सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 360, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 360

३३० मृगेन्द्रतन्त्रे । [ १।१३
भुवनेशमहादेव-
वामदेवभवोद्भवाः ।
एकपिङ्गेक्षणेशाना-
ङ्गुष्ठमात्राश्च भास्वराः ॥ १५१ ॥
परमेशोपमा राग-
विद्यागर्भे कलापदे ।
महापुरचतुःषष्टि-
मण्डले मण्डलाधिपाः ॥ १५२॥
रागविद्ये गर्भे प्रागुक्तरीत्या यस्य तस्मिन्
कलाभुवने अष्टाष्टकक्रमेण श्रीमन्मतङ्गाद्युक्तेन
महापुरचतुःषष्टिमण्डलं यत् स्थितं तत्रामी भु-
वनेशादयो भुवनाधिपतयः परमेश्वरोपमशक्ति-
मत्त्वात् सुकान्तयः स्थिताः । कथं पुनश्चतुः-
षष्टिमण्डलं स्थितमितीह नोक्तं श्रीमन्मतङ्गा-
दिनोक्तं ज्ञेयम् ॥ १५२ ॥
अथ तेषामप्यधिपतीनाह
अनन्तस्त्रिकलो गोप्ता
क्षेमीशो ब्रह्मणः पतिः ।