मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
२९] एकादशतलविधानम् १७६
महाशालानवांशेन मध्ये भद्रं शरांशकम् ।
तन्मध्ये भद्रशाला च बन्ध(न्धु)भागेन योजयेत् ॥ १२ ॥ 24
एवं तु वज्रकान्तं स्यादर्ककान्तमिहोच्यते ।
तदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्ठिकम् ॥ १३ ॥
तद्द्वयोरन्तरे देशे तत्समं क्षुद्रहारयोः ।
पूर्ववत्कूटविस्तारं शेषं हारं सपञ्जरम् ॥ १४ ॥ 28
तन्मध्ये तु त्रिभागेन क्षुद्रशालाविशालत:(ता) ।
तत्पार्श्वे त्रित्रिभागेन हारमध्ये समद्रकम् ॥ १५ ॥
क्षुद्रशालात्रिभागेन मध्यभद्रं समन्वितम् ।
क्षुद्रहारा च सर्वेषां नासिकापञ्जरान्वितम्(ता) ॥ १६ ॥ 32
मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयोः ।
सर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् ॥ १७ ॥
शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत् ।
एवं विस्तारगण्यं स्यात्तुङ्गगण्यमिहोच्यते ॥ १८ ॥ 36
जन्मादिस्तूपिपर्यन्तं (चो)क्तवत्संग्रहं विदुः ।
एकादर्शाशभागेन दशतलोदयाधिकम् ॥ १९ ॥
तदेव सार्धबन्धा(न्ध्यं)शं मसूरकोत्तुङ्गमिष्यते ।
समांशं पाददीर्घ(दैर्घ्यं) स्यात्तदर्धं प्रस्तरोदयम् ॥ २० ॥ 40
शेषं प्रागुक्तवद्रूप्यमेकादशतलोदये ।
तलोर्ध्वोर्ध्वतले सर्वे(र्वे) कर्णहर्म्यादिमण्डितम् ॥ २१ ॥
एकभाग(गं) द्विभागं वा परितोऽलिन्दमिष्यते ।
नानाधिष्ठानसंयुक्तं नानापादैरलंङ्कृतम् ॥ २२ ॥ 44
शालाकूटैश्च हारैश्च ऽ(चो)क्तवत्समलङ्कृतम् ।
हारान्तरे तु कूटशाला च ग्रीवदेशोक्तदेवतान् ॥ २३ ॥
अनुशालाष्टादिक्पालांस्तत्तद्वाहनसंयुतम् ।
यक्षविद्याधरादीनां गरुडादीनि विन्यसेत् ॥ २४ ॥ 48
गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् ॥ २५ ॥
इति मानसार वास्तुशास्त्रे एकादशतलविधानं नाम नवविंशोऽध्यायः ॥
द्वादशतलविधानम्
अन्यभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
भूमिलम्बविधाने तु विस्तारात्सेधमुक्तवत् ॥ १ ॥
क्षुद्राल्पमध्यमुख्ये तु यन्मानोरम्य(म्यं) मानयेत् ।
विमानस्य विमा(धा)ने तु चोक्तषड्भक्तिसंग्रहम् ॥ २ ॥
पाञ्चालं द्राविडं चैव मध्यकान्तं कलिङ्गकम् ।
ब(वि)राढं केरल चैव वंशकं मागधं तथा ॥ ३ ॥
जनकं स्फू(गु)र्जकं चैव दशकान्तं प्रकीर्तितम् ।
रविभूमिविशाले तु चाष्टविंशांशिकं भवेत् ॥ ४ ॥
महाशाला दशांशं स्याच्छेषं पूर्ववदाचरेत् ।
पाञ्चालं द्राविडं चैव रविभूम्यल्पहर्म्यके ॥ ५ ॥
मध्यमालयविस्तारे त्रयस्त्रिंशद्विभाजिते ।
त्रिभागं कूटविस्तारं मध्यभद्रे(द्रमे)कभागिकम् ॥ ६ ॥
महाशाला नवांशं स्याच्छेषं पूर्ववदाचरेत् ।
मध्यकान्तमिति प्रोक्तं तस्य कूट(टं) द्विभागिकम् ॥ ७ ॥
अनुशाला षडंगं(शं) स्यात्तस्याङ्गं पूर्ववद्भवेत् ।
एवं कालिङ्गकान्तं स्यान्नानालङ्कारसंयुतम् ॥ ८ ॥
चतुरा(र)धिकत्रिदशभागं हर्म्यविशालके ।
अष्टांशेन महाशाला पार्श्वे शाला शिवांशकम् ॥ ९ ॥
द्व्यंशानुपञ्जरशाला तदर्धं चान्तरालकम् ।
अनुशाला त्रिभागं स्यादेकांशमन्तरालकम् ॥ १० ॥
द्वि(द्वां)शं पञ्जरशाला च पार्श्वे हारं शिवांशकम्
कूटानां च द्विभागं स्यात्सर्वं युक्तवं(त्त्वा) सभद्रकम् ॥ ११ ॥
३०] द्वादशतलविधानम् १८१
महाशाला युगांशेन मध्यमत्र(भद्रं) प्रकारयेत् ।
तले तले विमाने तु शालापञ्जरषोडशम् ॥ १२ ॥ 24
क्षुद्रशाला द्विदण्डारा च तन्मध्यं चाष्टकं भवेत् ।
चतुर्दिक्षु महाशाला चतुष्कूट(टं) वले तले ॥ १३ ॥
एवं व(वि)राट्कान्तं स्याच्छ्रेष्ठं भागं तु पूर्ववत् ।
तदेव भूतभागेन क्षुद्रशालाविशालकम् ॥ १४ ॥ 28
हारा च तन्त्रिभागेन युक्ता च समलङ्कृतम् ।
शेषं प्रागुक्तवत्कुर्यात्तदेव केरलकान्तकम् ॥ १५ ॥
तदेव हारां तन्मध्ये चैकभागेन सौष्ठिकम् ।
वंश[क]कान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १६ ॥ 32
तदेवानुशालामध्ये भद्रशालैकभागिकम् ।
एवं मागधकान्तं स्यात्कर्णकूट(टं) सभद्रकम् ॥ १७ ॥
तदेव महाशाला तु(या) द्विभागं मध्यभद्रकम् ।
जन[क]कान्तमिति प्रोक्तं श्रेष्ठा रवितलान्वितः(तम्) ॥ १८ ॥ 36
एकादशतलोत्तुङ्गे त्रयोदशांशमा(म)धिकम् ।
तद्भागेन युगांशं तु कुट्टिमोदयमीरितम् ॥ १९ ॥
अष्टांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
अर्धांशं तु शिखोपेतं शेषांशं प्राग्वदुच्छ्रयम् ॥ २० ॥ 40
एवं द्वादशतलं स्यात्तुङ्गं युक्त्वा समाचरेत् ।
एकेन परितोऽलिन्दं तदूर्ध्वोर्ध्वतलानि च ॥ २१ ॥
एकानेकतलान्ते च चादिभूमिवशाद्विदुः ।
अनाहृत्यं(तां)शकं कृत्वा तदूर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ २२ ॥ 44
एकद्वित्रित्रिदण्डं वा मध्यशालाच(लाया) निर्गमम् ।
अर्धमेक(कं) द्विदण्डं वा क्षुद्रशालादिनिर्गमम् ॥ २३ ॥
एकांशात्य(शमध्य)र्धदण्डं वा सर्वेषां भद्रनिर्गमम् ।
तले तले च पादादि बहुकूटं चालिन्दकम् ॥ २४ ॥ 48
१८२ मानमारे [अध्यायः
सर्वाङ्गं कर्णहर्म्यादि सान्तरप्रस्तरन्वितम् ।
बिनाभद्रं महाशाला चैकशाला समन्वितम् ॥ २५ ॥
एकभद्रोध्वंशाला च मध्यकोष्ठसमन्वितम् ।
द्विभद्रं(द्रा) चेन्महाशाला मूर्ध्निंशाला(लां) प्रकल्पयेत् ॥ २६ ॥ 52
सभद्र(द्रा च) महाशाला भद्रशाला समन्वितम्(ता) ।
ऊर्ध्वशाला सभद्राढ्यं प्रस्ता(स्ता)रं समलङ्कृतम् ॥ २७ ॥
निर्गमाङ्गं महाशाला क्षुद्रशाला सवेशनम् ।
यत्तत्प्रासादमध्ये तु महाशाला(लां) प्रकल्पयेत् ॥ २८ ॥ 56
सर्वेषां हारमध्ये तु क्षुद्रशाला(लां) प्रकल्पयेत् ।
यथा हर्म्ये [तु] द्विक्कक्ष्ये (विदिक्षु) च कर्णकूटं विनिक्षिपेत् ॥ २६ ॥
क्षुद्रशालां तु (लायां) द्वारा च वेशनं युक्तितो न्यसेत् ।
नासिकापञ्जरादीनां तोरणार्थं तु पञ्जरम् ॥ ३० ॥ 60
सर्वेषां हर्म्यके द्वारं चोक्तवत्समलङ्कृतम् ।
एकद्वित्रिद्विभागं वा प्रासादान्निर्गमं भवेत् ॥ ३१ ॥
अथवा हस्तमानेन चैकानेकेन वर्धयेत् ।
द्विभूम्यान्ततलान्तं चैकादशकरान्तकम् ॥ ३२ ॥ 64
क्रमात्तु निर्गमं कुर्याद्युक्त्या तत्रैव शिल्पिभिः ।
अनाख्यातानि चाङ्गानि यस्मिन् हर्म्येषु चोक्तवत् ॥ ३३ ॥
तत्तदङ्गानि सर्वाणि सर्वहर्म्येषु योजयेत् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३४ ॥ 68
नानापञ्जरादीनां नानावर्गै(शालै)श्च तोरणम् ।
नानानासिकाकूटं नानाहारैरलङ्कृतम् ॥ ३५ ॥
नानाप्रस्तरसंयुक्तं नानागलविभूषितम् ।
नानावेदिका कुर्यान्नानालङ्कारभूषितम् ॥ ३६ ॥ 72
नानापालिकादीनां नानाङ्गे(ङ्गेषु) स्तूपिकान्वितम् ।
नानाकारं तु पद्मं स्यान्नाना [च] पालिकादिभिः ॥ ३७ ॥
३०] द्वादशतलविधानम् १८३
कुर्यात्तु सर्वहर्म्याणां शिल्पिभिः समलङ्कृतम् ।
तले तले विमानादि(नस्य) दिक्षु दिच्वादिकोष्ठके ॥ ३८ ॥ 76
तत्तद्देवालये देवांस्तत्तत्प्रागुक्तवन्नयेत् ।
यक्षविद्याधरादीनां गणभूतादिराक्षसान् ॥ ३९ ॥
जन्मादिसप्तमात्रं(मातरश्) च शङ्खिण्या चापरस्त्रियः ।
विश्वकर्माद्यगस्त्यादिनारद[यः]श्रुतिघोषकान् ॥ ४० ॥ 80
सालोक्यादिपदैः सर्वभक्तांश्च लक्षणोक्तवत् ।
असंख्यातत्रयस्त्रिंशद् ब्रह्मादीनां च सर्वशः ॥ ४१ ॥
हर्म्यमूले तले चोर्ध्वं सर्वत्र परिकल्पयेत् ।
अन्यान्यनुक्तमानानां चाङ्गं युक्त्या प्रयोजयेत् ॥ ४२ ॥ 84
(सोपानलक्षणम्)
देवानां मानुषाणां च हर्म्यादीनां च सर्वशः ।
आरोहावरोहार्थं च सोपानलक्षणं तथा ॥ ४३ ॥
हर्म्यादिमण्डपादीनां प्राकारादि(दौ) च गोपुरे ।
तथा पर्वतदेशे तु वापीकूपतटाकके ॥ ४४ ॥ 88
नगरग्रामादिसर्वेषां कल्पयेच्छिल्पि(ल्प)वित्तमः ।
अचलं च चलं चैव द्विधा सोपानमीरितम् ॥ ४५ ॥
शिलाभिश्चेष्टकैर्वापि दारुभिः सचलं मतम् ।
सर्वैश्चैवाचलं प्रोक्तं क्षुद्रसोपानसंयुतम् ॥ ४६ ॥ 92
सर्वेषां मुखभद्राणां पार्श्वे सोपानसंयुतम् ।
पार्श्वयोर्द्वारदेशे तु मुखसोपानमेव वा ॥ ४७ ॥
आरोह(हार्थं) सर्वहर्म्ये [तु] दक्षिणद्वारभद्रके ।
तत्पार्श्वे पूर्वदिग्देशे सोपानं कारयेच्छुभम् ॥ ४८ ॥ 96
गुह्यान्तद्वारदेशे तु वामे सोपानसंयुतम् ।
आराध्यदेवदेवस्य प्रदर्शनमगार्हितम् ॥ ४९ ॥
तस्मात्तु मुखभद्रे तु पार्श्वे सोपान(नं) कारयेत् ।
पार्श्वयोः पृष्ठदेशे तु तत्पूर्वे पश्चपार्श्वके ॥ ५० ॥ 100
१८४ मानमारे [अध्यायः
यत्र देशे तु सोपानं तत्र दोषो न विद्यते ।
प्रमुखे मुखसोपानं न कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ५१ ॥
अपरे पार्श्वयोर्द्वारे भद्रहीनत्रयं तु चेत् ।
तत्पूर्वके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥ ५२ ॥ 104
प्रपाङ्गे प्रमुखे भद्रे सोपानं पूर्वपार्श्वयोः ।
कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमेवं पुरातनैः ॥ ५३ ॥
वैल(वि)लानामिति प्रोक्तं कुर्यात्सोपानमुद्गतम् ।
नराणां सर्वहर्म्येषु वक्ष्ये सोपानलक्षणम् ॥ ५४ ॥ 108
तपस्यादिद्विजातीनां वर्णानां च विशेषतः ।
देवानामुक्तवत्कुर्याद्गेहं सर्वेषु योजयेत् ॥ ५५ ॥
द्विजानां भूपतीनां च सर्वेषां भद्रदेशके ।
पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयेत् ॥ ५६ ॥ 112
अलिन्दयुक्तं तद्द्वारे वामे सोपानसंयुक्तम् ।
विनालिन्दप्रदेशे तु प्रमुखे सोपानमेव च ॥ ५७ ॥
वैश्यानां शूद्रजातीनां सोपानं वक्ष्यतेऽधुना ।
यत्तद्द्वारादिभद्राणां युक्त्या सोपानसंयुक्तम् ॥ ५८ ॥ 116
गोपुराणां तु तत्पार्श्वे सोपानं लक्षणान्वितम् ।
अद्रिदेशे समारोह्य(हं) यत्र तत्रैव कारयेत् ॥ ५९ ॥
वापीकूपतटाके वा परितः सोपानसंयुक्तम् ।
चतुर्दिक्षु चतुष्कोणे चान्तरालेऽथवा पुनः ॥ ६० ॥ 120
एवमेवं यथादेशे भद्रसोपानमेव वा ।
तत्रैव श्रेष्ठदिग्देशे कुलद्वारं प्रकल्पयेत् ॥ ६१ ॥
तत्पूर्वे च द्विपाश्वें [च] कुर्यात्सोपानमुक्तवत् ।
अचलं च इ(त्वे)ति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥ ६२ ॥ 124
द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
सार्धहस्तावसानं स्यान्नवधा विमृ(स्तृ)तं भवेत् ॥ ६३ ॥
३०] द्वादशतलविधानम् १८४
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
सार्धवेदकरान्तं च फ(च)लमेकं तदायति(तिः) ॥ ६४ ॥ 128
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
तन्त्रिहस्तावसानं स्याच्च(दच्च)लसोपानविस्तृतम् ॥ ६५ ॥
द्विहस्तं तु समारभ्य चतुर्हस्तावसानकम् ।
त्रिहस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥ ६६ ॥ 132
एतच्चलसोपानं विस्तारं नवधा भवेत् ।
जन्मादिस्तूपिपर्यन्तं कुर्यात्तुङ्गं हि योजयेत् ॥ ६७ ॥
लुपमानो(नमु)क्तवत्कुर्यात्सोपानायाममुन्नतम् ।
अद्रिसोपानदेशे तु दीर्घं(दैर्घ्यं)मानं यथेष्टकम् ॥ ६८ ॥ 136
विस्तारं पूर्ववत्कुर्यादचलं चोक्तवद्भवेत् ।
परितः सोपानविस्तारं तटाकाद्याकारतत्(रं) तथा ॥ ६९ ॥
परितः सर्वसोपानं कुर्यात्प्रागुक्तवन्नयेत् ।
पट्टिकात्रयमारभ्य वर्धयेद्द्विद्विपट्टिका(काम्) ॥ ७० ॥ 140
त्रयोविंशच्छ्रतान्त(न्तं) स्याद्देवानामिति कथ्यते ।
पद्मद्रिमार्गपर्यन्तं तिर्यक् चोध्वोर्ध्वं(र्ध्वं) चोक्तवत् ॥ ७१ ॥
मानुषाणां तु सोपानं पट्टिकायुग्मसंयुतम् ।
त्रिचतुष्पञ्चषण्मात्रं चलं सोपानपादके ॥ ७२ ॥ 144
तद्घनं च विशाले तु समं वा पादमाधिकम् ।
अर्धाधिकं तु पादोनद्विगुण्यस्(यं) त्रिगुणं ततः ॥ ७३ ॥
दण्डद्वयसमायुक्तं चित्र(च्छिद्र)युक्तं(क्ता) तु पट्टिकाः ।
एकद्वित्र्यङ्गुलं वापि पट्टिकाघनमेव च ॥ ७४ ॥ 148
द्वित्रिवेदशराङ्गुल्यं षट्सप्ताङ्गुलमेव वा ।
अष्टनन्ददशाङ्गुल्यं पट्टिकाविस्तृतं भवेत् ॥ ७५ ॥
एवं तु चलसोपानमचलं तत्रवच्यते ।
पञ्चषडङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ॥ ७६ ॥ 152
23
१८४ मान सारे [अध्यायः
द्वादशैकार्कमात्रान्तं पट्टिकोत्सेधविस्तृतम् ।
आधिक्यात्तुङ्गविस्तीर्णं हीनमानोदयं भवेत् ॥ ७७ ॥
सोपानपार्श्वयोर्देशे हस्तिहस्तविभूषितम् ।
हस्तमूलविशाले तु चोक्ताङ्गुलीन(न्) मानयेत् ॥ ७८ ॥ 156
मूलेन(लक्ष्य) तन्त्रिभागैकं हस्ताग्रान्तं चयं क्रमात् ।
हस्तिहस्तवदाकारं द्वारयुक्तं मनोहरम् ॥ ७९ ॥
त्रिचतुष्पञ्चवक्त्रं वा मूलेन सिंहाननैर्युतम् ।
अग्राधो धारपट्टं स्यात्पट्टिका(कं) चोक्तमानकम् ॥ ८० ॥ 160
अग्राधारं पालिकाकारं पट्टिका वेदिकाकृतिः ।
सर्वाङ्कारसंयुक्तं सोपानं लक्षणान्वितम् ॥ ८१ ॥
अङ्घ्रिसोपानपार्श्वे तु न कुर्यात्पार्श्वयो(र्वा)ङ्घ्रिकम् ॥ ८२ ॥
अनेकहर्म्यस्य विशालदेशके 164
सम्भूषणोन्मानं यथा प्रविश्यते ।
कुर्वन्ति दोषं किल भर्तृकर्तृणाम्
उक्ते(क्तं) मानं कुरुते तु सम्पत् ॥ ८३ ॥
जातिहर्म्यादि [ लक्षणम् ]
वक्ष्येऽहं जातिहर्म्याणामायादिलक्षणं क्रमात् । 168
पूर्वोक्तानां विमानानां विस्तरादिवशात् हि(द्वि स्यात्) ॥ ८४ ॥
आय(यं) व्ययं च योनिं(निश) च नक्षत्रं वारमंशकम् ।
तिथिवार्थ षडेतानि तान्यायादिविदो विदुः ॥ ८५ ॥
सञ्चितासञ्चितानां च अं(त्वं)शैरायादिभिर्युतम् । 172
अपसञ्चितहर्म्याणां तिथ्यन्तं षड्ग्रहीष्यते ॥ ८६ ॥
एक(कं) त्रिपादमर्धं च पादहस्तं यथाक्रमम् ।
जातिश्छन्द(न्दं) विकल्पं च आ(त्वा)भासं च चतुर्विधम् ॥ ८७ ॥
एतत्तदेव संयुक्तं हर्म्याणां मानकल्पनम् । 176
षट्सप्ताष्टकवृद्धिः स्याद्द्वादशान्तं(शेन) चयं नयेत् ॥ ८८ ॥
३०] द्वादशतलविधानम् १८७
शेषं तदायमित्युक्तं सञ्चितादि यथाक्रमम् ।
सप्ताष्टनववृद्ध्या(द्वा) तु हरेत्पङ्क्त्या व्ययं भवेत् ॥ ८६ ॥
एकद्वित्रयवृद्ध्या(द्वा) तु क्षपयेत्वष्टा(ष्टाभिश्च) च योनिकम् । 180
षट्सप्ताष्टवृद्ध्या तु सप्तविंशत्तयो भवेत् ॥ ९० ॥
तच्छेषं चापि नक्षत्रं गणयेदश्विनीक्रमात् ।
षडष्टनन्दवृद्ध्या तु सप्तभिः क्षपयेत्ततः ॥ ९१ ॥
शेषं तद्वारमित्युक्तं अ(कम)र्कवारादिवारयुक् । 184
त्रिभिर्वेदा(दै)स्तु वृद्धिः स्यान्नन्दहानि(निः) नवांशकम् ॥ ९२ ॥
तिथि(थिः) रन्ध्रो(न्ध्रे)ण वृद्धिः स्यात्रिंशता क्षयो भवेत् ।
सिध्या(द्वा)दि द्वादशायः स्याच्छिखरादिव्ययं दश ॥ ९३ ॥
ध्वजादिम(द्य)ष्टयोनिः स्यात्तस्करादिनवांशकम् । 18
प्राकारविधानम्
बला(ल्या)र्थं परिवारार्थं शोभार्थं रक्ष्यार्थकम् ।
पञ्चप्राकारहर्म्याणामधुना वक्ष्यते क्रमात् ॥ १ ॥
जात्यादिभेदहर्म्याणां तन्मानेन तु विन्यसेत् ।
जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ॥ २ ॥
छन्दा(जात्या)दि सर्वशा(सा)लानां प्रासादांशेन मानयेत् !
जातीनां जातिसालानां म्यैतारं विभाजितै ॥ ३ ॥
तदूर्ध्वं वेदिकादीनां ग्रीवमूर्ध्नि शिखान्तकम् ।
समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ॥ ४ ॥
छन्दादिपञ्चसाला(लां) च छन्दाद्यंशेन मानयेत् ।
जातिप्रासादविस्तारे विन्यसेत्सकलं पदम् ॥ ५ ॥
आदिशालां ततः कुर्यादन्तर्मण्डलमिरितम् ।
द्वितीयमन्तहारा च मध्यहारा तृतीयकम् ॥ ६ ॥
प्राकारं तच्चतुर्थं च कथितं तन्मयाधि(दि)कम् ।
ततः पञ्चमशा(सा)ला च महामर्याद(दा)मीरितम् ॥ ७ ॥
पञ्चशालामिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
तत्पीठा(प)द्विविन्यास(सश्)चादिशालविशालके ॥ ८ ॥
तथा द्वितीयशाले तु स्थण्डिलं(ल) पदं विन्यसेत् ।
तत्तत्कुर्यात्तु शालायां तृतीये चोभयचण्डितम् ॥ ६ ॥
सुसंहितपदं मध्ये मर्यादाया विशालके ।
महामर्यादाविस्तारे पद्ममीश्वरकान्तकम् ॥ १० ॥
एवं तु जातिशाला(लां) च कुर्याद्धर्म्यंवशात्सुधीः ।
वे(पे)चकं मूलहर्म्ये तु छन्दादीनां प्रवक्ष्यते ॥ ११ ॥
१] प्राकारविधानम् १८६
प्रथमं तु महापीठं द्वितीयं चण्डितं पदम् ।
तृतीयं भद्रसंयुक्तं ततः शालाबहिस्तथा ॥ १२ ॥
चतुर्थं सुप्रतीकान्तं पञ्चमं चे(च)न्द्रकान्तकम् ।
एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते ॥ १३ ॥
छन्दप्राकारविस्तारे सार्धार्धेन कराधिकम् ।
प्रथमात्पञ्चमानं स्यात्सार्धं युग्मकरान्तकम् ॥ १४ ॥
एवं विकल्पमानं स्यात्पञ्चशाला प्रकीर्तिताः ।
तदेव पञ्चशालानां षडङ्गुलविवर्धनात् ॥ १५ ॥
सप्तहस्ता(पादा)वसानं स्यात्प्रथमात्पञ्चमानकम् ।
एवमाभास(सं) कर्तव्यं हर्म्यपादं तु वर्धनात् ॥ १६ ॥
केचिच्छन्दकमाने तु त्रित्रिहस्तविवर्धनात् ।
प्रथमात्पञ्चमानं स्यात्पञ्चा(ञ्च)दशकरान्तकम् ॥ १७ ॥
एतत्क्षुद्रविमाने तु सा(शा)लाच्छन्दविमानकम् ।
केवलहस्तमानेन जातिप्राकार(रं) मानयेत् ॥ १८ ॥
त्रिहस्तेनादिसालादि द्विद्विहस्तविवर्धनात् ।
प्रत्येकं पञ्चशालानां पञ्चपञ्चप्रमाणकम् ॥ १९ ॥
क्षुद्राल्पमध्यमुख्यानां जातिसा(शा)लां प्रकल्पयेत् ।
प्रासादार्धविशालेन मध्यमुख्यांश(ख्याल्प)मानके ॥ २० ॥
सा(शा)लानां पञ्चधाशन्तं मानयेत्पूर्ववद्भवेत् ।
हर्म्यपादस्य बाह्यात्तु सालं(शाला)कुड्यावसानकम् ॥ २१ ॥
अन्तर्वापि बहिर्वापि कुट्य(ड्य)मध्यावसानकम् ।
उपपीठं चाङ्घ्रिकं वा[पि] हर्म्यपादं तु(दस्य) निर्गमम् ॥ २२ ॥
तत्कुड्यवेदिकान्तर्वा सालं प्रागुक्तमानकम् ।
हर्म्यसा(स्या)र्धपृथु(र्वाधृत)मानं यद्वास्त(स्त्वा)य(या)मतत्समम् ॥ २३ ॥
तच्चतुर्भागिकैकेन वर्धयेत्सन्मुखायतम् ।
विस्तारात्पञ्चधायामं पञ्चधा विस्तृता(विपुला)न्तकम् ॥ २४ ॥
पञ्चसा(शा)लामुखायामं प्रत्येकं पञ्चधा ततः ।
एकैकं विंशदायामं पञ्चविंश(शाखा)मुखायतम् ॥ २५ ॥
An exact, line-by-line transcription of the page into clean Markdown:
१६० मानमारे [अध्यायः
षडङ्गुलं समारभ्य षट्षडङ्गुलवर्धनात् ।
रसहस्तावसानं स्यात्प्रथमात्पञ्चमान्तकम् ॥ २६ ॥ 52
साज्ञानां कुड्यविस्तारं प्रत्येकं पञ्चधा मतम् ।
विशालोच्चसमं वापि तच्चतुर्थांशवर्धनात् ॥ २७ ॥
प्रत्येकं पञ्चसा(शा)लानां कुड्यानां पञ्चधोदयम् ।
अथवाधिष्ठानमानेन कुड्यतुङ्गममिहोच्यते ॥ २८ ॥ 56
कुट्टिमोच्चं समारभ्य पञ्चविंशोदयान्तकम् ।
अन्तर्मण्डलमाराभ्य महामर्यादिकान्तकम् ॥ २९ ॥
पञ्चकुड्यस्य चोत्सेधं प्रत्येकं पञ्चधा भवेत् ।
जन्मादि चोत्तरान्तं वा प्रस्तरान्तं तथोदयम् ॥ ३० ॥ 60
कुड्यस्यान्तप्रदेशे तु युक्त्या चावृतमालिकम् ।
वेदिका चो(कया)पपीठं च(ठेन) पादप्रस्तरभूषितम् ॥ ३१ ॥
यथेष्टभागपदेन युग्मायुग्ममथापि च ।
तस्या(कुड्या)न्तः परिवारार्थं भद्रं सोपानसंयुतम् ॥ ३२ ॥ 64
मालिकोपरि वप्र(प्रं) स्यादधिष्ठानं समोदयम् ।
अथवा द्विगुणोत्तुङ्गं त्रिगुणं वा यथेष्टकम् ॥ ३३ ॥
वज्राकृति(श) च वप्रार्यं छत्रकारमथापि वा ।
उत्तरं वाजनं चैव मुष्टिबन्धं त्रिधान्वितम् ॥ ३४ ॥ 68
अधिष्ठानादि वर्गाढ्यमथवा रज्जुभित्तिकम् ।
प्रस्तरस्योपरिदेशे कर्णहर्म्यादिमण्डितम् ॥ ३५ ॥
शैले वा चेष्टके वापि दार्वे(रौ) वाथ प्रकल्पयेत् ।
शुद्धं संकीर्णं मिश्रं वा यथाशोभं यथाबलम् ॥ ३६ ॥ 72
युक्त्या च प्रच्छादनं कुर्यात्सुधेटकादिगुलोदकैः ।
परिवारं(र)विमानानां मानं तद्वक्ष्यतेऽधुना ॥ ३७ ॥
मूलहर्म्यं(र्म्य)समं वापि त्रिपादं वार्धमेव वा ।
एकभूमि द्विभूमिं(मि) वा मूलहर्म्याकृति(स) तु वा ॥ ३८ ॥ 76
मूलस्थलसमं वापि तद्भिन्नोन्नतमेव वा ।
चतुर्दिक्षु चतुर्द्वारैमुपद्वारमद्वारा(रम)न्तरालके ॥ ३९ ॥
३१] प्राकारविधानम् १६१
देवानां चक्रवर्तिनां मध्ये द्वारं प्रकल्पयेत् ।
महद्द्वारमिति प्रोक्तमुपद्वारं तु चोक्तवत् ॥ ४० ॥ 80
भूसुरादिनराणां च मध्ये द्वारं न योजयेत् ।
मध्यसूत्रंतु(त्रस्य) वामे तु महाद्वारं प्रकल्पयेत् ॥ ४१ ॥
तद्वहिः परितो देशे(षट्) सप्तसा(शा)लां प्रकल्पयेत् ।
नारावासार्थ(र्थं) रथ्या च प्राकारद्वयमण्डितम् ॥ ४२ ॥ 84
तत्तद्विस्तारमानानि दण्डमानेन मानयेत् ।
त्रिचतुर्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥ ४३ ॥
नवपङ्क्तिदण्डपर्यन्तं सान्तरादिमहान्तकम् ।
प्रत्येकं तन्त्रिधा मानं सप्तप्राकारमीरितम् ॥ ४४ ॥ 88
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कार संयुतम् ।
चतुर्द्वारसमायुक्तं महागोगुरमावृतम् ॥ ४५ ॥
दै(दे)वानां मानुषा
परिवारविधानम्
सर्वेषामपि देवानां प्राकारान्तं(न्तः) प्रविष्टके ।
परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
इन्द्रादिसा(दींश्चा)ष्टदिग्देशे सा(चा)न्तर्मण्डलसालके ।
परितो भूतबल्यर्थं क्षुद्रपीठं विनिक्षिपेत् ॥ २ ॥
अ(तत्रा)ष्टकं परिवाराणां कृत्वा चान्तरि(नि)हारके ।
द्वितीये च तृतीये च षोडशपरिवारकम् ॥ ३ ॥
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम् ।
तृतीयात्पञ्चसा(शा)लान्तं विनियोगाख्यमण्डपम् ॥ ४ ॥
कुर्यात् (क्रियेत) शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते ।
इन्द्रे च वृषभं स्थाप्य आ(चा)ग्नेये चार्यकस्(कं) तथा ॥ ५ ॥
याम्ये तु सप्तमात्र(तरं) च नैर्ऋत्ये तु गणेश्वरम् ।
पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥ ६ ॥
सौम्ये तु केशवं स्थाप्य ई(चै)शान्ये भास्करं तथा ।
एवञ्चाष्टपरीवारं पूर्वद्वारालयं भवेत् ॥ ७ ॥
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत् ।
अथवा विनायकं प्रोक्तं नैर्ऋत्ये स्थापयेत्सुधीः ॥ ८ ॥
सोमई(मै)शानयोर्मध्ये दिवि(वष्)पञ्च विनिक्षिपेत् ।
वह्न्यन्तकद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥ ६ ॥
याम्ये कात्यायनी(र्ना) वाथ द्वारं(रे) वाथ प्रकल्पयेत् ।
याम्ये(म्य)नैर्ऋत्ययोर्मध्ये वीरभद्रालयं भवेत् ॥ १० ॥
नैर्ऋत्ये तु गजमुखं पश्चिमे तु पितामहम् ।
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥
पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेवतालयम् ।
वायुकोणे प्रदेशे तु सरस्वत्यालयं भवेत् ॥ १२ ॥
वायुचन्द्रद्वयोर्मध्ये ममो(न ङ)न्मन्यालयं भवेत् ।
चन्द्रस्थाने धनेशस्य चालयं कल्पयेद्बुधः ॥ १३ ॥
सोमई(मै)शानयोर्मध्ये जनार्दनालयं भवेत् ।
ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठयेत् ॥ १४ ॥
ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत् ।
अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥ १५ ॥
परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः ।
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ॥ १६ ॥
इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरम् ।
भृङ्गेशं (ङ्गे चेशं) भुवनेशं च कुर्यादन्तरिक्षके ॥ १७ ॥
आग्नेये च धनस्थानं पूषा(ष)स्थाने तु चेन्दिराम् ।
विदथे(तथे) चैकदन्तं स्यात् मुने(जले)शं स्याद्गृहक्षते ॥ १८ ॥
याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डल(प)म् ।
भृङ्गराजपदे चैव नैवेद्यार्पणवेश्मकम् ॥ १९ ॥
मृपे(शे) च वक्त्रालयं स्यान्नैर्ऋत्ये तु विनायकम् ।
दौवारिकपदे चैव मूर्तिशूलं समर्पयेत् ॥ २० ॥
सुग्रीवे च त्रिमूर्तिं स्यात्स्थापयेदेकहर्म्यके ।
पुष्पदन्तपदे चैव पुष्पबन्धनमण्डपम् ॥ २१ ॥
वरुणस्य पदे स्थाप्य(व्यं) चार्धनारीश्वरालयम् ।
असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २२ ॥
देवानां भूषणावासं स्थापयेच्छेषभागिके ।
पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥ २३ ॥
षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः ।
नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २४ ॥
देवानां भूषणावासं स्थाप्यं च मुख्यदेशके ।
अथवा पार्वती स्थाप्या भल्लाटस्यपदेऽपि च ॥ २५ ॥
१६४ मानसार [अध्यायः
सोमे च विष्णुं संस्थाप्य मनोजस्यालयं तु वा ।
मृगे च स्थापनार्थं च गन्धद्रव्यादिमण्डपम् ॥ २६ ॥ 52
अदिते दक्षिणामूर्तिमुदिते चान्तदानक(व)म् ।
ईशे च स्थापयेदेकं रुद्रमूर्त्तेस्तथालयम् ॥ २७ ॥
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम् ।
पर्जन्ये मज्जनार्थाय जलपूरितमण्डपम् ॥ २८ ॥ 56
अथवा रुद्रदेवस्य यागमण्डपमेव च ।
जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २९ ॥
अथवा कामकोष्ठं स्यादाbase -> लयं कल्पयेत्सुधीः ।
द्वात्रिंशन्मूर्त्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥ 60
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् ।
भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥
छत्रं च चामराकारं जयन्तस्य पदे तथा ।
तण्डुलं(ल)मण्डपं याम्ये पावके पचनालयम् ॥ ३२ ॥ 64
गृहक्षते धान्यशाला ई(चे)शे च यागमण्डपम् ।
गन्धर्वे भृङ्गराजे च स्थापकान्यथा(नामाल)यम् [स्यात्] ॥ ३३ ॥
पूषे च वितथे चैवमालये परिवारकान् ।
सोमे भल्लाट(टे) मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ॥ 68
पुष्पदन्ते सुकरी च(मृगे चैव) शखमण्डपसंयुक्तम् ।
वरुणे वासुरे वापि वस्तुनिक्षेपमण्डपम् ॥ ३५ ॥
नागे वापि मृगे वापि देवभूषणमण्डपम् ।
आ(अ)दितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥ ३६ ॥ 72
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च ।
स्नापनार्थमण्डपं चापि स्नानमण्डपमेव च ॥ ३७ ॥
गृहक्षते यमे वापि वाहनस्थानमण्डपम् ।
मर्यादि(दा)भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥ ३८ ॥ 76
अङ्गलिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च ।
अनन्तानिलकोष्ठे वा स्थापत्यालयमेव च ॥ ३९ ॥
३२] परिवारविधानम् १६५
सत्यके वा चान्तरिक्षे वाद्यकरालयं भवेत् ।
पूषे(ष्णि) च वितथे चापि नाट्या(ट्य)कारालयं भवेत् ॥ ४० ॥ 80
गृहक्षते मृष(श)श्रा(स्या)न्तं गणिकादीनां तथालयम् ।
नैऋ(र्ऋ)त्यादावरुणान्तं च गणिकस्यालयं भवेत् ॥ ४१ ॥
वरुणाद्वायुपर्यन्तमारामकारकालयम् ।
वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥ 84
सोमादीशानपर्यन्तं गान्धर्वालयमेव च ।
ईशादेरिन्द्रपर्यन्तं संधि(संगी)तार्थं च मण्डपम् ॥ ४३ ॥
तद्बाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत् ।
ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥ ४४ ॥ 88
चतुष्कोणे तपस्वी(स्वि)नां सत्रावासमठं भवेत् ।
समीपे वीरभद्राणां गृहक्षेत्रां च कल्पयेत् ॥ ४५ ॥
महामर्यादि(दा)देशे तु वर्णानां वासयोग्यकम् ।
पश्चिमे विप्रसङ्ग(ङ्गः) स्याद्दक्षिणे क्षत्रियस्य च ॥ ४६ ॥ 92
उत्तरे वैश्यसङ्गः(ङ्गः) स्यात्पूर्वे तु शूद्रसद्मकम् ।
तद्बाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥ ४७ ॥
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् ।
उदिते चेशकोणे तु कल्पयेद्धर्ममण्डपम् ॥ ४८ ॥ 96
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत् ।
प्राकारद्वार(रे) सर्वेषां कल्पयेद् वृषभालयम् ॥ ४९ ॥
वृषभस्योपरि भागे तु कल्पयेद् बलिपीठकम् ।
गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥ ५० ॥ 100
प्रासाद(द्वाद्)दण्डमानेन चैकं वा द्वित्रिदण्डकम् ।
गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधीः ॥ ५१ ॥
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् ।
प्रासादार्थं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ ५२ ॥ 104
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च ।
पीठतारसमोच्चं वा पादार्थाधिकमेव च ॥ ५३ ॥
१६६ \qquad\qquad\qquad\qquad\qquad\qquad मानमारे \qquad\qquad\qquad\qquad\qquad [अध्यायः
उपानादिपट्टिकान्तं स्यात्पीठतुङ्गमुदीरितम् ।
पीठतुङ्गोदयार्धेन पद्मतुङ्गं प्रकल्पयेत् ॥ ५४ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 108
वप्रे वा पट्टिके वापि विस्तारं (निर्गमं) परिकल्पयेत् ।
विस्तारे पञ्चभागे तु वेदार्थं पद्मविस्तृतम् ॥ ५५ ॥
पद्मातारत्रिभागैकं कर्णिकाविस्तृतं भवेत् ।
विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥ ५६ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 112
भद्रं वा पद्मसंयुक्तं तुङ्गं प्रागुक्तवन्नयेत् ।
वृत्तं वा चतुरश्रं वा मूलप्रासादवद् भवेत् ॥ ५७ ॥
अधिष्ठानाकारवत्पीठं हर्म्याधिष्ठानवद् भवेत् ।
द्वादशाङ्गुलविस्तारमुत्सेधं क्षुद्रविस्तारम् ॥ ५८ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 116
उपाब्जं करिकर्णायुक्तं कुर्यात्तत्क्षुद्रपीठकम् ।
वृषभस्यालयं(य) मानं पूर्ववत्परिकल्पयेत् ॥ ५९ ॥
मण्डपाकारवत्कुर्याद्विम्बानां मनोरम्यमानकम् ॥ ६० ॥
\qquad\qquad\qquad\quad विष्ण्वालयपरिवारम्
विष्ण्वालयपरिवारलक्षणं वक्ष्यतेऽधुना । \qquad\qquad\qquad\qquad\qquad\qquad\qquad\quad 120
पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥ ६१ ॥
द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम् ।
वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥ ६२ ॥
दक्षिणे चक्रसंयुक्तं वामे तत्पाञ्चजन्यकम् । \qquad\qquad\qquad\qquad\qquad\qquad\qquad 124
दक्षिणे च गणेशं च वामे कात्यायनीं तथा ॥ ६३ ॥
दक्षिणे भास्करं चैव वामभागे निशापतिम् ।
दक्षिणे च भुजङ्गे च(शं) द्वारवामे दिवः(वस्)पतिम् ॥ ६४ ॥
प्रथमादिपञ्चमान्तं स्यात्स्थापयेद् द्वारपञ्चके । \qquad\qquad\qquad\qquad\qquad\qquad\quad 128
एवं तु दशधा देवान्द्वाराणामुदितं(तान्) क्रमात् ॥ ६५ ॥
प्रमुखे वैनतेयः स्यात्सालाच्छालाभान्तरा भवेत् ।
प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥ ६६ ॥
अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम् । \qquad\qquad\qquad\qquad\qquad\qquad\qquad\quad 132
द्वारस्य दक्षिणे पार्श्वे हर्म्यं कुर्याद्विहस्पतेः ॥ ६७ ॥
यथैवाग्निकोणे तु मृगैः(गाणामा)लयमेव च ।
याम्ये कात्यायनी प्रोक्तं नैर्ऋत्ये तु विनायकम् ॥ ६८ ॥
पश्चिमे दिञ्च्वनन्तं स्याद्वायौ वासिष्टकालयम् । 136
उत्तरे धनदं चैव ई(त्वी)शान्ये भास्करं तथा ॥ ६६ ॥
कात्यायनी(नीं) बिना याम्ये कुर्याद्वाथ पितामहः(हम्) ।
धनदं च बिना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥
एवं चाष्टपरीवारं षोडशं परिवारकम् । 140
पूर्वोक्तदेवतासङ्गैः किञ्चित्किञ्चिद्विशिष्यते ॥ ७१ ॥
आग्नेये च गणेशं स्यान्नैर्ऋत्ये तु गुहं क्षिपेत् ।
वायव्ये तु महालक्ष्मीं वैशान्ये च सुदर्शनम् ॥ ७२ ॥
सोमई(मे)शानयोर्मध्ये शङ्करालयमेव च । 144
वायुसोमोभयोर्मध्ये विष्णुदुर्गं तथालयम् ॥ ७३ ॥
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चक्रमूर्तेस्तधालयम् ।
याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥ ७४ ॥
नैर्ऋत्ये तु बौद्धं स्याज्जयन्ते पैत्रिकालयम् । 148
शेषं प्रागुक्तवत्स्थाप्य षोडशं परिवारकम् ॥ ७५ ॥
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ।
चतुर्विंशतिमूर्तीनां दिक्पालक(कैः) सहैव च ॥ ७६ ॥
एकानावरशैः स्थाप्य चावतारान्दशा[न]पि । 152
मत्स्यः(त्स्यं) कूर्म(र्मं) विना कुर्यात्तत्क(दिक्पा)लानां(न्) विना तथा ॥ ७७ ॥
पूर्वोक्तमण्डपानां च (चो)क्तदेवान् यथेष्टवत् ।
कुर्याद्दिष्णुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥ ७८ ॥
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् । 156
तत्तद्वाह्नं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७६॥
यच्च(च्चो) यतीञ्च(च) तीर्थानि कुर्यात्तत्परिवारकम् ।
अन्याञ्च(न्येषां च) क्षुद्रदेवानां देवीनां परिवारकम् ॥ ८० ॥
तत्तद्वाहनपूर्वा(र्वं) च भूतपैशाचकं तथा । 160
गणेशं(शानि) क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥ ८१ ॥
१६८ मांनसारे [अध्यायः ३२]
अन्तर्बहिश्च बल्यर्थं कुर्यात्पीठं तु पूर्ववत् ।
चामुण्डालय(ये) शङ्करालय(ये) महाविष्णोस्तथालये ॥ ८२ ॥
बौद्धस्यालये तज्जैनालयम(येऽ)पि क्षुद्रालये सर्वशः । 164
शास्त्रस्यालयतोरणे कथितं तत्परिवारकं कुर्वीत ॥ ८३ ॥
श्रममनु ते क(के)पि विना कृत्वा तु संपद् भवेत् ॥ ८४ ॥
यन्मूलहर्म्ये वृषभादि विष्णोरा(ष्ण्वा)दि
मण्डपादि गरुडादि [च] गोपुरादीन् । 168
तन्मूलहर्म्यपरितः स्थित(तान्) प(दृ)श्यते अ(चा)स्मिन्
कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥ ८५ ॥
इति मानमारे वास्तुशास्त्रे परिवारविधानं नाम द्वात्रिंशोऽध्यायः ॥