सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 543, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 543

नियोगवाक्यार्थः 50
4 नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः ।
विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते ॥
विहिताकरणायत्तप्रत्यवायापनुत्तये ।
कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः ॥
तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम् ।
स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते ॥
5 कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः ।
फलक्लृप्तिः तत्प्रवृत्तिस्तस्माल्लिप्सार्थलक्षणा ॥
अतएवाधर्मतेति श्येनादेरिति निर्णयः ।
अर्थशब्दः प्रयुक्तोऽतः तादृशानर्थवारकः ॥
नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम् ।
अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः ॥
6 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते ।
निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥
तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलोदये ।
अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः ॥
विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति ।
तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥
नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः ।
विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः ॥