मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 329, कुल 672 में से
संदर्भ में पढ़ें(58) स्वतस्त्ववादिविचारः
1 प्रमाणत्वाप्रमाणत्वे स्वतः सांख्यास्समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥
प्रथमं परतः प्राहुर्वेदवादरताः पुनः ।
प्रामाण्यं स्वत एवाहुः परतश्चाप्रमाणताम् ॥
सामान्येन विभागोऽयं क्रमेणाथोपपादनम् ।
द्वयोस्स्वतस्त्वं वक्तॄणां सांख्यानामाशयस्त्वयम् ॥
सर्वं सवृत्तिकं चित्तं विदितं साक्षिणा सदा ।
गृहीते एव ते स्यातामेकत्वाद्धर्मधर्मिणोः ॥
अप्रामाण्ये गृहीतेऽपि प्रवृत्तिर्योपलभ्यते ।
मुग्धप्रवृत्तिवत्तत्र सैषा स्याद्वासनावशात् ॥
स्वतोऽसतामसाध्यत्वात् तत्स्वाभाविकमुच्यते ।
ज्ञप्त्युत्पत्त्यविवेकोऽपि सिद्धान्तस्यास्य साधनम् ॥
कार्यकारणभावस्य मीमांसायामयं स्फुटः ।
अथ सौगतसिद्धान्तसारांशोऽत्रोपपाद्यते ॥
2 अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः ।
वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजायते ॥
इत्युत्पत्तौ प्रसिद्धं हि परतस्त्वं विपश्चिताम् ।
अथ ज्ञप्तौ सत्त्वमर्थक्रियाकारित्वलक्षणम् ॥
व्याप्तं हि सत्त्वं भावानां क्रमतो यौगपद्यतः ।
नित्येषु तु पदार्थेषु व्यापकानुपलम्भनात् ॥