मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 540, कुल 672 में से
संदर्भ में पढ़ें498 | मानमेयरहस्यश्लोकवार्तिके
एकयैवहि बुद्ध्याऽसौ गृह्यते चित्ररूपया ।
पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया ॥
पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते ।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥
5 अभिधाभावनामाहुरन्यामेव लिङादयः ।
अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते ॥
प्रयत्नव्यतिरिक्त्तार्थभावना तु न शक्यते ।
वक्तुमाख्यातवाच्येति सिद्धान्तः राणकेरितः ॥
कार्यत्वान्तःप्रविष्टा या कृतिस्सैवहि भावना ।
स्वर्गादेर्भवितुर्भावयित्री स्याद्भावकाश्रिता ॥
तेन व्यापारसामान्यं पुंव्यापारनिबन्धनम् ।
इति सिद्ध्या स स्वभाववादो लौकायतो हतः ॥
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥
णिजर्थात्तु लिङर्थोऽसौ प्रेरणाऽस्ति विलक्षणा ।
ज्ञापकव्यापार एष स तु कारकसंश्रितः ॥
प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते ।
अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥
विधिः प्रवर्तकत्वाख्यस्वरूपस्योपपत्तये ।
स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥