मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 218, कुल 856 में से
संदर्भ में पढ़ें३०] द्वादशतलविधानम् १८३
कुर्यात्तु सर्वहर्म्याणां शिल्पिभिः समलङ्कृतम् ।
तले तले विमानादि(नस्य) दिक्षु दिच्वादिकोष्ठके ॥ ३८ ॥ 76
तत्तद्देवालये देवांस्तत्तत्प्रागुक्तवन्नयेत् ।
यक्षविद्याधरादीनां गणभूतादिराक्षसान् ॥ ३९ ॥
जन्मादिसप्तमात्रं(मातरश्) च शङ्खिण्या चापरस्त्रियः ।
विश्वकर्माद्यगस्त्यादिनारद[यः]श्रुतिघोषकान् ॥ ४० ॥ 80
सालोक्यादिपदैः सर्वभक्तांश्च लक्षणोक्तवत् ।
असंख्यातत्रयस्त्रिंशद् ब्रह्मादीनां च सर्वशः ॥ ४१ ॥
हर्म्यमूले तले चोर्ध्वं सर्वत्र परिकल्पयेत् ।
अन्यान्यनुक्तमानानां चाङ्गं युक्त्या प्रयोजयेत् ॥ ४२ ॥ 84
(सोपानलक्षणम्)
देवानां मानुषाणां च हर्म्यादीनां च सर्वशः ।
आरोहावरोहार्थं च सोपानलक्षणं तथा ॥ ४३ ॥
हर्म्यादिमण्डपादीनां प्राकारादि(दौ) च गोपुरे ।
तथा पर्वतदेशे तु वापीकूपतटाकके ॥ ४४ ॥ 88
नगरग्रामादिसर्वेषां कल्पयेच्छिल्पि(ल्प)वित्तमः ।
अचलं च चलं चैव द्विधा सोपानमीरितम् ॥ ४५ ॥
शिलाभिश्चेष्टकैर्वापि दारुभिः सचलं मतम् ।
सर्वैश्चैवाचलं प्रोक्तं क्षुद्रसोपानसंयुतम् ॥ ४६ ॥ 92
सर्वेषां मुखभद्राणां पार्श्वे सोपानसंयुतम् ।
पार्श्वयोर्द्वारदेशे तु मुखसोपानमेव वा ॥ ४७ ॥
आरोह(हार्थं) सर्वहर्म्ये [तु] दक्षिणद्वारभद्रके ।
तत्पार्श्वे पूर्वदिग्देशे सोपानं कारयेच्छुभम् ॥ ४८ ॥ 96
गुह्यान्तद्वारदेशे तु वामे सोपानसंयुतम् ।
आराध्यदेवदेवस्य प्रदर्शनमगार्हितम् ॥ ४९ ॥
तस्मात्तु मुखभद्रे तु पार्श्वे सोपान(नं) कारयेत् ।
पार्श्वयोः पृष्ठदेशे तु तत्पूर्वे पश्चपार्श्वके ॥ ५० ॥ 100