मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 100, कुल 672 में से
संदर्भ में पढ़ें58 मानमेयरहस्यश्लोकवार्तिके
न तत्स्वभासं दृश्यत्वात् साक्षिवेद्यमतस्स्थि-
नार्थः प्रतीतो भवति तत्प्रतीतेरवेदने ॥
बुद्धिवृत्तिश्चिदाकारा चिच्छायाप्रतिसंक्रमात्
सा चितिः वृत्त्यवच्छिन्ना चिद्वेद्येत्यभिधीय[ते]
नातश्चित्तं स्वप्रकाशं न चित्तान्तरगोचरः ।
किंतु वेद्यं साक्षिणेति व्यवहारव्यवस्थितिः
एवं सवृत्तिकं चित्तं साक्षिवेद्यं सदा मतम्
यतस्साक्षी स कूटस्थोऽन्यथाऽलं चित्तवस्तु[?]
15 तथैव प्रकृतेश्चापि द्वे शक्ती सहजे स्थिते ।
अनुलोमप्रतीलोमपरिणामविभेदतः ॥
अनुलोमः परीणामो भूतान्तो यो बहिर्मु[खः]
स्वकारणानुप्रवेशः प्रतिलोमोऽस्मितावधि[ः]
ते एव पुरुषार्थस्य कर्तव्यत्वमितीर्यते ।
तादृक्शक्तिद्वितयक्षय एव कृतार्थता ॥
16 यद्यप्येते तु सहजे शक्ती यत्नो विमुक्तये
शास्त्रोपदेशवैयर्थ्याभावश्चाप्यवधार्यताम् ।
पुंप्रकृत्योरनादिर्यः भोक्तृभोग्यत्वलक्षणः
बन्धः तस्मिन् सति व्यक्तचेतना प्रकृति[ः]
कर्तृत्वस्याभिमानेन दुःखस्यानुभवेन च ।
कथमात्यन्तिकी दुःखनिवृत्तिस्स्यान्ममेत्य[त...]