सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

24 मानमेयरहस्यश्लोकवार्तिके
यस्मिन्नेव हि संताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम्
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥
बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
अत्यन्तमलिनः कायः देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥
2 निर्धर्मका निराधारा निर्मूर्त्तिश्चित्तसंततिः ।
प्रतिक्षणं जायमाना दीपसन्तानसन्निभा ॥
ज्वालाबुद्बुदवद्वृत्तिः मातृकुक्षिप्रवेशभाक् ।
सा ततो विषयज्ञप्तिः चित्ताभिज्वलनात्मिका ॥
कामक्रोधौ लोभमोहौ रागद्वेषौ च सैव हि ।
रागो द्वेषश्च मोहश्च यद्युत्कटदशां गतः ॥
कामः क्रोधो लोभ इति व्यवहारस्य गोचरः ।
देवासुरमनुष्याणां भेदोऽतो गुणभेदतः ॥
आत्मा यद्यप्रतीत्य स्यात्क्लेशानां नैव संक्षयः ।
अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ।
आत्मग्रहो महामोहः प्रथमं तन्निवृत्तितः ।
मम किं नाहमेवेति विरंस्यति ममग्रहः ॥

सांख्यात्मा
तस्मादादावहंकारममकारप्रहाणतः ।
निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम् ॥
(29) सांख्यात्मा.
1 अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते ।
विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत् ॥
श्रुतिर्ह्यपौरुषेयेषा कल्पादौ कपिलादिभिः ।
स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत् ॥
तथा स्मृतीतिहासाद्याः प्रमाणं वेदमूलकाः ।
प्रकृतेः पुरुषस्यापि विवेकस्तैर्विशोध्यते ॥
तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम्
निरन्तरं दीर्घकालमादरेण च सेवितात् ॥
साक्षात्काराच्च विज्ञानान् मुच्यते भावनामयात्
अभेदधीरुपायेयाऽन्येषामेषां तु भेदधीः ॥
2 तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा ।
अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे ॥
अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत्
परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत् ॥
तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता ।
नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः ॥

स व्यापकपरार्थत्वव्यावृत्त्या चागुणो मतः ।
पुरुषोऽयमधिष्ठाता बुद्ध्यादेरगुणत्वतः ॥
भोक्ता च पुरुषस्सिद्धयेत् बुद्ध्यादेर्भोक्त्रभावतः ।
पुमान्न कस्यचित्कर्ता किन्तु भोक्तैव केवलम् ॥
इति सांख्यास्त्वाहुरिति न्यायरत्नाकरोदितम् ।
द्रष्टा वा पुरुषश्रेष्ठः बुद्ध्यादेर्दृश्यभावतः ॥
शास्त्राणां च महर्षीणामन्येषां दिव्यचक्षुषाम् ।
कैवल्यार्थं प्रवृत्तेश्च स्यात्पुमान् प्रकृतेः परः ॥
दुःखात्मका हि बुद्ध्यायाः स्वभावो दुरतिक्रमः ।
वियोगश्शक्यसंपादः पुरुषस्यातदात्मनः ॥
तस्माद्योऽस्ति स आत्मेति सिद्धः सत्त्वविलक्षणः ।
सुखदुःखव्यवस्थातः नाना सर्वगतश्च सः ॥
शरीरभेदाद्भेदश्चेत्स्यात्पाण्यादिविभेदतः ।
मध्यस्थः केवलः साक्षी द्रष्टाऽकर्तेति निश्चितः ॥
चिदभिव्यक्तिचित्सङ्गचिच्छायापत्तिलक्षणात् ।
संनिधेः बुद्धिरप्येषाऽचेतना चेतनायते ॥
विमृश्य शास्त्रयुक्त्यैवं कूटस्थं ज्ञानलक्षणम् ।
साक्षात्कृत्वाऽन्यताख्यात्याऽनन्तं कैवल्यमश्नुते ।
इति कापिलसिद्धान्तसिद्धः पुरुष ईरितः ।
प्रमेयसंग्रहोक्तं यत्तदप्यत्रोपयुज्यताम् ॥

(30) वैशेषिकात्मा.

1 कणादीयात्मचर्चायां यत्तु संगृह्य भाषितम् ।
सम्यक् प्रशस्तपादेन क्रियते तस्य संग्रहः ॥
अप्रत्यक्षोऽपि सौक्ष्म्येण युक्त्याऽसावधिगम्यते ।
शब्दोपलब्ध्यनुमितश्रोत्रादि करणं पुनः ॥
कर्तृप्रयोज्यं वास्यादि करणं सर्वसम्मतम् ।
प्रयोजकश्च श्रोत्रादेः करणस्यानुमीयते ॥
मनश्शरीरेन्द्रियाणामज्ञत्वान्न प्रयोक्तृता ।
शरीरस्य न चैतन्यं भौतिकत्वाद्धटादिवत् ॥
इन्द्रियाणां न चैतन्यं करणत्वेन कल्पनात् ।
क्वचिद्विनष्टेष्वेतेषु विषयासन्निधावपि ॥
अनुस्मृतिः कस्य भवेत् प्रयोक्त्र्यपिचासति ।
मनसश्च न चैतन्यं तस्यापि करणत्वतः ॥
करणान्तरक्लृप्तौ च यौगपद्यं धियां भवेत् ।
परिशेषात्स्वकार्येण ज्ञानेनात्माऽधिगम्यते ॥
प्रवृत्तिश्च निवृत्तिश्च शरीरसमवायिनी ।
हिताहितप्राप्तिपरिहारयोग्ये क्रिये हि ते ॥
ताभ्यां प्रयत्नवान् देहस्याधिष्ठाताऽनुमीयते ।
प्रयत्नवान् सारथिर्हि ज्ञायते रथकर्मणा ॥
वायौ देहगृहीते तु विकृतं कर्म दृश्यते ।
तेन भस्त्राध्मायितेव सिद्ध्यत्यात्मेति कथ्यते ॥

128 मानमेयरहस्यश्लोकवार्तिके

देहस्य वृद्धिसंभग्नक्षतसंरोहणादिभिः ।
गृहाध्यक्ष इवात्माऽपि देहाध्यक्षोऽनुमीयते ॥
यदिष्टादानकरणसंबन्धस्य नियामकम् ।
मनसः कर्म तेनापि सिद्धयत्यात्मा यथापुनः ॥
गृहकोणोपलप्रेरयितृदारकवत् तथा ।
दारुयन्त्रप्रयोक्तेव निमेषोन्मेषकर्मणा ॥
नायनालोचनात्पश्चाद्रसस्य स्मरणे सति ।
रसनं यत्क्रियते तेनात्मोभयबुद्धिमान् ॥
यथाऽनेकगवाक्षान्तर्गतेप्रेक्षक इष्यते ।
2 सुखेच्छाद्वेषयत्नैश्च गुणैर्गुण्यनुमीयते ॥
विषयेन्द्रियदेहादियोगं नार्हन्ति ते गुणाः ।
अयावद्द्रव्यभावित्वात् तथा प्रादेशिकत्वतः ॥
अहंकारेणैकवाक्यभावाभावात्तथैवच ।
बाह्येन्द्रियाप्रत्यक्षत्वात् अतिरिक्ताश्रया हि ते ।
यथा पृथिव्यादिशब्दाः पृथिव्याद्यर्थगोचराः ।
तथाहंशब्द इत्यादिरीति भाष्यार्थसंग्रहः ॥

(31) नैयायिकात्मा.

1 अथ गौतमसूत्रेषु तद्भाष्ये चापि पाक्षिले ।
निर्णीतं यच्चात्मतत्त्वं क्रियते तस्य संग्रहः ॥

[Header] नैयायिकात्मा 129

क्रियाकरणयोः कर्त्रा संबन्धस्यानुकीर्तनम् ।
व्यपदेशस्स द्विविधः प्रथमोऽयं निशम्यताम् ॥
प्रासादो ध्रियते स्तम्भैः वृक्षो मूलैश्च तिष्ठति ।
इत्यत्र समुदायस्यावयवेनानुकीर्तनम् ॥
तथैवान्येन चान्यस्य व्यपदेशोऽपि दृश्यते ।
प्रपश्यति प्रदीपेन कुठारेण प्रवृश्चति ॥
अत्रास्ति व्यपदेशोऽयं यथा पश्यति चक्षुषा ।
मनसा च विजानाति बुद्ध्या मीमांसते पुनः ॥
शरीरेण सुखं दुःखं तथाऽनुभवतीत्यपि ।
व्यपदेशस्योभयथा सिद्धेः तन्नावधार्यते ॥
किमत्रावयवेन स्यात् संघातस्यानुकीर्तनम् ।
अथवाऽन्येन चान्यस्येत्येवं संशयसंभवे ॥
2 यद्दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति ।
न्यायाचार्यकृतं सूत्रं तद्भाष्यमिह वर्ण्यते ॥
दर्शनेन गृहीतोऽर्थः स्पर्शनेनापि गृह्यते ।
यमद्राक्षं चक्षुषा तं स्पर्शनेन स्पृशाम्यहम् ॥
यं चास्पार्शं स्पर्शनेन तं पश्यामीह चक्षुषा ।
इत्येकविषयावेतौ प्रत्ययावेककर्तृकौ ॥
प्रतिसंधानविषयौ नच संघातकर्तृकौ ।
तथैव प्रत्ययावेतौ नेन्द्रियेणैककर्तृकौ ॥

[Footer] M.R. 17.

30 मानमेयरहस्यश्लोकवार्तिके
तयोऽसौ चक्षुषा चैव त्वचा चैकार्थलम्भुकः ।
अनन्यकर्तृकौ भिन्ननिमित्तौ प्रत्ययावपि ॥
यश्चापि प्रतिसन्धत्ते समानविषयाविमौ ।
सोऽर्थान्तरतया सिद्धः आत्मेत्याहुर्नयोत्तराः ॥
३ अथचास्यैव सूत्रस्य तात्पर्यार्थोऽवधार्यताम् ।
प्रामाण्यं प्रत्यभिज्ञायाः नित्यत्वमपि चात्मनः ॥
इन्द्रियाण्यपि नाना स्युः विभिन्नविषयान्यपि ।
तत्तद्ग्रहणलिङ्गानि ज्ञातुस्तत्करणान्यपि ॥
भेदश्च गुणगुण्यादेः द्रव्याधिकरणा गुणाः ।
चेतनाश्चाप्यनियताविषयास्स्युः तथैव च ॥
स्थिराः स्युः विषयाश्चापि चक्षुरादेश्च नात्मता ।
एतादृशार्था बहवः तत्त्वटीकाप्रदर्शिताः ॥
४ अथचाधुनिकन्यायाचार्यैर्योऽत्र प्रदर्शितः ।
निष्कर्षस्सोऽपिचात्रैव संक्षेपादवधार्यताम् ॥
प्रत्यक्षादिप्रमाणैर्यो व्यवहारस्स चात्मना ।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पना ॥
तत्र प्रत्यक्षमात्मानमौपवर्षाः प्रपेदिरे ।
अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन ॥
प्रत्यक्षत्वे कर्तृकर्मविरोधं केचिदूचिरे ।
लैङ्गिकत्वे कथं न स्यादात्मैवानुमिनोति हि ॥

नैय्यायिकात्मा 131
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।
एकाश्रयतया ज्ञातमनुसन्धातृबोधकम् ॥
ज्ञाते तत्राफलं लिङ्गं अज्ञाते तु न लिङ्गता ।
तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ॥
वृद्धागमानुसारेण संविदालोकनेन वा ।
अथवाऽभिनिवेशेन किमनेन प्रयोजनम् ॥
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनाऽऽत्मनः ।
शास्त्रेष्वनेकहेतूक्तिः न दोषाय कथास्विव ॥
नहि प्रत्यक्ष आत्मा किं त्वपरोक्ष इतीतरे ।
केवलं शब्दभेदोऽत्र तुच्छता वा प्रसज्यते ॥
सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥
5 तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते ।
रागद्वेषादयो दोषाः तन्मूलाः क्षयमाप्नुयुः ॥
क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।
तदभावान्न तत्कार्यं शरीराद्युपजायते ॥

132 | मानमेयरहस्यश्लोकवार्तिके
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।
अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥
स चेतनश्चिता योगात् तद्योगेन विना जडः ।
नार्थावभासादन्यद्धि चैतन्यं नाम विद्यते ॥
अधिकांशो मोक्षहेतुजिज्ञासायां निरूपितः ।
आम्रेडनं हि विदुषां भवेदालस्यकारणम् ॥
(32) मीमांसकात्मा.
1 अथ शाबरभाष्योक्तमात्मतत्त्वं विचिन्त्यते ।
यदेवचोपवर्षेण शारीरकनिरूपितम् ॥
नैरात्म्येनात्र चाक्षिप्ताः सर्वा एवहि चोदनाः ।
वेदप्रामाण्यसिद्धयर्थमात्माऽत्र प्रतिपाद्यते ॥
यजमानः स्वर्गलोकं याति यज्ञायुधीति वाक् ।
एतच्छरीरं यस्यासावात्मा तत्परतामियात् ॥
परैरभिहितान् पूर्वमात्महेतून्निरस्यति ।
न चेदहंप्रत्यये स्युर्दिश्यास्सामान्यदृष्टयः ॥
आह कोऽसावन्य आत्मा नैनं ह्युपलभामहे ।
एनं प्राणादिभिरुपलभामह इतीर्यते ॥
प्राणापानोच्छासनिमेषादिचेष्टितवांस्तु यः ।
शरीरे सोऽत्र यज्ञायुध्यादिशब्दैः विवक्षितः ॥

मीमांसकात्मा 133
शरीरगुणवैधर्म्यात् प्राणाद्याः न शरीरगाः ।
अयावद्द्रव्यभावित्वात् रूपाद्याः यावदाश्रयाः ॥
एवं देहात्मवादोऽयं चार्वाकाणां विदूषितः ।
२ अथ विज्ञानात्मवादः सौगतानां अनूद्यते ॥
एष संप्रत्ययः कस्मात् सुखादन्योऽवसीयते ।
सुखमेवात्मनो रूपं तद्वान् शशविषाणवत् ॥
अथोच्यते विना तेन सुखं कस्येति चेन्न तत् ।
न कस्यापीति वक्ष्यामः न तत्सप्रतियोगिकम् ॥
यथा सूर्यस्य चन्द्रस्य संबन्ध्यन्वेषणा वृथा ।
तथा सुखादेरन्योऽस्ति तद्वानिति न शोभनम् ॥
अथोपलब्धस्यावश्यं संबन्ध्यन्तरकल्पना ।
आत्मनः कल्पितस्यापि संबन्ध्यन्यः प्रसज्यते ॥
अव्यवस्थेति विज्ञाने विरन्तुं तदिहार्हसि ।
अथान्यो नास्ति विज्ञानात् जानातीत्युच्यते च कः॥
जानातिशब्दो ज्ञानस्य कर्तारमभिधित्सति ।
शब्दोऽर्थवान् स कर्तव्यः इति विज्ञानवानसौ ॥
बहवो नन्विह जनाः अस्त्यात्मेत्यादिवादिनः ।
सन्ति प्रत्यक्षवक्तारः न सिद्धिस्तावताऽऽत्मनः ॥
जानातीति परोक्षोऽयं शब्दः किं कल्पयिष्यति ।
३ इति चेदिच्छयैवोपलभामह इतीर्यते ॥

134 मानमेयरहस्यश्लोकवार्तिके

पूर्वोपलब्धेऽभिप्रेते हीच्छा भवति कस्यचित् ।
नान्येन पुरुषेणोपलब्धेऽपि विषये क्वचित् ॥
अन्येद्युरुपलब्धेऽर्थेऽप्यन्येद्युर्भवति ह्यसौ ।
समानकर्तृका सोपलम्भेनेत्यवगम्यते ॥
यदि विज्ञानमात्रं तदुपलम्भकमिष्यते ।
तस्मिन्नस्तमिते कस्यान्द्येद्युरिच्छा भविष्यति ॥
विज्ञाता यदि विज्ञानात् नित्यः कश्चिदुपेयते ।
स एवचोपलब्धा स्यात्स भवेदेषिताऽपि च ॥
4 अत्राह नोपपन्नेच्छेत्येष संप्रत्ययः क्व नः ।
विज्ञानात्तावदन्यं तं नचैवोपलभामहे ॥
नास्मिन्नसति विज्ञानसद्भावो नोपपद्यते ।
प्रत्यक्षसिद्धत्वादेव तत एव क्षणात्मता ॥
नच ज्ञातारि विज्ञानादन्यस्मिन् असति क्वचित्
नोपपन्नाऽन्येद्युरिच्छा ज्ञाने च क्षणिकात्मनि ॥
प्रत्यक्षसिद्धत्वादेव दृष्टं नैतदपि क्वचित् ।
अन्येद्युरुपलब्धा यस्स एवैषिष्यतीत्यपि ॥
इदं तु दृष्टमस्माभिः क्वचिदन्यविलोकि तम् ।
इच्छत्यन्यः क्वचिन्नेति सन्तत्यैक्यं नियामकम् ।
5 अत्रोच्यते नास्मर्तार इच्छन्तीत्युपपद्यते ।
नादृष्टपूर्वे स्मरणं कस्यापि हि भविष्यति ॥

मीमांसाकौमा 13.
विज्ञानस्कन्धमात्रेण स्मृतिर्नैवोपपद्यते ।
समानायां संततावप्यैक्यं व्यक्तिषु दुर्लभम् ॥
ननु स्मृतिरपीच्छावत्पूर्वविज्ञानसन्निभम् ।
विज्ञानं तच्च नष्टेऽपि द्रष्टर्यन्येद्युरुद्भवत् ॥
नैवचानुपपन्नं तत् प्रत्यक्षावगतत्वतः ।
किंचैकस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यत् ।
विज्ञातं तत्संततिजेनान्येनाप्युपलभ्यते ।
नातत्संततिजेनान्येनेति प्रत्यक्षनिश्चितम् ॥
तस्माच्छून्याः स्कन्धघनाः इत्यर्थे ब्राह्मणं पुनः
विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः ॥
तान्येवानुविनश्येन्न प्रेत्य संज्ञेति पठ्यते ।
6 हेतुष्वेवं परोक्तेषु प्रतिषिद्धेषु संप्रति ॥
अहंप्रत्ययविज्ञेयः स्वयमात्मोपपायते ।
तथाहि प्रतिसंधानमन्येद्युरवलोकिते ॥
अपरेद्युर्हामिदमदर्शमिति दृश्यते ।
प्रत्यगात्मैकविषयं न परत्र प्रसर्पति ॥
यतोऽन्येद्युर्द्दष्टवतोऽपरेद्युः स्याद्विलक्षणः ।
तस्मात्तद्व्यतिरिक्तोऽस्ति यत्राहंशब्द ईर्यते ॥
स्मरणप्रत्यभिज्ञाने स्यातामन्यार्थगोचरे ।
वासनावशतः ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥

36 मानमेयरहस्यश्लोकवार्तिके
7 नन्वन्यत्राप्यहंशब्दप्रयोगो दृश्यते यथा ।
पुत्रोऽहमेवाहमेव देवदत्तोऽहमेवच ॥
पुमान् नीलः कृशः स्थूलः गच्छामीत्येवमादयः ।
अत्रोच्यते नहि वयं प्रयोगविषयं ध्वनिम् ॥
अर्थेऽन्यस्मिन् हेतुतया निर्दिशामः परंत्वमुम् ।
तस्माच्छब्दात्प्रत्यभिज्ञाप्रत्यक्षं प्राङ्निरूपितम् ॥
व्यतिरिक्तं प्रतीमोऽतश्चायमर्थः प्रसिद्ध्यति ।
वयमेवान्येद्युरिममर्थं ह्युपलभामहे ॥
वयमेव स्मरामोऽद्य ततो जानीमहे पुनः ।
यथाच वयमेव ह्यः वयमेवाद्यचेत्यपि ॥
ये ह्योऽद्य च न ते नष्टाः अत्रार्थे ब्राह्मणं पुनः ।
स वा अयमसावात्मा ह्यशीर्यो नहि शीर्यते ॥
अविनाशी वाऽयमरे आत्मानुच्छित्तिधर्मकः ।
इति क्षणिकविज्ञानादन्य आत्मेति निर्णयः ॥
अर्था यथोपलभ्यन्ते न तथा सन्ति किंपुनः ।
यथा तु नोपलभ्यन्ते तथा सन्तीति नोचितम् ॥
तथासति शशो नास्ति विषाणं तस्य विद्यते ।
इत्येवमवगम्येत तस्माल्लोकोत्तरं त्विदम् ॥
नचाहंप्रत्ययो मोहः बाधकानुपलम्भनात् ।
तस्माद्यज्ञायुधीत्युक्तस्सुखेच्छादिविलक्षणः ॥

मीमांसाकत्मा 137
8 अत्राह यदि विज्ञानादन्यद्विज्ञातृ विद्यते ।
अपास्य तत्तु विज्ञानं तद्विज्ञातृ निदर्श्यताम् ॥
इदं तदीदृशं चेति न त्व्यैतन्निदर्श्यते ।
तस्मात्ततोऽन्यदस्तीति कथं स्यादवधारणा ॥
अत्रोच्यते स्वसंवेद्यः नासावन्येन शक्यते ।
द्रष्टुं कथमसावन्यैः निदर्श्येतेति चिन्तय ॥
यथाच कश्चिचक्षुष्मान् स्वयं रूपं प्रपश्यति ।
नच शक्नोति जात्यन्धायान्यस्मै तन्निदर्शने ॥
एतावता तन्नास्तीति न केनाप्यवगम्यते ।
तथोपलभते चासावात्मानं पुरुषः स्वयम् ॥
नचान्यस्मै दर्शयितुं शक्नोतीन्द्रियवर्त्मतः ।
अन्यस्य दर्शने शक्तिः नास्ति तं पुरुषं प्रति ॥
एवमन्योऽपि पुरुषः स्वात्मानमवगच्छति ।
नचात्मानं परं तस्मात्सर्व एवात्मसाक्षिणः ॥
अत्रच ब्राह्मणं ह्यात्मज्योतिस्सम्राडितीक्ष्यते ।
अत्र स्वयं ज्योतिरयं पुरुषो भवतीत्यपि ॥
अन्येनाशक्य इत्यत्राप्यगृह्यो नहि गृह्यते ।
इति श्रुतं अभिप्रायोऽप्ययमेवास्य संगतः ॥
9 उपायेन पुनः केन वाऽन्यस्मै कथ्यते त्वसौ ।
इत्यत्रोपायोपदेशे ब्राह्मणं पठितं यथा ॥
M.R. 18

58 मानमेयरहस्यश्लोकवार्तिके
स एष नेति नेत्यात्मेति होवाचेति, तस्य तु ।
अयमर्थः-इदंरूप इत्यादेष्टुं न शक्यते ॥
परः पश्यति यद्रूपं तद्रूपं प्रतिषिध्यते ।
तस्योपदेशोपायोऽयं तत्प्रकारोऽवधार्यताम् ॥
शरीरं दृश्यतेऽन्येन तेनात्माऽत्रोपदिश्यते ।
नात्मा शरीरं अन्योऽस्ति शरीरादिति युक्तितः ॥
शरीरप्रतिषेधेन शारीर उपदिश्यते ।
प्राणादिप्रतिषेधेन तेभ्योऽप्यन्योऽवगम्यते ॥
तथा परगताः दुःखसुखाद्या अपि लिङ्गतः ।
परेण ह्युपलभ्यन्ते तेऽपि नात्मान इत्यपि ॥
तेषां तु प्रतिषेधेन तदन्योऽत्रोपदिश्यते ।
स एष नेतिनेत्यादेः अर्थ एषोऽवधारितः ॥
किंच स्वयं पश्यति यं न ततोऽन्यः पुमानिह ।
इत्येतदपि चात्मीयप्रवृत्त्यैवानुमीयते ॥
किंचासौ पुरुषः पूर्वमर्थानां सामिकल्पितम् ।
ततः प्रतिसमाधत्ते शेषांशं चानुतिष्ठति ॥
एवं प्रवृत्त्याऽप्येषोऽर्थो ज्ञायते सूक्ष्मदर्शिभिः ।
नूनं नित्यमनित्यानप्यवगच्छत्यसाविति ॥
10 किंचोपदिश्यते चोपमानादात्मा यथापुनः ।
भवान् यादृशमात्मानं स्वयं पश्यति तादृशम् ।

२. मान-भाग: शब्द, अर्थापत्ति एवं अनुपलब्धि (अभाव) प्रमाण

पश्याम्यहमपीत्येवमुपमानेन गम्यते ।
यथाच काश्चिदात्मीयां वेदनां संप्रचक्षते ॥
दह्यमानस्येव मे स्यात् यात्यमानस्य वा पुनः ।
रुद्ध्यमानस्येव मेऽद्य भवतीति विकल्प्यते ॥
अतः स्वेनैवावगम्यमानत्वादस्ति पूरुषः ।
अतिरिक्तो वेदनाभ्यः तस्मादात्मा स्वयंप्रभः ॥
11 यदुच्यते च विज्ञानमपास्यैतन्निदर्शयताम् ।
इति तच्चेदुपायस्य निषेधो न स युज्यते ॥
विनोपायमुपेयं तूपेतुं नैव हि शक्यते ।
ज्ञातव्यानामथार्थानामभ्युपायोऽयमेव हि ॥
यो यथा ज्ञायते सोऽसौ तथेत्यपिच तद्यथा ।
कश्शुक्लो नाम यत्रास्ति शुक्लत्वं शुक्लता च का ॥
शुक्लशब्दप्रवृत्तिस्स्याद्यत्र सा शुक्लता ह्यसौ ।
क्व वा तस्य प्रवृत्तिस्स्यात् यस्तच्छब्दात्प्रतीयते ॥
तत्प्रत्याख्याय विज्ञानं रूपं कस्यापि वस्तुनः ।
न निदर्शयितुं शक्यं ज्ञानात्सर्वं हि सिद्ध्यति ॥
प्रत्ययेऽथ प्रतीतेऽपि प्रत्ययार्थो नियोगतः ।
नच प्रतीतो भवति तस्मात् ज्ञानविलक्षणः ॥
प्रत्यये ह्यप्रतीतेऽपि प्रत्ययार्थः प्रतीयते ।
प्रत्यक्षं तन्न विज्ञानं ज्ञेयोऽध्यक्ष इतीर्यते ॥

40 मानमेयरहस्यश्लोकवार्तिके
अथचापह्नवेऽवश्यवक्तव्ये ज्ञानमेव तु ।
अपह्नुयेतैव कामं नार्थ इत्यप्युदीरितम् ॥
12 अथ यद्विज्ञानघन इति ब्राह्मणकीर्तनम् ।
भूतचैतन्यवादस्य तत्र प्रतिविधीयते ॥
अत्रैव मां हि भगवान् मोहस्यान्तमपीपदत् ।
इत्यस्य चोत्तरं मोहमरे न प्रब्रवीम्यहम् ॥
अविनाशी वाऽयमात्मा तथाऽनुच्छित्तिधर्मकः ।
मात्रासंसर्गमात्रं तु भवत्यस्येति च श्रुतम् ॥
सदसन्नाश्यनाशात्मपरिकीर्तनमूढया ।
चोदितः पूर्वपक्षोऽयमिति सिद्धान्तमब्रवीत् ॥
अविनाशी स्वरूपेण पुरुषः या तु नाशिता ।
मात्राणां साधिकाराणां भूतादीनामसौ मता ॥
तस्मान्न विज्ञानमात्रं आत्माऽन्योऽस्ति सुखादितः
अहंप्रत्ययगम्यश्च नित्यः व्यापी स्वयंप्रभः ॥
इति शाबरभाष्यस्थमात्मतत्त्वं विचिन्तितम् ।
इतोऽप्यधिकयुक्त्यंशे वार्तिकं त्ववधार्यताम् ॥
(33) कौमारिलात्मा.
1 अथ वार्तिककारीयस्यात्मवादस्य संग्रहम् ।
सारांशविषयं धीरा विमृशन्तु विशुद्धये ॥

कौमारिलात्मा 141
शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः।
नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति ॥
नित्यः कर्तृत्वभोक्तृत्वे प्रतिपन्नोऽपि सन् यदा ।
न कर्मफलसम्बन्धं भोगकालेऽवबुद्ध्यते ॥
मया तत्तु कृतं कर्म तस्येदं भुज्यते फलम् ।
शुभाशुभं मयैवेति तदा कोऽस्य रसो भवेत् ॥
कुर्वन्नप्यशुभं कर्म तेनैवं चिन्तयेन्नरः ।
न स्मरिष्यामि भोगेऽहमिति नैतद्विवर्जयेत् ॥
तत्र नित्यत्वपक्षेऽपि कृतनाशाकृतागमौ ।
फलतस्तुल्यरूपौ चेत् वृथा तत्प्रतिपादनम् ॥
2 नैष दोषः न भोगे हि स्मृतिर्न उपयुज्यते ।
न प्रवृत्तिर्निवृत्तिर्वा भोगकाले स्मृतेर्भवेत् ॥
प्राक्प्रवृत्तेस्तु साऽस्त्येव विदुषां शास्त्रतः स्फुटा ।
पश्चादपिच शास्त्रज्ञाः विमृशन्त्येव केचन ॥
अपरामृश्यमानेऽपि स्वापकाले सुखाश्रये ।
संभोगे मृदुशय्यादौ प्राक्प्रवृत्तिश्च दृश्यते ॥
3 तत्र नित्यविभुत्वाभ्यामात्मानो निष्क्रिया यदि
सुखदुःखाविकार्याश्च कीदृशी कर्तृभोक्तृता ॥
अथ कर्तृत्ववेलायां दुःखादेश्चापि जन्मनि ।
प्राग्रूपादन्यथात्वं स्यात् नित्यताऽस्य विरुद्ध्यते

42 मानमेयरहस्यश्लोकवार्तिके
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ।
विक्रियामात्रवाचित्वे, न ह्युच्छेदोऽस्य तावता ॥
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥
सुखदुःखायवस्थाश्च गच्छन्नपि नरो मम ।
चैतन्यद्रव्यसत्तादिरूपं नैव विमुञ्चति ॥
दुःखिनः सुख्यवस्थायां नश्येयुस्सर्व एव ते ।
दुःखित्वं चानुवर्तेत विनाशे विक्रियात्मके ॥
तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः ।
पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥
4 नैरात्म्यवादपक्षे तु पूर्वमेवावबुद्ध्यते ।
मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् ।
इति नैव प्रवृत्तिः स्यात् नच वेदप्रमाणता ।
जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥
ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् ।
निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ॥
कर्ता स एव सन्तानः ननु भोक्ता स एव नः ।
विज्ञानक्षणभेदस्तु त्वदवस्थान्तरैस्समः ॥
कर्तृत्वमेव दुस्साधं दीर्घकालेषु कर्मसु ।
सत्सु ज्ञानसहस्रेषु कुलकल्पोपमं हि तत् ॥

कौमारिलात्मा 143
व्यतिरिक्तो हि संतानो यदि नाभ्युपगम्यते ।
संतानिनामनित्यत्वात् कर्ता कश्चिन्न लभ्यते ॥
तस्मादत्यन्तभेदो वा कथंचिद्भिन्नताऽपिवा ।
संतानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ॥
नन्वन्यत्वं विदन्तोऽपि पुत्रादिफलसिद्धये ।
प्रवर्तन्ते यथा तद्वत् ज्ञानसंतानिनोऽपि नः ॥
अन्यत्वे च समानेऽपि यथा वंशान्तरोद्भवाः ।
न लभन्ते फलं तद्वत् संतानान्तरजाः क्षणाः ॥
न तावद्बुद्धिरत्रैवं, अपिचात्मफलेच्छया ।
पुत्रादिभरणे वृत्तिः स्यात्तदप्यत्र नास्ति ते ॥
भरणं यदपत्यानां तिर्यगादिषु दृश्यते ।
अज्ञानं शरणं तत्र प्राज्ञानां तु न युज्यते ॥
नच त्वमपि कृत्येषु निरन्वयविनाशतः ।
मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ॥
5 देहान्तरे च संचारो बुद्धीनां नोपपद्यते ।
पूर्वदेहाद्बहिर्भावः नच तासां प्रतीयते ॥
वायुना प्रेर्यमाणं हि ज्वालाद्यन्यत्र संचरेत् ।
बुद्धेः कारणदेशात्तु प्रेरणं नास्ति केनचित् ॥
अमूर्तत्वात्स्वयं नासावुत्प्लुत्यान्यत्र गच्छति ।
अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥