मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 105, कुल 672 में से
संदर्भ में पढ़ेंपरिमाणं च परताऽपरता शब्द एव च ।
इत्येकविंशतिविधो गुण इत्यवगम्यते ॥
2 द्रव्यसामान्यवृत्तित्वे सामान्यगुणतेष्यते ।
प्रत्येकद्रव्यवृत्तित्वे विशेषगुणता मता ॥
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः ।
तेषामाश्रयभेदेन भेदो नाभ्युपगम्यते ॥
अथ कर्मपदार्थं तु सूक्ष्ममाहुरतीन्द्रियम् ।
अनुमेयं च संयोगाद्विभागादऽर्ककर्मवत् ॥
सामान्यं न्यायमतवत् शक्तिस्सर्वपदार्थगा ।
नानाविधा च सादृश्यमनेकं सर्ववस्तुगम् ॥
समवायोऽनेकविधोऽप्यनित्योप्यक्षगोचरः ।
संख्याऽपि सर्वगा ज्ञेया सर्वेषां विस्तरोऽग्रतः ॥
(12) कौमारिलदर्शनम्.
1 द्रव्यं गुणस्तथा कर्म जातिश्चाभाव इत्यपि ।
भट्टपादस्य सिद्धान्ते प्रमेयं पञ्चधा मतम् ॥
क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ।
तमो वर्ण इति द्रव्यमेकादशविधं मतम् ॥
रूपं गन्धो रसः स्पर्शः संख्यासंयोगशक्तयः ।
विभागः परिमाणं च परताऽपरता ध्वनिः ॥