सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

सौगतदर्शनम् 33
प्रतिसंख्याऽप्रतिसंख्यानिरोधौ व्योम चेति यत् ।
बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तत् ॥
स निरन्वयनाशः स्याद्धर्मो धर्म्यपि वा पुनः ।
पूर्वसंघातभावो वा यद्भावे नानुवर्तते ॥
उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा ।
तावुभौ सर्वभावानां नियताविति सौगताः ॥
15 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः ।
गृह्यतां क्षणभङ्गित्त्वं परवैराग्यकारणम् ॥
यत्सत्तत् क्षणिकं सन्तश्चामी भावा इति स्थितम् ।
सत्ताऽर्थकर्मकारित्वं तत् व्याप्यं व्यापकः पुनः ॥
क्रमाक्रमान्यतरयोर्योगः स स्थिरवस्तुनः ।
व्यावर्तमानो व्याप्यं च विनिवर्तयतीत्यतः ॥
व्यतिरेकेण सा व्याप्तिः स्यात्तथाऽन्वयतः पुनः ।
सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ॥
तयोर्विरोधो युक्त्यापि वक्तुं न हि न शक्यते ।
एवं द्विधा व्याप्तियोगात् सत्त्वं साध्ये व्यवस्थितम् ॥
किंचात्र कारकावस्था स्यादेकक्षणवर्तिनी ।
सामग्री सा यतः कार्यसर्वदोत्पत्त्यदर्शनम् ॥
व्यापारावेशवशतः साह्यसन्निधितोऽपि वा ।
कारकत्वं वस्तुरूपं तदेकक्षणवृत्ति हि ॥
M.R. 5

34 मानमेयरहस्यश्लोकवार्तिके
कार्योत्पत्त्यैव तत्क्लृप्तिः तत्पूर्वोत्तरयोरसत् ।
तदेव परमार्थं सत् अन्यस्याजनकत्वतः ॥
कारकत्वस्य चाभावे ह्यस्तित्वमपि दुर्वचम् ।
ततश्च सर्वैः प्रायेण क्षणिकत्वमुपाश्रितम् ॥
सौगताः पीतवन्तश्च यश एव हि केवलम् ।
यत्कारकं यच्च सत्स्यात् तत्सर्वं क्षणिकं तत् ॥
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ।
अनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ॥
केचित्तु बुद्धोपदिष्टं तत्त्वं नित्यं च किंचन ।
सत्त्वाख्यसाधनं तेन भवेदागमबाधितम् ॥
ध्रुवभावित्वाख्यहेतुं मन्यन्ते क्षणसिद्धये ।
तत्प्रकारस्य संक्षेप एषोऽस्ति श्लोकवार्तिके ॥
अहेतुको विनाशो हि ध्रुवभावितया स्थितः ।
जनित्वा ध्वंसते सर्वं स्थूलस्सूक्ष्मो द्विधा च सः
बुद्धिपूर्वं विनाशे हि प्रतिसंख्यानिरोधधीः ।
अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसंख्यया ॥
तौ च द्वावप्यनाशित्वादिष्टौ अकृतकावपि ।
आहुः स्वभावतस्सिद्धं तं विनाशमहेतुकम् ॥
हेतुर्यस्य विनाशोऽपि तस्य दृष्टोऽङ्कुरादिवत् ।
विनाशस्य विनाशस्तु नास्ति तस्मादकृत्रिमः ॥

भवति ह्यग्निसंबन्धात्काष्ठादङ्गारसंततिः ।
मुद्गरादिहताच्चापि कपालं जायते घटात् ॥
स्वाभाविकॊ विनाशस्तु जातमात्रप्रतिष्ठितः ।
सूक्ष्मः सदृकसंतानानुवृत्तेरनुपलक्षितः ॥
यदा विलक्षणो हेतुः पतेत्सदृशसंततौ ।
विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥
तेनासद्दशसंतानः हेतोस्संजायते यतः ।
तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥
इत्येवं वर्तमानत्वप्रत्यक्षात् क्षणभङ्गिता ।
प्रत्यभिज्ञा चाप्रमाणं विरुद्धांशावगाहनात् ॥
16 उपप्लवो वासना स्यात् वासनामात्रनिर्मिताः ।
कल्पिताळीकभेदादिप्रपञ्चाः पञ्च कल्पनाः ॥
द्रव्यक्रियाजातिगुणनामलक्षणका हि ताः ।
तत्र द्रव्यक्रियाजातिगुणाकाराश्च विश्रुताः ॥
डित्थादिशब्दाकारत्वं वस्तुनः शब्दकल्पना ।
गौरयं दण्ड्ययं शुक्लोऽप्ययं यात्ययमर्भकः ॥
अयमित्यादि पञ्चानां वस्तूनां स्यादुपप्लवः ।
परिव्राट्कामुकशुनामेकस्यां प्रमदात नौ ॥
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।
रागादिवासनामूलं क्षणिकं सकलं ततः ॥

36 मानमेयरहस्यश्लोकवार्तिके
इति सौगतसिद्धान्तं कुतर्क इति ये विदुः ।
कणादगौतममुखाः तैः पुनः परिशोधिताः ॥
मानमेयादयः सर्वैस्सुगृहीताः परीक्षकैः ।
तथापि संगतिज्ञानायानूद्यन्ते तदुक्तयः ॥
(7) न्यायदर्शनम्.
1 काणादं गौतमीयं चाप्येकीकृत्यैव दर्शनम् ।
मानमेयविनिष्कर्षः संक्षेपादिह कथ्यते ॥
प्रमेयशास्त्रं काणादं मानशास्त्रं तु गौतमम् ।
2 आन्वीक्षिकी मानविद्याऽध्यात्मशास्त्रमितीर्यते ॥
प्रदीपस्सर्वविद्यानामालयस्सर्वकर्मणाम् ।
आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥
3 द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।
समवायस्तथाऽभावः पदार्थास्सप्त कीर्तिताः ॥
क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः ।
द्रव्याण्यथ गुणा रूपं रसो गन्धः ततः परम् ॥
संयोगश्च विभागश्च परत्वं चापरत्वकम् ।
बुद्धिस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ॥

न्यायदर्शनम्
द्रवत्वं स्नेहसंस्कारावहृष्टं शब्द एव च ।
उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ॥
प्रसारणं च गमनं कर्माण्येतानि पञ्च च ।
भ्रमणं रेचनं स्यन्दनोध्वर्ज्वलनमेव च ॥
तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ।
सामान्यं द्विविधं प्रोक्तं परं चापरमेवच ॥
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ।
परभिन्ना तु या जातिस्सैवापरतयोच्यते ॥
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ।
व्यापकत्वात्पराऽपि स्याद्व्याप्यत्वादपराऽपिच ॥
अन्त्यो नित्यद्रव्यवृत्तिः विशेषः परिकीर्तितः ।
घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ॥
तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ।
अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ॥
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एवच ।
एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥
अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता ।
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥
समवायि निमित्तं चासमवायीति तत्रयम् ।
निमित्तत्वमधिष्ठानं तद्वीच्छाकृतिलक्षणम् ॥

38 मानमेयरहस्यश्लोकवार्तिके
विवादाध्यासितं सर्वं बुद्धिमत्कर्तृपूर्वकम् ।
कार्यत्वात् उभयोस्सिद्धं कार्यं कुम्भादिकं यथा ॥
कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः ।
वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥
उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ।
अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥
विभुः द्रव्यादिगुणवान् बुद्धिस्तु द्विविधा मता ।
4 अनुभूतिः स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा ॥
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।
प्रमाणं करणं तासां तत एव चतुर्विधम् ॥
प्रमा चैवाऽप्रमा चेति साऽनुभूतिश्चतुर्विधा ।
दोषोऽप्रमाया जनकः प्रमायास्तु गुणो मतः ॥
सा प्रमा तत्प्रकारं यत् ज्ञानं तद्विशेष्यकम् ।
तच्छून्ये तन्मतिर्या स्यात् अप्रमा सा निरूपिता ॥
ज्ञानं यन्निर्विकल्पाख्यं न प्रमा नापिच भ्रमः ।
प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः ॥
साक्षात्कारे सुखादीनां करणं मन उच्यते ।
अयौगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते ॥

वैशेषिकदर्शनम्
भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः ।
स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ।
कण्ठसंयोगादिजन्यः वर्णास्ते कादयो मताः ॥
सर्वश्शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ।
तारङ्गद्वा मौकुलाद्वा न्यायात्तस्य जनिर्मता ॥
तस्मादनित्या एवेति सर्वे शब्दाः व्यवस्थिताः ।
धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥
अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ।
लोकान्तराणि तद्योग्यशरीराणि च सन्ति नः ॥
इमौ तु वासनानाश्यौ ज्ञानादपि विनश्यतः ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥
यदा चर्मवदाकाशं वेष्टयन्तीह मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
(8) वैशेषिकदर्शनम्
1 योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् ।
चक्रे वैशेषिकं शास्त्रं कणादं तं नमाम्यहम् ॥
काणादन्यायमतयोस्समानार्था इमे स्थिताः ।
वैशेषिके विशेषोऽपि त्वियानेवावगम्यते ॥

40 मानमेयरहस्यश्लोकवार्तिके

शब्दोपमानयोर्नैव प्रामाण्यमतिरिच्यते ।
अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥
पीलुपाकविदस्त्वेते गौतमीयाः पुनर्विदुः ।
पिठरे पाकमित्येतत् विदितं सर्ववादिनाम् ॥
समवायोऽतीन्द्रियस्स्यादिति वैशेषिकं मतम् ।
प्रत्यक्षस्समवायीति नैयायिकविनिर्णयः ॥
एते वैशेषिकाः प्रायः जरत्तार्किकलक्षणाः ।
प्रायो नैयायिका एव नव्यतार्किकशब्दिताः ॥
तेष्वपि प्रायशः प्राच्यनव्यभेदास्त्वनेकधा ।
भूता अपि भविष्यन्ति सर्वेषां दर्शनेष्विव ॥
आत्माऽनुमेयो जरतां नव्यानां मानसो मतः ।
इत्यौपनिषदैः भेदाः बहवः स्युः प्रदर्शिताः ॥
द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे ।
यस्य न स्खलिता बुद्धिः तं वै वैशेषिकं विदुः ॥
विनाशकविनाशस्य या बुद्धिः प्रतियोगिनी ।
साऽपेक्षाधीः तद्विनाशात् द्वित्वादिर्हि विनश्यति ।
अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
विपरीतमतो यत्स्यात् एकेन द्वितयेन वा ।
विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥

वैशेषिकदर्शनम् 41
विद्याऽविद्याविभागोऽपि विशेषो न्यायनिर्णयात् ।
उपघातात्मकं दुःखं प्रसादजनकं सुखम् ॥
वीचीसंतानवच्छब्दसंतानश्च निरूपितः ।
सर्वा सर्वगता जातिरिति वैशेषिकं मतम् ॥
2 एवं सामान्यतः प्रोक्तस्समुद्देशः तथा पुनः ।
तत्तत्प्रकरणे तत्तद्विशेषः प्रतिपाद्यते ॥
एकं शास्त्रमिति प्रायः बहुभेदं विदुर्बुधाः ।
सांख्यास्तु निर्विशेषां तां प्रकृतिं कारणं विदुः ॥
भूतानि तु विशेषाः स्युः तस्मादाव्यक्तिकास्तु ते ।
विशेषेष्वेव विश्रान्ताः ये ते वैशेषिका इति ॥
सामान्यस्य प्रधानस्य प्रतिद्वन्द्वितया स्थिताः ।
प्राक्पाकजविशेषेण विशिष्टाः परमाणवः ॥
तंतं कार्यं प्रारभन्ते कलमाद्यङ्कुरं स्वयम् ।
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
स्वगुणाः परमाणूनां विशेषाः पाकजा मताः ।
इत्यौदयनभारत्या सविशेषस्य हेतुताम् ॥
वदतां काणभक्षाणां ख्यातिर्वैशेषिका इति ।
विशेषाख्यपदार्थस्य स्वीकर्तृत्त्वविशेषतः ॥
वैशेषिका इति ख्यातिः आपातादिति तात्त्विकाः ।
3 अत्र तत्त्वावबोधार्थाः पदार्थपरिशुद्धयः ।
M.R. 6

42 मानमेयरहस्यश्लोकवार्तिके

अथाऽत्र प्रथमोऽध्यायः पदार्थोद्देशलक्षणः ॥
अथ द्वितीयोऽध्यायस्स्यात्सामान्यद्रव्यलक्षणः ।
आत्माऽध्यायस्तृतीयस्स्यात् तुर्यस्स्यान्नित्यलक्षणः
कर्माध्यायः पञ्चमस्स्यात् षष्ठस्स्याद्धर्मलक्षणः ।
अथ स्यात्सप्तमोऽध्यायस्सामान्यगुणलक्षणः ॥
बुद्धयध्यायस्त्वष्टमः स्यात्प्रत्यक्षो नवमो मतः ।
सुखाध्यायस्तु दशमः इत्यध्याय्यार्थसंग्रहः ॥
या न्यायपरिशुद्धौ श्रीवेदान्ताचार्यसूरिभिः ।
न्यायवैशेषिकभिदासूक्तिरेषा निशाम्यताम् ॥
पञ्चाध्याय्यामाक्षपाद्यां यत्त्ववार्गङ्गिर्निवेश्य च ।
कुशकाशालम्बनीत्या कणभक्षकथां पुनः ॥
निरुध्यन्ते नैगमिक्यः पदव्यो विबुधोत्तमैः ।
स्वयमन्तः प्रहसति नूनं तत्र स गौतमः ॥
इत्येवं शास्त्रसारार्थः प्रमेयांशे समुद्धृतः ।
प्रमाणादिषु वादेषु प्रमेयाब्धिः पुरः स्थितः ॥
4 प्रायेण तार्किका एते स्वसिद्धान्तव्यवस्थितिम्
इच्छन्ति तर्कपर्यायभूतलाघवयुक्तिभिः ॥
तत्र लाघवयुक्तीनामुदाहरणसूचनम् ।
तमश्शक्त्योर्नातिरेकः हेम्नस्तैजसता तथा ॥
कालादेश्चातिरिक्तत्वं जीवे देहातिरिक्तता ।

सांख्यदर्शनम् ४३
विज्ञानादातिरेकश्चेत्यादिरन्यत्र विस्तरः ॥
5 अथात्र नव्यसिद्धान्तविशेषांशो विविच्यते ।
अनुमानागमाभ्यां च सिद्ध्यत्यत्र महेश्वरः ॥
नेश्वरादतिरिच्यन्ते दिक्कालाकाशशब्दिताः ।
त्रसरेणौ विश्रमेण न ह्रस्वपरिमण्डले ॥
सत्ता नाम न सामान्यं विशेषो नातिरिच्यते ।
नाना च समवायस्स्यात् प्रागभावो न सम्मतः ॥
शक्तिस्संख्या च कार्यत्वं कारणत्वं तथैवच ।
स्वत्वं च प्रतियोगित्वं विषयत्वादयोऽपिच ॥
अतिरिच्यन्त इत्याहुः स्पार्शनो वायुरुच्यते ।
त्रसरेणुर्मनो भूतं मूर्तं भूतमितीर्यते ॥
रूपाद्यो नानुद्भूताः नापिच व्याप्यवृत्तयः ।
चित्रं च नातिरिक्तं स्यादित्याद्यन्यत्र विस्तरः ॥
(५) सांख्य दर्शनम्
1 अथ कापिलसिद्धान्ते प्रमेयपरिकल्पना ।
प्रायेण विदिताऽप्यत्र मीमांसार्यै निरूप्यते ॥
चतुर्विधः पदार्थः स्यात्कश्चित्प्रकृतिरेवहि ।
प्रकृतिर्विकृतिः कश्चित् कश्चिद्विकृतिरेवच ॥
अन्योऽनुभयरूपस्स्यात् षष्टितन्त्रस्य संग्रहः ।
पञ्चविंशतितत्त्वानापि संक्षेपलक्षणः ॥

44 मानमेयरहस्यश्लोकवार्तिके
आद्य एको विभुर्नित्यः प्रधानं गुणसाम्यतः ।
प्रतिक्षणसजातीयपरिणाम्यपि शाश्वतः ॥
द्वितीयस्सप्तधा प्रोक्तः महान् तस्मादहंकृतिः ।
रूपगन्धरसस्पर्शशब्दास्तन्मात्रलक्षणाः ॥
तृतीयष्षोडशविधः व्योमाद्यं भूतपञ्चकम् ।
एकादशेन्द्रियाणि स्युः ज्ञानकर्मोभयात्मना ॥
यद्यप्यनन्ता भूतानां स्याद्विकारपरम्परा ।
तत्त्वान्तरोत्पादकत्वं प्रकृतित्वमिहेप्सितम् ॥
तच्च सौक्ष्म्यं हेतुकार्यभावस्येत्यवगम्यते ।
गुणापचित्युपचितिभेदात्सौक्ष्म्यं तदन्यता ॥
चतुर्थः पुरुषोऽनेकः भोक्ता चैतन्यलक्षणः ।
कूटस्थनित्यो मध्यस्थः द्रष्टा साक्षी च केवलः
तन्मात्रपञ्चकं भूतपञ्चकं ज्ञानपञ्चकम् ।
कर्मपञ्चकमन्यच्च पञ्चकं शेषपञ्चकम् ।
एवं च पञ्चकं पञ्च तत्त्वानां पञ्चविंशतिः ॥
2 अथ षष्टिपदार्थ्यास्तु विभागोऽप्यवधार्यताम् ।
प्रधानास्तित्वमेकत्वं अर्थवत्त्वमथान्यता ।
पारार्थ्यं च तथाऽनैक्यं वियोगो योग एव च ॥
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः दश स्मृताः ।
विपर्ययः पञ्चविधः तथोक्तां नव तुष्टयः ॥

सांख्यदर्शनम्
करणानामसामर्थ्यं अष्टाविंशतिधा मतम् ।
इति षष्टिः पदार्थानां अष्टाभिस्सिद्धिभिस्सह ॥
3 षष्टितन्त्राभिधः कश्चिदागमः कपिलर्षिणा ।
प्रणीत इति वेदान्तसूत्रे भास्करभाषितम् ॥
संप्रतीश्वरकृष्णीयकारिका तत्त्वकौमुदी ।
सांख्यसिद्धान्तमुकुर इति सर्वत्र निश्चितम् ॥
सांख्यप्रवचनं नाम या षडध्याप्यपीक्ष्यते ।
विज्ञानभिक्षुभाष्यं च तत्प्राच्यैर्नाभिवीक्षितम् ॥
पातञ्जल चतुष्पादं यदेतर्ह्युपलभ्यते ।
तद्धि सांख्यप्रवचनमिति माधवसंग्रहः ॥
4 स्वभावेनैव चिच्छक्तिर्विषयप्रवणा यदि ।
अनिर्मोक्षप्रसंगोऽतः किञ्चित् द्वारमपेक्षते ॥
न चक्षुरादिमात्रं तत् संकल्पानुपपत्तितः ।
न मनोमात्रविश्रान्तिः स्वप्ने व्याघ्राभिमानतः ॥
नाहंकारे तत्त्वपूर्तिः सुषुप्तौ प्राणदर्शनात् ।
न बुद्धयन्ता तत्त्वपङ्क्तिः बुद्धेः परिमितत्वतः ॥
5 कारणं त्वपरिच्छिन्नं प्रधानं प्रकृतिर्हि सा ।
कार्यहेत्वोरभेदः स्यादसतः संभवः कुतः ॥
असत्त्वे नास्ति संबन्धः कारणैस्सत्त्वसङ्गिभिः ।

46 मानमेयरहस्यश्लोकवार्तिके
6 आश्रयाश्रयिभावेन व्यवहारो विवक्षया ।
यथेह कानने सन्ति तिलका इति लौकिकः ॥
तदभेदैकान्तवादः सांख्यानामिति निर्णयः ।
पातञ्जलाः पुनर्भेदाभेदवादावलम्बिनः ॥
भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् ।
द्वयं सांख्यमतेनैव मुक्त्वा बुद्धस्य शासनम् ॥
इति वार्तिककारोक्त्या भेदाभेदविदोऽपिच ।
सांख्यास्सन्तीति विदुषामेवमभ्यूहितुं क्षमम् ॥
तस्माद्गुणः क्रिया जातिर्न द्रव्यादतिरिच्यते ।
7 सारूप्यमेव सामान्यं तत्रापि परिनिश्चितम् ॥
प्रकृतेरविशेषेण विशेषो नात्र संमतः ।
अत्यन्तभेदाभावेन समवायोऽनपेक्षितः ॥
भावान्तरमभावस्स्यात्परिणामविशेषतः ।
तत्त्वान्तरं नैव कालः उत्पत्तिरुपाधिभिः ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
8 शरीरं द्विविधं लिङ्गं मातापितृजमित्यपि ।
सूक्ष्ममाकल्पनियतं स्थूलं तूत्पत्तिनाशवत् ॥
सूक्ष्मं महदहंकारेन्द्रियतन्मात्रसंचयः ।
.. सर्गादिजं तत्प्रत्यात्ममेकैकं भावरूपितम् ॥

सांख्यदर्शनम्
धर्माधर्मादयो भावाः तैर्लिङ्गमधिवासितम् ।
परिगृह्य स्थूलदेहं नटवद्व्यवतिष्ठते ॥
9 भावैर्विना न लिङ्गं स्यात् न भावा लिङ्गमन्तरा
अतोऽस्ति द्विविधस्सर्गः एष प्रत्ययलक्षणः ॥
तृतीयो भौतिकस्सर्गः स्थूलो देवादिभेदतः ।
लिङ्गेषु बुद्धिर्मुख्येति सैव व्यवहृतेः पदम् ॥
साऽचेतना चितिच्छायापत्त्या चेतनवद्भवेत् ।
चेतनोऽपि ज्ञानसुखदुःखवानिव लक्ष्यते ॥
10 अन्योन्यानुग्रहस्सोऽयमविवेकानिबन्धनः ।
बुद्धिर्महत्तत्त्वमेतदन्तःकरणमुच्यते ॥
प्रत्यभिज्ञाऽनुसंधानकार्यनिर्वहणक्षमा ।
विषयाकारिणी बुद्धिवृत्तिः ज्ञानमितीर्यते ॥
बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायोऽपि स स्मृतः ।
उपलब्धिः पुनः पुंसो वृत्तिमद्बुद्धिदर्शनम् ॥
तस्मात् ज्ञानं चोपलब्धिः बुद्धिश्चार्थान्तरं मतम्
ततश्च बुद्धिः त्रिविधै रञ्जकैरुपराज्यते ॥
11 विषयेणोपरागोऽयं संबन्धो ज्ञानलक्षणः ।
पुरुषेणोपरागो यः स भेदाग्रहलक्षणः ॥
व्यापारेणोपरागोऽयं वृत्तिः कर्तव्यामित्यसौ ।
तस्मान्ममेदं कर्तव्यमिति बुद्धेर्निरूपणा ॥

48 मानमेयरहस्यश्लोकवार्त्तिके
अविभागोऽपि बुद्ध्यात्मा भ्रान्तैरेवं निरीक्ष्यते ।
ग्राह्यग्राहकसंवित्तिभेदवानिति सौगताः ॥
सविभागोऽपि बुद्ध्यात्मा भ्रान्तैरित्थं विलोक्यते ।
उपरागैस्त्रिभिरविभक्तात्मैवेति कापिलाः ॥
बाह्यमाभ्यन्तरं चेति करणं द्विविधं मतम् ।
12 चक्षुराद्यं दशविधं बाह्यमाभ्यन्तरं पुनः ॥
मनोऽहंकारबुद्ध्याख्यं त्रिविधं तत्प्रकीर्तितम् ।
आलोचना बाह्यवृत्तिः संकल्पो मनसो मतः ॥
अभिमानोऽहंकृतेः स्याद्बुद्धिरध्यवसायभूः ।
अन्तःकरणसामान्यवृत्तिः प्राणा इतीर्यते ॥
शारीरके प्राणचिन्ता चैतत्सिद्धान्तदूषणी ।
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ॥
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।
संमुग्धं वस्तुमात्रं तु प्राग्गृहन्त्यविकल्पितम् ॥
तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ।
इति प्राहुस्सांख्यवृद्धाः प्रायस्सौगतसोदराः ॥
13 सत्त्वं रजस्तम इति गुणाः प्रकृतिलक्षणाः ।
सुखं दुःखं च मोहश्च तदेषामुपलक्षणम् ॥
प्रकाशश्च प्रवृत्तिश्च नियमश्च प्रयोजनम् ।
अन्योन्याभिभवे शान्ता घोरा मूढा च वृत्तयः ॥

सांख्यदर्शनम् 49

ऽम्येनावस्थितौ तुल्यपरिणामपरंपरा ।
विनाभाववृत्तित्वमित्याद्या इह वृत्तयः ॥
त्मा ज्ञातव्य इत्युक्त्या विवेक्तव्यः प्रधानतः ।
यप्युक्त्या च युक्त्या च ज्ञानान्मोक्षं विदुस्त्विमे ॥
त्मानुमेयसिद्धान्तः सांख्यानामिति निर्णयः ।
त्मप्रत्यक्षसिद्धान्तः प्रायेणेतरसम्मतः ॥
ग्यं विषयत्यागादित्योपनिषदं मतम् ।
गाद्विषयवैराग्यमिति कापिलदर्शनम् ॥
भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
र्वकर्मक्षयादेव मोक्षस्स्याद्भोगवादिनाम् ॥
यतश्चैकभविकपक्षः पातञ्जलानुगैः ।
ीकृतस्तस्य वैशद्यं मोक्षवादे भविष्यति ॥
नो विवेकख्यात्याख्यतत्त्वसाक्षात्कृतेः पुनः ।
ारब्धविपाकानां बीजभावविदाहतः ॥
र्माशयानां प्रारब्धविपाकानां तु भोगतः ।
वश्यंभावि चानाशि कैवल्यमिति निर्णयः ॥
वसाक्षात्कृतिः प्रायः मोक्षसाधनमुच्यते ।
विद्या भ्रान्तिरूपा हि साक्षात्कृत्या निवर्तते ॥
त्विच्छन्ति च सर्वेषां सप्रसादं सशक्तिकम् ।
र्वज्ञं तैः तत्प्रसादमूलोपासनमिष्यते ॥
२. 7

50 मानमेयरहस्यश्लोकवार्तिके
तत्त्वनिर्णयमात्रेण भगवान्न प्रसीदति ।
न वा निःश्रेयसं तस्मादुपास्त्यै तत्त्वनिर्णयः
(10) पातञ्जल दर्शनम्.
1 हिरण्यगर्भोपज्ञं यद्योगशास्त्रं प्रकीर्तितम् ।
तदीयसंहितासारं संजग्राह पतञ्जलिः ॥
न परीक्षाशास्त्रमेतत् किंतु स्यादनुशासनम् ।
स्वार्थोपदेशेन परनिरासोऽप्यभिसंहितः ॥
तत्त्वज्ञानं सांख्यशास्त्रे योगेऽनुष्ठानमुच्यते ।
ज्ञानानुष्ठानसंयोगात् अपृथक्स्थितिरेतयोः ॥
ज्ञानयोगो भक्तियोगः प्रथमे पाद ईरितः ।
कर्मयोगस्तदुभयहेतुस्साधनपादगः ॥
विभूतिपादेऽभ्युदयः निःश्रेयसमथान्तिमे ।
प्रतिपादं प्रधानार्था इति शास्त्रार्थसंग्रहः ॥
ज्ञानयोगस्स्वात्मचिन्ता भक्तिरीश्वरचिन्तनम् ।
कर्मयोगः कर्मनिष्ठा फलसंगविवर्जिता ॥
हेयं च हेयहेतुश्च मोक्षस्तद्धेतुरित्यपि ।
शास्त्रं व्युत्पादयत्येतदिममर्थचतुष्टयम् ॥
2 सर्वान् जन्तूनुद्दिधीर्षुः दुःखसंसारसागरात् ।
उपादत्ते सत्त्वचित्तं परः कारुणिकः पुमान् ॥

पातञ्जलदर्शनम् 51
अनुग्रहोपदेशादेर्विना तेन न संभवः ।
सर्गप्रलयसन्तानः बीजाङ्कुरवदिष्यते ॥
ज्ञानक्रियाशक्तियुक्तं चित्तं सर्वातिशाय्यदः ।
अनादिसिद्धं तस्यास्ति शुद्धसत्त्वं प्रधानजम् ॥
पूर्वपूर्वोपात्तचित्तं तादृक्संकल्पवासितम् ।
उत्तरोत्तरचित्तानामुपादाने निबन्धनम् ॥
सात्त्विकाः परिणामाश्च तस्य भोग्यतया स्थिताः ।
नचेश्वराणां नानात्वं भिन्नाभिप्रायभङ्गतः ॥
ज्ञानैश्वर्ये शुद्धसत्त्वे स्यातामस्य सनातने ।
पुंप्रकृत्योश्च संयोगवियोगौ तन्निबन्धनौ ॥
३ सर्वज्ञलिङ्गं निरतिशयमीशनलक्षणम् ।
प्रणिधानं नाम भक्तिः तदुपासनलक्षणम् ॥
इच्छामात्रेण सकलजगदुद्धरणक्षमः ।
यतस्तदेकाश्रयणं वरणं शरणस्य तत् ॥
यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् ।
सर्वभूतानुग्रहोऽस्य जगत्कर्तुः प्रयोजनम् ॥
स कालेनानवच्छेदात्पूर्वेषां गुरुरुच्यते ।
प्रणवो वाचकस्तस्य तन्मूलं तदुपासनम् ॥
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमाचरेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रसीदति ॥

52 मानमेयरहस्यश्लोकवार्तिके
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥
सादृश्यादीश्वरध्यानं तदनुग्रहमूलतः ।
स्वात्मसाक्षात्कारहेतुरिति तद्योगदर्शनम् ॥
उपायस्सुकरस्सोऽयं शीघ्रं चापि फलप्रदः ।
केषांचित् क्षीणदोषाणां विश्वासोऽत्र महात्मनाम् ।
4 स एव भक्तियोगस्स्यात् ज्ञानयोगोऽधुनोच्यते ।
चित्तवृत्तिनिरोधोऽसौ स्वसाक्षात्कारकारणम् ॥
आगमेनानुमानेन ध्यानाभ्यासवशेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
ध्यानाभ्यासरसश्चैषः धर्ममेघ इतीर्यते ।
परं प्रसंख्यानमेतत्पुंमात्रध्यानलक्षणम् ॥
ध्यानप्रकर्षपर्यन्तजा चिच्छायावती तु या ।
अविप्लवा विवेकोपलब्धिः मोक्षस्य कारणम् ॥
सा शुक्लकृष्णमुत्पाद्य धर्मं बन्धं विमोचयेत् ।
प्रकृष्टधर्मजो मोक्ष इति स्वायंभुवं मतम् ॥
अत्र कैश्चिद्धर्ममेघस्समाधिः पक्व उच्यते ।
तेन ज्ञानैकसाध्योऽसौ मोक्ष इत्येव तन्मतम् ॥
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ।
इति स्मृतिवचस्तत्र प्रमाणं च प्रदर्श्यते ॥