मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 219, कुल 856 में से
संदर्भ में पढ़ें१८४ मानमारे [अध्यायः
यत्र देशे तु सोपानं तत्र दोषो न विद्यते ।
प्रमुखे मुखसोपानं न कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ५१ ॥
अपरे पार्श्वयोर्द्वारे भद्रहीनत्रयं तु चेत् ।
तत्पूर्वके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥ ५२ ॥ 104
प्रपाङ्गे प्रमुखे भद्रे सोपानं पूर्वपार्श्वयोः ।
कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमेवं पुरातनैः ॥ ५३ ॥
वैल(वि)लानामिति प्रोक्तं कुर्यात्सोपानमुद्गतम् ।
नराणां सर्वहर्म्येषु वक्ष्ये सोपानलक्षणम् ॥ ५४ ॥ 108
तपस्यादिद्विजातीनां वर्णानां च विशेषतः ।
देवानामुक्तवत्कुर्याद्गेहं सर्वेषु योजयेत् ॥ ५५ ॥
द्विजानां भूपतीनां च सर्वेषां भद्रदेशके ।
पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयेत् ॥ ५६ ॥ 112
अलिन्दयुक्तं तद्द्वारे वामे सोपानसंयुक्तम् ।
विनालिन्दप्रदेशे तु प्रमुखे सोपानमेव च ॥ ५७ ॥
वैश्यानां शूद्रजातीनां सोपानं वक्ष्यतेऽधुना ।
यत्तद्द्वारादिभद्राणां युक्त्या सोपानसंयुक्तम् ॥ ५८ ॥ 116
गोपुराणां तु तत्पार्श्वे सोपानं लक्षणान्वितम् ।
अद्रिदेशे समारोह्य(हं) यत्र तत्रैव कारयेत् ॥ ५९ ॥
वापीकूपतटाके वा परितः सोपानसंयुक्तम् ।
चतुर्दिक्षु चतुष्कोणे चान्तरालेऽथवा पुनः ॥ ६० ॥ 120
एवमेवं यथादेशे भद्रसोपानमेव वा ।
तत्रैव श्रेष्ठदिग्देशे कुलद्वारं प्रकल्पयेत् ॥ ६१ ॥
तत्पूर्वे च द्विपाश्वें [च] कुर्यात्सोपानमुक्तवत् ।
अचलं च इ(त्वे)ति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥ ६२ ॥ 124
द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
सार्धहस्तावसानं स्यान्नवधा विमृ(स्तृ)तं भवेत् ॥ ६३ ॥