मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 327, कुल 672 में से
संदर्भ में पढ़ेंप्रमाणप्रक्रियेदानीमियमेषोपलभ्यते ।
पूर्वापरे ह्यनन्तेऽस्मिन् काले कोऽङ्गीकरोति किम्।
निराकरोति वा कः किं देवो जानाति सर्ववित् ।
2 विभागान्तरसारांशः प्राज्ञैस्त्वित्थं विशोधितः ॥
बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः ।
द्वैधक्लृप्तौ घटादावप्येवमेव प्रसज्यते ॥
अनुमाऽनुमानत्वशब्दाशब्दविभागतः ।
प्रत्यक्षत्वापरोक्षत्ववादिनां किं न रोचते ॥
स्पष्टमस्पष्टमिति च जैना यद्वैधमूचिरे ।
तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥
अतो न तावति द्वैधे विवादोऽस्ति हि साधिते ।
परोक्षस्यैकमानत्वं दुर्वचं भेददर्शनात् ॥
3 नन्वध्यक्षेऽपि भेदोऽस्ति बाह्यान्तरविभागतः ।
दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयाऽपि च ॥
अत्रेन्द्रियानपेक्षं यत् ज्ञानमर्थावभासकम् ।
दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।
सञ्जयार्जुनवाल्मीकिप्रभृत्यार्षधियोऽपि तत् ॥
तद्वत्परोक्षस्यैकस्य प्रमाणस्य विभागतः ।
अनुमानागमाद्याख्याः न भवेयुः कुतो भिदाः ॥