सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 325, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 325

प्रमाणविभागः 283
तथैव वृत्तिधीवादः सांख्यानामिव सम्मतः ।
सांख्यशाबरसिद्धान्तसमवाय इति स्थितम् ॥
यथार्थत्वं प्रमाणस्य लक्षणं परिकीर्तितम् ।
असतोऽपि भ्रमे भानोपगमान्न यथार्थता ॥
(57) प्रमाणविभागः.
1 प्रत्यक्षमेकं चार्वाकाः प्रमाणं प्रतिपेदिरे ।
अतीन्द्रियपदार्था ये न विद्यन्ते हि तन्मते ॥
तेष्वेवैकेऽनुमानस्याप्यत्रान्तर्भाववादिनः ।
अनुमानप्रमाणोदेरप्रामाण्यं परे विदुः ॥
प्रत्यक्षमनुमानं च काणादास्सौगता अपि ।
आगमः पौरुषेयत्वान्न ताभ्यामतिरिच्यते ॥
तत्र पूर्वेऽनुमाने हि शब्दान्तर्भावमूचिरे ।
अप्रामाण्यं परे केचिदन्तर्भावं तु केचन ॥
ते चागमं च सांख्याद्या अपि भूषणयायिनः ।
पूर्वेऽनादिं वेदमाहुः परे त्वीश्वरनिर्मितम् ॥
तानि स्मृतिं च काणादाः केचित् केचिच्च वैदिकाः
सोपमानानि तान्याहुः स्मृतिहीनानि गौतमाः ॥
आगमः पौरुषेयोऽपि स्वतन्त्रः समयान्मतः ।
संकेतग्राहकत्वेनोपमानमपि तन्मतम् ॥