सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५९
देहे पक्षीकृते तद्गतस्य काठिन्यादेः पृथिव्या-
दिधर्मत्वनिश्चयात् पृथिव्यादिभूतचतुष्टयारब्ध-
त्वमपि नानुमानं विनावगन्तुं शक्यम् । किंच
प्रत्यक्षमेव प्रमाणं नानुमानमिति प्रमाणा-
प्रमाणचिन्ता नास्य प्रत्यक्षनिश्चेया । यथाह
धर्मकीर्तिः
'प्रमाणेतरसामान्यस्थितेरन्यवियोगतः ।
प्रमाणान्तरसद्भाव......................॥'
इति न परं प्रत्यसिद्धत्वमनुमानस्य । तत्प्र-
त्यायनार्थं चेह परिशेषानुमानं प्रकरणारम्भे
दर्शितं, नतु स्वसंवेदनसिद्धत्वेनापरोक्षस्यात्मनः
साधनाय तत्र प्रमाणान्तरस्यानुपयोगात् ।
यदाहुः
'अनुभूतौ प्रमाणानां परिनिष्ठा समाप्यते ।
स्वतस्तयैव या ज्ञप्तिः किं तत्रान्यैः प्रमान्तरैः ॥'
इति । गतमेतत् । यत्तु
'परिणामस्य वैशिष्ट्यादस्ति चेन्न स्मृतिस्तदा ।'
इत्यखण्डनमेव श्लोकार्धं, तदेतच्छिवावस्थायां
सूक्ष्मतरसंवेदनसम्भवेऽपि परिणामस्य वैशि-
ष्ट्यादिति स्मृत्यभावप्रतिपादकत्वेन परमता-

१६० मृगेन्द्रतन्त्रे । [ ११६
शङ्कया व्याख्याय समाधीयते यदुत 'नाप्येवं
सुप्रतीतत्वात्' नह्येवं क्वचित्प्रसिद्धं यद्गतासोः
सूक्ष्मतरसंवेदनमस्ति, स्मृतिस्तु नास्तीत्यपितु
सुप्रतीतमेतत् यन्निर्जीवे वपुषि काष्ठादाविव
संविन्नास्त्येवेति, तस्माद्देहादन्यः स्मर्त्तास्तीत्येव-
मपि व्याख्यायमाने न कश्चिद्दोषः ॥ ६ ॥
एवं पशुपदार्थं प्रसाध्य तद्विशेषान्वक्तुमाह
नाव्यापको न क्षणिको
नैको नापि जडात्मकः ।
नाकर्ता भिन्नचिद्योगी
पाशान्ते शिवताश्रुतेः ॥ ७ ॥
स चात्मा नाव्यापकः, नापि क्षणिकः देश-
कालाभ्यामनवच्छिन्नत्वात् । तदाहुः
'अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते ॥'
इति । नचासावेकः
'एको वशी सर्वभूतान्तरात्मा ।' (क० ५।१२)
इति प्रतिपन्नानां ब्रह्मविदामिव जन्ममरण-
करणादिप्रतिनियमदर्शनस्य पुरुषबहुत्वज्ञाप-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १६१
कस्यापह्रोतुमशक्यत्वात् । नच नैयायिकवैशे-
षिकाणामिव जडः । नापि सांख्यानामिवा-
कर्ता । नच केषांचिदिवागन्तुना चिता युक्तः ।
कुतः इत्याह 'पाशान्ते शिवताश्रुतेः' पाशानाम-
विद्यादीनामन्ते तत्प्रतिबन्धकत्वव्यपगमे यतो-
ऽस्यात्मनः शिवत्वव्यक्तिः श्रूयते । तथाचोक्तं
'अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥'
इति । नच तच्छिवत्वमव्यापकत्वादिधर्मयुक्तं
ज्ञातृत्वकर्तृत्वरहितं वा
'नित्यं कालानवच्छेदाद्वैतत्यान्न प्रदेशगम् ।' (१।३।२)
इत्यादिना प्रत्युत तद्विलक्षणत्वस्योपपादित-
त्वात् । नच व्यापकत्वनित्यत्वादेर्मुक्तावेवो-
दयात्संसार्यावस्थायामभाव इति मन्तव्यम-
सदुत्पत्त्यसंभवस्योपपादयिष्यमाणत्वादिति ॥
इति श्रीभट्टविद्याकण्ठसूनुभट्टनारायणविरचितायां
मृगेन्द्रवृत्तौ पशुपदार्थनिर्णय-
प्रकरणं षष्ठम् ॥ ६ ॥
२१

)-> wait, is that(१।२।७)`?

  • Yes, (१।२।७).
  • L14: इत्यादिभिर्वाक्यैरनुसन्धेयः ।
  • L15: अथाविद्यादयः पाशाः
  • L16: कथ्यन्ते लेशतोऽधुना ।
  • L17: येषामपाये पतयो
  • L18: भवन्ति जगतोऽणवः ॥ १ ॥
  1. Format Constraints:
    • "Prefix each line with line marker like , ."
    • "Output line markers for every line."
    • "Do NOT output LaTeX math syntax."
    • "pure, clean Markdown in original language"

Everything looks solid and precise.अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( सप्तमः पटलः )
‘........................शिवः ।
पूर्वन्व्यत्यासितस्याणोः पाशजालमपोहति ॥’ (१।२।१)
इति मूलसूत्रोपात्ता

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १६३
अथेति पशुपदार्थादनन्तरमविद्या अज्ञान-
मञ्जनमाणवः पाश आदौ येषां ते कर्ममाया-
रोधशक्त्याख्याः पाशाः, अधुना इदानीं, लेशतः
संक्षेपतः, कथ्यन्ते येषामपगमे पशुत्वान्मुक्त्वा
अणव आत्मानो जगतः पतयो भवन्ति । तत्र
शिववदन्यानधीनस्वातन्त्र्याभिव्यक्तिर्मुक्तात्मनां
पतित्वं, विद्येश्वराद्यधिकारभाजां तु पञ्चविध-
कृत्यकारित्वम् ॥ १ ॥
अथ मुक्तेः प्राक् कुतोऽवसीयते पाशितत्व-
मणोरिति चेत् ज्ञानक्रिययोः सर्वार्थताव्याहतेः ।
अन्यथा हि
पाशाभावे पारतन्त्र्यं
वक्तव्यं किंनिबन्धनम् ।
स्वाभाविकं चेन्मुक्तेषु
मुक्तशब्दो निवर्तते ॥ २ ॥
पाशरहितस्य हि पुंसो न बद्धत्वं, अबद्धस्य
च किंकृतं पारतन्त्र्यं, यदनिच्छतोऽप्यस्यानिष्ट-
प्राप्तिरिष्टव्याघातश्च भवति । अथ मन्यसे
नास्य तत्पारतन्त्र्यं पाशकृतमपितु स्वाभाविक-

१६४ मृगेन्द्रतन्त्रे । [ १७
मिति, तर्हि मुक्ताणुषु मुक्तशब्दस्य निवृत्तिः ।
व्यपगतपाशे हि मुक्तशब्दो लोके प्रसिद्धः ॥
एतदेव घटयन्नाह
बन्धशून्यस्य वशिता
दृष्टा बद्धस्य वश्यता ।
एतावती ते बद्धत्व-
मुक्तत्वे बद्धमुक्तयोः ॥ ३ ॥
इयदेव तद्बद्धस्य बद्धत्वं—यत्पाशितत्वे सत्य-
पाशितवश्यता स्वतन्त्रपरमेश्वरायत्तत्वमित्यर्थः ।
मुक्तस्य चैतावदेव तन्मुक्तत्वं—यद्बद्धत्वापगमा-
त्तद्वशित्वं स्वातन्त्र्याभिव्यक्तिः । तथा हि लोकेऽपि
बन्धरहितो वशी, बद्धश्च वश्य इत्युच्यते ॥३॥
किमत इत्याह
तत्पारतन्त्र्यं बद्धत्वं
तत्तस्माद्धेतोर्यदेतदात्मन इष्टप्राप्त्यादौ पार-
तन्त्र्यं, तद्

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १६५
तस्मिन्नित्ये चिदादिवत् ।
मुक्तिसाधनसंदोहो
व्यर्थोऽलमनया धिया ॥ ४ ॥
तस्मिन्नात्मनः पारतन्त्र्ये, नित्येऽभ्युपगम्य-
माने कदाचिदपि तदनुच्छेदान्मुक्तिसाधन-
कलापः परैरपीष्टो ज्ञानयोगादिरनर्थकः स्वात-
न्त्र्याभिव्यक्त्यभावात् सदैवात्मनो बद्धतयाव-
स्थितेरित्यलमनया धिया निवार्यतामीदृशी सं-
सारानुच्छित्तिहेतुर्मतिरिति भावः । तस्मात्स्थि-
तमेतत्पाशकृतं पारतन्त्र्यं, पाशाश्चाञ्जनादयः ॥
स किलात्मा
नित्यव्यापकचिच्छक्ति-
निधिरप्यर्थसिद्धये ।
पाशवं शाम्भवं वापि
नान्विष्यत्यन्यथा बलम् ॥ ५ ॥
यदि ह्यणुरनाद्यविद्योपरुद्धचिच्छक्तिर्न भवेत्,
तदानीं नित्यव्यापकचिच्छक्त्यास्पदत्वे सत्यपि
कथं भवावस्थायां भोगलक्षणस्यार्थस्य निष्प-

१६६ मृगेन्द्रतन्त्रे । [ १७
त्तये पशोरिदं पाशवं पशूचितं कलाद्युत्तेजनं
स्वसामर्थ्यस्यान्विष्यत्यपेक्षते, मुक्तिनिमित्तं च
कथं शाम्भवं बलमन्वेषते, नान्यथा बलं
प्रतीक्षते पाशानभ्युपगमे सति स्वभावत
एवामलचित्स्वरूपत्वात्तदन्वेषणस्यानर्थक्यात् ।
यतश्चावस्थाद्वयेऽप्ययं पाशवं वा पारमेश्वरं
वा बलोत्तेजनमपेक्षते, तस्मात् किमप्यस्यास्ति
ज्ञानक्रियासंनिरोधकं यत्कृतः स्वातन्त्र्या-
घातः ॥ ५ ॥
तदावरणमस्याणोः
पञ्चस्रोतसि शाङ्करे ।
पर्यायैर्बहुभिर्गीत-
मदृष्टं पशुभिः सदा ॥ ६ ॥
अस्यात्मनस्तदावरणमञ्जनं पञ्चस्रोतसि शैवे
शास्त्रे वक्ष्यमाणैर्नामभिरभिहितम्। तत्तु पशुभिः
पशुशास्त्रप्रणेतृभिः कदाचिदपि न बुद्धम् ॥ ६ ॥
अथ कैर्नामभिस्तच्छास्त्रेषूक्तमित्याह
पशुत्वपशुनीहार-
मृत्युमूर्च्छामलाञ्जनैः ।

श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । १६७
अविद्यावृतिरुग्ग्लानि-
पापमूलक्षपादिभिः ॥ ७ ॥
नच तदेकैकस्मिन्नात्मनि भिन्नमपित्वेकम-
नेकचिदावारकशक्तियुक्तमित्याह
तदेकं सर्वभूताना-
मनादि निबिडं महत् ।
प्रत्यात्मस्थस्वकालान्ता-
पायिशक्तिसमूहवत् ॥ ८ ॥
तदावरणं चतुर्दशविधस्यापि भूतसर्गस्यै-
कमेव । कस्मादित्यत्रैव विशेषणद्वारेण हेतुमाह
अनादीति, यस्माद्वक्ष्यमाणयोपपत्या तत् सर्व-
भूतानामनादि न मायीयबन्धनवदागन्तुकम्,
अत एवैकम् । अनेकत्वे हि तस्याचेतनत्वात्
कारणान्तरपूर्वकत्वेनानादित्वानुपपत्तिः । नच
कारणान्तरपूर्वकत्वेऽपि कलादिवत् पारम्पर्येण
बन्धकत्वादनादित्वं भविष्यतीति वाच्यं, य-
थोक्तं श्रीमत्किरणे
'यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् ।
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥

· १६८ मृगेन्द्रतन्त्रे । [ १७
तस्मादनादिकं कर्म मायाप्येवं भवेत्तथा ।'
इति, तद्विरहिणः शिवस्येव पुनर्बन्धासंभवात् ।
तत्सद्भावे वा न मलरहितत्वमिति वक्ष्यामः ।
निबिडं घनमभेद्यमित्यर्थः । व्यापकानामात्म-
नामावारकत्वात् महत् । प्रत्यात्मस्थेन स्वस्वपरि-
णामकालापसारिणा शक्तिव्रातेन युक्तम् । तथा
चोक्तं तत्त्वत्रयनिर्णये
'मलशक्तयो विभिन्नाः प्रत्यात्मं चैव तद्गुणावरिकाः' (११)
इति ॥ ८ ॥
तच्चाञ्जनं
तदनादिस्थमर्वाग्वा
तद्धेतुस्तदतोऽन्यथा ।
रुणद्धि मुक्तानेवं चे-
न्मोक्षे यत्नस्ततो मृषा ॥ ९ ॥
तत्तेषामात्मनामनादौ काले स्थितमना-
दिस्थं न त्वादिमत्त्वेन स्थितम् । अत्रैव युक्ति-
माह अर्वाग्वेति, यदि ह्यादिमत्त्वेनात्मसु स्थितं
तदभ्युपगम्यते, तदा तद्योगे हेतुः 'वाच्यः' इ-
त्यध्याहारः। तदतोऽन्यथेति यदि तु तदञ्जनम-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १६९
तोऽन्यथेति हेतुमनपेक्ष्यैवात्मानमाश्लिष्यति,
तदानीं मुक्तानप्यात्मनो रुणद्धि उपरुद्धक्रि-
यान्करोतीति प्रसक्तम् । को दोष इति चेत्
मोक्षे यत्नस्ततो मृषेति । मुक्तात्मानोऽपि यदि
पुनःपुनर्मलेन युज्यन्ते, ततो गजस्नानप्राये-
ऽस्मिन् मोक्षे मिथ्यैव यत्नः भूयोऽपि मलयो-
गतः संसारितायाः संभवात् । तस्मान्नागन्तुक-
मात्मनां मलं, किं तर्हि, अनादि । तथाचोक्तं
श्रीमत्स्वायम्भुवादौ
‘अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् ।’
इति ॥ ९ ॥
अथास्यैव युक्त्यन्तरमाह
तदेकं बहुसंख्यं तु
तादृगुत्पत्तिमद्यतः ।
तदञ्जनमेकमनेकत्वे प्रमाणाभावात् । यतो
यस्मात्, तादृगिति तथाविधमनेकत्वपरिणा-
मित्वादिगुणयुक्तं यदनेकं घटादिवदुत्पद्यमानं
दृष्टम् । नचैतदुत्पत्तिमदनाद्यात्मावारकत्वात्,
अत एकमनेकत्वे हि कारणपूर्वकत्वादस्यादि-
मत्त्वं स्यात् ॥
२२

१७० मृगेन्द्रतन्त्रे । [ १।७
'प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् ।' (८)
इति यदुक्तं, तदुपपादयितुमाह
किंतु तच्छक्तयोऽनेका
युगपन्मुक्त्यदर्शनात् ॥ १० ॥
एकस्याप्यस्यानेकाः प्रत्यात्मस्थाश्चित्क्रिया-
संनिरोधिका नित्याः शक्तय एष्टव्याः । अन्य-
थैकत्वे सति एकस्मात्पुरुषादपसृते तस्मिन्
सर्वेषां तुल्यकालं मुक्तिः स्यात् । यतस्तु
न मुक्तियोंगपद्येनोपलभ्यते, तस्मात्कारणात्
तच्छक्तिबहुत्वाभ्युपगमो युक्तः ॥ १० ॥
न च तास्तच्छक्तयः स्वातन्त्र्येण रुन्धन्ति
अपसरन्ति वा, किं तर्हि
तासां माहेश्वरी शक्तिः
सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव
पाश इत्युपचर्यते ॥ ११ ॥
'प्रावृतीशबले कर्म...................।' (१।२।७)
इत्यादिना प्राक् मलेन नान्तरीयकतयोद्दिष्टं
परमेश्वररोधशक्तिं व्यापारेण लक्षयति, तासां

[Header] श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १७१

मलशक्तीनां चित्क्रियासंनिरोधकत्वलक्षणस्य
धर्मस्यानुवर्तनाद्धेतोः शैवी शक्तिः पाशतयोप-
चर्यते । न च तत्र मुख्यं पाशत्वम् । कुत इति
विशेषणद्वारेणात्रैव हेतुः सर्वानुग्राहिका शि-
वेति । सा हि सकलजगदनुग्रहस्वभावत्वेन त-
च्छ्रेयःप्रसाधिका ॥ ११ ॥
एवं च
परिणामयेतेताश्च
रोधान्तं कार्कचित्त्विषा ।
यदोन्मीलनमाधत्ते
तदानुग्राहिकोच्यते ॥ १२ ॥
परिणामशब्दात् 'प्रातिपदिकाद्धात्वर्थे' इति
णिचि कृते परिणामयतीति रूपम् । एताश्च
सर्वभूतगतास्तस्य संबन्धिनी शक्तिः रोधान्तं
तदधिकारकालं यावत् परिणामेन योजयति ।
पतिशक्तिः कार्कचित्त्विषा हेतुभूतयोन्मीलनं
यदा करोति, तदानुग्राहिकेत्युच्यते । कशब्देन
मूर्धा सदानुग्रहै कव्यापार ईशानः । ईशानमू-
र्धेति मन्त्रलिङ्गम् । स एव सकलजगदनुग्रहे

१७२ मृगेन्द्रतन्त्रे । [ १।७
नित्योद्युक्तत्वादर्केणोपमितः । ततः प्रवृत्तया
परश्रेयःप्रकाशिकया ज्ञानभासा तयोन्मीलित-
स्वरूपाणामणुवर्गाणां यदोन्मीलनमाशयविका-
सनं करोति, तदानुग्राहिका भण्यते ॥ १२ ॥
अत्र मुनिः प्रक्ष्यति
शाम्भोश्चिदाद्यनुग्राह्यं
तद्विरोधितया मिथः ।
युगपन्न क्षमं शक्तिः
सर्वानुग्राहिका कथम् ॥ १३ ॥
कथं भूतोपकारार्थं
प्रवृत्तस्य जगत्प्रभोः ।
अपकारकमाविश्य
युज्यते तुन्नतोदनम् ॥ १४ ॥
चितः सकलात्मानः, आदिग्रहणादचितो
मलकर्ममायातत्कार्याणि । तदेतत्सर्वं सर्वेशि-
त्वादेव किल परमेश्वरस्यानुग्राह्यम् । तच्चानुग्रा-
ह्यत्वमेषां चिदचितां पाश्यपाशानां तुल्यकालं
न घटते । तथाह्यचितां पाशानामनुग्रहे पा-
श्यस्य प्रत्युत तिरस्कारः स्यात् नानुग्रहः, चिता-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १७३
मनुग्रहे च तद्वन्धानां न्यग्भावनमिति परस्पर-
विरोधित्वाद्युगपदेषामनुग्रहानुपपत्तिः । तत्कथं
सर्वानुग्राहिका शक्तिरुक्ता । किंच कृपया सर्व-
भूतानामनुग्रहप्रवृत्तस्य पत्युरुपकारस्यापकारकं
दुःखदमाणवादिपाशजालमनुगृह्य आवृत्तदृक्क्रि-
याशक्तित्वादस्वातंत्र्यादिव्यथितानां परमात्मनां
बन्धकानुग्रहेण व्यथितव्यथनं न युक्तमिति
पूर्वः पक्षः ॥ १४ ॥
सिद्धान्तस्तु
न तोदनाय कुरुते
मलस्याणोरनुग्रहम् ।
किंतु यत्क्रियते किंचि-
त्तदुपायेन नान्यथा ॥ १५ ॥
सत्यं चिदचितामनुग्राहिका शक्तिः । नचा-
स्यास्तुल्यकालमपि तदनुग्रहोऽनुपपन्नः परस्पर-
विरोधाभावात् । नत्वणोर्व्यथनार्थं मलस्य परि-
णामरूपमनुग्रहं करोति, अपित्वनुग्रहायैव ।
तथाहि यत्किंचिदुपायेन कर्तुमुचितं, तन्ना-
नुपायेन ॥ १५ ॥

१७४ मृगेन्द्रतन्त्रे । [ १७
अयं च साधूपायः, यदुत
न साधिकारे तमसि
मुक्तिर्भवति कस्यचित् ।
अधिकारोऽपि तच्छक्तेः
परिणामान्निवर्तते ॥ १६ ॥
सोऽपि न स्वत एव स्या-
दपि योग्यस्य वस्तुनः ।
सर्वथा सर्वदा यस्मा-
च्चित्प्रयोज्यमचेतनम् ॥ १७ ॥
यावत्किल मलस्याधिकारस्तावन्न मुक्तिः क-
स्यचिद्भवति । तन्निवृत्तिरेव मुक्तिशब्दाभिधेया ।
यतः 'अधिकारश्च तच्छक्तेः परिणामात्समा-
प्यते' सच परिणामस्तदर्हस्यापि वस्तुनो न स्वतो
भवितुं शक्तः सर्वप्रकारेण सर्वकालं चाचेत-
नस्य चेतनप्रयुक्तस्य तत्तत्कार्यदर्शनात् । तस्मा-
च्चिदनुग्रहस्य तदर्थाञ्जनादिपरिणामस्य च पर-
स्परमविरोध इति प्रथमचोद्यनिरासः ॥ १७ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १७५
अथ द्वितीयस्य परिहारः
यथा क्षारादिना वैद्य-
स्तुदन्नपि न रोगिणम् ।
कोटाविष्टार्थदायित्वा-
दुःखहेतुः प्रतीयते ॥ १८ ॥
पाशावृतदृक्क्रियावृत्तिष्वणुषु तत्तत्पाशशक्त्यनु-
वर्तनद्वारेण जन्मद्रावणादिदुःखदायित्वाद्वामो-
ऽपि परमेश्वरस्तदभ्युदयायैव प्रवृत्तत्वान्न दुःख-
हेतुरवगम्यते—यथा वैद्यः क्षारशस्त्रादिना रो-
गिणं व्यथयन्नपि कोटौ प्रान्ते अभिमतस्या-
रोग्यलक्षणस्यार्थस्य साधकत्वात् व्यथाहेतुरपि
न दुःखदायित्वेनैव ज्ञायते ॥ १८ ॥
नन्वत्यन्तशुद्धस्वरूपस्य भगवतः किं पा-
शधर्मानुवर्तनेनेत्याह
सर्वगत्वान्महेशस्य
नाधिष्ठानं विहन्यते ।
नच यत्रास्ति कर्तव्यं
तस्मिन्नौदास्यमेति सः ॥ १९ ॥
अचिदधिष्ठानं भगवतो न विहन्यते सर्व-

१७६ मृगेन्द्रतन्त्रे । [ १।७
गत्वान्महेशतया सर्वकर्तृत्वाच्च । यत्र यत्र क-
र्तव्यं किमप्यस्ति, तत्र तत्र च तादर्थ्यमेत्यापि
तत्तत्कर्तुरधिष्ठानेन सर्वदैव सर्वं करोतीत्युक्त-
मीश्वरसिद्धौ । उदास्त इत्युदासस्तस्य भाव
औदास्यमकर्तृत्वमित्यर्थः ॥ १९ ॥
तदेवं युगपत्सर्वानुग्राहित्वं शक्तेः प्रसाध्य,
तदेव घटयन्ननुग्रहशब्दार्थमाह
धर्मिणोऽनुग्रहो नाम
यत्तद्धर्मानुवर्तनम् ।
न सोऽस्ति कस्यचिज्जातु
यः पत्या नानुवर्त्यते ॥ २० ॥
धर्मिणोऽनुग्राह्यस्य धर्माणां यदनुवर्तनं सो-
ऽनुग्राहकस्यानुग्रहः क्रमविकस्वरस्वरूपाणां प-
द्मानामिव विवस्वतः । स इति तथाविधो धर्मः
कस्यचिदपि धर्मिणो नास्ति, यः परमेश्वरेण
नानुवर्त्यते नाधिष्ठीयते तस्य सर्वव्यापकत्वात् ॥
एवं च
गताधिकारनीहार-
वीर्यस्य सत एधते ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १७७
पशोरनुग्रहोऽन्यस्य
तादर्थ्यादस्ति कर्मणः ॥ २१ ॥
गतः समाप्तः क्रियादृक्प्रतिरोधकत्वरूपो-
ऽधिकारो यस्य तद्गताधिकारं नीहारस्य तमसो
मलस्य संबन्धि वीर्यं सामर्थ्यं यस्य तस्य तथा-
विधस्य सतः पशोर्बद्धात्मनोऽनुग्रह एधते वर्धते
बहुलीभवति निवृत्ताधिकारायां मलशक्ताविति
यावत् । अन्यस्य तु मलादेः पाशजालस्य, यत्
कर्मणः परिणामितादेस्तादर्थ्यं तत्प्रयोजकत्वं,
तस्मादनुग्रहो भवति । बद्धात्मविमुक्त्यै यत्प-
रिणामिताप्रयोजकत्वं, स एव पाशानामनुग्रह
इत्यर्थः ॥ २१ ॥
एवं च प्रकृते किं व्यवस्थितमित्याह
बोद्धृत्वपरिणामित्व-
धर्मयोरनुवर्तनम् ।
मलस्य साधिकारस्य
निवृत्तेस्तत्परिच्युतौ ॥ २२ ॥
मलस्य साधिकारस्येत्याणवस्याञ्जनस्या-
धिकारनिवृत्तेस्तद्भावभाविन्या अनादिकाली-
२३

१७८ मृगेन्द्रतन्त्रे । [ १।७
नायाः परमेश्वररोधशक्तेरपगमोन्मुख्याः परि-
च्युतौ किञ्चिच्छिथिलीभावे सति बोद्धृत्व-
धर्मानुवर्तनमात्मनोऽनुग्रहः, परिणामित्वधर्मा-
नुवर्तनं पाशानामिति ॥ २२ ॥
उपसंहरन्नाह
इत्येवं यौगपद्येन
क्रमात्सुघट एव हि ।
मायायाः साधिकारायाः
कर्मणश्चोक्त एव ते ॥ २३ ॥
इत्येवमुक्तया युक्त्या यौगपद्येन चिदचि-
तोरनुग्रहो न विरुद्धः क्रमात् सुघट एव, न
दुरुपपादः । मलवच्च मायायाश्च कलादिक्षि-
त्यन्तस्वाधिकारसहितायाः कलाद्याविर्भावल-
क्षणस्तदुपसंहारात्मकश्च, कर्मणस्तु फलदानौ-
न्मुख्यापादनात्मकः, सोऽयमनुग्रहो मायाकर्म-
णोरनुक्तोऽप्युक्त एव ज्ञेयः
'सर्वथा सर्वदा यस्माच्चित्प्रयोज्यमचेतनम् ।' (१७)
इति सामान्येन सर्वस्यैवोक्तत्वादिति ॥२३॥
इति श्रीमद्भट्टविद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्र-
टीकायामाणवपाशपरीक्षाप्रकरणं सप्तमम् ॥ ७ ॥