सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 95, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 95

प्रज्ञाप्रासादमारुह्य ह्यशोच्यश्शोचतो जनान् ।
भूमिष्ठानिव शैलस्थस्सर्वान् प्राज्ञोऽनुपश्यति ॥
५ अधिकारस्स चित्तस्य स्थितिहेतुरुदीरितः ।
यः कृत्यशेषः तच्छून्यं चित्तं मूले विलीयते ॥
तस्य चित्तस्य विलयात्स्वस्वरूपे प्रतिष्ठितः ।
पुरुषः केवलो गौणी सा प्रतिप्रसवात्मिका ॥
संयोगाभाव एवासौ दृशेः कैवल्यमुच्यते ।
कृतकृत्यं ख्यातिपर्यवसानं चित्तचेष्टितम् ॥
यश्च नैरात्म्यसिद्धान्तो निर्वाणद्वारमुच्यते ।
तदेतच्चित्तविषयमिति सम्यग्विशोधितम् ॥
६ ज्ञातव्यमखिलं ज्ञातं हातव्यमखिलं तथा ।
प्राप्तव्यमखिलं प्राप्तं कर्तव्यमखिलं कृतम् ॥
चतुर्विधा इमाः ख्याताः यास्ताः कार्यविमुक्तयः
चरितार्था च मे बुद्धिः गुणाश्चानाधिकारिणः ॥
स्वस्वरूपप्रतिष्ठोऽहं एताश्चित्तविमुक्तयः ।
ततश्च नाहं नैवास्मि न मे चेति विनिश्चयः ॥
७ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं पञ्चमं पुनः ।
निरुद्धमिति चित्तस्य भूमयः पञ्च कीर्तिताः ॥
चित्तं चतुर्विधं तत्र व्युत्थानं प्रथमं मतम् ।
समाध्यारम्भसंज्ञं तु द्वितीयं परिकीर्तितम् ॥