मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 107, कुल 672 में से
संदर्भ में पढ़ेंद्वैताद्वैतदर्शनम् 6
नचाप्ययुतसिद्धानां संबन्धित्वेन कल्पना ।
नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता ॥
अत्यन्तभिन्नताऽस्माभिर्नैव कस्यचिदिष्यते ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥
उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी ।
इति कौमारिलैकान्तः शिष्टमग्रे निरूप्यते ॥
(13) द्वैताद्वैतदर्शनम्.
1 अथ भेदाभेदवादे प्राचां सिद्धान्त उच्यते ।
महासमुद्रस्थानीयं परं ब्रह्माक्षरं मतम् ॥
तदप्रचलितावस्थं ईषत्प्रचलितं यदा ।
तदन्तर्यामिसंज्ञं स्यात् अत्यन्तचलितं यदा ॥
तदा क्षेत्रज्ञसंज्ञं स्यात् इति त्रेधा व्यवस्थितम् ।
पञ्चावस्था अपि प्राहुः भूतसंस्थानभेदतः ॥
पिण्डो जातिर्विराट् सूत्रं दैवमित्युक्तलक्षणाः ।
भूतमात्रामहदहमिन्द्रियापरनामकाः ॥
अष्टावस्था इमाः भर्तृप्रपञ्चादिभिरीरिताः ।
एतेऽवस्थावादिनस्स्युः केचिदुत्पत्तिवादिनः ॥
विकारवादिनः केचित् अन्ये स्युः शक्तिवादिनः ।
शक्तिवादिन एवैते प्रायोऽभिव्यक्तिवादिनः ॥
M.R. 9