सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

भावनावाक्यार्थः 499

क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता ।
प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥
कुर्यादित्येवमादिभ्यः क्रियादिव्यतिरेकिणः ।
नार्थान्तरस्य संवित्तिः कस्यचित्प्रेरणात्मनः ॥
स चोदनामतिक्रमेत् यः क्रियां नानुतिष्ठति ।
यश्शब्दपरतन्त्रस्स्यात् शब्दप्रामाण्यवाद्यसौ ॥
फलाभिसन्धिहीनोऽपि कर्मसंस्कारसंस्कृतः ।
परिपक्ककषायस्स्यात् स्तोकस्तोकक्रमादसौ ॥
प्रपञ्चप्रविलापेन चोत्तमाधिक्रियायुतः ।
ज्ञातास्वादस्तमेवासौ पुमर्थं प्राप्तुमिच्छति ॥
विस्तरस्तु मतस्यास्य ज्ञेयो विधिविवेकतः ।
प्रायेणैते निष्प्रपञ्चनियोगन्यायवादिनः ॥
(101) भावनावाक्यार्थः.
1 वाक्यार्थभावनापक्षसारांशोऽथावधार्यताम् ।
भाव्यनिष्ठो भावकस्य व्यापारो भावना मता ।
सा शब्दभावनाऽथार्थभावनेत्यपिच द्विधा ।
विभज्य व्यवहारस्य विषयीक्रियते बुधैः ॥
पुंप्रवृत्त्यनुकूलात्मा व्यापारश्शब्दभावना ।
प्रवर्तना प्रेरणा सा नियोग इति कीर्त्यते ॥

496 मानमेयरहस्यश्लोकवार्तिके
क्रियानुकूलः पुरुषव्यापारो ह्यर्थभावना ।
कृतिः प्रयत्न इत्यादिपर्यायपदशब्दिता ॥
लोकेऽस्मिन्नभिधाशब्दः शब्दव्यापारबोधकः ।
अतोऽभिधाभावनेति तामाहुश्शब्दभावनाम् ॥
भावना या तु पुरुषैरिष्टोपायतयाऽर्थ्यते ।
पुंव्यापारात्मिका सैषा कीर्त्यते चार्थभावना ॥
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।
तत्सिद्धान्तकटाक्षेण भाव्येत्यादिपरिष्कृतिः ॥
सैव वाक्यस्यार्थ इति कुमारिलविनिर्णयः ।
वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजाम् ॥
न सचेताः क्रियां कांचिद् अनुतिष्ठति निष्फलाम् ।
वस्तुतस्तु फलं तस्मात्प्रधानमवगम्यते ॥
सएव वाक्यार्थ इति वक्तुं युक्तं च यद्यपि ।
तथाऽपि काम्यमानत्वात् सिद्धं तन्नावगम्यते ॥
साध्यमानत्वपक्षे तु साक्षात्तत्सिद्धयवेदनात् ।
व्यापार एव तन्निष्ठः वाक्यवेद्य इतीष्यताम् ॥
अत एवहि वाक्यार्थे भावनां प्रतिजानते ।
यथोचितफलाढ्यां च त्रयसंबन्धबन्धुराम् ॥
आस्तां विधिपदं तावद्वर्तमानापदेशिनः ।
शब्दाद्यजत इत्यादेः भावना न न गम्यते ॥

भावनावाक्यार्थः 497
2 क्रियाविशेष एवायं व्यापारो ज्ञातुरात्मनः ।
स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥
3 पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते ।
औदासीन्यदशाऽपायं पुमान् येन प्रपद्यते ॥
स यत्नो यागदानादिक्रियानिर्वृत्तिकारणम् ।
तस्य तद्व्यतिरेक्तत्वं प्रायस्सर्वोऽनुमन्यते ॥
न चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः ।
साध्यरूपाभिसम्बन्धात् धत्ते विषयतां विधेः ॥
4 अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् ।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥
धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते ।
तथाऽपि सर्वसामान्यरूपेणान्या प्रतीयते ॥
सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती ।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥
सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः ।
अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी ॥
सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ।
इत्याहुरपरे प्राज्ञाः भावनातत्त्ववेदिनः ॥
भावनैवहि वाक्यार्थः सर्वत्राख्यातवत्तया ।
अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥
M. R. 63

498 | मानमेयरहस्यश्लोकवार्तिके

एकयैवहि बुद्ध्याऽसौ गृह्यते चित्ररूपया ।
पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया ॥
पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते ।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥
5 अभिधाभावनामाहुरन्यामेव लिङादयः ।
अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते ॥
प्रयत्नव्यतिरिक्त्तार्थभावना तु न शक्यते ।
वक्तुमाख्यातवाच्येति सिद्धान्तः राणकेरितः ॥
कार्यत्वान्तःप्रविष्टा या कृतिस्सैवहि भावना ।
स्वर्गादेर्भवितुर्भावयित्री स्याद्भावकाश्रिता ॥
तेन व्यापारसामान्यं पुंव्यापारनिबन्धनम् ।
इति सिद्ध्या स स्वभाववादो लौकायतो हतः ॥
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥
णिजर्थात्तु लिङर्थोऽसौ प्रेरणाऽस्ति विलक्षणा ।
ज्ञापकव्यापार एष स तु कारकसंश्रितः ॥
प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते ।
अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥
विधिः प्रवर्तकत्वाख्यस्वरूपस्योपपत्तये ।
स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥

नियोगवाक्यार्थः 49
अथापि शाब्दी शक्तिस्सा प्रधानमिति गम्यते ।
अतस्त्विष्टोपायतैषा धात्वर्थस्थेति सूरयः ॥
वाक्यार्थाधिकृतावस्य विस्तरः श्लोकवार्तिके ।
शाब्दबोधक्रमस्त्वेष खण्डदेवादि Bour शोधितः ॥
6 यजेतेत्यत्रचाख्यातं लिङ्त्वेनाख्याति भावनाम्
अभिधाख्यां तथैवार्थीमाख्यातत्वेन बोधयेत् ॥
उभे अंशत्रययुते इति विश्रुतमेव तत् ।
विशिष्टशाब्दीप्रयोज्या तादृश्यार्थीति गम्यते ॥
प्रयोज्यत्वं स्वविषयज्ञानजन्याऽनुमा तु या ।
तत्प्रयोज्यत्वमनुमा त्वेतादृश्यत्र गम्यताम् ॥
यागो मदिष्टहेतुस्स्यात् इत्याकारा तया पुनः ।
पुमान् प्रवर्तत इति प्रयोज्यत्वं निरूपितम् ॥
यागस्य चेष्टहेतुत्वमेव प्राशस्त्यलक्षणम् ।
स शब्दभावनांशस्सन् एवमत्रोपयुज्यते ॥
(102) नियोगवाक्यार्थः.
1 नियोगवाक्यार्थवादिटीकाकारमतं पुनः ।
प्रदर्श्यतेऽथ यच्छिष्याः कार्यवाक्यार्थवादिनः ॥
कर्ता संख्या तथाचार्थभावना शब्दभावना ।
तस्याः कृतिः तदाख्यानं चेत्येतदतिदुर्भरम् ॥

०० मानमेयरहस्यश्लोकवार्तिके
तस्मान्नियोग एकोऽर्थः कालत्रयविवर्जितः ।
नियुक्तोऽस्मीत्यनुभवात् प्रेरणात्माऽथ तद्धिया ॥
आत्माकूतविशेषो यः आत्मधर्मस्स जायते ।
भौतिकस्पन्दहेतुस्सः न मानान्तरगोचरः ॥
औदासीन्यप्रच्युतिर्वा योद्योग इति कीर्त्यते ।
आद्या प्रवृत्तिराकूतं चिकीर्षेत्यादिनामभाक् ॥
शब्दस्यैव लिङादेर्यैः बुधैः प्रेरकतेष्यते ।
तेऽत्यन्तभीरवस्तस्मिन् संगतिग्रहणालसाः ॥
२ कार्यत्वावगतिस्त्वार्थी शाब्दी प्रेरकतामतिः ।
तस्मात्प्रेरक एवासौ प्रधानमिति निर्णयः ॥
अन्ये तु शाब्दं कार्यत्वं नियोगस्येति मन्वते ।
प्रेरकत्वं त्वार्थमिति नातस्स्याच्छब्दगौरवम् ॥
३ अनुबन्धद्वयं तस्य विषयश्चाधिकार्यपि ।
नियोगः कस्य कुत्रेति तदाकाङ्क्षे इमे उभे ॥
विषयः फलहेतुश्चेत्फलकामोऽधिकार्यतः ।
फलं पुंबुद्धिमूलं तत् न शास्त्रीयमिति स्थितिः ।
यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् ।
यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥
न दैन्यमीदृशं सोढुं स्वतन्त्रं शास्त्रमर्हति ।
यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥

नियोगवाक्यार्थः 50
4 नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः ।
विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते ॥
विहिताकरणायत्तप्रत्यवायापनुत्तये ।
कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः ॥
तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम् ।
स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते ॥
5 कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः ।
फलक्लृप्तिः तत्प्रवृत्तिस्तस्माल्लिप्सार्थलक्षणा ॥
अतएवाधर्मतेति श्येनादेरिति निर्णयः ।
अर्थशब्दः प्रयुक्तोऽतः तादृशानर्थवारकः ॥
नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम् ।
अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः ॥
6 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते ।
निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥
तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलोदये ।
अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः ॥
विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति ।
तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥
नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः ।
विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः ॥

502 मानमेयरहस्यश्लोकवार्तिके
कथं नरो निवर्तेत प्रत्यवायभयाद्विना ।
मा निवर्तिष्ट, विधिना तावदुक्तं निवर्तनम् ॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते ।
न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥
फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम् ।
मा प्रवर्तिष्ट वा शास्त्रं नियुङ्क्ते त्वधिकारिणम् ॥
7 कामप्रध्वंससिद्धान्ते सर्वं नैमित्तिकं मतम् ।
स्वर्गादिकामनानां तु निमित्तत्वमुपाश्रितम् ॥
स्त्रीकामो निष्कृतिं कुर्यादित्यादिषु निमित्तता ।
प्रतीयते नतु खलु फलसाधनता क्वचित् ॥
न पारलौकिकस्स्वर्गः किन्त्वैहिकसुखं सुखम् ।
धनधान्यादिकाङ्क्षिश्चेत्पुंसामिच्छा सुखे भवेत् ॥
यागेन तद्व्यये जाते कामः प्रध्वंसते स्वयम् ।
अतएव क्षत्रियाणां विश्वजिद्यागशासनम् ॥
तत्रापि स्वर्गक्लृप्तिस्तु जैमिनेर्दैन्यलक्षणा ।
तथैव रात्रिसत्रेऽपि वेदो हि प्रभुसम्मितः ॥
प्रत्यवायपरीहारोऽप्यत्र कार्पण्यलक्षणः ।
शंय्वन्ताधिक्रियान्यायो नैतत्सिद्धान्तसम्मतः ॥
नित्यं नैमित्तिकं कर्म कर्तव्यमिति वैदिकः ।
पन्थाः पुराणोऽयमत्र गीता भगवता स्वयम् ॥

कार्यवाक्यार्थः 503
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
स कालेनेह महता योगो नष्टः पुरातनः ॥
कर्मण्येवाधिकारस्ते कुरु कर्मैव तत्पुनः ।
यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ॥
अन्यत्र विस्तरस्तस्य द्रष्टव्योऽस्माभिरीरितः ।
अत्रापिच पुरः स्पष्टः फलकाण्डे भविष्यति ॥
(103) कार्यवाक्यार्थः.
1 प्रभाकरगुरूणान्तु कार्यवाक्यार्थवादिनाम् ।
वाक्यार्थसंग्रह्रसोऽयं विविक्तप्रतिपत्तये ॥
आस्तां तावत्क्रिया लोके गमनागमनादिका ।
अन्ततस्तनपानादितृप्तिकारिण्यपि क्रिया ॥
सा यावन्मम कार्येयमिति नैवावधार्यते ।
तावत्कदाऽपि लोकेऽत्र प्रवृत्तिर्न भविष्यति ॥
पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥
कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः ।
विपरीतं त्वकर्तव्यमिति तद्विषये मतिः ॥
इत्याहुर्मण्डनाचार्याः गुरुभिस्तन्नचेष्यते ।
कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥

504 मानमेयरहस्यश्लोकवार्तिके
कारणत्वं फलोत्पादे भिद्येते ते परस्परम् ।
किंच स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥
फलसाधनता तत्र कारणं तेन कार्यता ।
तद्भावभाविनी नित्यं तदात्मैव प्रतीयते ॥
2 कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि ।
व्यवहारात एवाहुः व्युत्पत्तिं प्रेरकात्मनि ॥
शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि ।
आवापोद्वापभेदेन तथा कार्ये लिङादयः ॥
कार्यमेव हि कर्तॄणां ज्यायस्समकनीयसाम् ।
भेदात्प्रैषामन्त्रणाध्येषणादिव्यपदेशभाक् ॥
कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते ।
तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥
एवं कार्यात्मकेऽप्यर्थे व्युत्पद्यन्ते लिङादयः ।
तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥
3 यागानुष्ठानतः कार्यमात्मानं लब्धुमर्हति ।
नच कर्त्रा विना तस्यानुष्ठानमुपपद्यते ॥
न विना चाधिकारेण कर्तुर्लाभः क्वचिन्मतः ।
नियोज्यमन्तरा क्वापि नाधिकारः प्रसिद्ध्यति ।
नकदाप्यविशिष्टोऽत्र नियोज्यो ह्यवकल्पते ।
एवं विशेषणतया स्वर्गस्तत्रावकल्पते ॥

कर्तृत्वमधिकारित्वं नियोज्यत्वमिति स्थितम्।
अवस्थात्रितयं तत्रानुष्ठातृत्वं हि कर्तृता॥
अधिकारः स्वकीयत्वबुद्धिमत्त्वं हि कर्मणि।
कार्ये स्वकीयत्वबुद्धिमत्ता तु स्यान्नियोज्यता॥
4 संविचार्यमिदं त्वत्र तत्कार्यं किं क्रियात्मकम्।
उत तद्व्यतिरेकीति, तत्र लोकानुसारतः॥
लिङादिस्तत्र कार्यं चेत्क्रियामेवावबोधयेत्।
समन्वयो नियोज्येन तदानीं नावकल्पते॥
नियोज्यस्य च कार्यं यत्स्वकीयत्वेन बुद्ध्यते।
स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते॥
क्रिया हि क्षणिकत्वेन न कालान्तरभाविनः।
स्वर्गादेस्साध्यमानस्य न क्षमा जननं प्रति॥
इष्टस्याजनिका सा च नियोज्येन फलार्थिना।
कार्यत्वेन न संबन्धमर्हति क्षणभङ्गिनी॥
तस्मान्नियोज्यसंबन्धसमर्थं विधिवाचिभिः।
कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते॥
क्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत्।
अतो मानान्तरापूर्वमपूर्वमिति गीयते॥
5 कार्यत्वेन नियोज्यं च स्वात्मनि प्रेरयन्नसौ।
नियोग इति मीमांसानिष्णातैरभिधीयते॥

6 कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते ।
वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥
आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥
अतः पुरुषकारश्च दैवं च फलसाधनम् ।
मुख्यं दैवमपूर्वं स्यात् सहकारि तु पौरुषम् ॥
एवं नित्याधिकारादौ जीवनाद्येऽवधारिते ।
आत्मीयकार्यावगमात्प्रवृत्तिरुपपद्यते ॥
फलं फलतया नान्वीयते किंत्वधिकारिणः ।
विशेषणतयैवेति प्राभाकरविनिश्चयः ॥
एवं कामाधिकारार्थपर्यालोचनयोत्थिता ।
व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तौ निबन्धनम् ॥
तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके ।
तस्य त्वपूर्वरूपत्वं वेदवाक्यविमर्शजम् ॥
7 ननु लोकविरुद्धत्वं पक्षेऽस्मिन्नपि दृश्यते ।
सर्वदैव यतो लोके क्रियाकार्यं प्रतीयते ॥
यदि स्यातां विरोधस्स्यात् क्रियाकार्यत्वगोचरौ
प्रतिपत्तिप्रयोगौ तौ कार्येऽपूर्वेऽपि लौकिके ॥
प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति ।
क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥

कार्यवाक्यार्थः ५०
अभिधेयं लिङादीनामपूर्वं कार्यमेव तत् ।
अपूर्वेण क्रियाकार्यं नित्यं संबद्धमित्यतः ॥
लिङादयः क्रियाकार्ये बुधैर्लाक्षणिका मताः ।
तत्रान्विताभिधावादे सर्वं लाक्षणिकं मतम् ॥
लक्षणानाभिविज्ञानं मुख्यार्थानवधारणात् ।
येतु मुख्यार्थकुशलाः तेषां लाक्षणिकत्वधीः ॥
तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् ।
वेदार्थ इति सिद्धान्तः प्रभाकरगुरोर्मतः ॥
वाक्यार्थमातृकायां च श्रीभाष्येऽपिच विस्तरः ।
शाब्दबोधक्रमस्त्वेषः कार्यवाक्यार्थवादिनाम् ॥
8 यजेतेति पदात्कार्यप्रधानं यागगोचरम् ।
स्यात्कार्यं यागविषयमिति बोधस्स चादिमः ॥
ततश्च यागविषयं कार्यं स्यात्स्वर्गसाधनम् ।
इत्यर्थाध्याहाराविद्भिः द्वितीयो बोध इष्यते ॥
स्वर्गकामपदश्रुत्या स्वर्गकामनियोज्यकम् ।
प्रागुक्तद्विदळं कार्यमिति स स्यात्तृतीयकः ॥
ततश्च स्वर्गकामीयकृतिसाध्यमिति क्रमात् ।
प्रागुक्तत्रिदळं कार्यमिति बोधस्तुरीयकः ॥
नापूर्वे स्वर्गहेतुत्वं यागे तेन विना भवेत् ।
इति चानुपपत्तेस्तु प्रतिसन्धानसंभवे ॥

स्वर्गकामकृतेस्साध्यः स्वर्गकामनियोज्यकः ।
स्वर्गस्य साधनं याग इति बोधस्तु पश्चिमः ॥
यद्यप्यनुपपत्तेस्तु प्रतिसन्धानमुच्यते ।
तदुपादानमित्युक्तं धीरौपादानिकी ह्यसौ ॥
विध्याक्षेप उपादानं श्रुतार्थापत्तितः पृथक् ।
सा स्यादभिहितापर्यवसानाऽश्रुतकल्पना ॥
अभिधानानवसितिः उपादानमितीर्यते ।
तेनौपादानिकी त्युक्ता फलसाधनतामतिः ॥
इति प्रभाकरमतं वादारम्भसमर्थने ।
वादावळावन्ववादीदनन्तार्यबुधोत्तमः ॥
(104) निषेधवाक्यार्थः.
1 नञर्थस्य विचारेऽपि किंचिदत्र प्रकाश्यते ।
त्रिविधा हि नञो वृत्तिः कुमारिलमुखेरिता ॥
पर्युदासः तथाऽभावः प्रतिषेधस्तथेति च ।
पर्युदासस्स विज्ञेयः यत्रोत्तरपदेन नञ् ॥
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।
इति कैश्चिन्निरुक्तं हि तत्रार्थः फलितस्त्वसौ ॥
अन्योन्याभावबोधे तु पर्युदास इतीर्यते ।
अत्यन्ताभावबोधे तु प्रसज्यप्रतिषेधवाक् ॥

निषेधवाक्यार्थः
नेक्षेतोद्यन्तमादित्यं तथाचाब्राह्मणं नय ।
इत्यादावीक्षणाद्विप्रात् अन्यद्वस्त्ववगम्यते ॥
ईक्षणव्यतिरिक्ता हि क्रिया तत्राप्यपेक्षिता ।
प्रत्यासत्तेर्न संकल्पमतिक्रम्यावगम्यते ॥
तथैव क्षत्रियाद्यर्थः पर्युदस्तः प्रतीयते ।
नामधात्वर्थयोगी च नञ्तोऽन्यार्थगोचरः ॥
2 लिङाद्यन्याख्यातयोगे चाभावार्थः प्रतीयते ।
तत्र चाज्ञातसंदिग्धविपरीतार्थवारणम् ॥
अस्तिनास्तीतिसंदेहे पाक्षिकास्तित्वबोधनम् ।
निवर्त्यते नञा यद्वा नास्तितैवोच्यते सती ॥
निवर्ततेऽस्तिताबुद्धिः मृगतृष्णादिबुद्धिवत् ।
अज्ञानादिनिवृत्तिश्च दृष्टा मानान्तरेऽपि हि ॥
3 विधिना युज्यते यत्र न हन्यान्न पिबेदिति ।
नात्राभावार्थता यस्मात्प्राप्तं हि प्रतिषिध्यते ॥
रागादिना यदि प्राप्तं पानं च हननं च वा ।
कथं वा कथ्यते तत्राभावो भावनिवर्तितः ॥
यदि नानुष्ठास्यतेऽत्र प्राप्तिर्नैव प्रसिध्यति ।
तस्मादत्र निषेधार्थतत्त्वमेतन्निरूपितम् ॥
सच केशेषु पुरुषं गृहीत्वा विनिवर्तयन् ।
चिकीर्षिताच्च व्यापारात् अभावं स्थापयत्यपि ॥

अन्यथैव प्रवर्तन्ते भावाभावधियोऽपराः ।
व्यवस्थितबहिर्वस्तु परिच्छेदफलात्मिकाः ॥
अन्यथाऽनागतोत्पाद्यभावप्रेरणवारिका ।
अन्तस्संकल्पमूलात्मा वृत्तिर्विधिनिषेधयोः ॥
एतदुक्तं भवत्यत्र न्यायरत्नाकरोदितम् ।
यथा विधिर्विधेयस्य चेष्टहेतुत्वसिद्धये ॥
प्रमाणीभूय संकल्पं पुंसोऽनुष्ठानगोचरम् ।
जनयित्वा तेन पुंसा व्यापारं कारयन् स्वयम् ॥
तत्र कारकहेतुस्स्यात् निषेधोऽपि तथैव हि ।
निषिद्धस्यानिष्टहेतुभावे मानं भवन् ततः ।
अननुष्ठानसंकल्पं वैराग्याज्जनयन् पुनः ।
तदभावव्यवस्थां च करोतीति सुनिश्चितम् ॥
तथाच यदि रागादिप्राप्तं विध्यर्थलक्षणम् ।
कर्तव्यत्वं लिङाऽनूद्य नञा तस्य निषेधनम् ॥
यदिवाऽत्र नञर्थस्य वर्जनस्य विधेयता ।
लिङाऽवबोधः द्वेधाऽपि व्यापारेऽनर्थहेतुताम् ॥
कल्पयन् अननुष्ठानसंकल्पजननात्परम् ।
निवारणं स्यादित्येतन्निषेधस्य निरूपणम् ॥
4 इयत्प्रयासहेतुश्च वक्ष्यमाणो विनिश्चितः ।
अवस्तुत्वादभावस्य न नृशृङ्गं नियुज्यते ॥

प्रयोजनवाक्यार्थः 51

नोपादेयं नैव हेयं न कार्यं नापि कारणम् ।
को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते
न कलञ्जं भक्षयेदित्येवमादिरपार्थकः ।
नियोग इति हि प्राहुरभावावस्तुवादिनः ॥
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥
इत्यादिस्मृतिवाक्यार्थभङ्गो भाष्यकृतामपि ।
अभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः ॥
अभावः कारणं कार्यं वस्तु येषां विपश्चिताम् ।
तेषां पुनः नवीनानां प्रयासो नैव कश्चन ॥
यस्याभावोऽधिकरणं यस्य भावान्तरं च वा ।
सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन ॥
अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम् ।
स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः ॥
प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ।
इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना ॥

(105) प्रयोजनवाक्यार्थः
1 अथ नैयायिकमते फलमेव प्रवर्तकम् ।
सम्मतं तत्र सारांशसंग्रहोऽप्यवधार्यताम् ॥

ऽदेव प्रवृत्तिश्चेज्जन्मान्तरविनिश्चयः ।
णानामेव जन्मेति वीतरागेति सूत्रितम् ॥
रागान्न प्रवृत्तिः स्वभावः कुशली भवेत् ।
त्रं निरधिकारि स्यात् इति नैयायिकाशयः ॥
दुःखनिवृत्तौ वा पुंसां भवति कामना ।
नुः व्योमपुष्पादि कश्चित्कामयते नरः ॥
नाशङ्कते यस्मात्फलं वापि समीहितम् ।
ऽविधेयस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥
मानापदेशेऽपि फलं यत्रावगम्यते ।
प्रवर्तते लोकः लिङादिष्वश्रुतेष्वपि ॥
र्यं पुनरेत्रेयं मीमांसकहृदि स्थितम् ।
साधनताबुद्ध्या प्रवर्तेत नरो यदि ॥
त्साङ्गे प्रवृत्तिः स्यात् निषिद्ध्येत तदा वधः ।
धेनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति ॥
वमूला प्रवृत्तिश्चेददोषाऽभ्युपगम्यते ।
श्रोत्थरागमूलाऽपि तादृक्स्यादिति तार्किकाः ॥
त्यारोग्यसंपत्तिर्भुञ्जानस्य हरीतकीम् ।
कामो भक्षयेच्चेति को विशेषः प्रवर्तने ॥
वयव्यतिरेकाभ्यां यदेवमनुमन्यते ।
कत्वं फलस्यैव न नियोगात्मनः पुनः ॥

प्रयोजनवाक्यार्थः 513
4 नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते ।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥
प्रेरणावगमादेव प्रवृत्तिर्यदि सिद्धयति ।
स्वर्गकामपदं तत्स्यादधिकारिविशेषणम् ॥
यो हि येन विना लोके न सिद्धयेत्स तमाक्षिपेत् ।
नियोज्यमात्राक्षेपे स्यान्नियोगो न फलात्मकः ॥
ननुच स्वर्गकामोऽत्र नियोज्यः नान्यथा भवेत् ।
यदि स्वर्गस्य संपत्तिं नाधिगच्छेत्स्वकर्मणः ॥
नरेच्छामात्रमेवेदं, न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥
विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे ।
भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥
अधिकार्यनुपादेयविशेषणविशेषितः ।
जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥
विधिवीर्यस्वभावस्तु क्रिमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥
प्रत्यवायपरीहारो वोपात्तदुरितक्षयः ।
फलं नित्ये, प्यन्यथा स्यादर्थानर्थाविवेकिता ॥
5 प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगो न दुर्वचः ॥
M.R. 65

14 मानमेयरहस्यश्लोकवार्तिके
करणांशोऽपि लिप्सातः प्रवृत्तिर्यद्युपेयते ।
इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत् ॥
नहि तत्करणं शुद्धं स्वफलायोपकल्पते ।
सेतिकर्तव्यताकं हि करणं करणं विदुः ॥
उभयत्रापि लिप्सातः सतिचैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता ॥
तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात् ।
न हिंस्यादिति सामान्यागोचरत्वावधारणा ॥
6 यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः ।
प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥
स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति ॥
फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥
7 गुणप्रधानानियमात् मिथस्संसृष्टलक्षणः ।
पदार्थ एव वाक्यार्थः स्यात्प्रयोक्तृविवक्षया ॥
क्वचित्साक्षात्पदोपात्तं क्वचित्प्रकरणागतम् ।
क्वचिदालोचनागम्यं फलं सर्वत्र गम्यते ॥
तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् ।
क्रियादीनां च तादर्थ्यात् तस्य वाक्यार्थतेष्यते