मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 320, कुल 672 में से
संदर्भ में पढ़ें278 मानमेयरहस्यश्लोकवार्तिके
4 ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् ।
मतद्वयनिरासांशो वार्तिके त्वित्थमुच्यते ॥
विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् ।
साध्यसाधनयोः भेदः लौकिकः तेन बाधितः ॥
स्वाकारश्च स्वसंवित्तिं मुक्त्वा नान्यः प्रतीयते ।
प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥
स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते ।
प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ॥
अविसंवादनमिति केचित् बौद्धाः प्रचक्षते ।
इत्यतो विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ॥
5 बौद्धाः प्रमाणफलयोरत्यन्ताभेदवादिनः ।
यौगाः प्रमाणफलयोरत्यन्तं भेदवादिनः ॥
आर्हतायाः पुनर्भेदाभेदवादिन ईरिताः ।
आत्मनः परिणामोऽयं ज्ञानमित्यभिधीयते ॥
विशेषस्सहजो ह्येष गुण इत्यार्हतं मतम् ।
प्रमाणत्वेन परिणम्यात्मा फलतयाऽपिच ॥
स्यादन्यथा स्वपरयोः प्रमाणफलविप्लवः ।
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ॥
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।
इति स्याद्वादिसिद्धान्तः शिष्टमन्यत्र विस्तृतम् ॥