सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

प्रज्ञाप्रासादमारुह्य ह्यशोच्यश्शोचतो जनान् ।
भूमिष्ठानिव शैलस्थस्सर्वान् प्राज्ञोऽनुपश्यति ॥
५ अधिकारस्स चित्तस्य स्थितिहेतुरुदीरितः ।
यः कृत्यशेषः तच्छून्यं चित्तं मूले विलीयते ॥
तस्य चित्तस्य विलयात्स्वस्वरूपे प्रतिष्ठितः ।
पुरुषः केवलो गौणी सा प्रतिप्रसवात्मिका ॥
संयोगाभाव एवासौ दृशेः कैवल्यमुच्यते ।
कृतकृत्यं ख्यातिपर्यवसानं चित्तचेष्टितम् ॥
यश्च नैरात्म्यसिद्धान्तो निर्वाणद्वारमुच्यते ।
तदेतच्चित्तविषयमिति सम्यग्विशोधितम् ॥
६ ज्ञातव्यमखिलं ज्ञातं हातव्यमखिलं तथा ।
प्राप्तव्यमखिलं प्राप्तं कर्तव्यमखिलं कृतम् ॥
चतुर्विधा इमाः ख्याताः यास्ताः कार्यविमुक्तयः
चरितार्था च मे बुद्धिः गुणाश्चानाधिकारिणः ॥
स्वस्वरूपप्रतिष्ठोऽहं एताश्चित्तविमुक्तयः ।
ततश्च नाहं नैवास्मि न मे चेति विनिश्चयः ॥
७ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं पञ्चमं पुनः ।
निरुद्धमिति चित्तस्य भूमयः पञ्च कीर्तिताः ॥
चित्तं चतुर्विधं तत्र व्युत्थानं प्रथमं मतम् ।
समाध्यारम्भसंज्ञं तु द्वितीयं परिकीर्तितम् ॥

54 मानमेयरहस्यश्लोकवार्तिके
एकाग्रता निरोधश्च तृतीयं च तुरीयकम् ।
तत्र पूर्वस्य संस्कारश्चोत्तरेण निहन्यते ॥
स्वयं निरोधसंस्कारः नश्येत्सीससुवर्णवत् ।
स्वभावतस्तत्त्वपक्षपातस्सर्वत्र दृश्यते ॥
8 निरोधश्च समाधिश्च तथैवैकाग्रतेति च ।
स्थूलमध्यमसूक्ष्माख्याः परिणामास्स्युरन्तराः।
ते धर्मलक्षणावस्थाभेदात् बाह्याः प्रकीर्तिताः ।
देशकालदशाभेदात् त्रैविध्यमभिसंहितम् ॥
चितिशक्ते ऋते सर्वे प्रतिक्षणविकारिणः ।
प्रतिक्षणपरीणामोऽवस्था सूक्ष्म उदाहृतः ॥
मध्यमो भूतभाव्यादिव्यवहारस्य गोचरः ।
घटादिपरिणामो यः स स्थूल इति निर्णयः ॥
भेदाभेदोऽत्राभिमतः तादात्म्यं धर्मधर्मिणोः ।
भावाभावविरोधस्तु स्यात्प्रतीतिपराहतः ॥
9 बुद्धिवृत्तिः प्रमाणं स्याच्चिच्छायाऽत्र प्रमा मता
आप्तेश्वरप्रणीतश्च वेद आगमलक्षणः ॥
वाच्यवाचकभावोऽस्य नित्यः संकेतसूचितः ।
यो विकल्पो निर्विषयख्यातिवादस्स उच्यते ॥
नात्रासत्ख्यातिवादस्स्यान्नापि ख्यातेरपह्नुतिः ।
तस्माद्योगाचारगुर्वोः मार्गादेष विलक्षणः ॥

[Header] पातञ्जलदर्शनम् 55
10 चित्तवृत्तिनिरोधस्याभ्यासवैराग्यलक्षणौ ।
उपायौ प्रथमौ ज्ञेयौ तत्स्वरूपं निशाम्यताम् ॥
अभ्यासः स्थितियततः स्यात् तृष्णाहानिर्विरागता ।
तृष्णाक्षयसुखं सर्वसुखेभ्यो हि विशिष्यते ॥
11 योगो द्विधस्स्यात्संप्रज्ञातासंप्रज्ञातभेदतः ।
ध्येयमात्रस्फूर्तिराद्यः तच्छून्योऽनन्तरो मतः ॥
सालम्बनस्स्यात्प्रथमः निरालम्बन उत्तरः ।
सबीजः प्रथमः प्रोक्तः निर्बीजस्स्यादनन्तरः ॥
मृदुर्मध्योऽधिमात्रश्च स्यादुपायस्त्रिधा मतः ।
मृदुर्मध्यश्च तीव्रश्च संवेगोऽपि त्रिधा स्थितः ॥
तत्र प्रत्येकयोगेन योगिनो नवधा मताः ।
तत्रोत्तरेषु चासन्ना सिद्धिः भक्ते ततोऽपिच ॥
संप्रज्ञातसमाधिस्तु समापत्तिरितीर्यते ।
तत्र ग्राह्यसमापत्तिः स्थूलसूक्ष्मविभेदतः ॥
सवितर्का निर्वितर्का सविचारा तथेतरा ।
चतुर्विधैवं तद्भिन्ना या तु ग्रहणगोचरा ॥
समापत्तिश्च सानन्दा निरानन्देति भिद्यते ।
स्याद्ग्रहीतृसमापत्तिः सास्मिता च निरास्मिता ॥
इति द्विधा तथा चाष्टौ समापत्तय ईरिताः ।
सर्वस्फूर्तिनिरोधे तु द्वितीयो योग उच्यते ॥

6 मानमेयरहस्यश्लोकवार्तिके

संस्कारमात्रशेषं तु चित्तमत्रावतिष्ठते ।
12 तद्भवप्रत्ययोपायप्रत्ययाभ्यां द्विधं मतम् ॥
एते भवप्रत्ययाः स्युः ये भवन्ति पुनर्भुवि ।
योगिनस्ते बहुविधाः पुराणेषु प्रपञ्चिताः ॥
दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ।
एते हि तौष्टिकाः प्रोक्ताः विवेकख्यातिवर्जिताः ॥
तेषां चित्तं लीनमपिचोत्तिष्ठेत्सुप्तचित्तवत् ।
उपायप्रत्ययानां तु चित्तं नावर्तते पुनः ॥
विवेकिनस्सर्वमिदं हेयं दुःखमनागतम् ।
हेयहेतुस्तु संयोगोऽविद्यया द्रष्टृदृश्ययोः ॥
हानं दृशेस्तु कैवल्यं संयोगाभावलक्षणम् ।
हानोपायोऽविप्लवा स्यात् विवेकख्यातिलक्षणा ॥
प्रतिप्रसवहेयास्स्युः सूक्ष्माः संस्कारलक्षणाः ।
स्थूलास्तु ध्यानहेयाः स्युः क्लेशलक्षणवृत्तयः ॥
स प्रतिप्रसवः ख्यातः तस्यैव ध्वंसलक्षणः ।
तथाच धर्मिनाशेन धर्मनाश इति स्थितम् ॥

13 हेतुवादोच्छेदवादशाश्वदादा इति त्रयम् ।
उपादाने च हाने चोपेक्षायां च क्रमान्मतम् ॥
तन्नोपादेय आत्माऽसौ नापि हेयोऽपितु स्वयम् ।
उपेक्षणीय एवातः आत्मा शाश्वतिको मतः ॥
14 नित्योदिता च व्यङ्ग्या च चिच्छक्तिः द्विविधा मता ।
आद्या कूटस्थचिच्छक्तिः पुरुषस्स प्रकीर्तितः ॥
तत्सन्निधानाच्चित्तस्य या पुनः व्यज्यतेऽपरा ।
तदभिव्यक्तचैतन्यं चित्तं व्यङ्ग्येति कीर्त्यते ॥
चिच्छाया चेतनायमानं चापि भवत्यदः ।
प्रतिबिम्बाभिधा सैव पूर्वा बिम्बाभिधा मता ॥
सांनिध्यात् व्यञ्जनं यच्च तदेव प्रतिबिम्बनम् ।
तच्चित्तं वेद्यतां याति स्वाकारस्य समर्पणात् ॥
स्वकर्मानुगुणं भोक्ताऽधिष्ठितः परमात्मना ।
इति सांख्यैः स कथितः ये शान्तब्रह्मवादिनः ॥
तस्य यस्सुखदुःखादिभोगः कर्मनिबन्धनः ।
स एव पौरुषो भोगः विवेकाग्रहमूलकः ॥
अभिप्रायेण तेनैव कथितं विन्ध्यवासिना ।
या सत्त्वतप्यता सैव पुरुषे तप्येतेति च ॥
चित्तमेव द्रष्टृदृश्योपरक्तं त्वंशभेदतः ।
सर्वार्थमित्युच्यते यच्चेतनाचेतनात्मकम् ॥
M.R. 8

58 मानमेयरहस्यश्लोकवार्तिके
न तत्स्वभासं दृश्यत्वात् साक्षिवेद्यमतस्स्थि-
नार्थः प्रतीतो भवति तत्प्रतीतेरवेदने ॥
बुद्धिवृत्तिश्चिदाकारा चिच्छायाप्रतिसंक्रमात्
सा चितिः वृत्त्यवच्छिन्ना चिद्वेद्येत्यभिधीय[ते]
नातश्चित्तं स्वप्रकाशं न चित्तान्तरगोचरः ।
किंतु वेद्यं साक्षिणेति व्यवहारव्यवस्थितिः
एवं सवृत्तिकं चित्तं साक्षिवेद्यं सदा मतम्
यतस्साक्षी स कूटस्थोऽन्यथाऽलं चित्तवस्तु[?]
15 तथैव प्रकृतेश्चापि द्वे शक्ती सहजे स्थिते ।
अनुलोमप्रतीलोमपरिणामविभेदतः ॥
अनुलोमः परीणामो भूतान्तो यो बहिर्मु[खः]
स्वकारणानुप्रवेशः प्रतिलोमोऽस्मितावधि[ः]
ते एव पुरुषार्थस्य कर्तव्यत्वमितीर्यते ।
तादृक्शक्तिद्वितयक्षय एव कृतार्थता ॥
16 यद्यप्येते तु सहजे शक्ती यत्नो विमुक्तये
शास्त्रोपदेशवैयर्थ्याभावश्चाप्यवधार्यताम् ।
पुंप्रकृत्योरनादिर्यः भोक्तृभोग्यत्वलक्षणः
बन्धः तस्मिन् सति व्यक्तचेतना प्रकृति[ः]
कर्तृत्वस्याभिमानेन दुःखस्यानुभवेन च ।
कथमात्यन्तिकी दुःखनिवृत्तिस्स्यान्ममेत्य[त...]

अध्यवस्यति शास्त्रं चापेक्षते मुक्तिहेतवे ।
कर्मानुरूपं तद्बुद्धिसत्त्वं शास्त्रस्य गोचरः ॥
शास्त्राधिकारी योऽविद्यास्वभावो दर्शनान्तरे ।
परमार्थस्वभावोऽसाविति निर्धार्यतेऽत्र तु ॥
17 चित्तं स्वसंवेदनं स्यात् तदेव जगदित्यपि ।
ब्रुवाणा ये सौगताः स्युः तेनैते प्रतिबोधिताः ॥
गुणाः परिणामिनित्याः कूटस्थाः पुरुषा मताः ।
प्रतिक्षणपरिणामाः क्षणविध्वंसिनोऽपरे ॥
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथं प्राप्तं तन्मायेत्याह भाष्यकृत् ॥
संहतास्ते गुणाः पुंसां शेषत्वाद्गुणशब्दिताः ।
सर्वकार्यप्रधानत्वात्प्रधानमिति चोच्यते ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
अतीताध्वप्रविष्टाः स्युः भावाः नात्यन्तिकक्षयाः ॥
चित्तं वा चित्ततन्त्रं वा न वस्त्वित्यनुशिष्यते ।
विज्ञानप्रतिभासादिवादास्तेन पराहताः ॥
वस्तुसाम्ये चित्तभेदाद्विक्षेपे नाश आपतेत् ।
प्रत्यभिज्ञादिकं तावत्पुंभेदेऽपि प्रदृश्यते ॥
पुमैक्ये किमु वक्तव्यं तस्माद्वस्त्वस्ति तत् स्थिरम्
चित्तचैत्तोभयं नावधार्येत क्षणिकं यदि ॥

60 मानमेयरहस्यश्लोकवार्तिके
हेतुहेतुमतोरेककालत्वानुपपत्तितः ॥।
प्रतिसंधीयतेऽद्राक्षमहं घटमितीत्यपि ॥
ज्ञाताज्ञातं वस्तु चित्तस्योपरागप्रतीक्षणात्
18 पुरुषार्थोऽनागतोऽसौ गुणानां तु प्रवर्तकः
मतो निरीश्वरे सांख्ये सेश्वरे त्वीश्वरो म
धर्मादिकं तु प्रकृतिकार्यत्वान्न प्रवर्तकम्
किंवावरणभेदेऽस्य सम्मता हि निमित्त
अधर्मावरणे तत्र धर्मेण विनिवारिते ।
जात्यन्तरपरीणामः प्रकृत्यापूरपूर्वकः ॥
19 समाधिमात्रजा सिद्धिर्यदि, विज्ञानवादत
न विवेकस्ततः जन्मौषधिमन्त्रजकीर्तन
ध्यानेन संस्कृतं चित्तमपवर्गाधिकार्यदः
विवेकानिम्नं कैवल्यप्राग्भारमिति कीर्त्यते
20 समाः गुणाः प्रधानं स्यात् समत्वादेकत
विवर्तवादोऽन्यथा स्यादनेकं चैकमित्यस
तथाचाङ्गाङ्गिभावेन परिणामेन चैकता
तत्त्वं च महदादेः स्यात् सत्त्वाङ्गत्वे मह
रजःप्रधानान्महतोऽहङ्कारस्य समुद्भवः ।
तमःप्रधानान्महतो जातं तन्मात्रपञ्चक
अहङ्कारात्सात्त्विकात्स्यात् तद्बुद्धीन्द्रिय

तस्मात्तु राजसात्कर्मेन्द्रियाणां स्यात्तु पञ्चकम् ।
प्रादुर्भूतं मनश्चैवाहङ्कारादुभयात्मकम् ॥
अङ्गि चेच्छब्दतन्मात्रं आकाशस्य समुद्भवः ।
एवं स्पर्शाद्यङ्गितायां पवनादिसमुद्भवः ॥
बाह्योऽर्थः त्रिगुणः चित्तं यथैव त्रिगुणं तथा ।
धर्मादिस्सहकारी स्यात् तेनार्थो ज्ञायते यदा ॥
तदुद्भवाभिभवतः व्यज्यते बहुरूपतः ।
ततस्सुखं दुःखमिति विचित्रं जगदुच्यते ॥
21 ननु सर्वे च पुरुषाः मुच्यन्ते वाऽथ किं न वा ।
आद्ये प्रधानस्य परिणामस्सावधिको भवेत् ॥
द्वितीये तत्त्वविज्ञानाविस्रम्भ इति चेन्न तत् ।
अस्ति हि त्रिविधः प्रश्नः तदुत्तरविभागतः ॥
एकान्तवचनीयश्चावचनीयस्तथैव च ।
विभज्य वचनीयश्चेत्यत्रोदाहरणं क्रमात् ॥
जन्तुर्जातः स्थिरः कश्चित्तिष्ठतीत्यनुयोगतः ।
सर्वो मरिष्यतीत्यत्र त्वेकान्तवचनीयता ॥
समाप्यते किं प्रधानपरिणामक्रमस्त्विति ।
प्रश्नोऽयमुत्तरानर्होऽनवधारणशक्तितः ॥
मुच्यन्ते किं पुनस्सर्वे इत्यत्र त्विदमुत्तरम् ।
तत्त्वख्यातिर्यस्य पुंसः मुच्यतेऽसौ नचेतरः ॥

62 मानमेयरहस्यश्लोकवार्तिके
विभज्य वचनीयोऽसौ तृतीयः प्रश्न उच्यते ।
प्रायस्सर्वत्र शङ्कानां विभागेनैवमुत्तरम् ॥
22 मुक्तिर्नामात्र कैवल्यं मतं चिन्मात्रलक्षणम् ।
व्यावत्र्यते मात्रचाऽत्र स्वात्मसंवेदनाऽपि हि ॥
स्वात्मानन्दानुभवनं कैवल्य इति केचन ।
सांख्याः प्राहुः तदप्यन्यैः कौटस्थ्यान्नाभ्युपेयते ।
वैशेषिकादिसिद्धान्तसंसिद्धादात्मनो जडात् ।
वैलक्षण्यं मतं त्वेतच्चिद्रूपत्वमिहात्मनः ॥
आत्मा न स्वप्रकाशात्मा प्रकाशात्मैव केवलः ।
इति पातञ्जलाः सांख्याः प्राहुर्निर्णयमात्मनाम् ॥
(11) प्रभाकरदर्शनम्.
1 द्रव्यं गुणस्तथा कर्म सामान्यं शक्तिरेवच ।
सादृश्यं समवायश्च संख्या चेत्यष्टधा स्थितम् ॥
प्रमेयमिति सिद्धान्तः प्रभाकरगुरोर्मतः ।
क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ॥
द्रव्याणि नवधा तेजोहीनाधिकरणं तमः ॥
रूपं गन्धो रसः स्पर्शः वियोगो योग एवच ॥
पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एवच ।
बुद्धिस्सुखं दुःखमिच्छा द्वेषः यत्नश्च संक्रिया ॥

परिमाणं च परताऽपरता शब्द एव च ।
इत्येकविंशतिविधो गुण इत्यवगम्यते ॥
2 द्रव्यसामान्यवृत्तित्वे सामान्यगुणतेष्यते ।
प्रत्येकद्रव्यवृत्तित्वे विशेषगुणता मता ॥
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः ।
तेषामाश्रयभेदेन भेदो नाभ्युपगम्यते ॥
अथ कर्मपदार्थं तु सूक्ष्ममाहुरतीन्द्रियम् ।
अनुमेयं च संयोगाद्विभागादऽर्ककर्मवत् ॥
सामान्यं न्यायमतवत् शक्तिस्सर्वपदार्थगा ।
नानाविधा च सादृश्यमनेकं सर्ववस्तुगम् ॥
समवायोऽनेकविधोऽप्यनित्योप्यक्षगोचरः ।
संख्याऽपि सर्वगा ज्ञेया सर्वेषां विस्तरोऽग्रतः ॥
(12) कौमारिलदर्शनम्.
1 द्रव्यं गुणस्तथा कर्म जातिश्चाभाव इत्यपि ।
भट्टपादस्य सिद्धान्ते प्रमेयं पञ्चधा मतम् ॥
क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ।
तमो वर्ण इति द्रव्यमेकादशविधं मतम् ॥
रूपं गन्धो रसः स्पर्शः संख्यासंयोगशक्तयः ।
विभागः परिमाणं च परताऽपरता ध्वनिः ॥

पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एव च ।
बुद्धिस्सुखं दुःखमिच्छा द्वेषः संस्कार इत्यपि ॥
प्राकट्यं च प्रयत्नश्च चतुर्विंशतिधा गुणाः ।
कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् ॥
जात्यभावौ तार्किकाद्यैः कीर्तितावेव सम्मतौ ।
शिष्टं विशेषवादेषु स्पष्टमग्रे भविष्यति ॥
२ प्रत्यक्षाणि हि सर्वाणि द्रव्याण्यात्मा तथाऽन्तरः।
दृश्यमानातिरिक्तं तु द्रव्यं भाट्टैर्न मन्यते ॥
स्वयंप्रकाशमात्मानं कालाकाशमनांसि तु ।
अप्रत्यक्षाणीति वेत्ति प्रभाकरगुरुः पुनः ॥
३ द्रव्याज्जातिगुणादीनां नात्यन्तं भेद इष्यते ।
किंतु तादात्म्यमेतस्मादनेकान्तः यथोच्यते ॥
जात्याद्यर्थान्तरं यस्मादतद्रूपेऽपि वस्तुनि ।
भवत्यध्यस्य धीस्तस्मान्मृगतृष्णादिभिस्समा ॥
नैतत्, अश्वादिबुद्धीनामध्यारोपाद्यसंभवात् ।
स्थितं नैवहि जात्यादेः परत्वं व्यक्तितो हि नः ॥
यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् ।
स्वानुरूपां सदा बुद्धिं विशेष्ये जनयेत्कथम् ॥
नतु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदाचन ।
तद्विमोकेन वा तानि लाक्षादिस्फटिकादिवत् ॥

द्वैताद्वैतदर्शनम् 6
नचाप्ययुतसिद्धानां संबन्धित्वेन कल्पना ।
नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता ॥
अत्यन्तभिन्नताऽस्माभिर्नैव कस्यचिदिष्यते ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥
उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी ।
इति कौमारिलैकान्तः शिष्टमग्रे निरूप्यते ॥
(13) द्वैताद्वैतदर्शनम्.
1 अथ भेदाभेदवादे प्राचां सिद्धान्त उच्यते ।
महासमुद्रस्थानीयं परं ब्रह्माक्षरं मतम् ॥
तदप्रचलितावस्थं ईषत्प्रचलितं यदा ।
तदन्तर्यामिसंज्ञं स्यात् अत्यन्तचलितं यदा ॥
तदा क्षेत्रज्ञसंज्ञं स्यात् इति त्रेधा व्यवस्थितम् ।
पञ्चावस्था अपि प्राहुः भूतसंस्थानभेदतः ॥
पिण्डो जातिर्विराट् सूत्रं दैवमित्युक्तलक्षणाः ।
भूतमात्रामहदहमिन्द्रियापरनामकाः ॥
अष्टावस्था इमाः भर्तृप्रपञ्चादिभिरीरिताः ।
एतेऽवस्थावादिनस्स्युः केचिदुत्पत्तिवादिनः ॥
विकारवादिनः केचित् अन्ये स्युः शक्तिवादिनः ।
शक्तिवादिन एवैते प्रायोऽभिव्यक्तिवादिनः ॥
M.R. 9

66 मानमेयरहस्यश्लोकवार्त्तिके
जरन्मायावादिन इत्येत एव मता बुधैः ।
बृहदारण्यकव्याख्याविदितं मतमीदृशम्
2 एतं पन्थानमाश्रित्य मध्ये भास्करयादव
आसन् भाष्यकृतोऽद्वैतविशिष्टाद्वैतभाष्य
तत्र जीवो ब्रह्मणोऽंशः विस्फुलिङ्गवदि
पृथिव्युपष्टम्भभेदात् तेजः खण्डमिवेक्ष्य
तत्र भास्करसिद्धान्तः परिणाम इति श्रु
भेदाभेदः स्वभावेन स्याज्जगद्ब्रह्मणोरिह
जीवेशयोः पुनर्भेदस्स्यादुपाधिविभेदतः
स्वाभाविको मोक्षदशाकालिकोऽभेद इष
श्रीमद्यादवसिद्धान्तः भेदाभेद इति श्रुत
स्वभावात् ब्रह्मजगतोः तथैव ब्रह्मजीव
अथापि भेदाभेदस्तु द्वाभ्यामप्युररीकृतः
3 तत्र भास्करभाष्यस्थं वचनं त्ववगम्यता
एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते
नानात्वं तस्य तत्पूर्वं कस्माद्भेदोऽपि ने
यत्प्रमाणैः परिच्छिन्नं अविरुद्धं हि तत्तथ
वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते
प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते
विरोधे चाविरोधे च प्रमाणं कारणं मत

द्वैताद्वैतदर्शनम् 67
एकं रूपं प्रतीतत्वात् द्विरूपं च तथेष्यताम् ।
एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥
नरभेदान्न हि ज्ञेया वस्तुनस्सदसत्त्वता ।
नहि रूपमनन्धानां सत्यमन्धेष्वसद्भवेत् ॥
प्रपञ्चास्तित्वमज्ञस्य तस्यैव ज्ञानिनः पुनः ।
स एव किल नास्तीति कथं सत्यं वचो भवेत् ॥
नहि द्विचन्द्रः प्रागासीत् पश्चान्नास्तीति युज्यते ।
द्विचन्द्रज्ञानतुल्यत्वं प्रत्यक्षादेस्त्वपेक्ष्यते ॥
अतो भिन्नाभिन्नरूपं ब्रह्मेत्येवावधार्यते ।
न गृह्यते च करणदोषः तिमिरवत् स्वतः ॥
कार्यरूपेण नानात्वं अभेदः कारणात्मना ।
हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥
अप्रच्युतस्वभावस्य शक्तिविक्षेपलक्षणः ।
परिणामः यथा तन्तुनाभस्य पटतन्तुवत् ॥
आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः ।
इत्युच्यते कैश्चिदत्र प्रत्युक्तिरियमुच्यते ॥
स्वरूपमेव वस्तूनां परस्परविलक्षणम् ।
नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥
पटरूपं घटे नास्ति घटरूपं पटे नहि ।
इति देशान्तराभावः अन्योन्याभाव उच्यते ॥

58 मानमेयरहस्यश्लोकवार्तिके
एतन्मूलमनेकान्तवादस्यापीति निर्णयः ।
कार्यकारणभावस्य मीमांसायां तु विस्तरः ॥
(14) विशुद्धाद्वैतदर्शनम्.
1 अथाद्वैतविदामेष प्रमेयपरिनिश्चयः ।
पदार्थो द्विविधः तत्त्वमतत्त्वं चेति संग्रहात् ॥
तत्त्वं ब्रह्मैकमेव स्यात् अतत्त्वं द्विविधं मतम् ।
अनिर्वाच्यमसच्चेति प्रथमं द्विविधं पुनः ॥
व्यावहारिकमाद्यं स्यात् द्वितीयं प्रातिभासिकम् ।
आद्यं चतुर्विधं प्राहुः प्रकृतिर्विकृतिस्तथा ॥
उभयात्मकमन्यत्स्यात् उदासीनं तुरीयकम् ।
आद्यत्रयं द्रव्यमुक्तं उदासीनं गुणः क्रिया ॥
जातिस्संख्या च शक्तिश्चेत्यनन्तविधमुच्यते ।
असच्च शशशृङ्गादिः विकल्पविषयस्तु सः ॥
विकल्पो निस्स्वभावस्य वस्तुनस्स्ववभासकः ।
प्रतीतिस्सस्वभावस्य वस्तुनस्त्विति निर्णयः ॥
2 इयमेका प्रक्रियोक्ताऽथापराऽपि निशम्यताम् ।
अर्थो द्विधस्स्वतस्सिद्धः परतस्सिद्ध इत्यपि ॥
आद्य आत्मा त्वनात्माऽन्यः स च द्विविध इष्यते।
साक्षिभास्यो वृत्त्यपेक्षसाक्षिभास्य इतीतरः ॥

विशुद्धाद्वैतदर्शनम् 69
मनस्सुखादिराद्यः स्यात् द्वितीयोऽपि द्विधो मतः।
मनोवृत्तिमपेक्षैकोऽविद्यावृत्तिमन्तरः ॥
घटादिः प्रथमस्तत्र सुषुप्त्यादिरनन्तरः ।
एवं शिक्षा पदार्थानां समग्राहि समासतः ॥
3 ब्रह्मैवानाद्यनिर्वाच्याऽविद्यारूपोपधानतः ।
नामरूपप्रपञ्चाख्यप्रभेदेन विवर्तते ॥
यथा च मुखमेवैकं कृपाणमणिभेदतः ।
प्रतिबिम्बविभेदेन विविधं भुवि वर्तते ॥
प्रत्यासः परिणामश्च विवर्तश्चेति च त्रिधा ।
प्रवादास्तत्र चाध्यास एव प्रत्यासलक्षणः ॥
यथा च स्फाटिकी बुद्धिः लाक्षारुणिमगोचरा ।
यथा वा वनबुद्धिः स्यात्किंशुकादिसमूहिषु ॥
यथा वा शशशृङ्गादौ शब्दसत्त्वप्रकल्पना ।
यथा पदार्थेष्वेकत्वं स्फोटो वाक्यार्थ इष्यते ॥
तथाचाध्यास एष स्यादनेकं यत्र चैकधा ।
परिणामस्सुवर्णस्य मकुटाद्याकृतिः स्फुटा ॥
विवर्तो विविधा वृत्तिः यत्र चैकमनेकधा ।
एकं बिम्बमनेकेषूपाधिषु प्रतिबिम्बते ॥
एवं वाचस्पतेर्न्यायकणिकायां निरूपितः ।
भेदो विधिविवेकस्य व्याख्यायां अधुना पुनः ॥

70 मानमेयरहस्यश्लोकवार्तिके
समसत्ताककार्यं यत्परिणामस्स ईर्यते ।
कार्यं विषमसत्ताकं विवर्त इति गीयते ॥
4 विवर्तसिद्धयै चाविद्या नाम दोषः प्रकल्प्यते ।
अर्थक्रियाकारितया स भावोऽज्ञानलक्षणः ॥
तच्चाज्ञानं नाग्रहणं न मिथ्याज्ञानमप्यथ ।
नापि तत्संस्कारभेदः किंतु त्रयविलक्षणः ॥
अहमज्ञो मां न जानामीत्यध्यक्षावभासतः ।
अज्ञानसिद्धिः नाभावः धर्मिज्ञानाद्यपेक्षणात् ॥
विवादाध्यासितं ज्ञानं स्याद्वस्त्वन्तरपूर्वकम् ।
अर्थप्रकाशकत्वाद्यदेवं तद्वै तथेष्यते ॥
यथा प्राथमिकी दीपप्रभा स्यात् ध्वान्तपूर्विका
स्वप्रागभावातिरिक्तं विषयावरणं तथा ।
स्वनिवर्त्यं स्वदेशस्थं चेति वस्तु विशेष्यते ॥
एतादृगनुमानैश्च भावाज्ञानं प्रसाध्यते ।
अविद्याबोधकं शास्त्रं बहुलं चोपलभ्यते ॥
तेनाज्ञानेन विश्वस्य रचना परिकल्पते ॥
अङ्गीकृता च प्रायेण मानमेयप्रकल्पना ।
व्यवहारे भट्टनयादिति सर्वत्र विश्रुतम् ॥
5 निर्विशेषविदां मानं मेयं स्याद्व्यावहारिकम् ।
व्यवहारानुरोधेन यथावदुपगम्यते ॥

विशिष्टाद्वैतदर्शनम् ७१
यद्यत्र न्यायसिद्धान्तानुरोधे सोऽवकल्पते ।
तदिष्यतेऽथवा सांख्यानुरोधे सोऽपि चेष्यते ॥
यद्वा भाट्टादिसिद्धान्तस्वीकारस्स्वरसो भवेत् ।
व्यवहारस्तदा भाट्टनयोऽपि परिगृह्यते ॥
तस्मादद्वैतसिद्धान्ते यःकश्चिदपिवा भवेत् ।
व्यवहारव्यवस्थायै न विशेषोऽत्र वस्तुतः ॥
तथाऽपि विदुषां प्रायो ह्यभ्यासो वैदिके नये ।
व्यवहारे भाट्टसांख्यसंग्रहो वासनावशात् ॥
(15) विशिष्टाद्वैतदर्शनम्.
1 विशिष्टाद्वैतसिद्धान्ते लिख्यते तत्त्वसंग्रहः ।
द्रव्याद्रव्यविभेदेन द्विविधं तत्त्वमिष्यते ॥
द्रव्यं द्वेधा विभक्तं स्यात् जडं चाजडमित्यपि ।
प्राच्यमव्यक्तकालौ स्तः ह्यन्त्यं प्रत्यक्परागिति ॥
जीवेश्वरविभेदेन प्रत्यक् द्विविधमिष्यते ।
मतिर्नित्यविभूतिश्चेत्युच्यते द्विविधं पराक् ॥
एवं द्रव्यं षड्विधं स्यात् अद्रव्यं दशधा मतम् ॥
शब्दादयः पञ्च सत्त्वं रजस्तम इति त्रयम् ॥
संयोगश्शक्तिरिति च द्वयं दशविधं ततः ।
संयोग एव कर्म स्यात् संस्थानं जातिरिष्यते ॥

2 मानमेयरहस्यश्लोकवार्तिके
समवायोऽपृथक्सिद्धिः सिद्धिः ज्ञप्तिस्थिती मते ।
भावान्तरमभावः स्यात् जातिर्भेद इतीर्यते ॥
इतरत्त्वन्यथासिद्धं द्रव्यलक्षणया धिया ।
अचिच्चिदीशभेदेन केचित्त्रेधा विविश्चते ॥
भोग्यं भोक्ता नियन्तेति तस्यैव विवृतिस्त्वियम् ।
सर्वथेष्टं फलमिदं देहात्मेश्वरनिर्णयः ॥
तत्राव्यक्तं महदहंकारभूतादिभेदतः ।
चतुर्विंशतिधं कालः दिनमासादिभेदतः ॥
विभागवान् ईश्वरस्तु भवेदेकस्सदातनः ।
सर्वेश्वरः स्वातिरिक्तसर्ववस्तुविलक्षणः ॥
द्विलिङ्गो द्विविभूतिश्च परिपूर्णः परः पुमान् ।
जीवः पुनः नित्यमुक्तबद्धभेदादनेकधा ॥
मतिः प्रत्यात्मनियता नैकधा च विकारिणी ।
नित्यभूतिरनन्ता स्यात्परस्तात्तमसः सदा ॥
ईशान्तर्यामिकं कृत्स्नं ईशितुः कार्यमित्यपि ।
2 आधेयं च विधेयं च शेषश्चेत्यपि सम्मतम् ॥
ततश्शरीरमिति तदपृथक्सिद्धमित्यपि ।
सर्वदा सर्वथा सर्वं सर्वत्रेति विनिर्णयः ॥
3 सामानाधिकरण्योक्तस्यैक्यस्यानुपपत्तितः ।
विवर्तवादिनः केचित् तेऽविद्यावादिनोऽभवन् ॥