मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
अथ द्वितीयः प्रमाणकाण्डः।
(55) प्रमाणपरीक्षा.
1 अथ प्रमाणवादोऽयं संक्षेपेण निरूप्यते ।
तदधीनास्सर्वसिद्धीराहुस्सर्वेऽपि वादिनः॥
मानं मेयं मितिर्मातेत्येतदर्थचतुष्टयम् ।
दुर्निरूपं ततःशून्यमित्याहुर्मध्यमागमाः॥
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः॥
पदार्थानां स्वतो रूपं न किंचिदद्यवतिष्ठते ।
यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः ।
यथायथाऽर्थाश्चिन्त्यन्ते भविष्यन्ति तथातथा ॥
कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् ।
विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
M.R. 35
274 मानमेयरहस्यश्लोकवार्तिके
2 इत्येवमादीन् सिद्धान्तान् वदन्तीति पुरोदितम् ।
तत्र विप्रतिपन्नानां युक्तिर्नयविदामियम् ॥
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।
माने विप्रतिपन्नानां वादमार्गो निरुध्यते ॥
न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः ।
न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥
प्रमाणस्य प्रमाणेन बाधः स्वव्याहतेर्हतः ।
अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥
अहं सत्यं वदामीति स्वोक्तिः स्वपररक्षिणी ।
न कदाचिद्वदामीति वादस्तु स्वोक्तिबाधितः ॥
मानस्थापकमानस्य मानसंक्षोभकस्य च ।
गतिरेवमिति प्रेक्ष्य गहनां कुहनां त्यजेत् ॥
अथ वैतण्डिकस्यैषा सर्वसंक्षोभकस्य च ।
इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्ति वा न वा ॥
नास्तिचेन्नैव दूष्योऽन्योऽप्यस्तिचेत्तत्प्रसज्यते ।
इष्टानिष्टाविवेकस्तु तिरश्चामपि दुर्वचः ॥
3 लोके प्रमेयव्यत्यासः प्रमाणव्यत्ययागतः ।
अतः तत्त्वप्रबोधाय प्रवृत्ता मानचिन्तना ॥
प्रत्यक्षितसमस्तार्थैर्योगीन्द्रैरपि लङ्घ्यते ।
प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥
प्रमाणपरीक्षा 27
अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् ।
अविपर्याससंसिद्ध्यै शोध्यते मानपद्धतिः ॥
सर्वोपजीव्यमध्यक्षं मानं प्रथममिष्यते ।
तन्मूलमनुमानं स्यात् आगमस्तूभयाश्रितः ॥
उपमानादिकं मानं ततस्त्रितयमूलकम् ।
सर्वं त्वनन्यथासिद्धमूलमाश्रित्य वर्तते ॥
मानाधीना मेयसिद्धिः मानं मेयमपीष्यते ।
उपधेयस्य सांकर्येऽप्युपाधेर्न हि संकरः ॥
आत्माश्रयादिदोषस्तु व्यक्तिभेदादपोद्यते ।
इन्द्रियाणां च लिङ्गानां प्रभेदस्सर्वसम्मतः ॥
स्वत एवहि मानानां सिद्धिर्वेष्टा मनीषिभिः ।
धीरस्तीति मतौ शब्दशब्दे लक्षणलक्षणे ॥
इष्टः स्वपरनिर्वाहस्सर्वमित्यादिधीष्वपि ।
पूर्वपूर्वोपदिष्टाद्वा मानसिद्धिर्हि लक्षणात् ॥
ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥
4 व्यापकोऽसाधारणो वा धर्मो लक्षणमुच्यते ।
तदुपस्थापनेनाप्तवाक्यं ह्यापिच लक्षणम् ॥
व्यवहारव्यवस्थैव लक्षणस्य प्रयोजनम् ।
असाधारणधर्मो हि भवेद्व्यावृत्तिलक्षणः ॥
276 मानमेयरहस्यश्लोकवार्तिके
लक्षणादधिके भेदे क्ववाऽतीतत्वसंभवः ।
तस्यैव तत्त्वे किं केन किमर्थं साधनं भवेत् ॥
व्यावृत्तेश्च फलत्वे तु तदेवमवगम्यताम् ।
शरीरं पार्थिवं गन्धवत्त्वात् घटपटादिवत् ॥
शरीरमाप्यं न भवेत् गन्धादित्येवमादिषु ।
शरीरादेः पार्थिवत्वसंशयादेर्विशोधनम् ॥
एवं तदात्मना शङ्काविषयेष्वपि वस्तुषु ।
तल्लक्षणस्य राहित्यात्तदन्यत्वं हि सिद्धयति ॥
तस्यापि तेभ्यो वस्तुभ्यो व्यतिरेकः प्रसिद्धयति
लक्षणादेव तत्सिद्धेः व्यावृत्तिः फलमुच्यते ॥
तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् ।
लक्षणं, न प्रमाणात्मेत्येष लक्षणनिर्णयः ॥
अतो न मानताऽन्येषां केवलव्यतिरेकिणः ।
द्व्यंशोऽवरोपितो भारः तेषां हैतुकभञ्जने ॥
इति न्यायपरिशुद्धिकृतां लक्षणनिर्णयः ।
भावान्तराभावविदां सर्वेषामेष सम्मतः ॥
(56) प्रमाणस्वरूपम्.
1 प्रमाणशब्दव्युत्पत्तिः स्याद्भावे करणेऽपिच ।
प्रमा प्रमाणमित्येके विदुस्तत्करणं परे ॥
प्रमाणस्वरूपम् 27
तदन्यतरदित्यन्ये यथासंभवमिष्यते ।
करणस्य प्रमाणत्वे प्रमायाः फलता मता ॥
प्रमायास्तु प्रमाणत्वे व्यवहारस्य सेष्यते ।
व्यवहारो ह्युपादानोपेक्षाहानधियो मताः ॥
प्रमाकरणमेवात्र प्रमाणं बहवो विदुः ।
प्रमाविकल्पतश्चैतत्करणं च विकल्प्यते ॥
2 वैभाषिकैः पुनस्त्वर्थाधिगतिः फलमिष्यते ।
प्रमाणमर्थसारूप्यं प्रमागतमिदं यथा ॥
अर्थेन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।
तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
यथोत्पत्तावपि ज्ञानस्यास्ति प्रापकलक्षणः ।
व्यापारोऽवश्यवक्तव्यः पुमान्येन प्रवर्तितः ॥
अर्थोऽपि स्यात्प्रापितश्च सैषाऽर्थाधिगतिर्मता ।
अर्थसारूप्यात्मकस्य प्रमाणस्य फलं हि सा ॥
3 स्वसंवित्तिफलत्वं तु वदतां मतमुच्यते ।
प्राभाकरास्तु विषयसंवित्तिफलवादिनः ॥
विषयाकार एवास्य प्रमाणं तेन मीयते ।
स्वसंवित्तिः फलं चास्य तद्भूये ह्यर्थनिश्चयः ॥
इति सौत्रान्तिकमतं योगाचारमतं पुनः ।
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ॥
278 मानमेयरहस्यश्लोकवार्तिके
4 ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् ।
मतद्वयनिरासांशो वार्तिके त्वित्थमुच्यते ॥
विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् ।
साध्यसाधनयोः भेदः लौकिकः तेन बाधितः ॥
स्वाकारश्च स्वसंवित्तिं मुक्त्वा नान्यः प्रतीयते ।
प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥
स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते ।
प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ॥
अविसंवादनमिति केचित् बौद्धाः प्रचक्षते ।
इत्यतो विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ॥
5 बौद्धाः प्रमाणफलयोरत्यन्ताभेदवादिनः ।
यौगाः प्रमाणफलयोरत्यन्तं भेदवादिनः ॥
आर्हतायाः पुनर्भेदाभेदवादिन ईरिताः ।
आत्मनः परिणामोऽयं ज्ञानमित्यभिधीयते ॥
विशेषस्सहजो ह्येष गुण इत्यार्हतं मतम् ।
प्रमाणत्वेन परिणम्यात्मा फलतयाऽपिच ॥
स्यादन्यथा स्वपरयोः प्रमाणफलविप्लवः ।
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ॥
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।
इति स्याद्वादिसिद्धान्तः शिष्टमन्यत्र विस्तृतम् ॥
प्रमाणस्वरूपम् २७
६ नैयायिकानां सिद्धान्ते प्रमाणमपि चेश्वरः ।
तत्साधनादाश्रयाच्चाप्यतिरिक्तत्वमिश्रितम् ॥
प्रमाव्याप्तं प्रमाणं स्यात् साधनं त्विन्द्रियादिकम्
आश्रयस्त्वात्मवस्तु स्यात् तयोः प्रामाण्यनिर्णयः।
मितिस्सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता ।
तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥
७ अथ शाबरसिद्धान्ते प्रमाणमिदमुच्यते ।
या बुद्धिर्जायते पुंसः प्रमाणं सैव कथ्यते ॥
बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
इति शाक्यविकल्पस्य भङ्गार्थमिदमुच्यते ।
पुमान् विक्रियते चैवेतीष्यते बुद्धिजन्मना ॥
न तद्विकारमात्रेण वस्तुनो नाशसंभवः ।
कुण्डलादिविकारेऽपि सुवर्णादिपदार्थवत् ॥
उपादानदशाभेदः वस्तुनो जननक्रिया ।
यस्य चानन्तरं सत्ता कार्यस्येत्यवगम्यते ॥
कारणे समवायस्तु कार्यस्यौलूक्यसम्मतः ।
स नित्योऽतीन्द्रियश्चाक्षानधीन इति दूषणम् ॥
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः ।
प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ॥
280 मानमेयरहस्यश्लोकवार्तिके
बुद्धेर्जन्मैव विषये व्यापार इति कीर्त्यते ।
तदेवच प्रमारूपं तद्वती करणं च धीः ॥
ततश्च जायमाना सा प्रमाणं बुद्धिरिष्यते ।
अतश्च बुद्धिर्जन्मेति सूत्रयामास जैमिनिः ॥
४ सिद्धान्तस्यास्य विवृतिः कुमारिलमता यथा ।
ज्ञानं नाम क्रिया काचित्पुंसो व्यापारलक्षणा ॥
चितिशक्तेः कार्यभूता विकारः सूक्ष्म इष्यते ।
फलानुमेया तस्याश्च फलं स्यादर्थदृष्टता ॥
तामावरणभङ्गोक्त्योपचरन्ति बुधाः परे ।
धात्वर्थफलशालित्वं कर्मत्वमिति शिक्षिताः ॥
कारकाणां मिथो योगः स्यात्क्रियागर्भ एवहि ।
स्थाल्यादीनि हि सिद्धानि साध्यं धात्वर्थलक्षणम् ॥
पाकमेकं पुरस्कृत्य संसृज्यन्ते यथा मिथः ।
आत्मेन्द्रियमनोवस्तुसन्निकर्षादयस्तथा ॥
कुर्वन्ति कंचिद्व्यापारं सुसूक्ष्मं ज्ञानलक्षणम् ।
इति कौमारिलमते ज्ञानतत्त्वं सुनिश्चितम् ॥
शब्दाधिकरणे चैतच्छ्रूयते श्लोकवार्तिकम् ।
बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः ॥
नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः ।
व्याख्यात्रा विषयार्थोऽत्र सूक्ष्मः व्यापार ईरितः ॥
प्रमाणवादः 281
9 प्राभाकरमते चापि क्रियैव ज्ञानलक्षणा ।
तस्याः विषयसंवित्तिः फलमभ्युपगम्यते ॥
संवित्तौ फलरूपायां प्रकाशात्मस्वभावतः ।
स्वरूपं भासते ग्राह्यरूपत्वेन घटादिकम् ॥
आत्मा तु ग्राहकत्वेन घटं जानाम्यहं त्विति ।
आकारस्संविदो ज्ञेय एष तन्मतसंग्रहः ॥
10 अथ सांख्यादिसिद्धान्ते प्रमाणपरिशोधनम् ।
अर्थोपलब्धिकरणं प्रमाणमिति तन्मतम् ॥
लक्षणं तद्विवरणं किंचिदत्र प्रदर्श्यते ।
विषयाकारिणी बुद्धिवृत्तिर्ज्ञानमितीर्यते ॥
बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायस्तु स स्मृतः ।
इदं तावत्प्रमाणं स्यात् प्रबोधोऽनुग्रहः फलम् ॥
अनुग्रहश्च चिच्छक्तेः छायाऽऽपत्त्याऽर्थयोगिता ।
अतः पदार्था भिद्यन्ते बुद्धिज्ञानोपलब्धयः ॥
11 एतन्मतनिराकृत्यै गौतमेन हि सूत्रितम् ।
बुद्ध्यादित्रितयं चैतदनर्थान्तरमित्यपि ॥
अन्तःकरणवृत्तीनां बहिःकरणवृत्तिवत् ।
न ज्ञानताऽन्यथा भूतचैतन्यं स्यादुरुद्धरम् ॥
आत्मनो हि गुणः ज्ञानं न क्रियेति हि तन्मतम् ।
आगमश्चाप्यपायश्च स्यातां तस्य निरन्वयौ ॥
M.R. 36
282 मानमेयरहस्यश्लोकवार्तिके
12 वैशेषिकमतेऽप्येवमथौपनिषदे मते ।
निर्विशेषविदः प्राहुः सच्चिदानन्दलक्षणा ॥
अनुभूतिः स्वप्रकाशा ब्रह्मात्मा ज्ञानमुच्यते ।
संविदेषा प्रकाशैकस्वरूपा सिद्धयति स्वतः ॥
प्रकाशरूपस्सविता स्वप्रकाशो यथोच्यते ।
निवृत्तगतिरप्यद्रिस्तिष्ठतीति यथोच्यते ॥
तथा स्वयंप्रकाशाऽसावित्युक्तिस्त्वौपचारिकी ।
प्रायेणापोहवादेन साध्यते निर्विशेषता ॥
परागर्थप्रमेयेषु या फलत्वेन सम्मता ।
संवित्सैव हि सिद्धान्तः वेदान्तोक्तिप्रमाणतः ॥
इति वार्तिककारोक्तिस्सिद्धिद्वय उदाहृता ।
वृत्तिज्ञानं तु सांख्यादिसिद्धान्तवदपीष्यते ॥
स्वरूपभिन्नं ज्ञानाख्यं द्रव्यमात्माश्रितं सदा ।
प्रभावतः प्रभेवेति विशिष्टाद्वैतिनो विदुः ॥
धर्मभूतं च तत् ज्ञानं परिणामीत्युपेयते ।
यथा सांख्यमते चित्तं, तत्सर्वं धर्मधीर्मता ॥
द्वैतिभिस्तु स्वरूपस्य साक्षित्वात् ज्ञानतेष्यते ।
प्रसाददैन्यप्रमुखावस्था अप्यात्मनो मताः ॥
तथाऽपि तन्नित्यतायाः विरोधो नैव कश्चन ।
यथाऽऽत्मा शाबरो नित्यः प्रायस्सर्वैस्तथेष्यते ॥
प्रमाणविभागः 283
तथैव वृत्तिधीवादः सांख्यानामिव सम्मतः ।
सांख्यशाबरसिद्धान्तसमवाय इति स्थितम् ॥
यथार्थत्वं प्रमाणस्य लक्षणं परिकीर्तितम् ।
असतोऽपि भ्रमे भानोपगमान्न यथार्थता ॥
(57) प्रमाणविभागः.
1 प्रत्यक्षमेकं चार्वाकाः प्रमाणं प्रतिपेदिरे ।
अतीन्द्रियपदार्था ये न विद्यन्ते हि तन्मते ॥
तेष्वेवैकेऽनुमानस्याप्यत्रान्तर्भाववादिनः ।
अनुमानप्रमाणोदेरप्रामाण्यं परे विदुः ॥
प्रत्यक्षमनुमानं च काणादास्सौगता अपि ।
आगमः पौरुषेयत्वान्न ताभ्यामतिरिच्यते ॥
तत्र पूर्वेऽनुमाने हि शब्दान्तर्भावमूचिरे ।
अप्रामाण्यं परे केचिदन्तर्भावं तु केचन ॥
ते चागमं च सांख्याद्या अपि भूषणयायिनः ।
पूर्वेऽनादिं वेदमाहुः परे त्वीश्वरनिर्मितम् ॥
तानि स्मृतिं च काणादाः केचित् केचिच्च वैदिकाः
सोपमानानि तान्याहुः स्मृतिहीनानि गौतमाः ॥
आगमः पौरुषेयोऽपि स्वतन्त्रः समयान्मतः ।
संकेतग्राहकत्वेनोपमानमपि तन्मतम् ॥
284 मानमेयरहस्यश्लोकवार्तिके
तानि सार्थापत्तकानि प्राहुः प्राभाकराः पुनः ।
अर्थापत्त्याऽतीन्द्रियार्थास्सिद्धयन्तीति हि तन्मतम्
सादृश्यस्यातिरिक्तत्वादुपमानं पृथङ्कृतम् ।
अभावानभ्युपगमात् षष्ठं मानं न चाहतम् ॥
तान्येवाभावषष्ठानि विदुः कौमारिलाः पुनः ।
मेयानुसारान्मानस्य भिन्नता तैर्विचिन्तिता ॥
संभवैतिह्ययुक्तानि तानि पौराणिका विदुः ।
ऐतिह्येन ह्यनेकेऽर्थाः पौराणिकमते मताः ॥
लिपिः लोकप्रसिद्धिश्च चेष्टा प्रातिभमेवच ।
अन्यैश्चान्यैः स्वतन्त्रैर्हि मानान्तरमितीष्यते ॥
स्वयंसिद्धं च दिव्यं च प्रत्यक्षमनुमाऽऽगमः ।
इति पञ्चविधं केचित्प्रमाणं प्रविविश्चते ॥
स्पष्टास्पष्टविभेदेन प्रमाणद्वयवादिनः ।
जैनास्त एव प्रत्यक्षपरोक्षद्वयवादिनः ॥
स्मरणप्रत्यभिज्ञानुमानतर्कागमैः परम् ।
पञ्चप्रकारमित्याहुः पूर्वं त्विन्द्रियभेदतः ॥
प्रत्यक्षं च परोक्षं चापरोक्षमिति भेदतः ।
आत्माऽपरोक्षसंसिद्ध इत्यौपनिषदा विदुः ॥
केवलं चानुप्रमाणं चेति द्वेधा विभज्यते ।
प्रमाणमिति सिद्धान्तः जयतीर्थबुधैरितः ॥
प्रमाणप्रक्रियेदानीमियमेषोपलभ्यते ।
पूर्वापरे ह्यनन्तेऽस्मिन् काले कोऽङ्गीकरोति किम्।
निराकरोति वा कः किं देवो जानाति सर्ववित् ।
2 विभागान्तरसारांशः प्राज्ञैस्त्वित्थं विशोधितः ॥
बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः ।
द्वैधक्लृप्तौ घटादावप्येवमेव प्रसज्यते ॥
अनुमाऽनुमानत्वशब्दाशब्दविभागतः ।
प्रत्यक्षत्वापरोक्षत्ववादिनां किं न रोचते ॥
स्पष्टमस्पष्टमिति च जैना यद्वैधमूचिरे ।
तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥
अतो न तावति द्वैधे विवादोऽस्ति हि साधिते ।
परोक्षस्यैकमानत्वं दुर्वचं भेददर्शनात् ॥
3 नन्वध्यक्षेऽपि भेदोऽस्ति बाह्यान्तरविभागतः ।
दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयाऽपि च ॥
अत्रेन्द्रियानपेक्षं यत् ज्ञानमर्थावभासकम् ।
दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।
सञ्जयार्जुनवाल्मीकिप्रभृत्यार्षधियोऽपि तत् ॥
तद्वत्परोक्षस्यैकस्य प्रमाणस्य विभागतः ।
अनुमानागमाद्याख्याः न भवेयुः कुतो भिदाः ॥
286 मानमेयरहस्यश्लोकवार्त्तिके
अत्रोच्यते श्रुतं दृष्टमेतज्ज्ञानुमितं त्विति ।
लोकोक्त्या चोपलम्भेन त्रित्वादि प्रतिपेदिरे ॥
अतस्स्मृत्यनुभूत्याख्याविभागादपि नोचिता ।
प्रमाणद्वित्वमित्युक्तिः भूयसां दृष्टिरिष्यते ॥
4 प्रामाण्यमविसंवाद इति सौगतपद्धतिः ।
प्रमेयाव्यभिचारित्वं प्रामाण्यमिति चार्हताः ॥
प्रामाण्यमर्थताथार्थ्यं विपरीतं विपर्ययः ।
तदर्थस्थमपि ज्ञानसंबद्धमिति वैदिकाः ॥
अर्थनिश्चायकत्वं स्यात्प्रामाण्यमिति तार्किकाः ।
यथार्थविषयत्वं तत्स्यादित्यन्ये विदुर्बुधाः ॥
तद्वद्विशेष्यकत्वेनावच्छिन्ना तत्प्रकारिता ।
इति नव्यविनिष्कर्षः विशेष्यांशः स्वतः मतः ॥
प्रामाण्यमर्थजन्यत्वमप्रामाण्यमनर्थजम् ।
इत्यपि व्यवहारोऽस्ति जयन्तादिमनीषिणाम् ॥
अर्थक्रियाकारिता तन्मतमित्यपरे विदुः ।
प्रवृत्तेर्वा निवृत्तेर्वा स्यात्प्रयोजकता तु तत् ॥
इत्याहुरपरे प्राज्ञाः ते चाधिगतिवादिनः ।
सर्वप्रमाणप्रामाण्यमेतादृगिति केचन ॥
शब्दप्रमाणप्रामाण्यमेतादृक्षमितीतरे ।
एवं विकल्पबीजं तु पुरस्तादवधार्यते ॥
(58) स्वतस्त्ववादिविचारः
1 प्रमाणत्वाप्रमाणत्वे स्वतः सांख्यास्समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥
प्रथमं परतः प्राहुर्वेदवादरताः पुनः ।
प्रामाण्यं स्वत एवाहुः परतश्चाप्रमाणताम् ॥
सामान्येन विभागोऽयं क्रमेणाथोपपादनम् ।
द्वयोस्स्वतस्त्वं वक्तॄणां सांख्यानामाशयस्त्वयम् ॥
सर्वं सवृत्तिकं चित्तं विदितं साक्षिणा सदा ।
गृहीते एव ते स्यातामेकत्वाद्धर्मधर्मिणोः ॥
अप्रामाण्ये गृहीतेऽपि प्रवृत्तिर्योपलभ्यते ।
मुग्धप्रवृत्तिवत्तत्र सैषा स्याद्वासनावशात् ॥
स्वतोऽसतामसाध्यत्वात् तत्स्वाभाविकमुच्यते ।
ज्ञप्त्युत्पत्त्यविवेकोऽपि सिद्धान्तस्यास्य साधनम् ॥
कार्यकारणभावस्य मीमांसायामयं स्फुटः ।
अथ सौगतसिद्धान्तसारांशोऽत्रोपपाद्यते ॥
2 अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः ।
वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजायते ॥
इत्युत्पत्तौ प्रसिद्धं हि परतस्त्वं विपश्चिताम् ।
अथ ज्ञप्तौ सत्त्वमर्थक्रियाकारित्वलक्षणम् ॥
व्याप्तं हि सत्त्वं भावानां क्रमतो यौगपद्यतः ।
नित्येषु तु पदार्थेषु व्यापकानुपलम्भनात् ॥
288 मानमेयरहस्यश्लोकवार्तिके
तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते ।
क्षणिकत्वेन तान् भावान् सत्त्वं समवलम्बते ॥
ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्यमपोद्यते ।
असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ॥
समर्थकारणज्ञानादयं प्रामाण्यनिश्चयः ।
इत्यतः परतस्त्वं तत्प्रामाण्यस्येति निर्णयः ॥
द्वितीयज्ञानसंवादादाद्यविज्ञानसंस्थितम् ।
प्रामाण्यं गृह्यत इति विदुः केचन सौगताः ॥
अप्रामाण्यस्य संवादः प्रायशो नैव दृश्यते ।
अप्रामाण्यं स्वत इति सिद्धान्तः तदभीप्सितः ॥
अर्थक्रिया वा संवादः गुणो वा परशब्दितः ।
. 3 अथ वैदिकसिद्धान्तः संग्रहेण विलिख्यते ॥
घटोऽस्तीत्यत्र विज्ञाने सन् घटो हि प्रतीयते ।
प्रामाण्यमर्थसद्भावः स तु स्वेनैव गृह्यते ॥
प्रज्ञायतेऽतः प्रामाण्यं स्वत इत्युच्यते बुधैः ।
अर्थक्रियाहेतुगुणसंवादैः क्रियते स्थिरम् ॥
अर्थान्यथात्वं नास्तित्वं अप्रामाण्यं तदिष्यते ।
न तत्प्रतीयते भ्रान्तौ बाधज्ञाने प्रतीयते ॥
अप्रामाण्यं परत इत्यतएवाभिधीयते ।
अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः ॥
[Header] स्वतस्त्ववादिविचारः 289
वस्तुत्वाद्द्विविधस्यात्र संभवो दुष्टकारणात् ।
अविज्ञाने तु दोषाणां व्यापारो नैव कल्प्यते ॥
कारणाभावतस्त्वेव तत्सिद्धं सौगतोक्तिवत् ।
स्वतः परत इत्यस्य तत्त्वमित्थं बुधा विदुः ॥
तस्मात्सर्वप्रमाणानां प्रामाण्यं स्वतः इष्यते ।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥
अपिचेतरसंवादात्पूर्वपूर्वप्रमाणताम् ।
वदन्तो नाधिगच्छेयुः अन्त युगतैरपि ॥
सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित् ।
स्वतएवाभिधीयेत को द्वेषः प्रथमं प्रति ॥
अर्थक्रियाचेत्संवादः स्वप्ने सीमन्तिनीं विना ।
नस्याद्धातुविसर्गोऽपि व्यभिचारो महानयम् ॥
अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया ।
कृतक्षौरस्य नक्षत्रपरीक्षावद्वृथा भवेत् ॥
तत्रापि नाप्रवृत्तस्य प्रामाण्यपरिनिश्चयः ।
एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥
तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयः ।
तन्निश्चयात्प्रवृत्तिस्स्यात्प्रवृत्तेस्तदिनिश्चयः ॥
उत्सर्गः ज्ञानसम्यक्त्वं भूयोविषयलक्षणम् ।
अपवादो वैपरीत्यं विषयाल्पत्वलक्षणम् ॥
[Footer] M.R. 37
290 मानमेयरहस्यश्लोकवार्तिके
यत्तत्त्वपक्षपातोऽस्ति स्वभावो हि धियामयम् ।
अनुपप्लवभूतार्थस्वभावस्य विपर्ययैः ॥
न बाधोऽयत्तत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ।
इत्याहुरपि बाह्याश्च स्यात्प्रमाणं ततः स्वतः ॥
दोषतश्चाप्रमाणत्वे स्वतःप्रामाण्यवादिनाम् ।
गुणज्ञानानवस्थावत् न दोषेषु प्रसज्यते ॥
साक्षाद्विपर्ययज्ञानाल्लघ्वेव त्वप्रमाणता ।
पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति ॥
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्रार्थ्यते तावतैवैंकं स्वतः प्रामाण्यमश्रुते ॥
4 अख्यातिपक्षे सर्वत्र सम्यग्ग्रहणं भ्रमः ।
न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥
अजातमिथ्याशङ्कश्च न संवादमपेक्षते ।
तस्मान्न कश्चित्परतः प्रामाण्यमधिगच्छति ॥
एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः ।
नेदं रजतमित्यत्र बाधार्थस्त्ववगम्यताम् ॥
यदेवेदं तदेवात्र रजतं त्विति नावितु ।
विविक्तं स्यादिदमिदं रजतं रजतं त्विति ॥
5 अत्र नैयायिकाः प्राहुः परतो द्वयवादिनः ।
प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम् ॥
स्वतस्त्ववादिविचारः 291
अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात्प्रवर्तते ।
अतो द्वयं स्वत इति पक्षोऽस्मभ्यं न रोचते ॥
प्रयोजनस्य सिद्धत्वात्तत्परीक्षानपेक्षणात् ।
नान्योन्यसंश्रयो नानवस्था वाऽत्र प्रसज्यते ॥
कौमारिलमतेऽप्येवमनवस्था दुरुद्धरा ।
प्रामाण्यं ज्ञाततालिङ्गजन्यज्ञानेन गृह्यते ॥
तत्प्रामाण्यं तादृशेनेत्यनवस्था न किं नु सा ।
स्वयंभानज्ञानवादिप्रभाकरगुरोर्मते ॥
प्रामाण्यस्य स्वतस्त्वं यत्तन्मानान्तरगोचरः ।
तत्प्रामाण्यस्वतस्त्वं चाप्येवं सैषाऽनवस्थितिः ॥
तादृग्ज्ञानानपेक्षायामस्माकं सैव पद्धतिः ।
रागोद्वेगात्पित्तधातुविकाराद्वा विसर्ज्यते ॥
स्वप्ने तु चरमो धातुः न दोषोऽतः प्रसज्यते ।
स्वतःपरत इत्यस्य विवादस्य फलं त्विदम् ॥
वेदस्यापौरुषेयत्वपौरुषेयत्वनिर्णयः ।
6 अत्र वेदान्तसिद्धान्ते विशेषांशोऽवधार्यताम् ॥
कथं पुनरनभ्यासद्शायां तस्य संशयः ।
इत्याशङ्का विपश्चिद्भिरेवमत्र समाहिता ॥
विशेषतो गृह्यमाणेष्वपि संशयदर्शनम् ।
अभीक्ष्णं शुक्तिकामोहाऽन्धीकृतधियां मतम् ॥
292 मानमेयरहस्यश्लोकवार्तिके
यथोपलभ्यमानेऽपि कलधौतेऽस्ति संशयः ।
यथेदं रजतं वाऽथ पूर्ववच्छुक्तिरेव वा ॥
तथाऽत्र गृह्यमाणेऽपि प्रामाण्ये किमियं प्रमा ।
उत पूर्वभ्रमवदप्रमा वेति हि संशयः ॥
अथात्र संदेहसहस्वतोग्रहणतः फलम् ।
किंवा स्यान्निश्चयस्त्वन्याधीन एवेति चेच्छृणु ।)
शक्यं नियन्तुं ग्रहणमिह नास्मदपेक्षया ।
सिद्ध एवानुसर्तव्यः तत्प्रकारः परीक्षकैः ॥
7 सोऽपि स्वतः कथं सिद्ध इति चेदवधार्यताम् ।
अस्ति स्वालम्बनं ज्ञानं प्रकाशयदिति स्फुटम् ।
ज्ञानान्तरानपेक्षं तत्स्वयमेव प्रकाशते ।
इतितावत्स्वप्रकाशवादिवेदान्तिसम्मतम् ॥
अस्वप्रकाशवादेऽपि व्यवसायो हि गृह्यते ।
प्रागनुव्यवसायेनासंशयात्मैव केवलम् ॥
स्मृत्यप्रामाण्यवादेऽपि स चापूर्वार्थगोचरः ।
अबाधितोऽविपर्यस्तः मतः स्मृतिविलक्षणः ॥
ततो यद्विषयत्वेन व्यवसायः प्रकाशते ।
परस्परपरिक्षोदात्पश्चादपि तथैव सः ॥
यत्तद्विषयतारूपं प्रामाण्यं व्यवतिष्ठते ।
आदावेव गृहीतं तत्स्वतः प्रामाण्यमुच्यते ॥