिर्विद्याख्या,
तच्च भुवनं विद्याख्यं, तदीश्वरश्च विद्याधि-
पाख्यया बोद्धव्यः ॥
सर्वदुःखप्रशमनं
ययास्य कुरुते हरः ॥१६९॥
सा शान्तिस्तत्पदं चेति
तत्कुर्वन् सोऽपि शान्तिमान् ।
निखिलदुःखप्रशमनं ययाऽस्यात्मनः शिव-
नाथः करोति सा तदीया शान्तिः शक्तिः, तच्च
स्थानं शान्त्याख्यं, तच्च कुर्वन् सोऽपीश्वरः शा-
न्तिमानुच्यते ॥
३४० मृगेन्द्रतन्त्रे । [ ११३
इत्थं बिन्दुकलाचतुष्कमुक्त्वा नादकलो-
त्त्यर्थमाह
ऊर्ध्वाधोविषयालोको
महान्यश्च महत्तरः ॥१७०॥
महत्तमश्च क्रियते
चितो याभिर्विमुच्यतः ।
ता इन्धिकाद्यास्तत्स्थानं
तद्वानीशस्तिसृष्वपि ॥१७१॥
विमोचनं विमुक्तिर्बन्धापगमः । विमुचमि-
च्छत्यात्मन इति क्यचि कृते शत्रन्तस्य विमु-
च्यत इति रूपम् । एवं च विमुच्यतो मोक्षै-
षिणः पुंस ऊर्ध्वाधोविषय आलोकः प्रकाशो
महानिन्धिकया विधीयते स एव दीपिकाख्यया
महत्तरः संपाद्यते, रेचिकया त्वसावेव मह-
त्तमः क्रियते, तानि चैतासां स्थानानि इन्धि-
कादिसंज्ञानीति । तिसृष्वप्येतासु कलास्व-
धिपतिस्तद्वानीतीन्धिकाद्युपलक्षितो वेदित-
व्यः ॥ १७१ ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३४१
अथ मोचिकायाश्चोर्ध्वगायाश्चोक्तव्यापा-
रमाह
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
प्रमाष्टि तद् यया सास्य
मोचिका तत्पदं च यत् ॥१७२
मोचकस्तत्क्रियाकृच्च
ययेशानं करोति तम् ।
सोर्ध्वगा तत्पदं चेति
तदीशश्चोर्ध्वगापतिः ॥१७३॥
विद्येशाद्यधिकारभाजां सर्वज्ञत्वादिगुणयो-
गेऽपि मलांशावशेषतः प्रेर्यत्वं यदस्ति तद्यया
शक्त्यात्मनो निवर्तयति सास्य भगवतो मो-
चिकाख्या शक्तिस्तस्याश्च यत्स्थानं तत्कृत्यकारी
च परमेश्वरः, तदेतत् सर्वं मोचिकाख्यया व्य-
पदेश्यं यया कृतानुग्रहमीशानं संपादयति सा
शक्तिरूर्ध्वगाख्या, तच्च स्थानमूर्ध्वगाख्यं, तद-
धिष्ठाता चेश्वर ऊर्ध्वगाधिपतिरित्युक्तः ॥१७३॥
३४२ मृगेन्द्रतन्त्रे । [ १।१३
येऽपि तत्पदमापन्नाः
शैवसाधनयोगतः ।
ते तत्स्थित्यन्तमाह्लादं
प्राप्य यान्ति परं पदम् ॥ १७४
न च सृष्ट्यादि कुर्वन्ति
स्वार्थनिष्ठा हि ते यतः ।
तत्तद्विधोपदेशरूपेण ज्ञानाख्येन वक्ष्यमा-
णानेकविधभुवनयोजनात्मकेन दीक्षाख्येन शै-
वेन पारमेश्वरेण साधनेनोपायेन युक्तत्वात् ये-
ऽणवस्तत्पदावाप्तिभाजस्तत्स्थितिपर्यन्तं निर-
तिशयानन्दात्मकं भोगं प्राप्य परं पदं यान्ति
शिवसमानाः संपद्यन्ते । न च परमेश्वरवत्सृष्टि-
स्थित्यादि कृत्यं विदधति यतः स्वार्थे परे निर्वा-
णावाप्तिलक्षणे निष्ठा विश्रान्तिर्येषां त एवं-
विधाः । ततः परं प्राप्यस्यान्यस्य च वस्तुनोऽसं-
भवात् प्रेर्यतापगमाच्च सृष्टिस्थित्यादिकृत्यं न
ते कुर्वन्तीति यावत् ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३४३
उपसंहरन्नाह
इति सादाशिवं तत्त्वं
व्याख्यातं लेशतस्तव ॥ १७५ ॥
लेशतः स्वल्पया मात्रया, तवेति प्रष्टुर्भरद्वा-
जमुनेः ॥ १७५ ॥
'ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ।
इत्युक्त्या तच्छक्तितत्त्वमपि तदन्तर्भूतमेवेति
वक्तुमतिदिशति
शाक्तावप्येवमित्येष
सकलः कृत्ययोगतः ।
कृत्यं तदादिविषयं
निष्कलोऽन्यत्र सर्वदा ॥ १७६॥
शक्तिरप्येवं व्यापिकैव ज्ञेया, इत्येवमुक्तया
रीत्या एष सदाशिवनाथः कृत्ययोगात् स्थित्या-
दिव्यापारवशात्सकलः । सह कलाभिर्ब्रह्मपञ्च-
कसंबन्धिनीभिरष्टत्रिंशत्संख्याभिः तारा सुतारा
तरणीत्यादिभिरारब्धमूर्तिकः । यथोक्तं प्राक्
'तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकम् ॥'
इति । तच्च कृत्यं तदादिविषयमिति, तदादिर्वि-
३४४ मृगेन्द्रतन्त्रे । [ १।१३
षयो यस्य प्रथमतस्तदिच्छयैव पञ्चविधकृत्य-
निष्पत्तिरित्यर्थः । अन्यत्रेति स्थित्याद्यप्रवृत्तौ
तदुपरमे वा सर्वकालं निष्कल एव परमेश्वरः
कार्यार्थं कलाकल्पितमूर्तित्वात् ॥ १७६ ॥
भूमिप्राधानिकग्रन्थि-
विद्याबिन्दुकलादिषु ।
गुणकारा दशाद्याः स्यु-
र्नादकोटेरधो मुने ॥ १७७ ॥
भूमिश्च पृथिवी, प्राधानिकं च प्रकृतितत्त्वं,
ग्रन्थिश्च माया, तेषु भूमिप्रधानग्रन्थितत्त्वेषु,
विद्यायां च शुद्धविद्यायां बिन्दुनादकलानवके
च इत्येवमत्र गुणकारा गुणबन्धनस्थानानि स्युः
सन्तीत्यर्थः । तत्र पार्थिवप्राकृतमायीयतत्त्वत्रये
गुणात्मिकाः सत्त्वरजस्तमोबहुलाः काराः
पाशाः सन्ति, सत्त्वादिगुणत्रयमत्र पाशतया
स्थितमित्यर्थः । सत्त्वस्य रजस्तमोपेक्षया प्रका-
शत्वेनोत्कर्षे सत्यपि रजस्तमोभ्यामन्यत्वेन
विषयत्वासंभवात् पाशत्वसिद्धेः । तथा चोक्तं
सिद्धगुरुणा
'सत्त्वगुणावच्छिन्नो भविनां भोगो मलोऽशुचिर्बन्धः ।
पतिभावानलदाह्यः पुंसां चेतोगुणप्रभवः ॥'
इति । विद्यायां बिन्दुनादकलानवके च
गुणानां सर्वज्ञतातृप्त्यनादिबोधादीनां या निर-
तिशयस्य महत्तमस्यालोकस्य कर्त्री मध्यमा
कला रोचिकाख्या तदधोवर्ति च नादकलाद्वयं
बिन्दुकलाचतुष्कं च, शुद्धविद्या माया अव्यक्तं
पृथिवी च काराः प्रतिबन्धकत्वेन स्थिताः। अत
एवाह 'दशाद्याः स्युर्नादकोटेरधः' इति नादस्य
या कोटिरूर्ध्वगाख्यायाः कलायाः पर्यन्तस्तदधो
दशैताः प्रोक्तवन्नादबिन्दुकलानवकं शुद्धवि-
द्यातत्त्वं चेत्येतद्दशकं निरतिशयसर्वज्ञत्वतृप्त्या-
दिपारमेश्वरगुणप्रतिबन्धकस्थानत्वात् आद्या
इति मुख्याः कारा बन्धनभुवः । अन्ये तु भूमिः
प्राधानिको ग्रन्थिरित्यसमस्तपाठाभिप्रायेणैवं
व्याचक्षते । यदुत गुणानां सत्त्वरजस्तमसा-
मशुद्धानां प्राधानिकस्तावत्पाशग्रन्थिरिव ग्रन्थि-
भूमिरिति मुख्यव्याप्तिस्थानं विद्यायां बिन्दु-
नादकलानवके चेत्येवं दशस्वाद्येषु स्थानेषु ।
अन्ये तु शुद्धास्ते सत्त्वाद्यस्तत्तद्भुवनं निर्वर्त्य
३४६ मृगेन्द्रतन्त्रे । [ १।१३
तत्तत्कृत्योपयोगिनः संभवन्ति । यथोक्तमाग-
मान्तरे
'पार्थिवप्राकृताण्डाभ्यामूर्ध्वमण्डद्वये परे ।
शुद्धाः सत्त्वादयः सन्ति बिन्दुनादकलासु च ॥'
इति । अत्र च शुद्धत्वादेव कारात्वमुपपन्न-
मिति न चोद्यं, परकैवल्यप्रतिबन्धहेतुत्वेन
तथाविधानामपि तेषां पाशत्वानपगमात् ।
उक्तं च
'समनान्तं वरारोहे पाशजालमनन्तकम् ।'
इति ॥ १७७ ॥
इदानीं प्रागुक्तानां गहनेशादीनां कियदा-
स्पदमिति प्राक् यन्नोक्तं तद्वक्तुमाह
ऊर्ध्वं कलाया विद्याधः
श्रूयन्ते गहनाधिपाः ।
तदन्तरालमेताव-
दिति धीजात्र लक्षणा ॥१७८॥
विद्याशब्देनात्र माया । तदुक्तं श्रीमत्पौ-
ष्करे
'................माया विद्याऽपरा स्मृता ।'
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ३४७
इति। अस्या अधः कलायाश्चोर्ध्वं गहनेशा-
दयो रुद्राः शास्त्रेषु श्रूयन्ते। तत्र तयोर्माया-
कलयोरेतावत्प्रमाणमन्तरालमिति बुद्धिर्जैवात्र
लक्षणा मानं परिच्छिनत्ति, नत्वत्र प्रमाणं
परमुच्यते मायातत्त्वस्यानन्तत्वश्रुतेः। तथा
चोक्तं तत्रभवद्बृहस्पतिपादैः
‘अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुदीर्णाः।
मायायामानन्त्यान्नोच्येत स्रोतसां संख्या॥’
इति॥ १७८॥
उपसंहर्तुमाह
द्वयोरप्यध्वनोरेवं
क्रमप्रसवयोगिनोः।
विलयः प्रातिलोम्येन
शक्तितत्त्वद्वयावधिः॥१७९॥
एवमित्युक्तेन प्रकारेण क्रमिको यः प्रसवः
सर्गस्तद्योगिनोर्द्वयोरपि शुद्धाशुद्धयोरध्वनोः स-
र्गविपर्ययेण संहारक्रमेण विलयः। यत एव
यस्य प्रसवस्तस्यैव तत्रान्तर्भाव इत्यर्थः। श-
क्तितत्त्वद्वयावधिरिति, शुद्धस्य तावत्परशक्त्य-
न्तः, अशुद्धस्य मायाशक्त्यन्तः॥ १७९॥