मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 550, कुल 672 में से
संदर्भ में पढ़ेंस्वर्गकामकृतेस्साध्यः स्वर्गकामनियोज्यकः ।
स्वर्गस्य साधनं याग इति बोधस्तु पश्चिमः ॥
यद्यप्यनुपपत्तेस्तु प्रतिसन्धानमुच्यते ।
तदुपादानमित्युक्तं धीरौपादानिकी ह्यसौ ॥
विध्याक्षेप उपादानं श्रुतार्थापत्तितः पृथक् ।
सा स्यादभिहितापर्यवसानाऽश्रुतकल्पना ॥
अभिधानानवसितिः उपादानमितीर्यते ।
तेनौपादानिकी त्युक्ता फलसाधनतामतिः ॥
इति प्रभाकरमतं वादारम्भसमर्थने ।
वादावळावन्ववादीदनन्तार्यबुधोत्तमः ॥
(104) निषेधवाक्यार्थः.
1 नञर्थस्य विचारेऽपि किंचिदत्र प्रकाश्यते ।
त्रिविधा हि नञो वृत्तिः कुमारिलमुखेरिता ॥
पर्युदासः तथाऽभावः प्रतिषेधस्तथेति च ।
पर्युदासस्स विज्ञेयः यत्रोत्तरपदेन नञ् ॥
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।
इति कैश्चिन्निरुक्तं हि तत्रार्थः फलितस्त्वसौ ॥
अन्योन्याभावबोधे तु पर्युदास इतीर्यते ।
अत्यन्ताभावबोधे तु प्रसज्यप्रतिषेधवाक् ॥