सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 227, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 227

परिवारविधानम्

सर्वेषामपि देवानां प्राकारान्तं(न्तः) प्रविष्टके ।
परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
इन्द्रादिसा(दींश्चा)ष्टदिग्देशे सा(चा)न्तर्मण्डलसालके ।
परितो भूतबल्यर्थं क्षुद्रपीठं विनिक्षिपेत् ॥ २ ॥
अ(तत्रा)ष्टकं परिवाराणां कृत्वा चान्तरि(नि)हारके ।
द्वितीये च तृतीये च षोडशपरिवारकम् ॥ ३ ॥
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम् ।
तृतीयात्पञ्चसा(शा)लान्तं विनियोगाख्यमण्डपम् ॥ ४ ॥
कुर्यात् (क्रियेत) शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते ।
इन्द्रे च वृषभं स्थाप्य आ(चा)ग्नेये चार्यकस्(कं) तथा ॥ ५ ॥
याम्ये तु सप्तमात्र(तरं) च नैर्ऋत्ये तु गणेश्वरम् ।
पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥ ६ ॥
सौम्ये तु केशवं स्थाप्य ई(चै)शान्ये भास्करं तथा ।
एवञ्चाष्टपरीवारं पूर्वद्वारालयं भवेत् ॥ ७ ॥
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत् ।
अथवा विनायकं प्रोक्तं नैर्ऋत्ये स्थापयेत्सुधीः ॥ ८ ॥
सोमई(मै)शानयोर्मध्ये दिवि(वष्)पञ्च विनिक्षिपेत् ।
वह्न्यन्तकद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥ ६ ॥
याम्ये कात्यायनी(र्ना) वाथ द्वारं(रे) वाथ प्रकल्पयेत् ।
याम्ये(म्य)नैर्ऋत्ययोर्मध्ये वीरभद्रालयं भवेत् ॥ १० ॥
नैर्ऋत्ये तु गजमुखं पश्चिमे तु पितामहम् ।
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥