सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 548, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 548

6 कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते ।
वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥
आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥
अतः पुरुषकारश्च दैवं च फलसाधनम् ।
मुख्यं दैवमपूर्वं स्यात् सहकारि तु पौरुषम् ॥
एवं नित्याधिकारादौ जीवनाद्येऽवधारिते ।
आत्मीयकार्यावगमात्प्रवृत्तिरुपपद्यते ॥
फलं फलतया नान्वीयते किंत्वधिकारिणः ।
विशेषणतयैवेति प्राभाकरविनिश्चयः ॥
एवं कामाधिकारार्थपर्यालोचनयोत्थिता ।
व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तौ निबन्धनम् ॥
तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके ।
तस्य त्वपूर्वरूपत्वं वेदवाक्यविमर्शजम् ॥
7 ननु लोकविरुद्धत्वं पक्षेऽस्मिन्नपि दृश्यते ।
सर्वदैव यतो लोके क्रियाकार्यं प्रतीयते ॥
यदि स्यातां विरोधस्स्यात् क्रियाकार्यत्वगोचरौ
प्रतिपत्तिप्रयोगौ तौ कार्येऽपूर्वेऽपि लौकिके ॥
प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति ।
क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥