मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 331, कुल 672 में से
संदर्भ में पढ़ें[Header] स्वतस्त्ववादिविचारः 289
वस्तुत्वाद्द्विविधस्यात्र संभवो दुष्टकारणात् ।
अविज्ञाने तु दोषाणां व्यापारो नैव कल्प्यते ॥
कारणाभावतस्त्वेव तत्सिद्धं सौगतोक्तिवत् ।
स्वतः परत इत्यस्य तत्त्वमित्थं बुधा विदुः ॥
तस्मात्सर्वप्रमाणानां प्रामाण्यं स्वतः इष्यते ।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥
अपिचेतरसंवादात्पूर्वपूर्वप्रमाणताम् ।
वदन्तो नाधिगच्छेयुः अन्त युगतैरपि ॥
सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित् ।
स्वतएवाभिधीयेत को द्वेषः प्रथमं प्रति ॥
अर्थक्रियाचेत्संवादः स्वप्ने सीमन्तिनीं विना ।
नस्याद्धातुविसर्गोऽपि व्यभिचारो महानयम् ॥
अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया ।
कृतक्षौरस्य नक्षत्रपरीक्षावद्वृथा भवेत् ॥
तत्रापि नाप्रवृत्तस्य प्रामाण्यपरिनिश्चयः ।
एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥
तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयः ।
तन्निश्चयात्प्रवृत्तिस्स्यात्प्रवृत्तेस्तदिनिश्चयः ॥
उत्सर्गः ज्ञानसम्यक्त्वं भूयोविषयलक्षणम् ।
अपवादो वैपरीत्यं विषयाल्पत्वलक्षणम् ॥
[Footer] M.R. 37